Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 162
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org • सर्गः ] स्वोपद्मदुर्गपव्याक्यालङ्कृतम् । पश्यन्तं स्वर्णवर्णा तां, चलन्तीं लीलया पुरः । प्रिया प्रेमघरं चक्रे, श्रीधरं नयनद्वयी ।। ४८९ ॥ तदादिष्टैस्ततो भृत्यैश्विरं पृष्ठानुगैरपि । सा स्वं न धारयामास, चलचङ्क्रमनर्मणा ॥ ४९० ॥ तस्मिन्नथ समुत्थायानुगच्छति शनैरियम् । स्वयं कान्तसुखस्पर्शलालसा तत्करेऽचटत् ॥ ४९१ ॥ सतां कृत्वा कराम्भोजभूषणं त्यक्तदूषणम् । भेजे विष्टरमित्येषा, प्रोचे स्पष्टगिराऽचलम् ।। ४९२ ॥ चञ्चद्राजकलारम्यविभूतिभरभूषितः । विभ्राजिष्णुमहासेनगौरीवर ! चिरं जय || ४९३ ॥ Acharya Shri Kailassagarsuri Gyanmandir | १४३ दु० व्या० - राजपक्षे चन्द्रः, महासेनपक्षे कार्तिकेयः ॥ ४९३ ॥ अहो ! वैदग्ध्यभङ्गीति, पक्षिणामपि वीक्ष्यते । अस्तु वेयं कथं त्वेषा, वेद मे दयिताऽभिधम् ॥ ४९४ ।। विस्मितेन हृदा ध्यायन्नदस्तां श्रीधरोऽवदत् । पक्षिणीत्वेऽपि दक्षत्वविशेषं लभसे कथम् ? ।। ४९५ ॥ नाविश्चिकीर्षुरात्मानं, तदा सा भङ्गितो जगौ । भारत्या यानहंसस्य दयिता तेन वेद्म्यहम् ।। ४९६ ।। दु० व्या०- वेद जानाति । अहं भारत्या यानहंसस्य दयिता, तेन हेतुना वे, पक्षे भारत्या वाण्या, याऽहं हंसस्य दयिता न, किन्तु ते-तव दयिता | काकूक्त्या अहं न वेद्मि किन्तु वेद्मि ।। ४९६ ॥ For Private And Personal Use Only श्रीधरोऽचिन्तयद् युक्तं, तत् कौशलमिहाखिलम् | या शृणोति सरस्वत्या, नित्यं प्रायः सरस्वतीम् ॥ ४९७ ॥ अथास्मिन् प्रश्ननिष्णाते, भवत्यूचे मरालिका । संपनीपद्यते विसे, स्वस्थ एवानवद्यधीः ॥ ४९८ ॥

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199