Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवारिस्मारकमन्यमाला-प्रन्याङ्क:-४८
श्रीश्रीधरचरित-महाकाव्यम्
का
SEED
आचार्यश्रीमाणिक्यसुन्दरबरि
संपादक निज्ञानविजयः
PESHASE
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
=CIC
श्रीवारित्र स्मारकग्रन्थमाला-ग्रन्थाङ्कः-४०
श्री श्रीधरचरित - महाकाव्यम्
सत्यार्थी भी सल
कर्त्ता
Acharya Shri Kailassagarsuri Gyanmandir
आयु
आचार्यश्री माणिक्यसुन्दरसूरिः
संपादकः मुनिज्ञानविजयः
_X][X
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विक्रम संवत् २००७ इषु संवत् १९५१
प्रकाशक:-प्राप्तिस्थामम् श्री चंदुलाल लखुभाई परीक्ष नागजी भूधर पोळ, मांडवी पोळ, अहमदाबाद
प्रतयः ५००
Acharya Shri Kailassagarsuri Gyanmandir
वीर संवत् २४७८ चारित्रकमल संवत् ३
मूल्यम् रु. ४-८-०
मुद्रकः गोविन्दलाल मोहनलाल जानी श्री विना प्रिन्टरी रतनपोळ, अमदावाद
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रास्ताविकम् । प्रन्थक-गुरुवंशा
अश्चलगच्छपट्टावल्यां वर्णनमस्ति यद्-अञ्चलगच्छेशाचार्यमहेन्द्रप्रभसूरिणा स्वपट्टे त्रय आचार्या प्रतिष्ठापितास्ते इमे
१. प्रथमो मुनिशेखरसूरिः-यतः शेखरशाखा प्रादुर्भूता, अतःपरं. तत्परिचयः क्वापि न दरीदृश्यते ।
२. द्वितीयो मेरुतुङ्गसूरिः-तस्य च वि. सं. १४०३ वर्षे नाणाग्रामे जन्म, सं. १४१८ वर्षे दीक्षा, सं. १४२६ वर्षे सूरिपदं, सं. १४७३ वर्षे जीर्णदुर्गे स्वाप्तिश्च । तेन बालबोधव्याकरण-भावकर्मप्रक्रिया शतकभाष्य-जैनीयमेघदूतकाव्य-नमुथुणस्तुतिटीका-सुश्राद्धकथा--उपदेशमालावृत्ति-पट्टावलीप्रमुखा ग्रन्था निर्मिताः, तत्पट्टे च जयकीर्तिसूरिर्जातः तन्महा. प्रभावकोपाध्यायभुवनतुङ्गसूरितः तुङ्गशाखा निर्गता ।
३. तृतीयो जयशेखरसूरि:-महाकविः, यः शारदालब्धप्रसाद आसीत् । तेन दमयन्तीचम्पू- जैनकुमारसम्भवादिमहाकाव्यपञ्चकटीका- सटीकोपदेशचिन्तामणि-कल्पसूत्रसुखावबोधविवरण-प्रबोधचिन्तामणि-धम्मिलचरितन्यायमञ्जरीप्रमुखा निर्मिता ग्रन्था उपलभ्यन्ते ।
मेरुतुङ्गसूरिशिष्यमाणिक्यसुन्दरसूरिणा ह्येतत् श्रीधरचरितमहाकाव्यं संदृब्धम् । ग्रन्थकर्व-परिचय:
माणिक्यसुन्दरसूरिणा स्वगच्छ-गुरु-वियागुरु-सत्तासमय-प्रन्थरचन!-- निर्देशः स्वयमेवकृतोऽस्ति, स चैवम्सेवन्तेऽमृतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो,
भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । स श्रीअचलगच्छवासरमणिः सूरीन्द्रचूडामणि- ...
भूमीहारनिमश्चिरं विजयतां श्रीमेरुतुको गुरुः ॥११॥
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां गुरूणां वात्सल्यभरकेसरिकन्दरः।
शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥१२॥ स्वोपज्ञव्याख्या-तेषां श्रीमेरुतुङ्गसूरीणां दीक्षागुरुत्वात् शिष्योऽस्मि । श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ १४ ॥ व्याख्या-येषां विद्यागुरूणाम् ।
(-इति श्रीधरचरितमहाकाव्ये प्रथमसर्गे) श्रोमेरुतुङ्गसुगुरुप्रणिधानतः श्री
माणिक्यसुन्दर इमां शुकराजसत्काम् । नव्या कथां रचयति स्म सुविस्मयां श्रीशत्रुञ्जयाख्यगिरिगौरवगौरवर्णाम् ॥१॥
(-इति श्रीशुकराजकथायां प्रान्ते ) श्रीअञ्चलगच्छेशाः, श्रीमन्तो मेरुतुङ्गसूरीशाः । विजयन्तां यद्वाण्या, जिता सिता संयुता पयसा ॥४॥ गुरुप्रसादान्माणिक्यसुन्दरमरिरल्पधीः । पूजाधिकारे वक्ष्यामि, गुणवर्मकथामहम् ॥ ८॥
(-इति गुणवर्मचरित्रे, प्रारम्भे ) आसां कथा व्यरचयच्च गुरूपदेशात् । माणिक्यसुन्दरगुरुर्जगतां हिताय ॥ २॥ चतुरशीत्यधिकेषु समाचतुर्दशसु तेषु गतेषु च विक्रमात् ॥३॥ श्रीवर्द्धमानजिनभवनभूषिते रचित एष सत्यपुरे । ग्रन्थः श्रीमदुपाध्यायधर्मनन्दनविशिष्टसानिध्यात् ॥४॥ माणिक्याश्चतुष्पर्वी, शुकराजकथा तथा । पृथ्वीचन्द्रचरित्रं च, ग्रन्था एतेऽस्य बान्धम् ॥५॥
(-इति गुणवर्मचरित्रे, प्रान्ते)
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
3
एतत्पाठः स्पष्टं निश्चीयते यत्, माणिक्यसुन्दरसूरेः गच्छ आञ्चलिकः, गुरुमेरुतुङ्गसूरिः, विद्यागुरुर्जयशेखरसूरिः, शिष्याः उपाध्यायधर्मनन्दनप्रमुखाः । सत्तासमयो वैक्रमीयपञ्चदशशताब्धन्त्य चरणम् ग्रन्था माणिक्याङ्कापरनाम श्रीधर चरित-चतुष्प-शुकराजकथा- पृथ्वीचन्द्र चरित्र - गुणवर्मचरित्र-धर्मदत्तकथाअजापुत्रकथा - आवश्यकटीकाप्रमुखाः सन्ति, अयं सूरिः सर्वशास्त्रविशारद इति तत्तद्ग्रन्थसंदर्भेणैव स्पष्टं प्रतिभासते ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधरचरितमहाकाव्य कथा परिचयः ।
प्रस्तावना वर्णनात्मके प्रथम सर्ग - प्रथमं कविना मङ्गलाचरणरूपेण युगादिप्रभु - शान्तिनाथ - नेमिनाथ- पार्श्वनाथ - महावीरस्वामि- सर्वजिन-सरस्वती - गौतमस्वामि- सुधर्मस्वामिनां स्तुत्यात्मकानि पद्यानि निर्दिष्टानि । तत्रात्मपरिचयं प्रकटयतः कवेर्गुरुपरम्परा यामादौ श्रीसुधर्मस्वामिनश्चन्द्रकुले आर्यरक्षितसूरयस्तेषां पड़े मेरुतुङ्गसूरयस्तेषां शिष्यः माणिक्यसूरिः, येन निबद्धोऽयं ग्रन्थ इति दर्शितम् । कविः स्वयं स्वविद्यागुरुं श्रीजयशेखरसूरिं प्रणमन् तस्योपकारं स्मारयति यत्, तस्यैव विद्यागुरोः प्रसादाद् ग्रन्थोऽयं रचितो मयेति ।
इत्यादि प्रकारेण कविङ्गलाचरणं कृत्वातिप्रसिद्धछन्दोलक्षणेन पाण्डित्यसाधनेन चानन्दसाधिका रचना क्रियते मयेति कथयति । दुग्धे शर्करासंयोग इव काव्यरचनायां छन्दोलक्षणप्रथनमिति प्रदर्शयन् कविः साहित्यप्रासादस्य पीठिकेव छन्दोलक्षणस्य गणव्यवस्थादि दर्शयति । वर्णवृत्त उक्तेत्यादिछन्दसां नामानि सूचयति । सर्गस्यान्तिमश्लोकेऽस्य काव्यस्य कथासूचनं कृतमस्ति । तचेत्थम् - प्रथम जन्मनि श्रीधरनाम्नो भूपतेः तृतीये च भवे विजयचन्द्रनामधेयस्य राज्ञः सरसं कथावर्णनमस्मिन् काव्ये गुम्फितम् ||
द्वितीयसर्गे -- तत्कथां विस्तारयति । जम्बूद्वीपे भारतनाम्नि क्षेत्रेऽलकापुरीसदृशं मङ्गलपुरनामकं नगरमासीत् । तत्र सर्वगुणकलासंपन्नो जयचन्द्रनामा भूपती राज्यं करोति स्म । तस्यैका निर्मलशीलसंपन्ना कलावतीनाम्नी
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राज्ञी अभूत् । एकदा राजसभायां गगनतलादवतरतः कस्यचित् सिद्धपुरुषस्यागमनं भवति ।।
तृतीयसर्गे-प्रथमं कुशलवाती पृच्छन् सः सिद्धपुरुषः स्वपरिचयं ददाति । इलापुरेऽग्निमित्रनामा कश्चिद् वेदज्ञः ब्राह्मणोऽस्ति, तस्य रोहिणोति ख्याता पत्नी, तयोर्दुश्चरितो दुनयनामा पुत्रः कदाचिदटव्यां भ्रमन् कश्चित् श्रमणं दृष्टवान् । तस्योपदेशं शण्वन् सः द्वादशत्रतधारी बभूव । अस्मिन्नेव समये मुनि वन्दितुमागतौ विद्याधरौ सूचितवानयं मुनिः-'अयं तव धर्मबान्धवः' इति । ततः विद्याधरावपि तस्मै विद्यां दत्त्वा विद्याधरं कृतवन्तौ । स एषोऽहं विद्याधरः । यदा तव जिनमन्दिरान्निर्गतं धूम्र मया दृष्टं तदैवाहं तव दुष्कृतखण्डनार्थ जैनधर्मे च तव प्रीतिं विलोक्यागतः । प्रसन्नस्य सिद्धपुरुषस्य कदाचिदपि दर्शनं विफलं न भवति, अतो वरं वृणु । राज्ञोदितम्-मम सर्वमपि संपन्नं विद्यते, दुर्लभो जैनधर्मोऽपि मयाऽऽसादितः, अतो वरेणालम् । तदैव सिद्धपुरुषः प्रत्युत्तरयति-वेम्यहं तव सर्वमस्ति परमेक एव तव कुलदीपको नास्ति, अतो गृहाणेमां गुटिकाम् । अनयाऽद्भुतं सुतं लभितासे । भूपतिना तद्गुटिका पट्टराश्य दत्ता ॥
चतुर्थसर्गे–कतिचिन्मासान्तरे राज्ञी सर्वलक्षणसंपन्नं विजयचन्द्रं सुत. मजनि । लाल्यमानः क्रमश: वर्धितः सन् क्रीडा कर्तुमारब्धवान् । एकदा मित्रैः सह वनमगच्छत् सः । तत्र मुनिमेकमपश्यत् । मुनिस्तं द्वादशवतमुपदिष्टवान् । तदवसरे मुनिमपृच्छद् विजयचन्द्रः-किमस्ति फलमहिंसायाः ? मुनिना प्रोक्तम्मोक्षफलम् । तत्फलं मम कदा भवितेत्यपृच्छत् पुनः । ज्ञानी मुनिरुवाच-त्वं भाग्यवानसि, शणु ते भवकथाम्-चम्पापुयी परमदेवनामा भूपतिरस्ति, तस्य ललिता नाम्नी सुन्दरो वर्तते, तयोः पुत्ररूपेण, तत्पश्चाद् वाराणस्यामश्वसेननृपते
