Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 8
________________ श्री वर्द्धमान जिन देशना ॥२॥ श्री आनन्द चरितम् ॥ 繼繼器器器器器端器鉴器器器等器端器聯柴柴柴柴柴繼柴柴聯晓 दिसंयुक्तास्ति, स च श्रेष्ठी धनदवद्धनी वर्तते, तस्य चत्वारि कोटयः स्वर्णरूप्याणां भूमिगता वर्तन्ते, चत्वारि कोट्यो व्यवहारे वर्त्तन्ते. चत्वारि कोट्यश्च व्याजे दत्ताः संति, पंचशतशकटानि व्यापारार्थ देशांतरे यान्ति, पंचशतशकटानि तृणार्थमिंधनार्थं च वहंति, चतुःशतप्रवहणानि च समुद्रे वाणिज्याथै वहन्ति, दश धेनूनां सहस्राण्येकस्मिन् गोकुले वर्तन्ते, ईदृशानि चत्वारि गोकुलानि तस्यानंदश्रेष्ठिनो गृहे सन्ति, ईदशी ऋद्धिस्तस्य गृहेऽस्ति. एवमसौ शिवाभार्यया सह मनुष्यसुखानि भुक्त, सुखेन च दिनानि गमयति । ___अथान्यदा प्रस्तावे चतुर्विशतितमस्तीर्थकरः श्रीवर्द्धमानस्वामी स्वर्णकमलेषु पादौ स्थापयन् चतुर्दशसहस्रसाधूनां परिवारेण, ट्त्रिंशत्सहस्रार्यिकाणां परिवारेण च सहितः सुखं सुखेन विहरन् भव्यजीवान् प्रतिबोधयन् वाणिज्यग्रामे द्रुतपलासे चैत्ये समवसृतः, देवैश्च समवसरणं कृतं, तत्र त्रयो वप्राः कृताः, भगवांश्च सिंहासनोपर्युपविष्टः, मस्तकोपरि च त्रीणि छत्राणि, पाश्वे च चामराणि शोभन्ते । जयजयध्वनिरुच्छलितः, आकाशे च देवदुंदुभिर्वाद्यते. देवाश्च समागताः, द्वादशपरिषदो मिलिताः, अग्निकोणके त्रयः परिषद उपविष्टाः, गणधराः १ देव्यः२ साध्यश्च ३. नैऋतकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेव्यः १ व्यंतरदेव्यः २ भवनपतिदेव्यश्च ३. वायव्यकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेवाः १ व्यन्तरदेवाः २ भवनपतिदेवाश्च ३. ईशानकोणकेऽपि त्रयः परिषद उपविष्टाः, वैमानिकदेवाः १ मनुष्याः २ मनुष्याणां स्त्रियश्च ३. एवं द्वादश परिषद उपाविष्टाः, अन्येऽपि नगरवासिश्राद्धश्राद्धीगणाश्च वंदनाथै समागताः, जितशत्रुराजापि चतुरंगसेनया सह वंदनार्थ निर्गतः, एवमनेके राजलोका अपि भगवद्वंदनार्थ गच्छन्ति. तथानंदगाथापतिरपि तान् राजादिलोकान् व्रजतो 端端器器器器端器蒸器端藤藤器器除器绕绕绕绕绕 ॥२॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 282