Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 726
________________ sध्यायः ] याप्यकर्मणोपेतस्य निष्क्रयार्थं जपादिनिरूपणम् १८६१ फलभक्षो मासमब्भक्षो द्वादशरात्रं वा प्राश्नन्क्षित्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तावरान्सप्त पूर्वानात्मानं पञ्चदशं पक्ति च पुनाति ॥१७ तामेतां देवनिश्रयणीमित्याचक्षते ॥१८ एतया वै देवा देवस्त्रमगच्छन्नृषय षित्वम् ॥१६ तस्य ह वा एतस्य यज्ञस्य त्रिविध एवाऽऽरम्भकालः प्रातः सवने माध्यंदिने सवने ब्राह्मे वाऽपररात्रे ॥२० तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयो महाजज्ञवे महाजज्ञैर्ब्राह्मणेभ्यो ब्राह्मणेभ्यः ॥२१ इति तृतीयप्रश्ने नवमोऽध्यायः । अथ तृतीयप्रश्ने दशमोऽध्यायः । अथ याप्यकर्मण्योपेतस्य निष्कयार्थं जपादिनिरूपणम् । उक्त वर्णधर्मश्वाश्रमधर्मश्च ॥ १ अथ खल्वयं पुरुषो याप्येन कर्मणा मिथ्या चरत्ययाज्यं वा याजयत्यप्रतिप्राह्यस्य वा प्रतिगृह्णात्यनाश्यान्नस्य वाऽन्नमश्नात्यचरणीयेन वा चरति तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥२ न हि कर्म क्षीयत इति कुर्यादित्येव ||३ पुनः स्तोमेन यजेत ॥४ पुनः सवनमायान्तीति ॥५

Loading...

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744