मादेव्यां तव जन्म भविष्यति । तस्मिन् भवे पार्श्वनाथ इति नाम्ना तीर्थक्कररूपेण तव प्रसिद्धिर्भविष्यति । गृहवासं परित्यज्य, दीक्षितो भूत्वा, कमठं च प्रतिबोधयन् त्वं सर्वत्रावमासिकैवल्यमाप्स्यसि । विहरन् कदाचिच्चम्पायामा
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमिष्यसि । तत्रल्यो वसन्तराजनरेश्वरस्तव समीपे दीक्षा गृहिष्यति । तत्पश्चात् तव मोक्षो भविष्यति ।
इति मुनिवचनं संश्रुत्याहिंसायां दृढप्रतिज्ञोऽभूत् । ततः प्रभृति विजयचन्द्रः श्रीपार्श्वनाथप्रभोः प्रतिमा निर्माप्य तस्याः पूजाप्रकारमतनोत् ।
राजसभायामेकदा केनचित् पुरुषेणैकोऽश्व उपाहृतस्तस्मै । तं परीक्षितुमारूढः कुमारः । तस्य चतुःप्रकारां गतिमधिगन्तुं वल्गामकृषत् । परीत्येन शिक्षितस्यास्याश्वस्य यथा कृषति वल्गां तथैवायमचो द्रुततरवेगो भवति । तद्वेगेन कुमारः कस्यांश्चिदटव्यामागात् । खिन्नमानसोऽयं कुमारो यावद् वल्गां मुञ्चति तावदेवाश्वः स्थितः, तस्मादुत्तीर्य पर्याणं दूरीकृतवान् । अश्वस्तत्र प्राणमुक्तः । क्षुत्पिपासादितं तं कुमारं दशमे दिने कश्चिन्नरो दृष्ट्वाडभ्यधात्-भद्र ! पिब नीरमिति । कण्ठगतप्राणो वक्तुमसमर्थः स वारि निषीयापृच्छत्-कस्त्वम् ? पुरुषो जगौ-अतोऽदूरे एव हस्तिनापुरं नाम नगरम् । तत्र गजभ्रमो भूपतिर्वर्तते । तस्य विजयेत्याख्यया पहराज्ञी। मृगयाव्यसनी स राजाऽत्रैव वने वर्तते । तस्याहं भृत्यः । अतो मनपान्तिकमेहि । पर कुमारो नोत्तिष्ठति । गजभ्रमेण तद्विज्ञाय भृत्यैरानायि स्वान्तिकं कुमारः । वार्तालापं कुर्वाणयोस्तत्र कश्चिच्चर भागत्योचे नृपम्-गच्छन्त्यमी मृगाः। तान् हन्तं तौ निर्गतौ। परं कुमारेण ते सर्वेऽपि मृगा मुक्ताः । अतः कुपितो गजभ्रमो जगौ----किं त्वया कृतम् ! कुमारो बदति-एते निवरा मृगाः कथं वधमर्हन्ति ! अस्योत्तरेण रञ्जितो राजा ते प्राशंसत् तस्य च वृत्तमशृणोत् । तवृत्तेन गजभ्रमः कथयति-त्वं मम मित्रपुत्रोऽसि ।
ततः सर्वेऽपि हस्तिनापुरं गताः । मृगयानिवृत्तधीः राजाऽऽ.मानं ससुतं मनुते । तं च स्वाङ्गसेवायां प्रायुङ्क्त । एकदा निशीथिन्यां कस्याश्चित् स्त्रियाः करणक्रन्दनमशणोत् । केयं रोदिति-इति राजा कुमारं तद्वैतुमधिगन्तुं प्राहिणोत् । करवालकरः कुमारस्तत्र गत्वाऽग्निकुण्डसमीपे कन्यकाकबरी कृत्तवन्तं योगिनमपश्यत् । उवाच तम्ने चाण्डाल ! कस्त्वम् ? किमर्थमनार्यकार्यमिदं
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुरुषे ? योगी जगौ-यदर्थमिमा जुहोमि तत्कार्य मम त्वत्तोऽपि भविष्यति । कुमारेणोक्तम्-- मुञ्चेमां कन्याम् , निर्वतय तय कार्य ममाङ्गमांसेन । तत् कर्म विदधानयोस्तयोस्तत्र चेटकः प्रकटीभूतः वक्ति--तव कार्येणालम् , साइसात् तव तुष्टोऽस्मि, अतः समीहितं बरं वृणु । तेनोक्तम्-तब कार्यकृद्योगिनोऽस्य कार्य सफलीकुरु । चेटकः कथयति-एतत्तव प्रार्थनयाऽलम, परमहं गारुडं मन्त्रं तुभ्यं ददामि, यदा किश्चिदपि कार्य स्यात् स्मर्तव्योऽहं स्वया, अद्यप्रभृति तव दासोऽस्मीति जानीहि । तदन्तरं चेटक-कुमारी तां कन्यां नीत्या नृपान्तिकं जग्मतुः।
कस्येय कन्या-इति पृच्छति राजनि निवेदयति चेटका-तव नगरनिवासिनः दत्तनाम्नः श्रेष्ठिन! कन्येयम् । वसन्तलक्ष्मीनिरूपणार्थ सखीभिः सह वनं गतेयं कन्या योगिना धृता । व्याघ्रमुखाद् हरणीमिवानेन वीरकुमारेण रक्षिता । राज्ञा दत्तश्रेष्ठी आकारितः। वृत्तान्ते निवेदिते दत्तश्रेष्टी उपसंजहारमम कन्यायाः रत्नवल्याः पाणिग्रहणमनेन कुमारेण सह भाव्यम् । राज्ञाऽनुमतस्तस्य लग्नोत्सवोऽपि विदधे | अपरेद्य : क्रीडार्थं स कुमारः रत्नवल्या सह वनं गतः । तत्रावसरे नगरात् कयोश्चिन्नरनार्यो: करुणाक्रन्दनं तेन श्रुतम् । तवृत्तं ज्ञातुं सेवकं सः प्राहिणोत् । ततः सेवक आगत्य निवेदयति-नय. सारमन्त्रिणः दुहितुः कनकमालायाः सर्पदंशान्मृत्युरजनि, तेनेदं क्रन्दनं श्रूयते । कुमारस्तत्र वेगेनागत्य गारुडमन्त्रेण तस्याश्चेतनं पुनः प्रकीकृतम् । तेन मन्त्री प्रमुदितः कन्यामादाय गृहमगात् । कुमारोऽपि क्रोडां कृत्वा वनाद् निवतितः । अन्येयुः नयसारः राजसभामागल्य जगी--अनेन कुमारण मम दुहिता पुनरजीव्यत, तेन साऽस्य शरणं भजतु । ततः शृङ्गारेण सन्जीकृतोऽसो कुमारो हस्तिनमारुह्य विवोढुं नयसारमन्त्रिणः प्रासादमण्डपमगात् । महता महेन च तत्र लग्नोत्सवः निर्वर्तितः ।।
तत्पश्चाद गजभ्रमनृपोऽपि न्यवेदयत् कुमारम्-तब सेवयालम् , प्रीणितोऽस्मि, अतः सुखेन वासरान निर्गमय ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमसमें-~गजभ्रमराजा कुमाराय सध्यलक्ष्मी दस्खा भार्यरक्षिवाचायसमीपं दीक्षामगृङ्गात् । कुमारोऽपि प्रजा सुवेनापालयत् ।
एकदा वाराणस्या भूपते रुक्माङ्गदस्य कोऽपि दूतः सभामेत्यावोचद् विजयचन्दम् - राजन् ! मम स्वामिनो रुक्माङ्गदस्याज्ञामङ्गीकुरु, अन्यथा युद्धाय सजीभव । रणशूरोऽपौ विजय चन्द्रस्तमाजुहाव । तस्य वोरवचनं श्रुत्वा दूतो निवर्तितः । अत्रान्तरे नगरे कश्चिद् लुण्टाकः केषाञ्चिन्नागरिकानां धनमाहरत् परं न केनाप्यारक्षकेन महता प्रयत्नेनापि धृतः । अतो विजयचन्द्रः चेटकं ममार । चेट आगःय तं चौरं गृहोवा नृपान्तिकमनैषोत् । अवस्वापिनीविद्यावानसौ चौरस्तत्रागत्य नृपसपोपं सर्वं हृतं धनमदर्शयत् । पश्चादसौ चौरो संसाराद् विरण्य दोक्षां गृहोत्वाऽऽत्मकल्याणमंकृत ।
वाराणसीनृपचरा इमां कथां परिज्ञाय रुक्माङ्गदं न्यवेदयन् । तेन विजयचन्द्रस्य शक्या भीतोऽयौ रुक्माङ्गदो राजा तस्य मैत्रों कर्तुं सोपद आजगाम । अन्येऽपि राजानो वाराणसोभूममनुसृता विजय चन्द्रस्य शरणं प्राप्ताः। ___ एकदा कश्चित् पुरुषः विजयचन्द्रसभामेत्य नृपपदोपान्ते लेखमेकं मुक्त्वाऽनमत् । तस्मिन् पितुर्ना । दृष्ट्या लेखमवाचयत् -"मङ्गलपुरात् जय. चन्दनरेश्वरो हस्तिनापुर्या विजय नन्दं पुत्रं मन्नेहं सालिङ्गनं चादिशति-आनन्दं वर्ततेऽत्र, तत्राप्याशास्ये, कार्य विज्ञप्यम् । पुत्र ! तव प्रेम्णा राज्यलक्ष्मी तव दासोवासोत् परं तव वियोगाद् न सा गृहे तिष्ठति वने वा गन्तुं समर्था । तव वियोगदान दग्धा तव माता सदाक्रन्दति नाथापि शान्तिमाप्नोति ॥" एतल्लेखं दृष्ट्वा स पित्रोः समोपं गन्तुमुसुकोऽभवत् । अविच्छिन्नप्रयाणेन स कियदिनान्तरे मङ्गलपुरं प्राप्तः । कैश्चित् पुरुषैः जयचन्द्रनृपो वर्धापितः । तस्यागमनवार्तया पितरो हर्षपुलकितौ संजातौ । तयोरानन्दपारावारश्चन्द्रदर्श नमिवोल्लसत् । महता महेन तस्यागमनोत्सवं व्यधापयत् । वधूभ्यां सहाग
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तोऽसौ विजयचन्द्रः पित्रोश्चरणाननंसीत् । पितृभ्यां ते आशीर्वादः स्नापिताः । कविरुत्प्रेक्षते यत् तेषां मिलनान्दस्य वर्णनं वचनातीतम् ।
षष्ठसर्ग-जयचन्द्रेण राजसभाऽऽकारिता । सर्व सभासदः सोपदा. स्तत्रागमन् । अस्मिन्नेव समये रत्नपुरस्य रत्नाङ्गदभूपस्य मन्त्री राजसभामेव्य स्वस्वामिनो वृत्तमचीकथत् । स्वागमनोद्देशं प्रकटयनवादीद् दूतः-मम राज्ञः मदनानाम्नी पट्टराज्ञी वर्तते । तस्याः सुलोचनानाम्नो पुत्री विद्यते । सा सर्व. कलाप्रवीणा, तस्याः सौन्दर्य देवसुन्दर्या अधिकम् , साहित्यशास्त्रे च पण्डिता वर्तते । एतत्पुत्र्याः वरचिन्ताऽस्ति ।
कुत्रचिद् रूपं वर्तते परं न कौलिन्यम्, द्वयोः सत्योः न नैपुण्यं दरी. दृश्यते । अतो एतदयोग्यं वरं दुर्जेयं ज्ञात्वा तस्याः स्वयंवरोत्सवं कर्तुमचिन्तयत् स राजा। अतो दूरस्थदेशानामपि राज्ञामामन्त्रणार्थ मामप्रैषीत् । अतोऽत्राजगामाहम्।
