SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. 53 जिनभाषितार्थ सद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणकृतप्रतिजस्य ॥६१॥ परिणाममपूर्वमुपागतस्य शुभभावनाध्यवमितस्य । अन्योन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥६॥ वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । खहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥६॥ भवकोटौभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥६४॥ आरोग्यायुर्बलसमुदयाश्चला वौर्यमनियतं धर्मे । तलब्धा हितकार्य मयोद्यमः सर्वथा कार्यः ॥६५॥ शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्मुना विनौतेन भवितव्यम् ॥६६॥ कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेव नदी ॥६७॥ न तथा सुमहाधैरपि वस्त्राभरणैरलंकतो भाति । श्रुतशीलमूलनिकषो विनौतविनयो यथा भाति ॥६॥ गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वे ऽपि । तस्मागुर्वाराधनपरेण हितकांक्षिण भाव्यम् ॥६६॥ धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्णः ॥७॥ दुःप्रतिकारौ मातापितरौ स्वामी गुरुश्च लोके ऽस्मिन् । तत्र गरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥२१॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy