Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 451
________________ ૪૨૮ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું इत्यादिसंज्ञावतां व्यक्तिविशेषकृतसङ्कतमुखस्पृशा (कृत्रिमाणा) मेव ग्रहणं भवति, न गवां पालकस्य कटे वा जातस्य पुंसः * कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणम् इति न्यायात्, तथा सङ्ख्याप्रदेशेष्वपि कृत्रिमत्वाद् इतिप्रत्ययान्तादय एव गृह्येरन्, न तु लोकप्रसिद्धेकादिका सङ्ख्येति संज्ञासूत्रत्वेऽकामेनापि संज्ञिकोटौ सङ्ख्याग्रहणं कर्तव्यमेवेति वाच्यम्, लोके हि कृत्रिमग्रहणे न कृत्रिमत्वं कारणम्, किन्तु अर्थाद्वा प्रकरणाद्वा कृत्रिमं गृह्यते । अर्थ :- सामर्थ्यम्, यथा- 'गोपालकमानय माणवकमध्यापयिष्यति' इत्यत्र गोपरिचाररतस्य यष्टिहस्तस्य नाध्यापनसामर्थ्यमिति तत्सामर्थ्यशाली गोपालकेतिकृतसङ्केतको व्यक्तिविशेषः कतमश्चिद् विपश्चिदानीयते, न यष्टिहस्तः । प्रकरणम् - प्रस्तावस्तत्तत्क्रियाविशेषरूपः, यथा - भोजनप्रकरणे 'सैन्धवमानय' इत्युक्तौ लवणम्, मनप्रकरणे तदुक्तौ तुरगं प्रतीतिरवगाहते । नानार्थकशब्दस्थले सर्वत्र तत्तद्धर्मावच्छिन्नविषयतया यावतां स्वशक्यानामुपस्थितौ किंविषयक : शाब्दबोधः स्यादिति संशयेनाकुलीभवतः संयोग-विप्रयोग-साहचर्य-विरोधा-ऽर्थ-प्रकरण-लिङ्गाऽन्यशब्दसन्निधान- देश - कालाद्यन्यतमत् स्वज्ञानसाहाय्येन तत्र तत्रोपयुज्यमानार्थमेव शाब्दबोधे भासयते । यद्यपि रूढेयोगापहारकत्वमित्यप्यत्र सम्भवति, तथापि प्रकरणादिसहकृतस्य योगस्यापि बलीयस्त्वमित्यभिप्रेत्येदमवगन्तव्यम् । यत्र तु पदार्थनियामकार्थ-प्रकरणादिविरहस्तत्र संशेते वा अकृत्रिम निश्चिनुते वा, यथा- ऊहकरणेऽपटुम् (ग्राम्यम्) अचिरागतत्वेनाऽप्रकरणज्ञं कञ्चिद् ब्रवीतु भवान् 'गोपालकमानय' इति, सोऽत्र संशयवान् भवेत्-संज्ञेयं कस्यचिन्निर्दिष्टा स्याद् ? यष्टिहस्तो गोपरिचरणरतो वाऽस्य विवक्षितः ? इति । इत्थं वक्तृतात्पर्यविषयसंशयाभावेऽपि तत्तात्पर्यविशेषविषयकनिश्चयवान् वा भवेत् - यो मम प्रसिद्धो यष्टिहस्तः सोऽनेन चोदितः, एवंसंज्ञकस्तु नास्ति मे प्रसिद्ध इति, सम्भावयामः- स गच्छेदपि यष्टिहस्तमानेतुम् । रूढेर्योगापहारकत्वेन संशयपक्ष उक्तो न युक्त इति तु न शङ्कयम्, तत्तत्पुरुषं प्रति प्रसिद्धरूढ्यर्थस्यैव योगापहारकारित्वात्। संज्ञाप्रकरणस्य नियमार्थत्वाद् योगार्थमादाय निश्चयपक्षोऽप्युक्तो न युक्तो भ्रमत्वादित्यपि न शङ्कनीयम्, लोके हि गोपालकादिशब्दः संज्ञिनि नियम्यमानः संज्ञान्तरं मा बूबुधत्, क्रियानिमित्तं प्राप्तमर्थं तु न कथं बोधयेद् नियमस्य