जयचन्द्रोऽवदत्-वृद्धोऽहम् , एतादृग महोत्सवे औत्सुक्यमपि न वर्तते, परं मम पुत्रं प्रेषयिष्यामि ।
पितुराज्ञया पुत्रो रत्नपुरं गन्तुं सज्जीभूत: । मार्गे गच्छन् विविधवन. प्रदेशानां सौन्दर्य दृष्ट्वा पुलकिता सञ्जातः । अत्रावसरे कविरष्टापदस्य वर्णन सातिशयकवित्वपूर्णमुद्दति । ऋषभदेवस्य श्लेषमयों स्तुति करोति विजय. चन्द्रः । तस्य स्तुत्या इन्द्रस्तत्रागत्य तं प्राशंसीत् । तस्मै अक्षय्यतृणीरं शरीरशङ्गारं च दत्त्वाऽदृष्टोऽभवदिन्द्रः ।
कियदिनावसरे तान् विविधप्रदेशानुल्लचच रत्नपुरमधिजगाम विजयचन्द्रः। रत्नाङ्गदभूपस्तं स्वागत्य सम्मानितः ।
अत्र रत्नपुर्य्या धवलगृह-उच्चैःशिखरजिनमन्दिरप्रासाद-सरोवरादिवर्णन कविना कृतमस्ति । तान् प्रेक्ष्य विजयचन्द्रो हर्षप्रफुल्लः सत्रातः ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वयंवरणार्थ कलासौन्दर्येण सजित विशालमण्डपमपि स दृष्टवान् । तत्रा. सीनेषु सर्वेष्वपि नृपेषु विजयचन्द्र इन्द्रदत्तशृङ्गारेणातीवदेदीप्यमानो दृश्यते ।
सप्तमसर्गे-स्वयंवरमण्डपे मगधस्य राजा पुरन्दरः, विदर्भस्य महेन्द्रः, कोशलस्यानन्तः, काशीराजः, रैवतस्य पद्मः, कलिङ्गराजः, मालवराजः, गज. पुरस्य मदनः, कम्बोजस्य कीर्तिपालः, मिथिलायाः कमलचन्द्रः, मलयस्य कृपः, काश्मीरस्य प्रतापः, हस्तिनापुर्या इत्यादिनृपास्तत्रागताः । तेषां सर्वेषामपि प्रशसां सखीमुखात् संश्रुत्य सा सुलोचना विजयचन्द्रस्य कण्ठे वरनजमारोप्य वलिता ।।
अष्टमसर्ग-अत्रान्तरे विजयचन्द्रस्योपरि सर्वे राजानः कोपान्विताः 'सजाताः । काश्मीरस्य प्रतापभूपस्तत्राग्रणीभूतः, तेन सह योदधुमारभत । परं दवीसाहाय्येन विजयचन्द्रः युद्धे विजितः । सर्वानपि राज्ञः सम्मान्य रत्नाजदः निर्वर्तितवान् । विजयचन्द्रोऽपि सुलोचनया सह गृहं गन्तुं सज्जीबभूव ।
मार्गे कुत्रचिद्वने विजयचन्द्रः सैन्यं न्यवेशयत् । मध्याहने पूजावसरे कश्चिञ्चारणस्तत्रागल्य जिनेश्वरस्य स्तुतिं कृतवान् । कस्त्वमिति विजयचन्द्रेण पृष्टे तस्य सप्तावतारस्य तेन सह सम्बन्धो न्यगादि ।
ततः प्रस्थानावसरे कालनामा कश्चिद् दैत्य आगत्य तत्र सुलोचनां जहार । तद्वियोगदुःखं क्षणमप्यसहमानो विजयचन्द्रः सत्वरं चेटकं सस्मार। चेटकस्तत्रागत्य सुलोचनायाः शुद्धि न्यवेदयत्-चमरचञ्चायां पुर्ण वनदादनामा खेचरस्तव सुलोचनां जहे । स खेचरो ममाप्यजय्यः, परं कियत्कालान्तरं तव सत्त्वेनैव स जेष्यते त्वया ।
ततः सत्त्वशाली सः सैनिकानादिश्य प्रियामाहर्तुमुत्तरां प्रति प्राचालीत् । तत्रैकस्मिन् वनान्तरे काश्चिन्नागकन्या हल्लीसकादिक्रीडां कृतवती: स दृष्टवान् । तासु मुख्या पुरोभूय विजयचन्द्रं प्रेक्यावादीत्-अहं तव माता
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विजया, मृता सती भत्र धरणेन्द्रस्य वल्लभारूपेण जज्ञे । ततः सा धरणेन्द्रपार्धे नागलोकं तमनैषीत् । धरणेन्द्रस्तं स्वाङ्के निवेश्यावदत्-तव प्रियां तूर्णमानेष्यामि । विजयाऽपि विजयचन्द्राय रूपव्यत्ययहेतवे एकां गुटिकामदात् । तया स शुकरूपं विधाय भ्रमितुमारब्धवान् । तत्रैकस्मिन् स्थाने केनचिद् दैत्येनाहृतां काश्मीरस्य प्रतापभूपस्य कन्यां पनामदाक्षीत्। तयोर्वातालापे सजाते शुकरूपो विजयचन्द्रोऽज्ञासोद् यद्-कन्येयं विजयचन्द्राय दित्सिता । ततः शुकरूपं परित्यज्य विजयचन्द्रः प्रकटीभूतः । विवाहाथ तया प्रियलोचनया पाया प्रार्थितः। विजयचन्द्रणोक्ता सा-यावत् सुलोचना नैति तावनौचितिमश्चत्यावयोविवाहः । तस्मादत्रैव तिष्ट यावत् सुलोचनाऽऽगछति ।
तत्पश्चाद् दैवीकृपया श्रवणकुण्डलं सोऽधिजगे । तत्पश्चात् काचित् खेचरी सुलोचनारूपं विधाय तं परीक्षते । दृढवतिनं तं ज्ञात्वा सा खेचरी कथयति-वज्रदाढेन मे पत्या त्वप्रिया निष्कुटान्तरे मुक्ताऽस्ति । अनेकविधोपायैरपि तस्याः शीलभङ्गं कर्तुं स नाशकत् ।
तत्र वने कश्चिद् भूतो विजयचन्द्रं वक्ति-विजयपुरं नातिदूरे वर्तते । तत्र चन्द्रबलो नृपतिः नुमेधं कुरुते । विजयचन्द्रस्य कीर्तिः हिंसानिषेधकरूपेण मयाऽपि श्रुता । तद्वचनं श्रुत्वा नरमेघयज्ञं ध्वसितुमुत्सुकोऽभवद् विजयचन्द्रः । चेटकादेशेन कर्कोटसाहाय्यात् तद्यज्ञानरा मुक्तास्तेन । ततो यज्ञदेवं महाकालाभिधं कन्यादं युद्धे जित्वा विजयलक्ष्मी प्रपेदे विजयचन्द्रः। ततस्तस्मिन्नेव वने केचिदप्सरसौ स्त्रियो हरिणी-हारिणीनाम्न्यो नभोदेशादागच्छन्त्यौ दृष्टवान् । ते स्त्रियौ तमचकथताम्-यत् त्वत्परीक्षणार्थमेव होयं यज्ञमायाऽस्मद्रचनासीत् । अतः परं भुवस्तले यज्ञा न भविष्यन्ति परं भवितव्यनियोगत एव कालेन भविष्यन्ति । कस्तावत् पापो यज्ञं करिष्यति, इति पृष्टे
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते जगदतुः यज्ञस्येतिवृत्तं याज्ञवल्क्यसुलसयोराख्यानकम् , तयोस्सुतस्य नव्य. वेदरचनाकथानकम् , तद्वेदानुसारिणां गवाश्वनमातृपितृमेधकानां यज्ञानां नृपाने फलकथनम् , तेन कश्चिन्नपस्य यज्ञारम्भादि वाती विजयचन्द्रस्य पुर आचख्यतुः । पश्चात् ते देव्यौ तस्यैकमासान्तरं कान्तालाभो भविष्यतीत्यावेद्य तस्य चाहिंसापालकत्वेन प्रशंसां कृत्वा दिवं जग्मतुः । ___ ततो विजयच द्रः स्थगीभृता सहाचलदुत्तरां प्रति । पञ्चमे दिने कापि पर्वतं प्राप्य क्षुद्रपत्तनस्थितं रत्नमन्दिरं दृष्टवान् । तत्र द्वौ सुन्दरौ नरावागत्य तस्मै प्राणमताम् विजयं च स्वसौधं निन्यतुः । तत्र तस्य बहुप्रकारां प्रतिपत्तिं वितेनाते । तद् दृष्ट्वा विजय! प्रोचे-कथमेवं भक्तिर्विधीयते । तयोरेकस्तत्कारणकथां वक्तुमारेभे । तत्कथायाः संक्षेप एतदस्ति-स नरो विद्याधरः, अपत्येच्छया परदारामपहृत्य यदा शक्रावतारतीर्थसमीपं आगतस्तदा तीर्थयात्रां कुर्वाणो धरणेन्द्रोऽपि तत्र आगतः । तेनापहृतायाः स्त्रियाः रुदनं श्रुतम् । अतो धरणेन्द्रेण विद्याधरः शप्तः, तस्यापत्याप्तिविद्यानाशोऽभवत् । तत्परिहारार्थ विज्ञप्तः सः। ततो घरणेन्द्रेणोचे-शापोऽन्यथा न स्यात् परं विजयाभिधानो मम प्रतिपन्नसुतोऽस्ति, तस्मादेव तव सप्तमे संताने सर्वा विद्यार स्फुरिष्यन्ति । अतो तव प्रतिपत्तिं कुर्वे । अधुना साधयेताः पुस्तकसंस्थिता विधा:, अस्माकं च यथोचितमाकलय्य प्रसादय । __इति वार्तामाकर्ण्य विजयचन्द्रो दध्यो-विधासंसाधनार्थमेव हि धरणेन्द्रेण मम प्रियालाभो विलम्बितः स्यादिति मन्ये ।
ततः स अष्टोत्तरशतं विद्याः साधयितुमारेभे । यथाविधि स्मरतस्तस्य समीपे सर्वा विद्याः समुपतस्थिरे । तस्य सत्त्वपरीक्षार्थमष्टोत्तरशतमश्वानां ता याचिरे । जीवहिंसयैव यदि स्यात् साधना, तदालं तया। ततो विद्या ऊचिरे ----अन्यथा स्वतनुखण्डानि पावके हुत्वा साधना फलिष्यति । अतः स्वकलेवरस्य द्वात्रिंशत्खण्डानि ज्वलितानले स जुहाव । बाढं खल्वयं नरो
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
39
૪
Acharya Shri Kailassagarsuri Gyanmandir
महासत्त्वशाली - इत्युक्त्वा तस्यानने सर्वा विद्या विविशुः । विद्यावान् विजय
चन्द्रो वैरिणं प्रति चचाल |
चमरचञ्चापुर्वी गत्वा मायाविनं वज्रदाढं जगावयम् - यदि जीवितेच्छा प्रत्यर्पय मे प्रियाम् । वज्रदाढस्य लघुभ्रातारं व्यजिज्ञपत् परं नान्वमन्यत सः । ततो वज्रबाहुः ससैन्यो विजयचन्द्रम् शिश्रिये । वज्रबाहुस्तेन सह योद्धुं समरप्रकारमदर्शयत् । बालर्षितीर्थदेवान् नत्वा यदि युद्धप्रस्तावः स्यात् तदेन्द्रेणाप्यजय्यो भवान् भविष्यति इत्यतो वज्रबाहुस्तं प्रथम बालवितीर्थं निनाय । तत्र देवान् नमस्कृत्य वज्रदाढमाजुहाव समरभूमिम् । ततो द्वयोः सैन्ययोः रणः प्रवृत्ते ।
कविनाऽत्र विस्तृतमद्भुतं च युद्धवर्णनं कृतमस्ति । तत्र समरभूमौ रत्नचूडाख्यखेचरेश्वरस्य वल्लभा रत्नमालिनी आगत्य स्वपूर्वभववृत्तं वज्रघरतीर्थकृतः श्रुत्वा कथितुमारभे ।
