Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
53
जिनभाषितार्थ सद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणकृतप्रतिजस्य ॥६१॥ परिणाममपूर्वमुपागतस्य शुभभावनाध्यवमितस्य । अन्योन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥६॥ वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । खहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥६॥ भवकोटौभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥६४॥ आरोग्यायुर्बलसमुदयाश्चला वौर्यमनियतं धर्मे । तलब्धा हितकार्य मयोद्यमः सर्वथा कार्यः ॥६५॥ शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्मुना विनौतेन भवितव्यम् ॥६६॥ कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेव नदी ॥६७॥ न तथा सुमहाधैरपि वस्त्राभरणैरलंकतो भाति । श्रुतशीलमूलनिकषो विनौतविनयो यथा भाति ॥६॥ गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वे ऽपि । तस्मागुर्वाराधनपरेण हितकांक्षिण भाव्यम् ॥६६॥ धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्णः ॥७॥ दुःप्रतिकारौ मातापितरौ स्वामी गुरुश्च लोके ऽस्मिन् । तत्र गरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥२१॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332