Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 357
________________ ३४६ स्वर्गकारणत्वम् ] जयाऽलङ्कृतः च्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्वाश्रयनिष्ठत्वसंबन्धेन। वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियतपूर्ववर्तितावच्छेदकत्वं चाव्यवहितपूर्वकालावच्छिन्नवृत्तिकाभावघटितदैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिरूपितव्यापारवत्त्वान्यतरसम्बन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदकवैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञानं संभवत्येव । व्यापकताघटकाभावप्रतियोगितायां स्वरूपतोवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्गधर्मत्वादिना भाने न बाधकम् । स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियोगिकोटावुपलक्षणप्रकाराभाननियमात्।। . प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो वह्नित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। __ इत्थमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेदकत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदककोट्यप्रविष्टेनापीटतावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रह भानमुपपद्यत इति । __एतेन नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थतामते यागादिधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या । तदपेक्षया च स्वर्गादिधर्मिकनियतोत्तरवर्त्तितावच्छेदकधर्मरूपयागादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टमात्रस्य विध्यर्थत्वे च लाघवम् । तादृशसाध्यताया निरुक्तसाधनान्तर्गतत्वादितीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येत । एवं यत्र कारणतावच्छेदकधर्मोप्यनुपस्थितोतिप्रसक्तेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात्कारणताग्रहानुपपत्तिश्चेति

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368