अस्मिन् द्वीपे कृपनाम्नो नृपस्य गान्धारीसंभूतौ चन्द्र- श्रीधरनामानौ द्वौ तनयावास्ताम् | श्रीधरस्य गौरीनाम्नी रूपवती प्रियाऽऽसीत् । चन्द्रस्तावदेकदा तां दृष्ट्वा काममोहितो बभूव । चतुरश्चन्द्रः कनिष्टं श्रीधरं युद्ध - निमित्तं विज्ञप्य रणाय प्राहिणोत् । श्रीधरगमनान्तरं गौर्या सह रन्तुमयं शठात्मा चन्द्रश्चेव्या सह तां न्यवेदयत् । परं सा नान्वमन्यत तस्य विज्ञप्तिम् । अतो गौरी दध्यौ यदयं बलात्कारं करिष्यति, अतः शीलरत्नं रक्षितुं सा एकाकिन्येव निशायां पत्युरन्वगच्छत् । मार्गे श्रान्ता सा कुत्रचिद् यक्षमन्दिरे विशश्राम । तत्रापि तस्याः लावण्येन मोहितो यक्षस्तां परिरन्धुकामः संजातः, परं तस्या उपदेशेन स विरक्तोऽभवत्, तस्याश्च किङ्करत्वं भेजे | तस्य यक्षस्य साहाय्येन सा पक्षिणीरूपं कृत्वा पत्युः समीपं समरशिबीरं प्राप्ता । पक्षिणीरूपत्वे श्रीधरेण सह वार्तालापं वितेने सा तं परीक्ष्य स्वरूपभजत् । पश्चात् श्रीधरो गौर्या सहितः स्वपुरं न्यवर्तत ।
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकदा चन्द्रो गौरी च तत्रागतमभिनन्दमुनि नन्तुं जग्मतुः । तावुप. दिश्यानन्तर तयोः भवकथामश्रावयन्मुनिः ।
सैव गौरी सप्तभवान् भ्रान्धात्र सुलोचनारूपेग जज्ञे । गान्धार्याश्च यौ पुत्रौ चन्द्र श्रोधरनामानौ अस्मिन् भवे विजय-वज्रदाढनामानौ संजातौ । पूर्वस्नेहवशादेव वज्रदाढः सुलोचनां जड़े । एतदर्थ तौ सांप्रत युद्धं कुरुत इति श्रुत्वाऽहं गान्धारी युवयोः समीपमुपस्थिताऽस्मि ।
इति वाती मातुः श्रुत्वा सल जो वज्रदाढो विरक्तोऽभवत् । वज्रदाढः तत्रैव सर्वविरतिमादृत्य कायोत्सर्गेग आत्मसमर्पणं व्यधात् । विजयोऽपि तं क्षमयामास । पश्चाद् वज्रदाढपुत्रान् पितू राज्येऽभिषिच्य मलिनाङ्गीमपि शोल. रत्नेनाधिक शोभितां सुलोचनां नीवा, बनान्तरे प्रतापकन्यां पद्मां विवाह्य स्वपुरं मङ्गलपुरमागमद् विजयचन्द्रः । द्वाभ्यां पत्नीभ्यां सहितो विजयः पितरौ प्राणसीत् । पिताऽपि पुत्रं गाढमालिङ्गय तस्मै प्राज्यं राज्यमदात् ।।
नवमसर्गे-अथ विजयचन्द्रः पैतृकं पदमासाद्याधिकं विरेजे । प्रजाश्च सुखेनापालयत् , सुलोचनां पट्टराज्ञीपदेऽस्थापयत् । तया सह रममाणोऽयं बहून् वासरान् निर्जगाम ।
एकदा निशीथिन्यां तया सह रतिसुख प्राप्नुवन् रतिश्रान्तो निशायामशृणोत्-'पतिष्यामि, पतिष्यामि' इति । प्रभाते संभ्रातोऽयं नृपो मन्त्रीनाहूयापृच्छदस्यार्थम् । सर्वेऽपि मन्त्रिणः स्वबुद्धचनुसृतमर्थं व्यजिज्ञपन् परं न तस्य मनः समादधत् । एकस्तत्र धोरचन्द्रनामको मन्त्री गम्भीरगिराऽचीकथत्यद्भाव्यं तदन्यथा न भवति, तथापि धर्मेण श्रेयो भवत्येव, अतः धर्म्यकार्य भवान् वितनुयात् । नृपस्तत्कार्याणि वैविध्येन कर्तुमारेभे । एकदाऽम्बरादापतन्तं तेजापिण्डं सोऽपश्यत् । तस्मात् पिण्डात् निस्सरन्तौ काञ्चित् काश्चनगौरथुतिं दधानां स्त्रियं वीक्ष्य नपो विसिष्मिये । तस्या अंसयोः हसयुर म
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
1
निमासीत् नूपुरं दाना साक्षात् अगं नृपस पं नरीनति स्म । जलभृङ्गारेण गण्डूषं वितीर्य तस्मात् मौक्तिकोभूतान् जलसीकरान् प्रस्फुर्य हंसयुग्ममुत्तार्य चुगयति स्म ।
Acharya Shri Kailassagarsuri Gyanmandir
1
' का खम् ' इति पृष्टे राज्ञि यदा तां धर्तुमना नृपोऽभवत् तदैव सा तस्य पश्यत एव तिरोदधे । पुनरपि सा द्वितीयदिने आगमत्, तमेव प्रकार - मतनोत् । तृतीयदिने यावत् सा प्रत्यक्षोवभूव तदा नृपः कोमलगिरा तो प्रोचे -त्वं किमिति खेलसि ? त्वां विवोढुकामोऽहमिति स्वपरिचयं देहि ।
●
प्रत्युत्तरति सा - सिद्धिपुरीशितुरहं सुता विज्ञकन्यका देवानामपि मान्या त्वया विज्ञेया । मम न कदापि रुक्, न भयः, न मृत्युः, न जरा अहं तु निरययौवना पाञ्चालीति विश्वेऽपि विश्रुता । यदि त्वं मां विवोदुमिच्छसि तदा ममेयं प्रतिज्ञा वर्तते यः पुरोधाः वृत्तचतुः शैलः मद्वृत्तज्ञः ब्रह्मविद् द्विजः स्यात् तत्पुरोधसैवाहं वरं वृण्वे, एताक्पुरोधसमानय यदि ते विवाहेच्छा | उत्तरं दत्त्वा सान्तहिंता ।
www.c
एतादृक्पुरोधसं शोधयितुकामो नृपः सर्वत्रापृच्छत् परं न तस्य शुद्धिं लेभे सः । पचात् कस्यचिन्महात्मनः संयोगात्, तं सिद्धिपुरीशितुः कन्याया वृत्तभवृच्छन्नृपः । महात्मा किञ्चिद् विहस्य जगौ - स्त्रियामास तं त्वामुपदेष्टुमेव साऽगच्छत्, ‘ सा कन्या नान्यत् संयमश्रियं विना ' इति तन्निगमनं वा तस्य शान्तिर्जाता । तन्निगमनस्य संक्षेपस्त्वेवम्
61
दुर्लभं जगति जन्म मानुषं, तत्र जैनवचनं सुदुर्लभम् । कश्विदेव लभते च भाग्यवान्, सिद्धिनायकसुताङ्गसङ्गमम् ॥ '
19
तदा स विरक्तोऽभवत् ॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.org
Acharya Shri Kailassagarsuri Gyanmandir
एतत्कथानिबद्ध काव्येऽस्मिन् महाकाव्यस्य लक्षणानि कविनाऽसूत्र्यत । सर्वेषां शृङ्गार-हास्याद् भुतशान्तादीनां व्यावर्णनं कविनातिकौशलेन प्रासा. दिकभाषया च कृतमस्ति । कवेरस्य कल्पनागतिं च विचिन्त्यैकमत्येन विदुषां स्वीकृतं स्यादेव यदयं महाकविः कालिदासादिमहाकविकोटावनूनप्रतिभो विराजते ।
प्रान्ते-मुद्रणपाठसंशुद्धिः
वि. सं. २००० वर्षे वयं राजधन्य( राधन )पुरं गताः । तत्र मया सागरगच्छोपाश्रयस्थो ग्रन्थभाण्डागारो दृष्टः । तत्रास्य काव्यस्य प्रतिर्मया समुपलब्धा । तत्रैव मुद्रणयोग्यमिदं काव्यं निश्चित्यादर्शपाठो मया लिखितः । अन्यादर्श: साकं मूलग्रन्थं संशुद्धयाय प्रकटीकृतः । अस्मिन् प्रकाशने आदर्शत्रयं मां समुपालभत । (१) R संज्ञया राधनपुरस्थसागरगच्छोपाश्रयभाण्डागारस्यादर्शः । (२) A संज्ञया पत्तनस्थहेमचन्द्रार्यज्ञानमन्दिरस्यादर्शः । ३६ पत्राणि । (३) B ,, , , , ९५ पत्राणि ।
B आदर्शे एतत्काव्येन साकमनेनैव कविना विरचितं गुणवर्मचरितमपि विद्यते, तस्य पुष्पिकायामिदं लिखितमस्ति
" संवत् १४८७ वर्षे पोष सुवि ७ बुधे भीमणहिल्लपसने सा. नागर सु. सा. आकाभावकेण भार्याजीविणिभ्रातृलिंबापत्रराजाप्रमुखपरिवारसहितेन सप्तदशमेदपूजा कथा लेखयित्वा श्रीमश्चलगच्छे श्रीमेन्तुङ्गसूरीन्द्रपट्टपयोनिधिचन्द्रधीगच्छेशश्रीजयकीर्तिसूरीश्वरगुरूणां प्रदत्ता वाव्यमानाश्चिरं नन्दतु ।
याशं पुस्तके दृष्टा, ताशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥
भीः । महं कालिखितम् ॥ श्री ।।"
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
वि. सं. २००७ अक्षयतृतीया - बुधवासरे
स्थलम् श्रीयशोविजय जैनगुरुकुलम् पालीताणा (सौराष्ट्र : )
पाठशुद्धौ मुद्रणशुद्धौ च व्याकरणतीर्थापाधिधारिणा प्रेमचन्द्रात्मज अम्बालालपण्डितेन मम संपादनकार्ये सहयोगो दत्तः, अतः स धन्यवादाहः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधरचरितप्रकाशनप्रसङ्गे मम तीवहर्षो भवति यद्, इदं चरितं भारतीयसंस्कृतिकार्ये प्रौढं सहयोग प्रदास्यतीत्याशां बिभ्राणोऽहमत्र विश्मामि ||
श्रीयशोविजय जैनगुरुकुल - संस्थापक पूज्य गुरुदेव श्रीचारित्रविजयचरणचञ्चरीको मुनिः ज्ञानविजयः ( त्रिपुटो )
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अञ्चलगच्छीयश्रीमाणिक्यसुन्दरमरि
विरचितं छन्दोलक्षणयुतं स्वोपक्ष दुर्गपदव्याख्यासमलङ्कतं च
श्रीश्रीधरचरितमहाकाव्यम् ।
प्रथमः सर्गः।
श्रीमान् पार्श्वप्रभुर्जीयात् , जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोबजाः ॥ १॥ श्रीविजयचन्द्रभूपतिचरित्रपोयूषसारकासारः । माणिक्याङ्कग्रन्थः, स जयति जगति प्रमोदकरः ॥ २ ॥ तस्य स्वोपज्ञस्य, प्रीतिकृते कृतिजनस्य वक्ष्यामि । दुर्गपदव्याख्यानं, श्रीमान् माणिक्यसुन्दरः सूरिः ॥ ३ ॥
तथाहि
यस्मिन्नाभिनरेन्द्रनिर्मलकुलप्रद्योतनोद्योतित.
त्रैलोक्ये शुभति प्रभातसमयो जातस्तृतीयारकः । आरोग्यं खलु भास्करादिति वचस्तथ्यं यतो जायते, सोऽयं वाञ्छितसिद्धये भवतु वा स्वामी युगादिप्रभुः ॥१॥
[शार्दूल०) १ क्ये सहसा प्र° A। अत्र स्वोपज्ञव्याख्यायां 'शुभति' पदस्य व्याख्यादर्शनात् 'शुभति' इत्यस्य 'सहसा' इति A आदर्शाधिकृतपाठभेदस्तु काल्पनिकः प्रतिभाति ।
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२] श्रीश्रीधर चरितमहाकाव्यम्। [प्रथमः
दु० व्या०-यस्मिन्नाभि इत्यादि-आद्यवृत्ते शुभति इत्यत्र 'शुभ शुम्भत् शोभार्थे ' इति धातुः, शतरि सप्तम्येकवचने च ज्ञेयम् । 'आरोग्यं खलु भास्करात्' इति लोकयाख्या वर्तते परं सा न सत्या, यतः
स्वयं पङ्गुलुतः पङगुः, पङ्गुः सारथिरेव च ।
आदित्यो देहदाता चेद् , यशः पुण्यैरवाप्यते ॥ अतो भगवानेव सूर्यः स्वयं निरामयत्वाद् भक्तानामपि निरामयत्वं करोतीत्युक्तम् ।। १ ॥ राजश्रीविश्व पेनान्वयसरसिरहे राजहंसावतारः,
सम्मोहध्वान्तवारे रविरुचिरचिरामातरुल्लासकारः । षट्खण्डक्षोणिनाथप्रणतपदयुगः पञ्चमश्चक्रधारः,
श्रीशान्तिः षोडशोऽर्हन् जयति शिवरमासारगृङ्गारहारः ॥२॥ दु० व्या०-द्वितीयं वृत्तं सुगमम् ॥ २॥ यस्मै सद्दानलीलाविजितसुरमणिस्वर्गिधेनुद्रुमाय, ___ स्वं यानं वारणेन्द्रो दिशेतु नवधनो नीलकान्ति च दण्डे । तयुक्तं लक्ष्मलक्ष्यः स्वयमभजत यं दक्षिणावतशङ्ख,
स श्रीमान् नेमिनाथः प्रथयतु भविनां वाञ्छितार्थस्य सिद्धिम् ।।
दु० व्या०-तृतीये वारणेन्द्रो गजेन्द्रो यस्मै स्वं यानं रथादिकं पक्षे गतिम् , दण्डे दण्डपदे, अदिशद् ददौ, गजपक्षे दानं मदजलम् ॥ ३ ॥
नानापल्लबकलितो, यस्य न साम्यं सुरद्रुमोऽप्येति । विपदुच्छेदविभुवः, पार्श्वजिनः सर्वसंपदे सोऽस्तु ॥ ४ ॥
दु० व्या०-नानाप्रकारैः पल्लवैः, पक्षे आपल्लवैः कष्टलेशैः आपल्ल [:] ॥ ४ ॥
१ °शत न°BI २ लक्षः स्व°A |
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम्। [३ मन्दाकिनीपूर इवाशु यस्य, शिशोरपि प्रोज्ज्वलवागविलासः । सुरेन्द्रसन्देहतरून् विभेद, स मे धियं यच्छतु वीरधीरः॥५॥ यत्केवलज्ञानमृगाङ्कमध्ये, जगन्मृगस्यापि तुलां न याति । अनन्ततादृगगुणकोशकल्पा, यच्छन्तु ते सर्वजिनाः सुखानि ६।। पद्मपुस्तकधरा सरस्वतीत्येव या जगति गीयते परैः । या ददाति जनतासु भारती, सा चिरं जयतु जनभारती ॥७॥
दु० व्या०-जैनभारती जैनवागी। जनतासु जनसमूहेषु । प्रभा रतिः समाधिः, ते द्वे ददाति ॥ ७ ॥
कुलिशाकितहस्तोऽपि, क्षमाभृत् पक्षरक्षकः। साश्चर्यमिन्द्रभूत्याख्या, विधाणो गोतमः श्रिये ॥ ८ ॥
दु" व्या०-इन्द्रवद्भूतिः ऋद्धिर्य; स इन्द्रभूतिः । कुलिशं वज्र तेनाङ्कितो हस्तो भवति स क्षमामृतां पर्वतानां पक्षरक्षकः कथं स्यात् ? पक्षे कुलिशं वज्र चिह्नम् । क्षमाभृतः साधवः तापक्षरक्षकः ।। ८ ।। श्रीमद्वीरविभोवभुर्गणधरास्तीर्थे सुधर्मादय
स्तेषामन्वयवाधिवद्धनविधौ चन्द्रोऽभवञ्चन्द्रमाः। चन्द्रस्यापि कुले दिवाकर इव प्रक्षिप्तदोषोत्करः, स श्रीमान् गुरुरायरक्षित इति ख्यातः क्रियाशालिषु ॥९॥
दु० व्या०-चन्द्रश्च चन्द्रनामा आचार्यः । प्रक्षिप्ता निराकृता दोषोकरा दोषसमूहा येन, पक्षे प्रक्षिप्ता दोषा रात्रि :, एवंविधाः ऊत् ऊर्ध्वाः कराः किरणा यस्य ॥ ९॥
तत्पट्टानुक्रमे वादिकरिघट्टनकेसरी ।
श्रीमेस्तुङ्गसूरीन्द्रश्चिरं विजयतां भुवि ॥ १० ॥ सेवन्तेऽद्भुतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो,
भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् ।
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४] श्रीधीधरचरितमहाकाव्यम् । [ प्रथमः स श्रीअञ्चलगच्छवासरमणिः सूरीन्द्रचूडामणि
भूमीहारनिभश्चिरं विजयतां श्रीमेरुतुङ्गो गुरुः ॥ ११ ॥ दु० व्या०-शरण्यं शरणागतवत्सलम् । गुरुरित्यत्र " गुरावेकश्न " (सिद्धहेमसूत्रम्-२. २. १२४. ) इति सूत्रेणैकवचनम् ॥ ११ ॥
तेषां गुरूणां वात्सल्यमरकेसरिकन्दरः।
शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥१२॥ दु० व्या०-नेषां श्रीमेरुतुङ्गसूरोणां दीक्षागुरुवात् शिष्योऽस्मि । गुरूणां वात्सल्यभर एव केसरी, तस्य कन्दरः। यस्य गुरुषु भक्तिस्तत्र गुरोर्वात्सल्यमपि स्यादिति भावः ॥ १२ ॥ कलाभृतो यस्य करेग मौलिस्पृशा विनेयेष्विव कैरवेषु । लक्ष्मी लन्ती भजते न मोहं, करोमि विद्यागुरवे नमोऽहम् ।।१३।।
दु० व्या०-अहं विद्यागुरवे एव नमः करोमि । यस्य विद्यागुरोः करेण मौलिस्पृशा सता विनयेषु शिष्येषु, लक्ष्मीः शोभा ललन्ती सती मोहं जाड्यं लन्ती न भजते । किविशिष्टस्य ? यस्य कलाभूतः कलायुक्तस्य, पक्षे चन्द्रस्य यथा-कलाभृतश्चन्द्रस्य करेण, जातावेकवचनत्वात् किरणेन मौलिस्पृशा सता, कैरवेषु कुमुदेषु, लक्ष्मीः कमला ललन्ती, मोहं लक्षणया आलस्यं न भजते; सदैव तत्र वसतीति भावः ॥ १३ ॥ 'श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ १४ ॥ दु. व्या०-येषां विद्यागुरूणाम् । गुम्फ प्रन्थम् ॥१४॥
°णां सद्भक्तिभA । २ °स्मि वाचनाचार्यो मुनिमा A । ३ A भादर्श नास्तीदं (1४) पद्यम् । B आदर्श सत्यप्यस्मिन् पये पचाकमेमेवात्य न्यस्तमिति प्रक्षिप्तमिदं ज्ञायते ॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः]
स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । तान् नत्वातिप्रसिद्धन, छन्दसाऽऽनन्दसाधकम् । कृतपण्डितसौहित्य, साहित्यं वच्मि किञ्चन ॥१५॥ दु० व्या०-कृतं पण्डितेषु सौहित्यं तृप्तिर्येन ॥ १५ ॥ लक्ष्यलक्षणसंयुक्तं, छन्दसो यत् प्रदर्शनम् । स्निग्धदुग्धसमे ग्रन्थे, नूनं तच्चारुशर्करा ॥ १६ ।। प्रासादस्य प्रतिष्ठानपीठिकेवाभिधीयते ।
आदौ गणव्यवस्था या, छन्दः साहित्यकारणम् ॥ १७॥ दु० व्या०-प्रासादस्य प्रतिष्ठा अन्नपीठिका इव या गणव्यवस्था॥१७॥
मात्रावृत्तं वर्णवृत्तमाद्यमार्यादिकं मतम् । समार्ध-समवृत्तादि, संभवं तु परं भवेत् ॥ १८ ॥ दु० व्या०-पूर्व मात्रावृत्तं भवति, ततो वर्णवृत्तं स्यात् । आद्य मात्रावृत्तमार्यादिकं मतम् , परं वर्णवृत्तं समवृत-अधसमवृत्ते आदिशब्दाद् विषमवृत्तसंभवं भवेत् ॥ १८॥
द्विगुरुः समजान लो च, पश्चाऽऽर्यादौ गणा अमी। समाध-समवृत्तादौ, म्यरस्तजभनाः पुनः ॥ १९ ॥ क्रमेण भजसा ज्ञेया, आदिमध्यान्तगे गुरौ ।
लघौ तु यरता मश्थ, त्रिगुरुनिलघु नः ॥ २० ॥ दु० व्या०-गुरौ आदिमध्यान्तगे सति क्रमेण भगण-जगण-सगणा भवन्ति ॥ २० ॥
दीर्घप्लुताश्चानुस्वारविसर्गसहितस्तथा । प्रद्रग्रभादिवर्ज, संयोगे पश्चिमो गुरुः ॥२१ ॥ दु० व्या-दीर्घ--' आ ई ऊ ऋ ए ऐ ओ औ ' लक्षणः ॥ २१ ॥ , 'युकच्छ° B। २ दीर्घः प्° BI
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरित महाकाव्यम् ।
ऋजुर्लघुर्गुरुर्वक्रः, पादान्ते वा गुरुर्लघुः । विश्रामश्च यतिज्ञेया, चतुर्थीशः स्मृतं पदम् ॥ २२ ॥
समवृत्तं भवेत् तुल्यलक्षेणां हि चतुष्टयम् । यत्राद्याभस्तृतीयांहि चतुर्थश्च द्वितीयवत् ॥ २३ ॥
[ प्रथमः
तदर्थसममन्यत् तु विषमं विषमहिमा | एकैकाक्षरवृद्धाः स्युः, समे तूक्तादिजातयः ॥ २४ ॥ युग्मम् ॥ उक्ताऽत्युक्ता (१-२) तथा मध्या (३), प्रतिष्ठा च ( ४ ) ततः स्मृता । सुप्रतिष्ठा च (५) गायत्र्युष्णिगनुष्टुप् ( ६-७८) तथा मता ||२५|| बृहती ( ९ ) पङ्क्तिस्त्रिष्टुप् च (१०-११) जगत्यतिजगत्यपि (१२-९३ ) | शर्करी (१४) चातिशर्कयैष्टयत्यष्टीच (१५-१६-१७) धृतिस्ततः (१८) | ततश्चाविष्धृतिः (१९) ख्याता, कृतिः (२०) प्रकृतिर। कृतिः (२१-२२ )| विकृतिः (२३) संकृतिः (२४) प्ररुक्ाभिकृतिरुत्कृतिः ( २५-२६) ।
For Private And Personal Use Only
अत ऊर्ध्वं मताण्डवृष्टिप्रभृतिदण्डकाः । अनुक्तमत्र गाथेति शेषं पदिकादिकम् ॥ २८ ॥ आर्यादौ वर्णवृत्तेऽपि प्रसिद्धं प्रायशो मया । वक्ष्यते ललितच्छन्दस्तेषामानन्त्यमन्यथा ॥ २९ ॥ इत्थं पूज्यपदप्रसाद विशदप्रासाद केली करस्तत्तद्ध्यानसमुद्भवभवनवश्रयः श्रिया बन्धुरः । माणिक्याङ्कमनोज्ञमद्भुतकृपाधर्मादिमर्मास्पदं, कुर्वे सार्वजनीनमेषचरितं श्रीश्री रमापतेः || ३० ॥ १ क्षणचि° R। २ ६ द्वितीयश्च चतुर्थचत् R | ३ लितं छ B