सजातीयविषयत्वात्, तथा च कृत्रिमत्वं न भवति कारणं कृत्रिमग्रहण इति संज्ञिकोटौ सङ्ख्याग्रहणं नोपादेयतामर्हति ऊत्तरेणापि संज्ञाकरणमेकादिका सङ्ख्याप्रदेशेषु ग्रहीष्यत इति । अथ मा स्म भवत् कृत्रिमत्वं कृत्रिमग्रहणे कारणम्, अर्थो वा प्रकरणं वा लोकेऽर्थविशेषनिवृत्तिमुखेनार्थविशेषप्रतिपत्तिकारि तु सादरमभ्युपेयते भवताऽपि; अङ्ग हि शास्त्रेऽपि सति प्रकरणेऽर्थविशेषः प्रतिपद्यताम्, डत्यन्तादीनां सङ्ख्यासंज्ञा कृतेति बुद्धिसन्निधिरूपं प्रकरणं प्रकृतेऽपि जागर्ति । अयं भावः - यस्मिन् शब्देऽनेकशक्तिस्तत्र कीदृशशक्तिज्ञानाधीनबोधनेच्छया वक्त्रोच्चारितमिति श्रोतुर्निश्चयाभावः, शाब्दबोधे च समानविषयकतात्पर्यनिश्चयस्य कारणत्वात् तन्निश्चयाभावे शाब्दबोधानुपपत्तौ प्राप्तायां प्रकरणादिना तात्पर्यनिर्णयः, तन्निर्णये च शाब्दबोध उपपद्यते। एवं च सङ्ख्यादिपदे एकत्वादिनिरूपिता लौकिकी शक्तिः, इतिप्रत्ययान्तादिनिरूपिता च शास्त्रीया शक्तिरस्तीति कीदृशार्थबोधनेच्छया " सङ्ख्या-डतेश्चाशत्०" (६.४.१३०) इत्यादावाचार्येणोच्चारितमिति जिज्ञासायां स्वयमेव शास्त्रकारेण इतिप्रत्ययान्तादिनिरूपितशक्तिं बोधयित्वा कथमन्यार्थबोधनेच्छयोच्चारितं स्यादिति ज्ञानरूपप्रकरणेन इतिप्रत्ययान्तादावेव तात्पर्यनिर्णयेन प्रदेशेषु सङ्ख्यात्वेन डत्यन्तादिविषयकबोधस्यैव सम्भवेन लौकिकैकादिसङ्ख्याया अप्रतिपत्तिः । एतत्फलितोऽयं न्याय: कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः इति । I केचित् तु-मच्छास्त्रेऽनेन शब्देनैत एव बोद्धव्या इति रीत्या संज्ञासूत्राणां नियमार्थत्वं कृत्रिमाकृत्रिमन्यायबीजम्, तथाहिसर्वस्माच्छब्दात् केषाञ्चिच्छक्तिभ्रमेण केषाञ्चिल्लक्षणया सर्वार्थविषयकबोधोत्पत्त्या सर्वार्थबोधकत्वं सर्वेषां शब्दानामिति सिद्धम् । वैयाकरण-मते च बोधकतैव शक्तिरिति सर्वार्थनिरूपितशक्तिमत्त्वं सर्वेषां शब्दानां सिद्धमेव । न चैवं शक्तिभ्रमाद् बोधो लक्षणया बोध इत्यादि-व्यवहारानुपपत्तिः, तव मते सर्वत्र शक्तेः सम्भवादिति वाच्यम्, परमताभिप्रायेण तद्व्यवहारस्य सत्त्वात् । अत एव ‘सर्वे सर्वार्थवाचकाः' इत्यभियुक्तानां व्यवहारः । एवं च वृद्धिसंज्ञादिपदेषु आरादि- इतिप्रत्ययान्तादिनिरूपितशक्तेरपि सत्त्वेन तत्तत्पदेन तत्तदर्थप्रतीतेर्लो-किकशक्त्यैव सिद्धौ “वृद्धिरारैदौत्” (३.३.१) इत्यादिसंज्ञासूत्राणां वैयर्थ्येन मच्छास्त्रे वृद्ध्यादिपदेन आरादीनामेव बोध इति नियमात् *कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः इति लभ्यत इति वदन्ति ।

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484