Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 210
________________ १९६ वादार्थसंग्रहः [४ भागः तीत्यादाविव वाक्यार्थः । अस्तु च फल-कर्मणोरपि संबन्धस्तथा फलं तु कस्यार्थः । न च तदपि तथा, प्रकारीभूय भासमानत्वात्। फलावच्छिन्नक्रियाया धात्वर्थत्वेऽपि क्रियाजन्यफलालाभात् विशेषणविशेष्यभावविपर्ययस्यावश्यकत्वात् । तन्दुलोऽपि विशेष्यतया विशेषणं स्यात्तथापि प्रकृत्यर्थप्रकारकान्वयबोधकत्वं प्रत्ययानां भावनाप्रकारकतन्दुलविशेष्यक-शाब्दबोधत्वमेव च तादृशाकांक्षाज्ञानकार्यतावच्छेदकमिति तन्दुलादिप्रकारकबोधे इति भावः। केचित्तु आधेयत्वं तृतीयार्थ इति पक्ष एव साधुः । चैत्रेण पच्यत इत्यादौ चैत्रभावनयोः सम्बन्धो न वाक्यार्थः। प्रत्ययार्थविशेष्यतानिरूपितप्रकारतासम्बन्धेन प्रत्ययजन्यबोधे प्रकृतिभिन्ननामान्यपदजन्योपस्थितेहेतुत्वात् । अन्यथा चैत्रेण पच्यते मैत्रो जानातीति प्रयोगे मैत्रस्यापि पाकभावनायामन्वयः स्यादिति प्रकृतिभिन्नत्यादि विशिष्टाभावात् । कृतौ वर्तमानत्वान्वयेऽपि न अतिरित्याहुः। सम्बन्धस्तृतीयाप्रकृत्यर्थभावनयोः सम्बन्धः, वाक्यार्थः संसर्गमर्यादया लभ्यः। तथा संसर्गमर्यादालभ्यः आकांक्षाज्ञानभास्य इत्यर्थः । तदपि फलमपि । तथा वाक्यार्थः । तथाचानुभवविरोधेन न फलस्य संसर्गमर्यादया भानमिति भावः। ननु धातोः फलावच्छिन्न कियापाचकत्वात् तत एव फललाभ इण्याक्याह-फलावच्छिन्नेति । फलमेव क्रियायां प्रकारः, न तु क्रियापि फले येन कियाजन्यत्वं फले लभ्येत। विशेषणविशेष्येति । यथा घटपदाद्घटत्वं नीलपदानीलगुणः प्रकारीभूय धर्मिभाने भासते तथा फलमपीत्यर्थः । न च फलनिष्ठजन्यतानिरूपकत्वरूपजनकत्वभाने जन्यत्वमपि भानमिति वाच्यम्, जन्यत्वमेव जनकतानिरूपकत्वमित्यस्यापि वक्तुं शक्यत्वात् । तस्माजन्यताजनकताभिन्ने एव । अनन्यथासिहव्यापकत्वरूपजनकत्वभाने तु जन्यस्वभान न सम्भवत्येव । जन्यत्वभाने जनकत्वभानं तु स्यात् तादृशव्यापकसामानाधिकरण्यगर्भत्वाजन्यताया इत्यन्ये । एतेन समानसंवित्सविधत्वन्यायो जन्यजनकतयोनिरस्तः । अनन्यथासिद्धतदभाववदत्तित्वरूपं जन्यत्वम् । तथा च तदभानेऽपि जनकस्वभानमित्येके । वस्तुतो जनकत्वस्य जन्यतानिरूपकत्वरूपत्वं तदाने १ फलाभावादिति पाठः। २ विशेष्यविशेषणोतीत्यन्यत्र पाठः ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238