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ) स्योपज्ञ दुर्गपदव्याख्यालङ्कृतम् । पूर्व जन्मनि भूपति वि वभौ नाम्ना किल श्रीधरस्तार्तीयकमवे स एव विजयश्चन्द्रोत्तरोऽभून्नृपः । त्रलोक्यस्य विभूषणाय चरितैर्माणिक्यहारयते
स्तस्यैवात्र कथा प्रथा रसवती प्रायोऽवगम्या बुधैः ।। ३१ ।। दु० व्या०-माणिक्यशब्द इति सर्गप्रान्त कोऽन्य अङ्कश्चिह्नमतो माणिक्याङ्कः ॥ ३१॥
इति श्रीअञ्चलगन्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे प्रस्तावना
वर्णनः प्रथमः सर्गः । ग्रन्थानम ॥ ४३ ॥
htीति:१२ मा
1 °वि° A । २ ° क्याकग्रन्थे दुर्गपदव्याख्यायुक्त श्री RI
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः ।
१. अथार्यादि - आर्यायामाद्येऽद्वै चतुष्कलाः, सप्तगणाः गुरुश्चान्ते विषमे जो न स्यात् । षष्ठस्थाने जचतुर्लघुर्वा, द्वितीयेऽर्द्धे षष्ठस्थाने लघुरेव शेषं पूर्ववत् ।
२. अत्यार्या - आर्याचा पष्ठे चतुर्लयौ सति तदायलघोरये यतिः स्यात् । सप्तमे चतुर्लघौ तदाद्यलघोः पश्चाद् यतिः । द्वितीयेऽर्द्धेऽपि पञ्चमे चतुर्लघौ' तदाद्यलघोः पश्चाद्यतिः ।
३. गीतिः - आर्याद्यार्द्ध तुल्यदलद्वया गीतिः ।
४. उद्गीतिः - दलद्वयव्यत्ययादुद्गीतिः ।
५. उपगीतिः - आर्याद्वितोयार्द्धसदृग् दलद्वयोपगीतिः ।
६. आर्यागीतिः - आर्यादलद्वयेऽप्यन्ते गेऽधिके आर्यागोतिः । ७. वैतालीयम् - वैतालीये प्रथम-तृतीयपादयोः षट्कलाः स्युः । द्वितीय-तुर्ययोरष्टौ च परमत्राद्याः षडपि कला लघवो न स्युः । पादचतुष्केऽप्यन्ते रलगाः स्युः । अत्र च समकला पराश्रिता न स्यात् । तथा च विषमे षट्कला ज्ञेयाः । समे त्वष्टौ च षट् नलाः । वैतालीये समकला नाग्रग्रा अन्ते रलौ गुरुः । यतिं तदेवौपच्छन्दसिकम् ।
८. प्राच्यवृत्तिः - समे पादे तुर्यपञ्चमकल्योर्योगशेषे वैतालीयलक्षणे प्राच्यवृत्तिः ।
९. चारुहासिनी - एतेषां विषमपादजा चारुहासिनी |
१०. अपरान्तिका -समपादजा अपरान्तिका । अथैषां क्रमाल्लस्यमाह । दु० व्या० - आर्यादिलक्षणव्याख्या सुगमा । लक्ष्यं व्याख्यायते ॥
१ धौ सति त ।
२ वादेव यतिः B
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञ दुर्गपदव्याख्यालङ्कसम् ।
जयति जिननयनयुगलं, निर्मलतारं कृपारसामारम् । विकसितनिलीनमधुकरनलिनोएममतुलकान्तिभरम् ॥ १ ॥ जीवदयार्थे निरतः, श्रीमद्विजयादिदेवताभिमतः । धरणेन्द्रनागपुत्रः, स जयति राजा विजयचन्द्रः ।। २ ॥ दु० व्या०-जयतीत्यादि-सुगमौ ॥ १-२ ॥ यस्यात्मकर्मनीरक्षीरविवेक मराल इव चक्रे । पार्श्वजिनमणिधानं, स जयति राजा विजयचन्द्रः ॥३॥ दु० व्या०-श्रीपार्श्वजिनप्रणिधानेन स केवलज्ञानं प्राप इति भावः ॥३॥ यस्य कथापीयूपं, श्रवणपुटैः सुकृतिनां चिरं पिवताम् । याति न याति च तृष्णा, स जयति राजा विजयचन्द्रः ॥४॥ दु० व्या०-लोभरूपा तृष्णा याति, श्रवणेच्छारूपा तृष्णा न याति । तथाहिलक्ष्मीमङ्गलनिलयं, जम्बूद्वीपोऽस्ति भारते क्षेत्र। मङ्गलपुरं पुरन्दरपुरोपमा प्रापित पौरैः ॥५॥ जिनसमशङ्गसङ्गिध्वजवजव्याजतो व्यराजन्त । यत्पौरसुकृतपार्वणनिशीथिनीनाथकरनिकराः ॥ ६ ॥ शिवरूपोऽपि न रुद्रो, न धनसुहृद्वाहनोऽपि च स्वामी । यत्र न्यविशत लोको, लक्ष्मीकान्तो न वैकुण्ठः ॥ ७ ।।
दु० व्या०-न्यविशत इति 'विश्' धातुः । निपूर्वो “निविशः" [३. ३. २४.] इति आत्मनेपदम् । किविशिष्टः लोकः ? यः शिवरूपः स कथं न रुद्रः स्यात् ? इत्थं विरोधः । विरोधपरिहारमाह-शिवरूपः कल्याणरूपो, न रौद्रश्च स्वामी अपि, यः स्वामी कार्तिकेयो भवति स कनसुहृद्द्वाहनः कथं न स्यात् । इत्थं विरोधः । स्वामी स्वस्वगृहापेक्षया । न च बनाः
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०] श्रोधीधरचरितमहाकाव्यम् । [द्वितीयः बहवः सुहृदो मित्राणि तेषां वाहनो वश्का । यो लक्ष्मीकान्तः स वैकुण्ठः कथं न स्यात् ? इत्थं विरोधः । लक्ष्म्याः कान्तः, वै निश्चितं न कुण्ठः बुद्धिरहितः ॥ ७ ॥
गज्यं पालयति स्म, प्राज्यं जयचन्द्रभूपतिस्तत्र । यस्य प्रतापतपनो, न घनैरपि संवृतो रिपुभिः ॥ ८॥ दु० व्या०-पक्षे घनै: मेधैः, संवृतः आच्छादितः ॥ ८॥ * यस्मिन् करवालकरे, क्रीडति रणमरसि सिन्धुरेश इव । जाड्यगताः शत्रुभटा ददुखद् दूरतो नेशुः ॥९॥
दु० व्या०-गजपक्षे करवालवत् करः सूण्ढो यस्य स तस्मिन् । जाड्यं युद्धमाश्रित्य, पक्षे जलस्य भावो जाड्यम् , डलयो स्क्यम् ॥ ९॥
यस्य यशःकर्पूरे, सौरभपूरः सुरक्षितो भुवने । चित्रं शत्रुसमुद्भवदुर्यशसाङ्गाररूपेण ॥ १० ॥ दु० व्या०-शत्रुजातोऽपि हितं चिन्तयतीति चित्रम् ॥१०॥ शशिमण्डलीव सकला, सकलकलाकेलिकेलिगृहममला। कमला हरेरिव कला, कलावती तस्य कान्ताऽऽसीत् ॥११॥
दु० व्या०-चन्द्रमण्डलवत् सकला सश्रीका। सकलानां कलाकेले: कामस्य केलीनां गृहं स्थानम् । कला मनोज्ञा ॥ ११ ॥
अथ यत्यार्यायनिर्मलशीलजिता, घनशैवलकलुषसलिलसुरतटिनी। भ्रमति त्रिजगन्मध्ये, भीरू: किमु तरलभङ्गिभरा ॥१२॥
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपशदुर्गपदव्याख्यालङ्कतम् । [११
गीतिःयस्यास्त्रपाकमलिनी, विलसत्यतिभक्तिकम्रकलहंसी । अपि मदनग्रीष्मऋतौ, ग्लानिं न प्राप मानससर:स्था ॥१३॥ दु० व्या०-मदनग्रीष्मऋतावपि ॥ १३ ॥
उद्गीति:भीतो हृदि स कलई, सकलं किं नो बिभर्ति शशी ?। वीक्ष्य यदाननकमलं, न न कमल कलयति स्म दुर्गजलम् ॥१४॥
दु० व्या०-स सर्वप्रसिद्धः शशी हृदि भीतः सन् सकलं संपूर्ण कलङ्गं किं नो बिभर्ति ? अपि तु बिभर्ति । कमलं दुर्गजलं न न कलयति स्म यदाननकमलं वीक्ष्य ॥ १४ ॥
उपगीतिः
यद्रपेऽननुरूपे, निरूपिते बोभवीति स्म । रम्भारं भारहिता, गौरी गौरी रमाऽप्यरमा ॥१५॥
दु० व्या०-रम्भा अरं अत्यथै, भारहिता । गौरी गौरी काली । स्माऽपि भरमा अलक्ष्मीः बोभवीति स्म । अननुरूपे निरूपमे, निरूपिते दृष्टे सति ॥ १५॥
आर्यागीतिः-- यन्मधुरगीर्विलासस्पर्धा, नौचित्यतो विरचिः किं न । जगति वितेने दण्डं, गुणनद्धार्यो विपञ्च्या नूनम् ॥१६॥ दु० व्या०-पक्षे दण्डं विग्रहम् ॥ १६ ॥ १°या नूनं विपच्या [:] AI
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीश्रीधरचरितमहाकाव्यम् । [द्वितीयः मथ वैतालीयम्बुभुजे न नभोगसंपदं, स तया पूर्णिमयेव चन्द्रमाः । न च तस्य ययौ हृदि स्थितस्तनया भावकलङ्ककालिमा ॥१७॥
दु. व्या०-न नभोगसंपदम् भोगसंपदम् । चन्द्रपक्षे नभोगः भाकाशगतः ॥ १७ ॥
स लसद्गुणधर्मबन्धुरांशुकलक्ष्मी कलयन् विहाररुक् । मुनिवीरवदद्भुतक्रियः, समितिभूषणमन्यदाऽभवत् ॥१८॥
दु० व्या०-स राजा । मुनिश्च वीर मुनिवीरौ तद्वत् । राज्ञः पक्षे समितिः सभा, मुनिपक्षे पञ्च समितयः, वीरपक्षे समिति सङ्ग्रामे । राजा किं कुर्वन् ? लसन्तो ये गुणाः तन्तवस्तेषां धर्मः स्वभावस्तेन बन्धुराम् । अंशुकलक्ष्मीम्-वस्त्रलक्ष्मीम् कलयन् , विशेषतो हारेण रोचते विहाररुक् । क्रिया प्रभातक्रिया ज्ञेया ॥ १८ ॥
गणनायकदण्डनायकैः, सामन्तैः सचिवैः शुचिद्युतिः । उदयेऽपि रवरयं रयान्नक्षत्रैः परिवारितो न कैः ? ॥१९॥
दु. व्या०-गणनायकादिभिः कैः न न परिवारितः ? अपि तु सर्वैः । शुचिः पवित्रा द्युतिर्यस्य, पक्षे चन्द्रः तत्पक्षे कैनक्षत्रैर्न परिवारितः । अपि तु सर्वैरपि ॥ १९॥ गुरुकविबुधकेतुमण्डली, व्यलसन्मञ्जुलमङ्गलोदिता। परितोऽस्य परं तमोग्रहो, न च मन्दोऽपि रुचि क्वचिद् दधौ ॥
दु० व्या-अस्य राज्ञः । परितो गुरुः पुरोहितः, कविः कवीश्वरः, भन्योऽपि बुधानां विदुषाम् , केतुः ध्वजसमानस्तेषां मण्डली श्रेणिः । सा किंविशिष्टा ? मञ्जुलं मङ्गलोदितं मङ्गलवचनं यस्याः सा । पर तमसि पापे महो यस्य स पुमान् । मन्दो मूर्योऽपि, रुचिं अमिषम् । अथ पूक्ति
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपश दुर्गपदव्या ख्यालङ्कृतम् ।
[ १३
चन्द्रस्य परितो गुरुः बृहस्पतिः कविः, शुक्र-बुध केतुमण्डली सा किंविशिष्टा ? मञ्जुलं मङ्गलस्य उदितं उदयो यस्यां सा । तमोग्रहः राहुः, मन्दः शनिः रुचिः कान्तिः ॥ २० ॥
,
हृदि यस्य यदि स्थिता रमा, शिरसि छत्रमिषेण चन्द्रमाः । श्रुतिकुण्डलतां रविर्ययौ, मनुजोपासनवर्णनाऽस्य का ? ॥२१॥
दु० व्या०-हृदि रमा लक्ष्मीः ।
71
