Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 179
________________ दीधिति:२१ लक्षणघटकप्रतियोगितासामान्ये निरुक्तोभयाभावस्याक्षतत्वात् नाव्याप्तिः भवतीति । ચન્દ્રશેખરીયા : પ્રશ્ન : તો પણ દંડિમાન્ દંડિસંયોગાતુ માં પ્રથમ દંડિસંયોગાધિકરણ એવા ભૂતલમાં દ્વિતીય દંડી-અભાવ મળી જાય છે. અને તેની પ્રતિયોગિતા એ સંયોગાવચ્છિન્નત્વ +સાધ્યતાવચ્છેદક દ્વિતીયદંડાવચ્છિન્નત્વવાળી છે. આમ ઉભયાભાવ ન મળતા અવ્યાપ્તિ આવે. ઉત્તર : આવા સ્થળે “ય ધર્માવચ્છિન્નત્વ'ને બદલે “યાદેશધર્માવચ્છિન્નત્વ લેવું. અર્થાતું સાધ્યતાવચ્છેદકતા વચ્છેદકધર્માવચ્છિન્ન એવો જે સાધ્યતાવચ્છેદક ધર્મ હોય. તદવચ્છિન્નત્વ લેવાનું. અહીં સાધ્યતાવચ્છેદક દંડ છે. તેમાં રહેલી સાધ્યતાવચ્છેદકતાનો અવચ્છેદક તો દંડત્વ છે. અને તેથી અહીં દંડવાવચ્છિન્નદંડાચ્છિન્નત્વ... લેવાનું છે. દ્વિતીય દંડની પ્રતિયોગિતામાં દ્વિતીયડત્વવિશિષ્ટદંડાવચ્છિન્નત્વ છે. પણ દંડવાવચ્છિન્નદંડાવચ્છિન્નત્વનો અભાવ જ છે. આમ ઉભયાભાવ મળી જતા લક્ષણ ઘટી જાય છે. પરિણામે અવ્યાપ્તિ ન આવે. जागदीशी - प्रमेयत्वावच्छेद्यत्वविशिष्ट-स्वरूपसम्बन्धावच्छिन्नत्वाप्रसिद्धया 'प्रमेयवान् वाच्यत्वा' दित्यादावव्याप्तिरत –'विशिष्टाभाव'-मपहाय तादृशोभयाभाव उक्तः । चन्द्रशेखरीया : ननु प्रतियोगितासामान्ये साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविशिष्टस्य साध्यतावच्छेदक धर्मावच्छिन्नात्वस्याभावः कथं नोक्तः ? इति चेत् प्रमेयवान् वाच्यत्वादित्यत्राव्याप्तिप्रसङ्गभयेन नोक्तः इति ज्ञातव्यम् । तथाहि एकस्यामेव प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं साध्यतावच्छेदकधर्मावच्छिन्नत्वं यदा प्रसिद्धं भवति, तदैव सामानाधिकरण्यसम्बन्धेन तादृशधर्मावच्छिन्नत्वं तादृशसम्बन्धावच्छिन्नत्वविशिष्टं भवति । यदैव च तादृशं विशिष्टं प्रसिद्धं भवति, तदैव प्रतियोगितायां तदभावो वक्तुं शक्येत, न त्वन्यथा । अप्रसिद्धस्याभावो वक्तुं न शक्यते इति कृत्वा । अत्र च प्रमेयं स्वरूपसम्बन्धेन साध्यं । प्रमेयत्वञ्च साध्यतावच्छेदकधर्मः, तथा च लक्षणघटकप्रतियोगितासामान्ये स्वरूपावच्छिन्नत्वविशिष्टप्रमेयत्वावच्छिन्नत्वस्याभावो यदि मीलति, तदा लक्षणसमन्वयो भवेत् । तदर्थञ्च स्वरूपेण प्रमेयस्याभावो कुत्रापि ग्राह्य एव । यदि तादृशोऽभावो प्रसिद्ध्येत्, तदा तत्प्रतियोगितायां स्वरूपावच्छिन्नत्वविशिष्टं प्रमेयत्वावच्छिन्नत्वं प्रसिद्धं भवेत् । तत्प्रसिध्धौ च लक्षणघटकप्रतियोगितासामान्ये तदभावो ग्रहीतुं शक्येत । किन्तु सर्वेषु पदार्थेषु स्वरूपेण पदार्थत्वमेयत्वादयः प्रमेयाः वर्तन्ते एव । अतः कुत्रापि स्वरूपसम्बन्धेन प्रमेयाभावो न प्रसिद्ध्यति । तदप्रसिद्धौ च कस्यामपि प्रतियोगितायां स्वरूपविच्छिन्नत्वविशिष्टं प्रमेयत्वावच्छिन्नत्वं न प्रसिद्ध्यति । तदप्रसिद्धौ च लक्षणघटकप्रतियोगितासामान्येऽपि तदभावो न ग्रहीतुं शक्येत । तथा च दुर्वारा भवेदव्याप्तिः । अतो विशिष्टाभावं परित्यज्य उभयाभावः उक्तः । तथा च जातौ समवायेन प्रमेयवस्तु नास्ति । अतः तत्र समवायेन प्रमेयाभावः प्रसिद्धः, ततश्च तत्प्रतियोगितायां प्रमेयात्वावच्छिन्नत्वं प्रसिद्धम् । एवं घटे स्वरूपेण गगनत्वाभावोऽस्ति, अतः ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm साल સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૪

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214