Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 16
________________ उत्तराप्ययनसूत्रम् शाकपत्रादेस्तिक्तत्वादि, यद्वा सुदृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं सुष्टु निष्ठा रसप्रकर्षात्मिकां गतं, सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलखादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावा बचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः प्रतिकृतं, सुपकं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदमेस धनं चौराथैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, सुनिष्ठितोऽयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवधं तु सुकृतमनेन धर्मध्यानादि, सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं खेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्पात्राजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्नुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्वेत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोयेत्स्यात्तदशेयन्नाहमूलम्-रमए पंडिए सासं, हयं भई व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ __ व्याख्या-रमते अभिरतिमान् भवति, पंडितान विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावहं वाहकोऽश्रदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , सहि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यथमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरुशिक्षणे बालस्वाशयमाहमूलम्-खड्डआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिहित्ति मण्णइ॥३८॥ व्याख्या-खड्काः टकरा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दंडादिघाता मे, अयंभावः- खड्कादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अन्यव-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्थमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥३८॥ विनीताध्यवसायमाहमूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ॥पावदिही उअप्पाणं, सासं दासित्तिमण्णइ ॥३९॥ व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञाति खजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वखमाहमूलम्–ण कोवए आयरियं, अप्पाणंपिण कोवए ॥ बुद्धोवघाईण सिआ, ण सिया टोत्तगवेसए॥४०॥ __ व्याख्या-न कोपयेन कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुमिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्थान भवेत् उदाहरणं चात्र, तथाहि- गच्छे कापि पुराऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः॥१॥चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं, पुरे काप्यवतस्थिरे ॥२॥ सत्खेतेषु मुनीन्द्रेषु, जिनशासनभानुषु ॥ तीर्थ सनाथमस्तीति, चिन्तयन्तो महाधियः ॥३॥ तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरौषधैश्च तान् ॥ ४ ॥ [ युग्मम् ] गुरुकर्मभराकान्ता, निःनेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥५॥ अस्माभिः पालनीयोऽयं, कियश्चिरमजङ्गमः ॥ स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ॥ ६ ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा षयम् ॥ ७ ॥ विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ॥ ८॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥९॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः ॥ भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ॥१०॥ अकिंचना वयं तत्किं, कुर्मो

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 424