" भोयराय गलि कंठ लठ ऋहि कईसउ पडिहाइ । तुरि लच्छी मुहि सरसतो सोम विहं चीराइ || इति लोकोक्तेः । हृदि लक्ष्मीः स्थाने न दाषः ॥ २१ ॥ शशिमण्डल जैत्ररश्मिभिर्जननेत्राणि कृपन्तमूर्ध्वतः । दिवि देवपितामहोपमं स तदाऽऽलोकत सिद्धपूरुषम् ।। २२ ।।
दु० व्या० - रश्मिभिः किरणैः रज्जुभिर्वा । ऊर्ध्वतः ऊर्ध्वविभागे । देवपितामहेन नारदेन तुल्यम् ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अयि ! कोऽयमनुत्तरच्छविः, कि रविरेति भुवं विहायसः ? | अथ पुस्तकहस्तातां दधत् पुंरूपैव सरस्वती न किम् ? || २३ ||
,
दु० व्या०- 'अयि' इति कोमलामन्त्रणे निपातः । 'दधिः' इति धारणार्थे ॥ अथौपच्छन्दसिकम् -
1
किमयं वसुधातलं सुधांशुग्रहभीरुः पुरुषच्छलादुपैति । शितितरलिपिपुस्तकस्य दम्भानिजमङ्कं कलयन् विधिप्रदम् ॥
अथ प्राच्यवृत्ति:
स्फुटमूर्तिममुं शनैः शनैश्चन्द्रेहं स विनिवृत्तधीर्जनः । खगतिं शुचिपक्षशालिनं मन्यते स्म सकलं द्विजेश्वरम् ||२५||
१ पक्षिवि A
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४]
www.kobatirth.org
श्रीश्रीधरचरितमहाकाव्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ वैतालीय- चारुहासिनी —
अमरैः किमु कुर्महे नरैरथ संश्रितखेटभूधरैः । विबुधः खगतिर्द्दशोरलं, यदयं दयते कुतूहलम् ॥ २६ ॥
[ द्वितीयः
दु० व्या० - पूर्व जनेनायं चन्द्रहंसो वा समेतीति ततो द्विजेश्वरं ब्राह्मणश्रेष्ठं मन्यते स्म । चन्द्रो हंसः सिद्धपुरुषोऽपि खगतिः । शचिःउज्ज्वलपक्षशाली | सकलः कलावान्, कलो मनोज्ञो वा द्विजेश्वरः द्विजाः पक्षिणस्तेषु ईश्वरो वर्तते । विबुधो विद्वान् देवो वा । दयते दत्ते ॥ २५-२६॥
1
अथौपच्छन्दसिक- चारुहासिनी
मनुजा ननु वञ्चिता वयोवद्, यदमून् विदधे न कः सपक्षान् ? | किमनेन महाताय विद्या, विलसति गगनाध्वगामिनी चेत् ||२७|| दु० व्या० - प्राच्यवृत्तिचारुहासिनी तु वैतालीयचारुहासिनीवत् । कः शब्देन ब्रह्मा, वयोवत् पक्षिवत् ॥ २७ ॥
अथ वैतालीयापरान्तिका
१क्षकसु AI
धनिनां स्याद् धनकोटीभिर्न यत्, नृपतीनामपि नो गिरां शतैः । अनिरुद्धप्रसरं कलाविदां, विदुषां तत् खलु हेलयाऽखिलम् ||२८|| दु० व्या० - तत् कार्यम् ॥ २८ ॥ अथौ पच्छन्दसिका परान्तिका -
नृपसभ्यजने तत्र जल्पतीत्थं वियतः सोऽपि समीयिवान् समाजम् । अभिषिच्य समं वीक्षणैः सुधाभिर्विरचितमङ्गलमालपद् वचोभिः ||२९|| ॥ सप्तभिः कुलकम् ॥
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्षदुर्गपदव्याख्यालङ्कतम् । [१५
दु० व्या०-समीयिवान् समागतः सन् , वीक्षणरेव सुधाभिः ॥२९॥ दिशतु स जिनः कल्याणं वः परः परमेश्वर
त्रिभुवनजनव्यापत्तापच्छिदे धनवन्धुरः । विधुरितभवारातिवातस्तमस्तरुसिन्धुरः,
सहजपरमब्रह्माम्भोजे मराल इव स्थिरः ॥३०॥ दु० व्या०-विधुरितः व्याकुलितः व्याकुलीकृतः ।। ३० ॥ यथा पल्वलं राजहंसाः सलील, यथा रत्नकामाश्च माणिक्यशैलम् । यथा पार्वणं कौमुदीशं चकोरा मुदाऽऽलोकयंस्तं तथा सभ्यपौराः ।।
दु० व्या०-माणिक्यशलं रोहाणाचलम् ॥३१ ।।
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्य सुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे आर्यागीति
वैतालीयादिलक्षण-पुरनरेश्वर-सभासिद्धपुरुषागमवर्णनो नाम द्वितीयः सर्गः ॥
॥ प्रन्थानम् ५७ अ०९॥
A रवि ।
२ क्याङ्कप्रन्थे दुर्गपदव्याख्यायुक्तश्री R ।
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः सर्गः।
अथ प्राच्यवृत्ति-अपरान्तिकालक्ष्यम्उच्छ्यन्नथ स दक्षिणं करं, रोजदन्तरुचिहारमुधुरम् । ढोकयनपरुषाक्षर गिरं, व्याहरत् प्रति घसुंधरेश्वरम् ॥ १ ॥
दु० व्या०-स सिद्धपुरुषः । उधुरं उत्कृष्टम् । अपरुषाक्षरं सुकोमलाक्षरं यथा भवति ॥ १ ॥ त्वं जय प्रण यिनां सुरद्रुमस्त्वं जय प्रथितभूरिविक्रमः । त्वं जय प्रभुजयन्तनन्दनस्त्वं जयारिविटपिप्रभञ्जनः ॥२॥
दु० व्या०-[अरिविटपिप्रभञ्जनः ] अरिवृक्षेषु वायुः ॥ २ ॥ अद्य नेत्रकुमुदे मुदास्पदं, प्रीतिमाहतचकोरवन्मनः । वीक्षितोऽसि वसुधासुधाकरस्त्वं महीधरधृतस्फुरत्करः ।। ३ ।।
दु० व्या०-मुदाम्पदं जाते । महोधरैः भूपैः पर्वत : धृताः स्फुरतः कराः, किरणः करो दण्डो वा यस्य ॥ ३ ॥ संभ्रमादथ वितीर्य विष्टर, निष्ठुरेतरवचा रुचा रविः । सिद्धपूरुषमुवाच भूपनिर्माणभावगमिता परक्रियः ॥ ४ ॥
दु० व्या०-संभ्रमाद्-आदरात् । गौणभावो निरादरता ॥ ४ ॥ कच्चिदस्ति कुशलं कलाविदां, मौलिमण्डनतनुनिरामया । योगवीजवपनाददुर्जनाः, क्षेत्रतामिह वृषरदुर्जनाः ॥ ५॥
दु० व्या०-' कच्चिद् ' इति अभीष्टप्रश्ने । अदुर्जनाः सन्तो जनाः । इह तन्वां वृषैः वृषभैः, पुण्यैर्वा योगवीजवपनात् क्षेत्रतां अदुः । क्षेत्र शरीरमुच्यते ॥ ५॥
१
जहंसर
।
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१७ अद्य शोभनमिदं सभावरस्त्वं, यदा श्रयसि हंसमासुर! । रंरमीति तव यत्र मानसं, तत् पुनः किमु यथाऽस्य मानसम् ।।६।।
दु० व्या०-पुनः परं तत् किं स्थानम् ! यत्र तव मानसं चित्तम्, रंरमीति अत्यथ रमते । यथा अस्य हास्य मानसं सरःस्थानं स्यात् ।। ६॥ दन्तदीधितिपरिप्लुताधराः सिद्धपूरुपगिरोऽथ रेजिरे । विद्रुमेन्दुरुचियुसुधाच्छटा हुद्भीरजलधेरिव स्फुटाः ।। ७ ॥
दु० व्या०-अधराणां प्रवाळत्वम् , दन्तकिरणानामिन्दुरुचित्वम् , गिरा सुधात्वं ज्ञेयम् ॥ ७॥ अस्ति भूपतिलकोपमं घरांभालभूषणमिलापुरं पुरम् । वाचान्द्रकपिशीर्षमण्डली, यत्र संश्रयति मौक्तिकश्रियम् ॥८॥
दु० व्या०-चान्द्रेति चन्द्रकान्तमणिमयेत्यर्थः ॥ ८॥ यत्र मानससरम्पयस्तरुच्छायसंश्रयमुखी लभेज्जनः । नादसौख्यमपि नीरहारिणी, नूपुरध्वनितहंसकूजितः ॥ ९॥
दु० व्या०-छाया-समादिशब्दानां समासेऽत्वम् । 'लम् धातुः परस्मैपदेऽपि । 'न लभन्ति कदाचनापि कुशलं लभमानः' इत्यादि महाकविलक्ष्यदर्शनात् ॥ ९॥ अग्निमित्र इति तत्र वेदवित् , षट्सु कर्मसु पटुर्द्विजोऽभवत् । रोहिणीत्यजनि तस्य गेहिनी, स्नेहिनी सकलगेहनीतिवित् ।।१०॥ दुर्नयोऽथ तनयोऽनयोरभूत , धुत चौर्यपरदारसादरः। चन्दनादपि न धूमलाञ्छनो, भास्करादपि शनिने कि सुतः॥११।।
१. लकं वसुन्धरा' A
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरितमहाकाव्यम्। [तृतीयः स भ्रमन् विपिनमन्यदा मुनि, वीक्ष्य पूर्वसुकृतैरवन्दत ! प्रीतिमांश्च भवतापहारिणीरापिवत् तदुपदेशसारणीः ॥ १२ ॥
दु० व्या०-पूर्वभवसुकृतैः ॥ १२ ॥ जैनधर्ममनवाप्य भूपनि, के न मोहमदनादिदस्युभिः । लुण्टिता भववने चरिष्णवस्तं प्रसादय ततो मुने ! मयि ।।१३।।
दु० व्या०-के पुरुषाः ।। १३ ॥ इत्यनेन वचसा विचक्षणस्तं प्रति प्रतिवरो वितीर्णवान् । द्वादशत्रतविचारपूर्वकं, धर्ममर्म शिवशर्मकारणम् ॥ १४ ॥ क्षेत्रमस्य परिवारितं तथा, कण्टकैः सुकृतवीजरोपणे । तन्त्र नैव पदमादथे यथा, धर्मवर्जितकुदृष्टिदम्युभि ॥ १५ ॥
दु० व्या०-क्षेत्र गरीरम , कण्टकैः पक्षे रोमाञ्चैः ।। १५ ।। खेचरद्वयमितश्च संघरद्, व्योम्नि वन्दितुमुपाययौ मुनिम् । वीक्ष्य तचपलहेमकुण्डलं, सोऽस्मरत कटरि धर्मजं फलम् ॥१६॥
दु० व्या०-स वि गोऽ मरत् चिन्तयामास । 'कटरि' इत्याश्चर्यकारि ।। धर्मतः सकलमङ्गलावली, धर्मनः सकलशर्मसंपदः ।
धर्मतः स्फुरति निर्मलं यशो, धर्म ए। तदहो ! विधीयते ॥१७॥ व्योमगद्वयमथो रथोपम, सिद्धिवर्मनि मुनि प्रणम्य तत् । तत्र पूर्वविनिविष्टवाडवं, वीक्ष्य कोऽयमिति तं व्यजिज्ञपत् ॥१८॥
दु० व्या०-तत् खेचा अम् । तं मुनिम् ॥ १८ ॥ एष वा ननु सधर्मधर्मभाग, धर्मबान्धव इति प्रपद्यताम् । तत् तथेति परिगृह्य तगिरं, वन्दनं विदधते स्म वाडवे ॥१९॥
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [१९
दु० व्या०--वां युवयोः । सधर्मसदृशः । तत् खेचरद्वयं तन्मुनिरिति ॥ १९ ॥ ते त्रयः प्रणतसाधवो नवोद्भूतसम्मदतरङ्गरङ्गिताः।.. विश्वकाम्यकमलाश्रयास्ततो, हंसवद् वनविहारिणोऽभवन् ॥२०॥
दु० व्या०-हंसपक्षे वनं जलम् ॥ २० ॥ मित्रखेचरवितीर्ण विद्यया, वाडवोऽपि खलु खेचरोऽभवत् । योगिनां कनकचूर्णयोगतः, किं न लोहमपि हेमतो लभेत् १ ॥२१॥ प्रीतिभाक् त्रिभुवने भ्रमन् भ्रमन् , नव्यतीर्थनिवहं नमन् नमन । सोऽहमेष मुनिनारदोपमः, श्राद्धधर्मनिरतोऽस्मि भूपते ! ॥२२॥ अद्य हृद्यजिनमन्दिरोदरोत्क्षिप्तधूपभवधूमदम्भतः । निर्यदूजिततमो निरन्तरं, त्वत्पुरं नरपते ! समागमम् ।। २३ ।। जैनशासनसरःसितच्छदं, श्रावकोत्तमगुणधियां पदम् । त्वां विलोक्य नृपमौलिमण्डनं, प्राप पापवनखण्डखण्डनम् ॥२४॥
