Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ ४१६ मोहसमुत्थात् अदत्तं स्वामिना अवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृत-कारिता-ऽनुमतिभेदात् अथवा द्रव्यतो दिव्यमानुष-तैरश्चभेदात् रूप-रूपसहगतभेदाद्वा, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति, क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो राग-द्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्वम्, तस्य कर्म मैथुनम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृतादेरथवा द्रव्यत: सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे रात्र्यादिभवाद्वा भावतो राग-द्वेषविषयात्, परिगृह्यते आदीयते परिग्रहणं वा परिग्रहः, तस्माद् विरमणमिति । व्रतप्रस्तावात् पञ्चाणुव्वएत्ति, सुगमं चेदम्, किन्तु अणूनि लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरइं पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥ [विशेषाव० २७५१] इति । तान्यनुव्रतानि स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः, तस्मात् प्राणातिपातात् । तथा स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः, तस्मात् मृषावादात्, तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदृष्टाध्यवसायपूर्वकं स्थूलम्, तस्माददत्तादानात्, तथा स्वदारसन्तोष आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यम्, तथा इच्छायाः धनादिविषयस्याभिलाषस्य परिमाणं नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । __ [सू० ३९०] पंच वण्णा पन्नत्ता, तंजहा-किण्हा, नीला, लोहिता, हालिद्दा, सुक्किला १॥ पंच रसा पन्नत्ता, तंजहा-तित्ता जाव मधुरा २ । पंच कामगुणा पन्नत्ता, तंजहा-सद्दा, रूवा, गंधा, रसा, फासा ३ । पंचहिं ठाणेहिं जीवा सजंति, तंजहा-सद्देहिं जाव फासेहिं ४, एवं रजंति

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 372