Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। मम प्राणा इति व्यतिरेकोक्तः, जानाम्यहमिति ज्ञानाच मनःमाणज्ञानेभ्यो व्यावृत्तः। स चाणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात्प्रमाणानुसाराच्च । अणुत्वे युग. पदनेकविषयानुभवः कथमिति न शङ्कनीयम् । धर्मभूतज्ञानव्याप्त्योपपत्तेः । नन्वयिनि निरात्मकत्वप्रतीतेश्चत्यत आह-मम प्राणा इति। किंच प्राणो नाऽऽत्मा वायु. स्वाहाह्यवायुवत् । देहधारणयोग्यतारूपविशेषमापन्नो वायुरेव प्राणः । 'आपोमयः प्राणः' (छां०६।५।४) इति श्रुतिस्त्वाप्यायनपरा । तेजोमयी वागितिवत्। सुषुप्तौ वृत्तिहीनेऽप्यारमनि प्राणस्य वृतिमत्त्वदर्शनाच्च न तस्याऽऽत्मत्वम् । प्राणवृत्त्यैव ह्यशितपीतद्रव्यस्य सुपु. सावपि सप्तधातुमावेन परिणामः श्वासप्रश्वातौ च भवतः । ननु संविदेवाऽऽत्मा, अजडत्वादत आह-जानामीति । अजडत्वहेतुस्तु नाऽऽत्मत्वसाधक इत्यने बौद्धमतखण्डने स्फुटी भविष्यति । __ननु जीवात्मा विभुः। शरीरव्यापिसुखाद्युपलब्धः। देशान्तरेऽपि तद्भोग्यवस्तूत्पत्तेश्च । तत्र हि जीवादृष्टं कारणमिति तस्य तत्र संनिधानमपेक्ष्यते । कार्यकारणयोः सामानाधिकरण्यनियमात् । तच्चादृष्टभाश्रयमन्तरेण न संभवतीत्यगत्या जीवात्मनो विभुत्वमङ्गीकार्यमिति चेत्तत्राऽऽह-स चेति । उत्क्रान्त्यादेरिति । तथा च ' उत्क्रा. न्तिगत्यागतीनाम् ' (ब. सू. २।३।२०) इति सूत्रे भाष्यम्-उत्क्रान्तिस्तावच्छ्रयते । 'तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुषो वा मूर्नो वा अन्येभ्यो वा शरीरदेशेभ्यः ' (बृ. ४२) इति । गतिरपि 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' ( को. १।२ ) इति । आगतिरपि ' तस्माल्लोकात्पुनरेत्यास्मै लोकाय कर्मणे ' (ब. ४।४।६) इति । विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरनिति । तपा 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते ' (श्वे. ५६९) 'आराममात्रो ह्यवरोऽपि दृष्टः ' ( श्वे. १८) ' स्वरूपमणुमात्रं स्याज्ज्ञानानन्दैकलक्षणम् । त्रसरेणुप्रमाणास्ते रश्मिकोटिविभषिताः ॥' इत्यादिश्रुतिस्मृतयाऽप्यत्र प्रमाणतयाऽनुसंधेयाः । प्रमाणेति । हृत्प्रदेशावच्छिन्नोपलम्भस्वारस्येन तादृशप्रमाणानुसारादित्यर्थः । युगपदिति । उशीरादिवासितस्वादशीतजलपानादौ युगपद्गन्धरसस्पर्शोपलम्भेन युगपदनेकेन्द्रियसंनिधानमात्मनोऽवश्य वाच्यम् । तच्च विभुत्वमन्तरेण न संभवतीति शङ्ककाशयः । धर्मेति । यद्यपि जीवा. स्मनो न सर्वशरीरव्याप्तिस्तथाऽपि तद्धर्मस्य ज्ञानस्य सर्वशरीरव्याप्त्या युगपदनेकविषयानुभवः सेत्स्यति । तथा च श्रुतिः- 'प्रज्ञया प्राणं समारुह्य घ्राणेन सर्वान्गन्धा. नाप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाणि पश्यति' (कौ. २६) इत्यादिः । सूत्रकारैरपि 'गुणाद्वा लोकवत् ' (ब. सू. २।३।२६) इति सूत्र एवमेवोक्तम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126