SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १] स्याद्वादरत्नाकरसहितः नित्योद्युक्तत्वेन प्रतिपक्षक्षेपकत्वेनासन्मोहाध्यवसायित्वेन चोत्साहप्रतीतेवीररसश्च भगवतोऽरागवतो रागद्वेषेति विशेषणेन व्यज्यते । विशेषणचतुष्टयेन चान्यतीर्थिकतीर्थेशेभ्यो भगवतः समधिकत्वावगतेर्व्यतिरेकालङ्कारो ध्वन्यते । एवं चासाधारणगुणाधिकरणतया भगवतः परमगुरुत्वं ख्यापितं भवति । तथाहि परमो गुरुभगवान् बर्द्धमानो ५ रागद्वेषविजेतृत्वात् विश्ववस्तुज्ञातृत्वात् शक्रपूज्यत्वात् वागीशत्वाच यः पुनर्नाभिहितसाध्यसम्पन्नः स न यथोक्तसाधनाधारो यथा सम्प्रतिपन्नः । एतेनापरगुरुरपि गणधरादिरस्मद्गुरुपर्यन्तो व्याख्यातः । तस्यैकदेशेन निगदितसाधनाधिकरणत्वादपरगुरुत्वोपपत्तेः । अत्राह कश्चिद्, भवतु नामैवं परापरगुरुप्रवाहस्य प्रसिद्धिः । तथापि १० परापरगुरुप्रवाहस्मरण कथमसौ प्रकृतशास्त्रस्य सिद्धिनिबन्धनं येन शास्त्रसिद्धिनिबन्धनमस्ति तदारम्भे तस्य स्मृतिः श्रेयसीति तत्रैके समाद प ' धते परापरगुरुप्रवाहस्य स्मरणाद् धर्मविशेषोत्पत्तेरधर्मध्वंसात् तद्धेतुकविघ्नोपशान्तरभीप्सितशास्त्रपरिसमाप्तितः स तसिद्धिनिबन्धनमिति तन्न तर्कानुकूलम् । एवं हि तेषां प्रस्तुतशास्त्रा- १५ रम्भे पात्रदानादिकमपि कर्तव्यकक्षामास्कन्देत् । पराफ्स्गुरुप्रवाहस्मरणवत् तस्यापि धर्मविशेषोत्पत्तिहेतुत्वाविशेषादभिहितशास्त्रसिद्धिनिबन्धनत्वोपपत्तेः । मङ्गलत्वात् आप्तस्मरणं शास्त्रसिद्धिनिवन्धनमित्यपरे । तदपि त्रपापात्रम् । स्वाध्यायादेरपि मङ्गलत्वाविरोधात् न खलु परापरगुरुपरम्परास्मरणमेव मङ्गलमिति क्षितिपतिशासन समस्ति । २०. परापरशुरुषबन्धानुध्यानाद् ग्रन्थकारस्य नास्तिकतापरिहारसिद्धितस्तद्वचनस्यास्तिकैरादरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस्तदनुध्यानं तात्सद्धिनिबन्धनमिति कतिपये । तदपि न चतुरचेतोहरम् । आत्मादिपदार्थ न १ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः । धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धीरो वीरचरिते रामस्य । का. अ. २ । २ गणधरात् श्रीमुनिचन्द्रसूरिः ४१तमः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy