Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 419
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૩૯૬ पुनरिति। समाधत्ते-लिङ्गमिति। हेत्वादिकमपि लिङ्गत्वेन प्रसिद्धमिति पृच्छति-किं पुनस्तदिति। अयमभिप्राय:-न तावद् गोत्वादिवत संस्थान(विशेष)व्यङ्ग्यत्वं स्त्रीत्वादिलिङ्गस्य सामान्य-विशेषरूपताप्रसङ्गात् (जातिविशेषरूपत्वं स्यात्), ततश्च खट्वाशिशपा-दार-पुरुष-नभो-मनःप्रकृ(भृ)तिष्वलिङ्गतैव स्याद् भिन्नसंस्थानत्वात्। न च सकृदाख्यातं स्त्रीत्वादिलिङ्गंगोत्वादिवत् सर्वेषु स्त्री-पुं-नपुंसकेषु व्यक्त्यन्तरेषु ग्रहीतुं शक्यते। अथ स्तन-केशवत्त्वं रोमशत्वमुभयोलिङ्गवत्त्वेन सदृशत्वं च स्त्रीत्वं पुंस्त्वं नपुंसकत्वं च लिङ्गमिति । यदाहुः "स्तन-केशवती स्त्री स्याद् रोमशः पुरुषः स्मृतः। उभयोरन्तरं यञ्च तदभावे नपुंसकम्" ।।१८ ।। इति। एतदपि न संगच्छते, अतिव्याप्त्यव्याप्तिदोषदुष्टत्वात्। तथाहि-स्त्रीवेषधारिणि भ्रूकुंसे स्तन-केशवत्त्वात् स्त्रीत्वप्रसङ्गः (भ्रूकुंसः स्त्रीवेषधारी नटस्तस्य स्तनकेशसम्बन्धात् स्त्रीत्वे सत्याप् स्यात्), केशवपने च स्त्रियाः स्त्रीत्वं न स्यात्, तदानीं केशैः संबन्धाभावात्, कुमार्याश्च स्तनादिसंबन्धस्योत्तरकालभावित्वादतिशयेऽपि मतौ विज्ञायमाने स्त्रीत्वं न स्यात्। नापितगृहाभिधायकस्याभेदोपचारेण मनुष्याभिधायिनः खरकुटीशब्दस्य 'खरकुटीः पश्य' इत्यत्र तदर्थस्य लोमशत्वेन पुंस्त्वात् “शसोऽता०" (१.४. ४९) इति नत्वप्रसङ्गः। खट्वा-वृक्षयोः स्त्रीत्व-पुंस्त्वयोरभावात् सत्त्ववाचितया लिङ्गवत्त्वेन स्त्री-पुंससदृशत्वाल्लिङ्गसंख्यारहितस्यासत्त्वभूतस्याव्ययाख्यातार्थस्याभावान्नपुंसकत्वप्रसङ्गः। न च सूक्ष्मत्वात् खट्वादौ स्तनकेशादेर्दुर्बलेन्द्रियैरनुपलम्भ इति वाच्यम्, इन्द्रियदौर्बल्यमप्यनुपलब्धिकारणं प्रमाणान्तरावसितवस्तुविषयमेवाभिधातुं शक्यम्, न चात्र किञ्चिदपि तत्सद्भावे प्रमाणमस्ति। अथ आदित्यगतिवत् सदपि नोपलभ्यते इति चेद्, नैवम्-तत्रादित्यगतेरनुपलभ्यमानत्वेऽपि देशान्तरप्राप्तिलक्षणेन कार्येणानुमीयमानत्वात् सत्त्वमुपपद्यते। एवं तर्हि खट्वादौ आबादेलिङ्गकार्यस्य दर्शनात् तदनुमानमस्तु। अत्राभिधीयते-आदित्यगत्यनुमाने देशान्तरप्राप्तिः प्रामाणिकी सती लिङ्गं भवति, इह तु तल्लिङ्गस्वरूपविविक्तखट्वादिवस्तुविषयेण प्रत्यक्षेण लिङ्गाभावनिश्चयकरणे (०कारिणा) विरुध्यते, इतरेतराश्रयत्वं च-सति आबादौ लिङ्गावगमः, सति च लिङ्गे आबादय इति । तथा 