________________
टीकासहितं । तेऽसूयतां स्यात् ? तव सुहृदामेव वादान्तरं सम्यगनेकांतवादरूपं प्रसिध्येत् न तु तव प्रतिपक्षाणां मिथ्र्यकांतवादिनामित्यर्थः । किं च नित्यैकान्तवादिनः किमात्मतत्त्वं देहादनन्यदेव वदेयुरन्यदेव वा ? प्रथमकल्पनाया संसाराभावः प्रसज्येत, देहात्मकस्यात्मनो देहरूपादिवद्भवांतरगमनासंभवात्तद्भव एव विनाशप्रसंगात, नित्यत्वविरोधाचार्वाकमताश्रयणप्रसंगश्च । स चप्रमाणविरुद्ध एवात्मतत्सवादिनोऽनिष्टश्च। द्वितीयकल्पनायां तु देहस्यानुग्रहोरघाताभ्यामात्मनः सुखदुःखे न स्यातां स्वदेहादप्यात्मनोऽन्यत्वाभिनिवेशात् देहान्तरवत् , सुखदुःखाभावे व नेच्छाद्वेषौ, तदभावे च धर्माधर्मों न संभवत इति स्वदेहेऽनुरागसद्भावादनुग्रहोपघाताभ्यामात्मनः सुखदुःखे स्वगृहाधनुग्रहोपघाताभ्यामिव कथमुपपद्यते ।
देहादनन्यत्वान्यत्वाभ्यामवक्तव्यमात्मतत्वमभ्युपगच्छतां बाधकमाहुःयेषामवक्तव्यमिहात्मतत्त्वं
देहादनन्यत्वपृथक्त्वकृतेः। तेषां ज्ञतत्वेऽनवधार्यतत्त्वे
का बंधमोक्षस्थितिरप्रमेये॥१०॥ टीका-न देहादात्मतत्त्वस्यानन्यत्वक्लूप्तिापि पृथक्त्वक्लप्तिरुक्तदोषानुषंगात् । किं तर्हि १देहादनन्यत्वपृथक्त्वकल्पनादात्मतत्त्वमवक्तव्यमेवेति येषामभिनिवेशस्तेषांज्ञतत्वं सर्वथाs
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org