________________
४१६
मोहसमुत्थात् अदत्तं स्वामिना अवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृत-कारिता-ऽनुमतिभेदात् अथवा द्रव्यतो दिव्यमानुष-तैरश्चभेदात् रूप-रूपसहगतभेदाद्वा, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति, क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो राग-द्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्वम्, तस्य कर्म मैथुनम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृतादेरथवा द्रव्यत: सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे रात्र्यादिभवाद्वा भावतो राग-द्वेषविषयात्, परिगृह्यते आदीयते परिग्रहणं वा परिग्रहः, तस्माद् विरमणमिति ।
व्रतप्रस्तावात् पञ्चाणुव्वएत्ति, सुगमं चेदम्, किन्तु अणूनि लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च
सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरइं पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥ [विशेषाव० २७५१] इति ।
तान्यनुव्रतानि स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः, तस्मात् प्राणातिपातात् । तथा स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः, तस्मात् मृषावादात्, तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदृष्टाध्यवसायपूर्वकं स्थूलम्, तस्माददत्तादानात्, तथा स्वदारसन्तोष आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यम्, तथा इच्छायाः धनादिविषयस्याभिलाषस्य परिमाणं नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । __ [सू० ३९०] पंच वण्णा पन्नत्ता, तंजहा-किण्हा, नीला, लोहिता, हालिद्दा, सुक्किला १॥ पंच रसा पन्नत्ता, तंजहा-तित्ता जाव मधुरा २ । पंच कामगुणा पन्नत्ता, तंजहा-सद्दा, रूवा, गंधा, रसा, फासा ३ । पंचहिं ठाणेहिं जीवा सजंति, तंजहा-सद्देहिं जाव फासेहिं ४, एवं रजंति