Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 239
________________ जगदीशी - सिद्धान्त-लक्षणम् । *अथ 'प्रतियोगिव्यधिकरणहेतुमन्निष्टाभावभिन्नाभावप्रतियोगिसाध्य सामानाधिकरण्यमेव व्याप्तिरित्यस्यैव सम्यक्त्वे - 'साध्यतावच्छेदके' स्यादिविशेषणं विफलम् [ पृ०६ जा० ] । न च हेतुसमानाधिकरणाभावभिन्न कालिकसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावमादाय 'धूमवान् वह्ने' रित्यादावतिव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकसम्ब न्धेन प्रतियोगिवैयधिकरण्यस्य विवक्षणेनैव तद्दोषवारणात् । न च 'प्रमेयवान् वाच्यत्वा' दित्यादावव्याप्तिरिति वाच्यम् । तादृशाभावभिन्नसंयोगसम्बन्धावच्छिन्नप्रमेयाभावमादायैवाव्याप्तिविरहादिति चेत्, - - उच्यते, – 'महान सीयवह्निमान् धूमादित्यादावतिव्याप्तिस्ता दृशोऽभावभिन्नो यः संयोगसम्बन्धावच्छिन्नवह्नयभावस्तत्प्रतियोगित्वस्य साध्ये सत्त्वादिति । न च तादृशाभावप्रतियोगितावच्छेदकतापर्याप्त्यधिकरणत्वस्य 'साध्यतावच्छेदके" विवक्षणेनैतदोषवारणमिति वाच्यम् । तस्य लक्षणान्तरत्वादिति ध्येयम् । २४४ यद्यपि कालिकादिसम्बन्धेन साध्याभावमादाय व्यभिचारिमात्रे दोषवारणाय ‘प्रतियोगिवैयधिकरण्यं' साध्यतावच्छेदकसम्बन्धेनैव वाच्यम्, तथा च विषयितासम्बन्धेन धूमत्वविशिष्टाभावप्रतियोगितावच्छेदकावच्छिन्नस्य ज्ञानस्य साध्यतावच्छेद की भूत संयोगसम्बन्धेनाधिकरणाप्रसिच्या तादृशाभावे प्रतियोगिवैयधिकरण्याभावेन, प्रतियोगिव्यधिकरणाभावभिन्नत्वस्याक्षततया तादृशाभावप्रतियोगितावच्छेCarat धूमत्वादौ सत्त्वेन, 'धूमवान् वह्ने' रित्यादावतिव्याप्तिः, तथापि साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकत्वस्य विवक्षणीयत्वान्न कोऽपि दोषः । न च तथापि जातिमदभावस्य हेतुसमानाधिकरणाभावभिन्नतया तत्प्रतियोगितावच्छेदकत्वस्य धूमत्वे सत्त्वेनातिव्याप्तिरिति वाच्यम् । तादृशप्रतियोगितावच्छेदकतायां निरवच्छिनत्वस्यापि निवेशनीयत्वादिति चेन्न । तदात्मत्वप्रतियोगिकसमवायेनात्मत्व साध्यकज्ञानहेतुकव्यभिचारिण्यतिव्याप्तिः, तथा हि- तादृशसमवायसम्बन्धेनात्मत्वाभावे प्रतियोगिवैयधिकरण्यस्य सत्त्वेऽपि व्यभिचारितया व्याप्यवृत्तिसाध्यकस्थलीय लक्षणस्याप्यलक्ष्यत्वेन तत्र प्रतियोगिवैयधिकरण्याप्रवेशेन तदभावस्य हेतुसामनाधिकरण्याभावात् हेतुसमानाधिकरणाभावभिन्नाभावतया तत्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेद के सत्त्वाद्व्यभिचारिण उभयलक्षणस्यैवालक्ष्यत्वाल्लाघवा सम्भवाच्चेति । यदि च 'व्याप्यवृत्त्यव्याप्यवृत्तिसाध्यकस्थलमात्र एव साध्यतावच्छेदकसम्ब-न्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वीय स्वरूपसम्बन्धेन यदभावप्रतियोग्यधिकरणत्वाभाववत्त्वं हेतुमतस्तदभावभिन्नाभावप्रतियोगितावच्छेदकत्वं'' 'साध्य' तावच्छेदके' विवक्षणीयं, तथा च न कोऽपि दोष इति सूक्ष्ममीक्ष्यते, तदा सुधीभिरेवात्र दोषोऽनुसन्धेय इति ध्येयम् ।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286