'तटः, तटी, तटम्' इति कार्यदर्शनात् सर्वलिङ्गप्रसङ्गः, न चैकस्मिन् द्रव्ये सर्वलिङ्गत्वं युक्तं विरोधात्, स्त्री-पुंससद्भावे च नपुंसकत्वं न स्यात्, 'तदभावे नपुंसकम्' इति वचनात्, तस्माद् वैयाकरणैः स्वसिद्धान्तः कश्चिदाश्रयितव्य इति। पुनः समाधत्ते-अयमियमिदमिति-लोकस्तावच्छिष्टप्रयोगानुसारी क्वचिदयमिति प्रयुङ्क्ते-अयं घट इति, न तत्रेयमिदमिति वा, क्वचिदियमिति प्रयुङ्क्ते-इयं कुटीति, न तत्रायमिदमिति वा, तथा (क्वचिद्) इदं कुड्यमिति प्रयुङ्क्ते, न तत्रायमियमिति वा। तत्र यत उत्पाद-प्रलय-स्थितिलक्षणात् स्वभावादयमियमिदमितिशब्दो व्यवतिष्ठते स तच्छब्दव्यवस्थाहेतुः स्वभावो लिङ्गम्। अयमभिप्राय:-प्रतिलक्ष(तिक्षणं उत्पाद-प्रलयस्थितिधर्माणः सर्वे भावाः पूर्वस्वभावातिवृत्त्या स्वयमेवोत्तरीभवन्तः कुम्भादयो दृश्यन्ते, नहि कश्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्द्धते च यावदनेन वर्द्धितव्यम्, अपायेन वा युज्यते। तत्रोत्पादः पुंस्त्वम्, प्रलयः स्त्रीत्वम्, स्थितिर्नपुंसकत्वमुच्यते। तथाहि-रूपादीनां पर्यायाणां सवनं प्रसवः पुमान्, अपचयः स्त्यानं स्त्री, साम्यावस्था स्थितिर्नपुंसकम्। एताश्चावस्थाः शब्दगोचरा एवेति। तत्र कश्चिच्छब्दः केनचिदेकेन द्वाभ्यां त्रिभिर्वा धर्मविशिष्टमर्थं नियम-विकल्पाभ्यामाचष्टे, तत्र शिष्टप्रसिद्धिः प्रमाणम्। लोके च सूतेऽपत्यमिति पुमान्, स्त्यायति गर्भोऽस्यामिति स्त्री, इति कर्प्रधिकरणसाधनावेतो, इह तु भावसाधनौ। सर्वाश्च मूर्तयः संस्त्यान-प्रसवगुणाः, रूपादिसंघातरूपं च घटादि वस्तु, नह्येकान्तेन व्यतिरिक्तमवयवि द्रव्यमस्ति। यद्यपि अनार(ब्ध)कार्याणां तेषां पूर्वावस्थायामप्रत्यक्षत्वाच्छब्दव्यवहारागोचरत्वम्, यदाह-"गुणानां परमं रूपं न दृष्टिपथमृच्छति;" तथाऽपि तत्परिणामरूपा लोकप्रसिद्धा रुपादयो गृह्यन्ते, संपिण्डितस्वभावाः चक्षुर्गोचरा मूर्तिशब्देनोच्यन्ते। सर्वपदार्थव्यापित्वं पुंस्त्वादीनां उत्पादादिप्रवृत्तेनित्यत्वात्; सामान्यमपि गोत्वादिकं व्यक्तेरव्यतिरिक्तत्वात् प्रवृत्तिधर्मः, शशविषाणादावप्युत्तरपदार्थद्वारको लिङ्गयोग इति पदार्थव्यापिनीत्वं प्रवृत्तेः, स्त्रीत्वं स्त्रीता पुंस्त्वमित्यादौ संस्त्यानादेरपि प्रवृत्तिलक्षणलिङ्गयोगः । न चाव्यवस्थाप्रसङ्गः, विवक्षातो व्यवस्थासिद्धेः, लोकव्यवहारानुयायिनी च विवक्षाऽऽश्रीयते न तु प्रायोक्त्री। तदुक्तं हरिणा

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484