Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्तीति बूमः, कोसावित्याहमूलगुणदइयसगडे, उत्तरगुणमंडवे सरिसवाई ॥ छक्कायरक्खणट्टा दोसुवि सुद्धे चरणसुद्धी ॥२८८॥ मूलगुणेषु दृष्टांतो दृतिः, शकटं च केवलम् , उत्तरगुणा अपि तत्र दयितव्याः, उत्तरगुणेषु दृष्टांतो मंडपे सर्वपादि, आदिशब्दात् शिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना, एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन अत्र दृष्टांतो दृतिकः, तथाहि यथा दृतिक उदकभृतः, पंचमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुस्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रत अतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशो भवति, एकमूलगुणघाते सर्वमूलगुणानां घातात् , तथा च गुरवो व्याचक्षते, एकवतभंगे सर्वव्रतभंग इति, एतन्निश्चयनयमतं, व्यवहारतः पुनरेकवत भंगे तदेवकं भग्नं प्रतिपत्तव्यं, शेषाणां तु भंगः क्रमेण, यदि प्रायश्चित्तप्रतिपच्या नाऽनुसंधत्ते इति, अन्ये पुनराहु चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेसु पुनर्महाव्रतेष्वभीषणं प्रतिसेवनया महत्यतिचरेण वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुनः कालेन चरण भ्रंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोवालयति, एतदपि कुतोऽवसंयमिति चेत् उच्यते, ते शकटदृष्टांतात्तथाहि, शकटस्य मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उतरगुणा वध्नकीलकलोहपट्टकादयः एतैमूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तं सत् शकटं यथा भारवाहनक्षम भवति, मार्गे च सुखं भवति, साधुरपि मूलगुणेरुत्तरगुणैश्च सुसंप्रयुक्तं: सन् अष्टादशशीलांगसहस्रभारवहनक्षमो भवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति, अथ शकटस्य मूलांगानामेकमपि मूलांगं भग्नं HER For Private and Personal Use Only

Loading...

Page Navigation
1 ... 326 327 328 329 330