Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 149
________________ प्रज्ञापना विचाराः विचार- | पढमक्खरंसन्नियट्ठाणा ॥१॥" एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसङ्ख्यानं कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि रत्नाकर:leel t omerपूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुर-शीतिलक्षगुण्यन्ते ततः पूर्व भवति, तस्य परिमाणम्-सप्ततिः कोटिलक्षाणि षट्पंचाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्वं पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि 11१३६ पूर्वाङ्गशतानि, तत ऊर्दू चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ । २१७०६५९ । ८३५०३३६ । तथा च पूर्वाचार्यप्रणीता अत्र गाथा : -“ मणुयाण जहण्णपदे, एक्कारसपुव्वकोडिकोडीओ। बावीसकोडिलक्खा, कोडीसहस्साइ चुलसीई ॥ १॥ अद्वेव य कोडिसया, पुव्वाण दसुत्तरा तओ होति । एक्कासीई लक्खा, पंचाणउई सहस्साइं॥२॥ छप्पन्ना तिन्निसया, पुव्वाणं पुव्ववणिया अण्णे । एत्तो पुव्वंगाई, इमाइ अहियाइ अण्णाई ॥ ३ ॥ लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साइं । छच्चेवेगूणट्ठा, पुव्वंगाणं सया होंति ॥ ४ ॥ तेसीइ सयसहस्सा, पण्णासं खलु भवे सहस्साइं । तिन्नि सया छत्तीसा, एवइया अविगला मणुया ॥ ५ ॥ इति । इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छन्नउइ च्छेयणगदाई रासी' इति, 'अहव णं' ति प्राग्वत् षण्णवतिच्छेदनकानि यो राशिर्ददाति स षण्णवतिच्छेदनकदायी राशिः, किमुक्तं भवति ? यो राशिरद्धेनार्द्धन छिद्यमानः षण्णवति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षण्णवतिच्छेदनकदायी राशिरिति, कः पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टौ, द्वितीयं चत्वारः तृतीयं द्वौ चतुर्थमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थः षोडश, पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्ठिं, स चैवं पञ्चमवर्गेण गुणित: षण्णवतिः कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो Hel वर्गो येन येन वर्गेण गुज्यते तत्र तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे षट्, तथाहि-द्वितीयो वर्ग: १३६||

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298