Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२०० वादार्थसंग्रहः
[४ भागः तादृशविषयिताश्रय-चाक्षुषाश्रयत्वावच्छिन्नप्रतियोगितैव तयोः संसर्गः । आकाशं न दृश्यत इत्यादौ च ज्ञानविषयतायास्तादृशलौकिकविषयतानिरूपितस्वरूपसम्बन्धेनाभाव आकाशे भासते, तेनान्धवृत्तिचाक्षुषासत्त्वे चैत्रीयघटचाक्षुषविषयताया आकाशे सत्त्वेऽपि न तिरिति शशविषाणजन्यं कार्मुकमस्तीत्यादौ च शशविषाणजन्यकामुकत्वमेव प्रतियोगितावच्छेदकं परन्तु प्रतियोगितावच्छेदकतावच्छेदकः सम्बन्धः शशविषाणयोर्जन्यत्वरूपो व्यधिकरण इति ।
एवं पीत: शंखो नास्तीत्यादावपि पीतत्वशंखत्वोभयावच्छिन्नप्रतियोगितैव सम्बन्धः । यद्वा-पूर्वरीत्या पीतत्वशंखत्वयोः प्रतियोगितावच्छेदकतावच्छेदकः सम्बन्ध एव समवायः, न तु प्रतियोगिताधर्मघटक इति नाप्रसिद्धिः । वस्तुतस्तु अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तिसिद्धमित्यस्याप्यु. परि प्रकारीभूतधर्म आकाङ्क्षावशादभावप्रतियोगिनोः संसर्गतया भासत इत्यर्थः । प्रतिबध्यप्रतिबन्धकमावादी लाघवमनुरुन्धाना नवीनाः पुनस्तत्रैवाखण्डप्रतियोगितामामनन्ति । .. एवं च नीलघटो नास्तीत्यादौ धर्मविधया प्रतियोगितावच्छेदकता । नीलत्वे नीलगुणे धर्मिणि घटत्वे च संसर्गविधया तत्वं च नीलत्वसमवाये नीलगुणसमवाये तद्वदभेदे घटत्वसमवाये च व्यासज्यवृत्तिरवच्छेदकसम्बन्धाश्च प्रतियोगितावच्छेदकतावच्छेदकसम्बन्धास्ते च प्रतियोगिकोटौ तत्तदंशे भासन्तो घटो नास्तीत्यादी घटत्वस्य समवाय इव त एव धर्मा अभावप्रतियोगिनोः संसर्गतयाऽपि भासन्ते ।
एवं दण्डपुरुषवान् चैत्रो नास्ति दण्डिपुरुषवश्चित्रो नास्तीत्यनयोराधे धर्मविधया प्रतियोगितावच्छेदकत्वं दण्डत्वादौ दण्डपुरुषतत्संयोगाश्रयचैत्रत्वेषु च । द्वितीये दण्डत्वादी दण्डसंयोगिपुरुषतत्संयोगिचैत्रत्वेषु सम्बन्धविधया तत्त्वं तु तत्तत्पदार्थानां तेषु तेषु सम्बन्धिषु व्यासज्यवृत्ति......अभावेन 'सह सम्बन्धाः । दण्डसंयोगचैत्रत्वाद्युभयत्र तुल्यान्येवेति । सर्वत्रैव प्रतियोगितावच्छेदकतावच्छेदकसम्बन्धः प्रतियोग्युपरि संसर्गतया तत्तदंशे भासते । प्रतियोगितावच्छेदकसम्बन्ध: पुनरभावप्रतियोगिनोरिति ।
एवं चाकाशं न पश्यति शशविषाणजन्यं कार्मुकं नास्तीत्यादौ त एव पदार्था अभावप्रतियोगिनोः संसर्गतया भासन्ते विशिष्टस्थानतिरेकेण विशिष्टसंसर्ग इत्यस्यार्थान्तरस्याभावादिति ।
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238