Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 596
________________ ४७४ पं० जिनदासविरचिता [ पृ० २४२ गुणवृन्दं भवतु || ५६१|| प्रातर्विधिरिति - हे देव, मम प्रातविधिः प्रभातकालीनं कार्यम् । तव पादाम्बुजपूजनेन चरणकमलयोः पूजया यायात् व्यतीतो भवतु । अयं मध्याह्नसंनिधिः इयं मध्यदिनवेला मुनिमाननेन मुनेः यतेः माननेन पूजया आहारदानेन । मम सायन्तनोऽपि समयः कालः देव, त्वदाचरणकीर्तन कामितेन तव आचरणं व्रततपोध्यानादिरूपं चारित्रं तस्य कीर्तनं प्रशंसा तस्य कामितेन इच्छया । जिनेन्द्रसमं मम व्रततपोध्यानादिकं कदा स्यादिति आशंसनेन यायात् गच्छेत् ॥ ५६२ ॥ धर्मेष्विति - धर्मेषु उत्तमक्षमादिदशधर्माचरणेषु । धर्मनिरतात्मसु धर्मे रत्नत्रये निरतः आत्मा येषां ते धर्मनिरतात्मानः श्रावकाः श्राविकाः मुनयः आर्यिकाश्चेति चत्वारः संघास्तेषु । धर्महेतौ धर्माचरणसाधने जिनचैत्यालयादी । नृपः अनुकूलः अस्तु । कथंभूतः सः ? धर्मादवाप्तमहिमा धर्माचरणाल्लब्धप्रभावः । तथा जिनेन्द्रेति - जिनपतिपदपूजन पुण्यात् धन्याः सुकृतवत्यः प्रजाश्च चतुर्वर्णवत्यः नित्यं परमां श्रियम् उत्तमां श्रियं लक्ष्मीं आप्नुवन्तु लभन्ताम् । इति पूजाफलम् ||५६३ ॥ आलस्यात् - वपुषः आलस्यात् मान्द्यात् । कर्मणि अनुत्साहत्वात् । हृषीकहरण: हृषकाणां नेत्रादीन्द्रियाणां हरणः अन्योपयोगपरत्वात् । आत्मनः स्वस्य व्याक्षेपतो वा अन्यकार्यव्याकुलतया वा | मनसः चापल्यात् । मतेर्बुद्धेर्जडतया वस्तुस्वरूपानाकलनतया । वाक्सौष्ठवे मान्द्येन वचनस्य सौष्ठवं स्पष्टाक्षर वक्तृत्वं तस्मिन् मान्द्येन लुप्तवर्णपदत्वेन । हे देव, तवं संस्तवेषु पूजादिकार्येषु एष प्रमादः अनवधानता समभूत् । स मे मिथ्या विफलः स्तात् भवतु । ननु निश्चये यतः देवताः प्रणयिनां प्रार्थनां कुर्वतां भक्त्या तुष्यन्ति प्रसन्ना भवन्ति ॥ ५६४ || देवपूजामिति – यो गृहस्थः देवपूजाम् अर्हदादिपञ्चगुरुपूजनम् अनिर्माय अकृत्वा, मुनीन् उत्तमपात्रभूतान् यतीन् अनुपचर्य तदीयाम् आहारदानसेवां अविधाय च भुञ्जीत भोजनं कुर्वीत स परं तमः अत्युत्कटं दुःखं भुञ्जीत ॥ ५६५॥ . इत्युपासकाध्ययने स्नपनार्चनविधिर्नाम षट्त्रिंशः कल्पः ॥ ३६ ॥ ३७. स्तवनविधिर्नाम सप्तत्रिंशत्तमः कल्पः । [ पृष्ठ २४२ ] नमदिति-स जिनो देवः जीयात् सर्वोत्कर्षेण वर्तिषीष्ट । यस्य अङ्घ्रियुगलं पदद्वन्द्वम् अरुणायते लोहितायते । कुत्रेति चेदुच्यते-नमदिति - नमन्तः नमस्कुर्वन्तः येऽमराः तेषां मौलिमण्डले मुकुटसमूहे विलग्नानि खचितानि यानि रत्नानि मणयः तेषां अंशवः कराः तेषां निकरः समूहः तेन युक्तेऽस्मिन् गगने नभसि ||५६६ ॥ सुरपतियुवतिश्रवसामिति - सुराणां पतयः सुरपतयः सौधर्मेन्द्रादय इन्द्राः तासां युवतयः शच्यादयो देव्यः तासां श्रवसां कर्णानाम् । अमरेति — अमरतरुः कल्पवृक्षः तस्य स्मेराः विकासमाप्ताः याः मञ्जर्यः मञ्जु मनोज्ञतां रान्तीति मञ्जर्य: अभिनवनिर्गताः आयताः सुकुमाराः सुकुसुमाः मञ्जर्यः तासां संस्पर्शेन रुचिरं मनोज्ञं यस्य चरणयोः पादयोः नखांनां किरणजालम् । स जिनो जगति भूतले जयतात् सर्वोत्कर्षम् अवाप्नोतु ॥ ५६७॥ 'नमदिति' 'सुरपतीति' पद्यद्वयं वर्णच्छन्दोविशेषाख्यम् । दिविजेति— दिवि जायन्ते इति दिविजाः देवाः तेषां कुञ्जरः गजः ऐरावणः तस्य मौलौ मस्तके यानि मन्दाराणि मन्दारतरुपुष्पाणि तेभ्यो निर्गतस्य मकरन्दस्य स्यन्दः प्रस्रवणं तेन युक्ताः ये करविसराः शुण्डासमूहाः तस्य आसारेण धारासंपातेन धूसरे पदाम्बुजे पदकमले यस्य सः तत्संबोधनैकवचनं पदाम्बुज । वैदग्ध्यपरमपद वैदग्ध्यस्य विदग्धो विद्वान् तस्य भावो वैदग्ध्यं वैदुष्यं तस्य परमपद उत्तमाधार केवलज्ञानाधार । प्राप्तो वादे जयो येन तत्संबोधनं प्राप्तवादजय । विजितमनसिज विजितः पराजितः मनसिज: मनसि जायते इति मनसिजः मन्मथः येन तत्संबोधनम् । मात्राच्छन्दः । चतुष्पदी - यस्त्वामिति - हे जिन, अमितगुणं त्वां मिताः मातुं शक्या गुणा यस्य स मितगुणः न मितगुणोऽमितगुणः अनन्तगुणः त्वम् । त्वाम् अनन्तगुणं कश्चित्सावधिबोधः समर्यादज्ञानः । विपश्चित् बुधः विशेषं पश्यति चेतसि चिन्तयतीति विपश्चित् । यदि स्तोति त्वां नूनं तर्के, असो विपश्चित् हस्तेन अचिरकालं शीघ्रं काञ्चनशैलं सुवर्णपर्वतं मेरुं तुलयति किपत्परिमाणोऽस्तीति ज्ञातु

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664