Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
www.kobatrth.org
यतनायत नायतनायत ना-नय मानयमानयमानय माः।
क्षणलक्षण लक्षणलक्षणल-क्ष रदक्षरदक्षरदक्षरद॥४॥ अव०-यतनया जीवकृपया आयत विस्तीर्ण । आयतनानि च, आयश्च, ता लक्ष्मीश्च, ता विद्यन्ते यत्र स तथा | तस्य संबोधनं । ईदृशो नेति निषेधः । हे नानय! अन्यायरहित । मानश्च, यमा नियमाश्च, तान् मानयमान् । अयं च |भाग्यं च । माः लक्ष्मीश्च । आनय । क्षणला उत्सवला क्षणा वेला यस्य स तस्य संबोधनं । लक्षणानि व्याकरणादिशास्वाणि, लक्षणानि च शरीरचिह्नानि तेषां लक्षा विद्यन्ते यत्र स तथा तस्य संबोधनं । रदेभ्यः क्षरन्ति यानि अक्षराणि | तेषु दक्षरेषु चतुरेषु नरेषु दा दानं यस्य स तस्य संबोधनम् ॥४॥
प्रमदाप्रमदाप्रमदाप्रमदा-नकरानकरानकरानकरा ()।
नवमानवमानव मानवमा, नसदान सदान सदान सदा ॥५॥ अव०-प्रगतो मदो यस्मात्स प्रमदस्तत्संबुद्धौ । न विद्यते प्रमदासु स्त्रीषु प्रमदो हर्षो यस्य स तत्संबुद्धौ । अप्रमेषु बुद्धिरहितेषु नरेष्वपि दानं करोति तस्य संबुद्धौ न अकरः कान्तिरहितः अनकरः तत्संबुद्धौ । अकं दुःखं राति ददा| तीति अकरः, न अकरः अनकरः, तत्संबुद्धौ । अनकः निष्पापः राद्रव्यं यस्य सः अनकराः तत्संबुद्धौ । नवमान् नवल
१ उत्सवदायिनी इत्यर्थः
For Pale And Pen Use Only

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206