Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः नामसु तु “मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी'' इत्यादि । अत्र अहःपदार्थविमर्शः, "हलो बिन्दुः' इत्यादिपञ्चविंशतितमश्लोके, निशाद्याः दर्शाद्याः इतिक्रमेण कृष्णपक्षीयाणां तिथीनां सङ्केतः कृतः । अत्र निशा नाम कृष्णपक्षः चेत् तदितरः दर्शः, यथा शुक्ल: तथैव अत्र निशेतरशुक्ल: अपि अहःपदवाच्यः काल: भवेद् इति ज्ञेयः ॥ एवमप्यहःपदेन ज्योत्स्नाविशिष्टरात्रिभागः ज्ञेयः, यथा अहर्नामा सौरतेजोविशिष्टकालविशेषः । सः द्विविधः शुद्धः मूच्छितः' इति । तत्र आद्यः शुद्धसौरातपविशिष्टः द्वितीयः पुनः चन्द्रातप[ज्योत्स्ना]विशिष्टः इति । अतः अत्र समयिनां पूजाविषये अहःपदेन द्वितीयः चन्द्रातपविशिष्टः । [शुक्लपक्षे तावद् रात्रिपूर्वभागे एव ग्राह्यः । कृष्णपक्षे तु “निशायां [कृष्णपक्षे सेवन्ते चरमभागे समयिनः'' इति ज्योत्स्नाविशिष्टरात्रिचरमभागस्य एव ग्रहणात् । अयम् अर्थः तु "नवो-नवो भवति' इति मन्त्रार्थविचारे समवगम्यते हि । एतेन अपि उक्तपूर्वार्थः स्पष्ट तरः भवति । एवमेव सर्वत्र क्लिष्टस्थलेषु विमर्शः कर्तव्यः ॥३१॥ १. मूच्छितः = चन्द्रजलादिषु प्रतिबिम्बितसौरतेजोविशिष्टकालविशेषः । अत्र चन्द्रमूच्छितं सौरतेजस्तु ज्योत्स्नेति भण्यते । जलमूच्छितं पुन इयत्कालावधिसौरतेजो मूच्छितं, रक्तपीतादिकाचपात्रान्तःस्थितं, जलं, भेषजं भवेदित्यादि; जलमूच्छितसौरतेजोविषयस्तु “कोमोपथि-" नामक-वैद्यविज्ञानादवगन्तव्यः। तथा वायुमण्डलमूच्छित "आल्ट्रा वायलेट्'' "इन्फ्रा रेड'' इत्यादि सौरतेजसां स्वरूपगुणादयश्च विज्ञेया आग्लपंद्यविज्ञानेन; श्रुतिषु चावगम्यते, अरुणप्रश्नादिषु ॥३३।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56