Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकापाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि न संभवति । सांख्यादिपक्षेष्वीश्वरान. ङ्गीकारात्पुरुषस्य प्रकृतेर्वा मोक्ष इति संशयान प्रवृत्तिः । मायिमते व्यावहा. रिकवाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वान्न प्रवृत्तिः । भास्करयादेवयोस्तु कर्मज्ञानसमुच्चयवादोऽप्युक्तादेव निरस्तः । शैवमते तु पशुपतेः प्राप्यत्वस्वीकारावेदविरुद्धभस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः । एवं मतिनिइपिता ।। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवास. दासेन विरचितायां यतीन्द्रमतदीपिकायां बुद्धिनिरू पणं नाम सप्तमोऽवतारः ॥७॥ मिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिमततुल्यतैवास्य प्रसज्येत । प्रतिनियतस्वार्थानभिधानात् । तदुक्तम् - 'वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् ' इति । तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्माद्यस्तित्वेनापि सर्व. प्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये स्यादिति शब्दः प्रयुज्यते । स्यात्कथंचित् । स्वद्रव्यादिमिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः । यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद्बुद्धिमद्भिः प्रतीयत एव । यथोक्तम् ' सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । - यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ' इति । तथा चैतन्नतेऽनैकान्तवादात्सर्वत्रानिश्चयान्न क्वापि प्रवृत्तिः स्यादित्याशयः । मायिमते । शंकराचार्यमते । व्यावहारिकवाक्यस्य । व्यावहारिकसत्यस्य वाक्यस्य । मायिमते हि ब्रह्मण एव पारमार्थिकसत्यत्वं नान्यस्य कस्यापीति तत्त्वमस्यादि. वाक्यस्यापि व्यावहारिकसत्यत्वमेव । तथा च यथा प्रातिभासिकसर्व्यािवहारिकविषाद्यजनकत्वं तथा व्यावहारिकवाक्यस्यापि पारमार्थिकज्ञानाजनकत्वमेव स्यादिति भावः ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे सप्तमोऽवतारः ॥ ७ ॥ १. घ. "कस्य । २ ग. घ. दवोक्तक । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126