Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८६८
बौधायनस्मृतिः। [द्वितीयोहुत्वा प्रयताञ्जलिः (१) कवातियङग्निमुपतष्ठेत॥१२ सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः। सं माऽयमग्निः सिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मेति ॥१३ प्रति हास्मै मरुतः प्राणान्दधाति प्रतीन्द्रो बलं प्रति बृहस्पतिब्रह्मवर्चसं प्रत्यग्निरितरत्सर्व सर्वतनुर्भूत्वा सर्वमायुरेति त्रिरभिमन्त्रयेत त्रिष या हि देवा इति विज्ञायते ॥१४ योऽपूत इव मन्येत आत्मानमुपपातकैः। .. स हुत्वेतेन विधिना सर्वस्मापापात्प्रमुच्यते ॥१५ अपि वाऽनाद्यापेयप्रतिषिद्धभोजने दोषवच्च कर्म कृत्वाऽभिसंधिपूर्वमनभिसंधिपूर्व शूद्रायां च रेतः सित्त्वाऽयोनौ वाऽब्लिङ्गाभिर्वारुणीभिश्वोपस्पृश्य प्रयतो भवति ॥१६ अथात्युदाहरन्ति ॥१७
अनाद्यापेयप्रतिषिद्धभोजने विरुद्धधर्माचरिते च कर्मणि । मतिप्रवृत्तेऽपि च पातकोपमै विशुध्यतेऽथापि च सर्वपातकः ॥१८ त्रिरानं वाऽप्युपवसंत्रिरह्नोऽभ्युपेयादपः। प्राणानात्मनि संयम्य त्रिः पठेदघमर्षणम् ॥१६ यथाऽश्वमेधावभृथ एवं तन्मनुरब्रवीत् ॥२० विज्ञायते च ॥२१ चरणं पबित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अति पाप्मानमराति तरेम इति ॥
इति चतुर्थप्रश्ने द्वितीयोऽध्यायः ।

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744