Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ भावबोधिनीटीकासहिता अथ समयिनाम् अमावास्यापूजाभावे हेतुनिरूपणम् कलायाः षोडश्याः प्रतिफलितबिम्बेन सहितं तदीयैः पीयूषैः पुनरधिकमाप्लाविततनुः। सिते पक्षे सर्वास्तिथय इह कृष्णेऽपि च समा यदा चामावास्या भवति न हि पूजा समयिनाम् ॥३२॥ अमायां षोडशीकलायाः सादाख्यायाः प्रतिबिम्बसहितं चक्रमण्डलं भवति । उत तदीयामृतेन आप्लाविततनुः च उपासकः । तस्माद् अमापूजा न अस्ति समयिनाम् । इह समयिपूजाविधौ अमेतरशुक्लकृष्णपक्षतिथयः सर्वे अपि समाः एव ॥३२॥ अथ अमायाः, आज्ञाचक्रस्थचन्द्रबिम्बस्य च, स्वरूपनिरूपणम् इडायां पिङ्गल्यां चरत इह तो सूर्यशशिनौ तमस्याधारे तो यदि तु 'मिलितौ सा तिथिरमा । तदाज्ञाचक्रस्थं शिशिरकरबिम्बे(बं) रविनिभं दृढव्यालीढं सद्विगलितसुधासारविसरम् ॥३३॥ पाठा०-(१तु लितो। इडा-पिङ्गला-नामनाड्योः क्रमेण रविशशिनौ चरतः । तादृशरविशशिनौ यदा तमोमय(भूत)मूलाधारचक्रे मिलितौ तदा तिथिः अमावास्या भवति । तादृशामातिथौ आज्ञाचक्रस्थितशशिबिम्बे (शशिबिम्बं) रविनिभं (ज्योतिःप्रादुर्भावे न इति शेषः) दृढव्यालीढं सत् (ज्योत्स्नया इति विज्ञेयम् । उत्तरश्लोकतात्पर्येण) विगलितसुधासारविसरं च । भवति इति शेषः ॥३३॥ अथ पूर्वश्लोकोक्तज्योतिःकारणनिरूपणम् महाव्योमस्थेन्दोरमृतलहरीप्लाविततनुः 'प्रशुष्यद्वै नाडीप्रकरमनिशं प्लावयति तत् ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56