Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . . विशेषा किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम्, शिष्यो हि तस्मिन्नभिहिते 'मालमेतच्छास्त्रम् ' इत्येवं स्वमतौ तन्मङ्गलतापरिग्रहं करोतीति भावः॥ इति गाथार्थः॥ २०॥ आह-कि मङ्गलमपि मङ्गलघुद्ध्या गृहीतमेव स्वकार्य करोति, नान्यथा ? । एवमेतत् , इत्याह- इह मंगलं पि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहे वि नणु कारणं भणिअं ॥२१॥ ___ इह लोके, मङ्गलमपि सद् वस्तु मङ्गलबुद्धया गृह्यमाणमभिनन्धमानं वा मङ्गलं भवति । यथा साधुः, साधुर्हि स्वयं मालभू तोऽपि तद्बुद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति, अमङ्गलबुद्ध्या तु गृह्यमाणं मङ्गलमपि तत्कार्य न करोति, यथा स एव साधुः कालुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राह कश्चित्- नन्वेवं सत्यऽमङ्गलमप्यसाध्वादिकं मङ्गलबुद्ध्या गृह्यमाणं तत्कार्य फरिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वतो मङ्गलरूपताया अभावात् , सत्यमणिहि सत्यमणितया गृह्यमाणो ग्रहीतुर्गी रवमापादयति, न त्वसत्यमणिः सत्यमणितया, इत्यलं जेन । आह-- यद्येवम . तयेकमेव मालमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, कि मालत्रयकरणेन ?, इत्याह- 'मंगलतियेत्यादि' मङ्गलत्रये हि कृते शिष्यस्य बुद्धौ तत्परिग्रहो भवति । तेनापि किमिति चेत् १, इत्याह- ननु तत्रापि 'पंढमं सत्थत्थाविग्धपारगमणाय निदिई' इत्यादिना कारणं निमित्तं मागेव भणितं किमिति विस्मार्यते । न च वक्तव्यमेकेनैव मङ्गलेन तत कारणत्रयं सेत्स्यति, यतो यथैव शास्त्रं मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गल न भवति साधुवत् , तथा शास्त्रस्याऽऽदि-मध्या-ऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति, इति मङ्गलप्रयाभिधानम् ॥ इति गाथार्थः ॥२१॥ तदेवं मालाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ निरूपयितमाह मंगिजएंऽधिगम्मइ जेण हि तेण मंगलं होइ । अह्वा मंगो धम्मो तं लाइ तयं समादत्ते ॥२२॥ 'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थो धातुः, अतस्तस्याऽलच्प्रत्ययान्तस्य मङ्ग्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । अथवा मा इति धर्मस्याऽऽरव्या, 'ला आदाने' धातुः, ततश्च मङ्गं लाति समादत्ते इति मङ्गलं इह मजलमपि मालबुख्या मङ्गलं, यथा साधुः । मङ्गलनिकवुद्धिपरिग्रहे ऽपि ननु कारणं भणितम् ॥२१॥२ गाथा 12055-1 ३ मण्यतेऽधिगम्यते येन हितं तेन मङ्गलं भवति । अथवा मङ्गो धर्मस्तं लाति तकं समादत्ते ॥ २२ ॥ धर्मोपादानहेतुरित्यर्थः ॥ इति गाथार्थः ॥ २२॥ अहवा निवायणाओ मंगलमिठ्ठत्थपगइपञ्चयओ। सत्थे सिद्धं जं जह तयं जहाजोगमाओजं ॥ २३ ॥ अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् ?, इत्याह-इष्टार्थप्रकृतिप्रत्ययतः, तत्रेप्टो विवक्षितोऽर्थो यास ता इष्टार्थाः प्रकृतयः तद्यथा-'मकि मण्डने' 'मन ज्ञाने 'मदी हमें 'मुद मोद-स्वम-गति' 'मह प्रजायाम' इत्येवमादिः प्रत्ययस्त्वेतासा प्रकृतीना सर्वत्र 'अल' एव विधीयते, ततो मङ्गलमिति रूपं निपात्यते । व्युत्पत्तिस्त्वेवम-मक्यतेऽलंक्रियते शास्त्रमनेनेति मङ्गलम् , तथा मन्यते ज्ञायते निश्चीयते विघाभावोऽनेन तथा माद्यन्ति दृष्यन्ति मदमनभवन्ति, मोदन्ते. शेरते विघ्नाभावेन निष्पकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मान्ते पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे यद् यथा निपातनं सिद्धम्, तद् यथायोगं यथासंबन्धमत्र खधियाऽऽयोज्यं लक्षणः ।। इति गाथार्थः ॥ २३॥ में गालयइ भवाओ मंगलमिहेवमाइ नेरुत्ता । भासंति सत्थवसओ नामाइ चउव्विहं तं च ॥ २४ ॥ अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। इह मङ्गलविचारे एवमादि नैरुक्ताः शब्दविदः शास्त्रवशतं व्याकरणानुसारेण भाषन्ते मङ्गलशब्दार्थ व्याचक्षते । आदिशब्दात शास्त्रस्य मा भूद् गलो विघ्नोऽस्मादिति मङ्गलम्, अथवा शास्त्रए मा भूद् गलो नाशोऽस्मिन्निति मङ्गलम, सम्यगदर्शनादिमार्गलयनाद वा मालमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण । इह तच्च-प याय-भदव्याख्या, तत्र तत्त्वं शब्दार्थरूपम, तत्तावद् निर्णीतम। पर्यायास्तु मङ्गलं, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः भेदास्तु स्वयमेव निरूपयितुमाह- 'नामाइ चउबिह तं चेति, तच्च मङ्गलं नामादिभेदतश्चतुर्विधं भवति । तद्यथा-नाममङ्गलम् , स्थाप नामङ्गलम् , द्रव्यमङ्गलम् , भावमङ्गलं च ॥ इति गाथार्थः ॥ २४॥ तत्र नाम किमुच्यते । इत्याशक्य सामान्येन नाम्नस्तावल्लक्षणमाहपेज्जायाऽणभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । जाइन्छिअंच नामं जावदव्वं च पाएण ॥ २५ ॥ १ अथवा निपातनाद् मंगलमिष्टार्थप्रकृतिप्रत्ययतः । शास्त्रे सिद्धू यद् गथा तद् यथायोगमायोज्यम् ॥ २३॥ उज्ज-1. स्वसू२ मां गालगानि भगात् मालमिढवमादि नैरुताः । भाषन्ते शास्त्रवशतो नामादि चतुर्विध तज ॥ २४॥+गति-कान्तिपु३ पर्यायाना रिवनमाया (अवर्ष वा) तदर्थनिरपेक्षम् । यादृच्छिकं च नाम गायदद्वयं प प्रायेण ॥ २५॥ अलीय। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 339