Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 313
________________ पञ्चमी ] जयाऽलङ्कृतः ३०५ योगिनि षष्ठ्यापत्तरित्युच्यते तदाप्यन्यार्थकतदादिपदयोगे पञ्चमी. प्रयोगापत्त्यार्थग्रहणासंभव इति । तथा च पटाद्भिन्नं घटाद्भिद्यत इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथं चिदुपपादनीयम् । तथा हि-भिधातोर्नान्योन्याभावोऽर्थो घटाद्भिनत्ति पट इति प्रयोगापत्तेः । भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्च । कर्तरि यगात्मनेपदासंभवात् । अदैवादिकाच्च नश्यन्संभवः । परस्मैपदित्वाच्च । अकर्मकधातुयोगे कर्मकर्तविवक्षाया अप्ययोगात् । कस्यचिदकर्मकस्य योगे ण्यर्थान्तर्भावेणैव कर्मकर्तत्वस्योपपादनीयत्वात् । अन्योन्याभावस्याजन्यतया तदर्थकधातोण्यर्थान्तर्भावस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कर्मकर्तृत्वसंभवात् । अतोऽन्यत्वेन ज्ञापनं भिद्धातोरर्थः । ज्ञापनं ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता। सदाश्रयोऽसाधारणधर्म एव भिदादिकर्तकत्वाद्भेदक उच्यते। अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः । एवं च पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालिखनं केषांचिदनवधानेन प्रतिज्ञास्थवह्नयादिपदं वह्नयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति मणिकारादिमतानुसारेणैव केषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुन: क्रोशाल्लक्ष्यं विध्यति । अद्य भुक्त्वायं द्वयहाभोक्ता इत्यादौ सप्तमीपञ्चम्यौ कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वाकलयोः कारकद्वयव्यवधायकत मभिधत्ते । तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुन इत्यादिप्रथमस्थले बोधः । समभिव्याहृतकप्रधिष्ठितदेशानन्तयं विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थन्वयि चानन्तरदेशस्थत्वं पञ्चम्यथः । स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्ति २०

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368