Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 517
________________ 10 ४७४ [कर्णिकासमन्विता उपदेशमाला । गाथा-५२५-५२८] यदाहुः कलिकालसर्वज्ञसंवादा: श्रीहरिभद्रसूरिपादाः 'सुअबज्झायरणरया पमाणयंता तहाविहं लोअं। भुवणगुरुणो वराया पमाणयं नावगच्छंति ॥१॥ [प.व./१७०८ ] सुत्तेण चोइओ जो, अन्नं उद्दिसिय तं न पडिवज्जे । सो तंतवायवज्झो न होइ धम्ममि अहिगारी" ॥२॥ [प.व./१७०९] इत्यादि ॥५२५।। तस्माल्लोकाचरणनिरपेक्षस्यागमपरतन्त्रतैव मोक्षाङ्गम् । तत्र च यथाशक्ति यदपि यतनयानुष्ठीयते, तावदपि निर्जराकारीत्यभ्युच्चयेनाह हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स । जा जा हवेज्ज जयणा, सा सा से निज्जरा होइ ॥५२६॥ ___ आस्तां तावदकलङ्कस्य, हीनस्याऽपि उत्तरगुणानपेक्ष्य न्यूनस्याऽपि शुद्धप्ररूपकस्य यथावस्थिताहदागमार्थप्रकाशकस्य संविग्नपक्षपातिनो या या भवेद्यतना परिणतदेशीयपरिमितोदकाऽद्याऽऽदानरूपा । सा सा से तस्य संविग्नपक्षपातिनो निर्जरा कर्मक्षयहेतुर्भवति । तस्य कायतोऽन्यतः प्रवृत्तस्यापि चित्तमवेक्ष्य गाढानुरक्तत्वात् । तथा चोक्तम् "संविग्गपक्खिओ उण अन्नत्थ पइट्ठिओ वि काएण । 15 ___ धम्मे च्चिय तल्लिच्छो दढरतित्थि व्व पुरिसम्मि" ॥१॥ [प.व./१६८१] ॥५२६।। यस्तु गीतार्थो बहुगुणाऽल्पदोषपरिकलनया भगवदागमार्थोपदेशात् किञ्चिदासेवते स महतो निर्जरालाभस्य भाजनं स्यादित्याह सुंकाईपरिसुद्धे सइ लाभे कुणइ वाणिओ चिटुं। एमेव य गीयत्थो, आयं दटुं समायरइ ॥५२७॥ शुल्कं-राजदेयो भागधेयस्तदादिर्येषां कर्मकरव्ययादीनाम् । शुल्कादिभिः परिशुद्धे आत्मन एव स्वाधीने सति लाभे करोति वाणिज्यको वाणिज्यरूपां चेष्टां व्यवहृतिम् । एवमेव च अनेनैव न्यायेन च, गीतार्थो गृहीतागमसारः पुमान् आयं ज्ञानादिलाभमधिकं दृष्ट्वा सूत्रार्थदृशा निरीक्ष्य समाचरति । यतनया तदासेवते इति ॥५२७॥ अस्त्वेवमायव्ययतुलनया यतमानस्य निर्जरा, यस्तु निष्कारणं सुखित्वेनैव शिथिलः, स संविग्न25 पाक्षिकः किमर्थं समर्थ्यते इत्याह आमुक्कजोगिणो च्चिय, हवइ हु थोवा वि तस्स जीवदया । संविग्गपक्खजयणा, तो दिट्ठा साहुवग्गस्स ॥५२८॥ आ समन्तान्मुक्ता योगाः संयमव्यापारा यस्य सन्ति 'सर्वादेरिति', स आमुक्तयोगी, तस्याऽऽमुक्तयोगिन एव सतो भवति । हुनिश्चयेन, स्तोकापि तस्य संविग्नपाक्षिकस्य जीवदया । संविग्नपक्षयतना 30 मोक्षाभिलाषुकयतिजनानुरागेण पूर्वोक्ता प्रवृत्तिस्ततः कारणात् दृष्टा भगवद्भिरुपलब्धा साधुवर्गस्येति । अयमत्र १. त्युच्चयेना - A. B, H त्यभ्यभूयेना - C, LI

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564