Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। ५३ यतियेन स तथा भावार्थस्त्वयम् आपीडछंदसि सर्व लक्षणं पदचतुरूभिधमुक्तं किंतु पदे पदे प्रति गुरुद्वयं कार्यम् ॥२॥ प्रथममितरचरणसमुत्थं श्रयति जगति लक्ष्म इतरदितरजनितमपि यदि चतुर्थ चरणयुगलकमधिकृतमपरमिति कलिका सा ॥३॥ प्रथमामात । तुर्य चतुर्थोशःपाद इत्यर्थः । यदि प्रथमं तुर्य प्रथमपादः अष्टाक्षररूपः इतरचरणसमुत्थं द्वितीयचरणभवं द्वादशाक्षररूपं लक्ष्म लक्षणं श्रयति । इतरत्तुर्य द्वितीयपादो द्वादशाक्षररूप: इतरजनितमाप प्रथमपादजनितमष्टाक्षररूपं श्रयति । अपरं चरणयुगलं तृतीयचतुर्थमाधिकारापन्नं पूर्वोक्तं क्रमेण षोडशविंशत्यक्षरं लक्ष्म चिह्न श्रयति इत्यनेन प्रकारेण जगति लोके तदा सा कलिकानाम छंदः ॥ ३॥ द्विगुरुयुतसकलचरणांता मुखचरणरचितमनुभवति तृतीयः। चरण इह हि लक्ष्म प्रकृतमपरमखिलमपि भजति लवल्या ॥४॥ सा लवल्यानाम छंदो भवति । किंभूता । द्वाभ्यां गुरुभ्यां युतं युक्तं सकलचरणानामंतमवसानं यस्याः तथा इहास्यां लवल्यायां हि निश्चितं तृतीयः चरणो मुखचरणरचितं प्रथमपादोद्भवं लक्ष्म अनुभपति आश्रयते।प्रकृतं प्रस्तुतमपरमन्यदखिलं चरणत्रयं भजति॥४॥ प्रथममधिवसति यदि तुर्य चरमचरणपदमवसितगुरुयुग्मा । निखिलमपरमुपरितनसममिह ललितपादत्रितयममृतधारा॥५॥ प्रथममधीत । प्रथमं तुर्य प्रथमपादोष्टाक्षररूपोयादि चरमचरण For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71