Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः । प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ॥ संख्या चैवाध्वयोगश्च षडेतेप्रत्ययाः स्मृताः ॥१॥ प्रथमं द्वारश्लोकमाह। प्रस्तार इत्यादि। द्वाराणि अमूनि प्रस्तारः १ नष्टम् २ उद्दिष्टम् ३ एकद्वयादिलगक्रिया ४ संख्या ५ अध्वयोगः ६ एते षट् प्रत्ययाः स्मृताः ॥ १ ॥ पादे सर्वगुरावाद्यालघु न्यस्य गुरोरधः ॥ यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥२॥ प्रस्तारमाह । पादे सर्वेति । सर्वगुरौ पादे आयाद्गुरोरधो लघु न्यस्य यथा उपरि तथा शेषं समस्तमुर्वरितं भूयोभूयः पुनःपुनरप्यमुं विधिं कुर्यात् ॥ २॥
उने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ॥ प्रस्तारोयं समाख्यातश्छंदोविचितिवेदिभिः ॥ ३ ॥
इति प्रस्तारः। ऊन इति । उने पश्चादूने गुरुण्येव दद्यात् तापद्यावत्सर्वलघुर्भवेत् प्रस्तार्यत इति प्रस्तारः वर्णानां विस्तारो न्यासः समाख्यातः कथितः । कैः छंदांसि विचीयतेऽस्यामिति छंदोविचितिस्तां विदंतीति छंदोविचितिवेदिनस्तैः पंडितैः ॥
SS
SSS
अथ प्रस्तारस्य स्थापनाप्रकारः।
For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71