Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दत्वा आलोचयतो वंदितव्यः तृतीयो भंगः अनेका निषद्या एका आलोचना एष प्रभृतेन कालेन प्रतिसेविते बहुकस्य एकदिने नालोचनामपारयतोऽन्यस्मिन्नन्यनस्मिन् दिने निषद्यां कृत्वालोचयतो भावनीयः, यदिवा निपदनं निषद्या गुरौ बहुवेलं कायिकाभूमिगतप्रत्यागतेऽनेका निषद्या एकालोचनेति. चरिमे सिया दोषि चरमभंगे अनेका निषद्या अनका आलोचना इत्येवंरूपे अशठभावोपेतस्य स्यातां द्वे अपि कारणे विस्मृतत्वं, यदिया अपराधबाहुल्यं इदमुक्तं भवति, प्रभूतेन | कालेन प्रभूतमासेवितमतो बहुविस्मृतमित्यन्यस्मिन् अन्यस्मिन् दिने स्मृत्वा आलोचयतो, यदिवा अपराधबाहुल्यत एकदिनेनालोचयितुमप्रपारयतोऽपरस्मिन्नपरस्मिन्नहन्यालाचयतो यथोक्तस्वरूपचतुर्थोभंगः, तत्र एका निषद्या एकालोचनेति प्रथमे भंगे एकमेव गुरुतरं प्रायश्चित्तं दीयते, शेषाणां सर्वेषामपि प्रायश्चित्तानापाच्छादक, तथाचोक्तं तं चेगं ओहाडणं दिजइ इति, अस्यायमर्थः तदेवकं गुरुतरं प्रायश्चित्तं शेषाणां प्रायश्चित्तानानवघाटनमाच्छादकं दीयते, इति अत्र दृष्टांतः क्षारयोगः यथाहि पंकापनयनाय प्रयुक्तः क्षारयोगोऽवशेषमपि मलं शोधयति, तथैकमप्ययघाटनं प्रायश्चित्तानि शोधयतीति उक्तं च, जहा पंकावणयणपउत्तो खारजोगो सेसमलंपि सोहेइ ॥ तहा श्रोहाडणं पच्छित्तं, पि सेसपच्छित्ते सोहेइ ॥ ॥ इति. अथवा स एवागारी दृष्टांतो, यथा सा अगारी एकापराधे हन्यमाना अन्यानप्यपराधान् कथयंत्येकवारं पिट्टिता, यदि पुनर्बह्वो पगधाः कृता इत्यस्मिन्नन्यसिन् दिवसे एकैकमपराधं कथयेत् तर्हि यावतो वारान् कथयेत् तावतो वारान् हन्येत, एवमत्रापि यद्यकैकमपरस्मिन्नहन्यालोचयेत् , ततो यावंतोऽपराधास्तावनि प्रायश्चित्तान्याप्नुयादेकनिषद्यायामेकालोचनायां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330