दु० व्या०-अहं कर्ता । पापवनस्य खण्डखण्डनं कर्म ।। २४ ।। भूपते : भुवि न सन्ति के नृपा ये कृपाविभवदुर्विधा मुधा। हारयन्ति हि हहा ! जनुःफलं, निष्कलङ्कसुकुतः परं भवान् ॥२५॥
दु० व्या०-जनुः जन्म ॥ २५ ॥ किन्तु सिद्धपुरुषस्य दर्शनं, निष्फलं नहि महीपते ! कचित् । तद् वर वृणु मनीषितं हितं, मा विधेहि मम फल्गु भाषितम् ॥२६॥ भूपतिस्तमवदद् विदांवरं, दर्शनात् तव ममामवद् वरम् । लब्धदुर्लभजिनेन्द्रशासने, बाह्यवस्तु न मनोहरं मयि ।। २७ ।।
दु० व्या०-विदां-विदुषाम् , वरं श्रेष्ठम् ॥ २७ ॥ अङ्गजा गुणयुता मतङ्गजाः, संगमाः सुखकरास्तुरङ्गमाः । सर्वमेव सुलभं भवेङ्गिना, जैनधर्म इह दुर्लभः पुनः ॥ २८ ॥
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.org
Acharya Shri Kailassagarsuri Gyanmandir
२०] श्रीश्रीधरचरितमहाकाव्यम् । [कृतीया सिद्धखेचरवरः क्षमापति, प्राह साहसवता शिरोमणे!। धीरया मधुरया भवगिरा, धूनयन्त्यपि शिरः सुरासुराः ॥२९॥
दु० व्या०-सुरासुरा अपि ॥ २९ ॥ । सर्वमस्ति तव सर्वभूभृतां, गर्वखर्वणमखर्वतेजसः । भि किन्तु तनयो नयोज्ज्वलस्त्वत्कुले दिवि रविन विद्यते ॥३०॥
दु. व्या-खर्वणं-नीधिवीकरणम् । अखधं प्रौढम् ।। ३० ॥ तद् गृहाण गुटिकामिमां मम, वं लभस्व सुतमद्भुतं द्रुतम् । एतयाऽस्तु सुकृताऽऽम्रज फलं. लूक्येव तव पाकपेशलम् ॥३१॥ आदाय तां वैनयकेन सिद्धराज समाजं च विसृज्य राजा। जिनेन्द्र पूजां विरचय्य पट्टदेव्यै ददे देवगुरुस्मृतिज्ञः ॥ ३२ ॥ दु. व्या०-वैनयकेन-विनयकर्मणा । ज्ञः-निपुणः ॥ ३२ ॥ औदार्यादिगुणवयदि जयाचन्द्रो नयेन्द्रोऽखिल
क्षोणीमण्डलनायकेषु नियतं माणिक्यलक्ष्मी ललौ । स्थाने काञ्चनमुद्रिकामिव परीरम्भेण रम्भासमां
भेजे तां सकलावतीमविकलप्रेम्णा निशि प्रेयसीम् ।। ३३ ।। दु० व्या०-नाशकेषु पक्षे हारान्तमणिषु । स्थाने-युक्तम् ॥ ३३ ॥
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे अपरान्तिका
लक्ष्यसिद्धपुरुषस्वरूपगुटिकाप्राप्तिवर्णनो नाम तृतीयः सर्गः ॥ ॥ प्रन्थानम् ४८ अ० ७ ॥
१. 'लप्रेमा नि B। २. "रवि A। ३. क्याङ्कग्रन्थे दुर्गपदव्याख्यायुक्त श्री R
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः सर्गः ।
अथ श्लोकादिच्छन्दः || लोकपदेऽष्टौ वर्णाः विषमे ह्याद्योऽन्यो वा
वर्गों गुरुबु मध्ये गद्यम्, आद्यत्र नसौ विनाऽन्ये गणाः यथेच्छं स्युः । तदये च मसौ विना तेन पडपि इति । समेऽप्यायान्या ग्लौवा मध्ये स्वायान् न रसान् विनाऽन्ये पञ्च तदग्रे तु ज एवेति । उच्यते च
नाथानसौ विषमेऽधेर्यजौ भनरता गणाः
नाद्यान्नरसाः समे जोऽब्धेरिदं लोकस्य लक्षणम् ॥ १ ॥
षोडशमात्रे छन्दसि ।
मात्राष्टकात् न्ले जे वा वानवासिका ।
अनाये जे नवमे ले मात्रासमकम् ! नवमे गे उपचित्रा |
पञ्चाष्ट - नवसु के चित्रा | वानवासिकादिपादैः कृतं पादाकुलकम् । षट्कला चतुष्कलद्वयं ततो द्वे कले वदनकम् । तमितमन्तेऽडिल्ला |
चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका । नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा । भथैषां लक्ष्यम् ॥
अथ रत्नाङ्कुरं रत्नगर्भेव नृपवल्लभा । गर्भ दधौ हरिस्वप्नसूचिताऽद्भुत संपदम् ॥ १ ॥
दु० व्या० - श्लोकादिलक्षणं सुगमम् । हरिः सिंहः ॥ १ ॥
१ त्यो B
२ वेदं स्युः A ।
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
वल्लभाऽपि स्वभावेन, सगर्भाऽभून्मुदेऽधिकम् । नृपचेतसि सा चूतलवलीव फलोन्मुखी ।। २ ।। सा काले सुपुत्रे सूनुमनूनगुणलक्षणम् । प्रभयास्ततमः पूरं, सूरं हरिहरिद् यथा ॥ ३ ॥ दु० व्या० - हरिहरित - पूर्वदिक ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तज्जन्मज्ञापकेभ्योऽदात्, प्रमोदाब्धिपरिप्लुतः । अङ्गाभरणभारं किं, निमज्जनभयान्नृपः || ४ ||
ध्वज व्याजान्मुदम्भोधेर्विलेसुचपलोर्मयः । व्यक्ता मुक्ता व्यलोक्यन्त, तद्भवाः स्वस्तिकेषु च ॥ ५ ॥
दु० व्या०- तद्भवाः- मुदम्भोधिभवाः || ५ ||
मेदिनीशो मुदा बन्द-मोक्षं चक्रेकस्य किम् । भविष्यत्पुण्य कारुण्यस्वभावस्यानुभावतः || ६ || पुरे विरेजिरे विश्वंभराः कुङ्कुमपिञ्जराः । अरुणैः किरणैस्तस्य, बालबालरवेरिव ॥ ७ ॥
दु० ० व्या० - बाल एव बालार्कस्तस्य ॥ ७ ॥
[ चतुर्थः
इति जन्मोत्सवं जानपदैः सह सुतस्य सः । कृत्वा विजयचन्द्राख्यां ददौ द्वादशवासरे ॥ ८ ॥
For Private And Personal Use Only
लाल्यमानः स धात्रीभिरतिमात्रीकृतादरत्र | अभूद् राजसभायोग्यो, बालहारकटीस्थितः ॥ ९ ॥
दु० व्या० अतिमात्रीकृतः - अधिकीकृतः ॥ ९ ॥
१. बन्धमो R । २. रुगाः कि° B
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपशदुर्गपदव्याख्यालङ्कृतम्। [२३ ,
सभा पासरत्येष, शिशु मिभुजां भजन । कराम्भोजान कराम्भोज, रेजे राजमरालवत् ॥ १० ॥ दु० व्या०-एषः स पुत्रः ॥ १० ॥
आनन्देन समं पित्रोवर्धमानवया स्यात् ।
शशिवत् कलयामास, सकलाः सकला: कलाः ॥ ११ ॥ दु० व्या-कला-मनोज्ञा ॥ ११ ॥ चारुतारुण्यकमलाऽऽलिङ्गिताङ्गः क्रमेण सः । वसन्तश्रीश्रितः कल्पशाखीव सुषमामगात् ॥ १२ ॥ दु० व्या०-सुषमाम् --अतिशायिनी शोभाम् ॥ १२ ॥ विद्ययाऽपि विधुं वेधास्तदाऽऽस्येन्दुस्मृतेरिख । सावज्ञमुपरि भ्रामात् , क्षिपत्यन्यत्र कुत्रचित् ॥ १३ ॥ काऽk कामसमं वीक्ष्य, निकामं कामपत्रिणाम् । लक्ष्यतां न ययौ' तीक्षाकटाक्षर्लक्षशो नती ।। १४ ॥ दु. व्या०-कात्री । लक्ष्यतां वेध्यताम् ॥ १४ ॥ पौरीदकशुक्तिपेपीयमानलावण्ययोवनः ।। अन्येा मित्रयुमित्रैः, परीतः स ययौ वनम् ॥ १५ ॥ श्रीजिन त्रिदिवाऽऽरामे, दीव्यस्तत्र पवित्रधीः । मित्रैः गमं स मन्दारमिवापश्यन्मुनीश्वरम् ॥ १६ ॥ दु० व्या-सः कुमारः ।। १६ ॥ अभिनम्य समासीनमदीनममि तं जगौ। श्रितसौन्दर्यधुरया, मुनिर्मधुरया गिरा ।। १७ ।। दु० व्या०-अभि तं-तं प्रति ॥ १७ ॥ १. यौ नती कटाक्षरपि लक्षशः ॥१९॥ A ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ ]
श्री श्रीधरचरितमहाकाव्यम् ।
अस्मिन्नसारे संसारे, सारं तावन्नृणां भवः । तत्रापि धर्मो धर्मेऽपि, कृपां विद्धि नृपाङ्गज ! ॥ १८ ॥
दु० व्या०-विद्रि- जानीहि ॥ १८ ॥
यथा तारां विना चक्षुर्यथा वारि विना सरः । तथा धर्मः समग्रोऽपि न विभाति कृपां विना ॥ १९ ॥ चत्वारि पञ्च वा सन्तु व्रतानि द्वादशाऽथवा । किन्तु रक्षणमेतेषां रक्षणीयं पुनः कृपा ॥ २० ॥ राजसूस्तमथ प्रोचे, रोचितं मे भवद्वचः । जन्तुघातनिषेधस्य किं फलं तु यतिर्जगौ ॥ २१ ॥ मोक्षोऽमुष्य फलं मुख्यमित्याख्यन्नृपभूः पुनः । पालयामि कृपामेष मम कस्मिन् भवे भवेत् ॥ २२ ॥ दु० घ्या० - अमुष्य - जन्तुधाननिषेधस्य । एषः- मोक्षः फलम् ॥२२॥ उवाच ज्ञानवान् साधुर्भूरिभाग्यभरो भवान् । प्रदत्तत्रिदिवाकम्पा, पुरी चम्पाऽस्ति संपदा || २३ ॥ भूपः परमदेवोत्र, भावी भूयः पराक्रमः । देवी च ललिता तस्य, लालित्यगुणशालिनी ॥ २४ ॥ दु०
० व्या०- भूयः प्रचुरः ॥ २४ ॥
"
ऋतुं वसन्तं सा स्वप्ने, द्रक्ष्यन्युल्लसितश्रियम् । वसन्तराज इत्यस्याः सुतस्त्वं च भविष्यसि ॥ २५ ॥ क्रमात् तारुण्यपुण्याङ्गः, पद्मिनीहृदयप्रियः । स्ववंशम्भोरुहोल्लासे, सविता भविता भवान् ॥ २६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ चतुर्थः
दु० व्या०- सूर्यपक्ष क्रमेण आत्तं गृहीतम, आरण्यं - सातत्यम्, पुण्याङ्गं च येन ॥ २६ ॥
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपशदुर्गपदव्याख्यालङ्कृतम् ।
अत्यये पितुरत्यक्तसत्त्वः सचमिलापतिः । यदा तदा राणस्यां, भावी श्रीअश्वसेनराट् ।। २७ ।। दु० व्याo-अत्यये-विनाशे ॥ २७ ॥ सूचितश्च महास्वप्न माकुक्षिसरोऽम्बुजम् । तद्वंशवनपारीन्द्रो, जिनेन्द्रोऽवतरिष्यति ।। २८ ।। दु० व्या०-पारीन्द्रः-सिंहः ॥ २८ ॥ नवपाणितनु लद्युतिः फलपतिध्वनः। स सुरासुरसंपूज्यः, श्रीपार्श्वख्यातिमेष्यति ॥ २९ ॥ बाल्ययौवनलीलां च, भूयसीमनुभूय सः। गृहवासं परित्यज्य, गृहीता संयमश्रियम् ॥ ३० ॥ अनिर्जितो इठेनापि, कमठेन शठेन सः ।। पादाब्जप्रणमद्देवः, केवलज्ञानमास्यति ॥ ३१ ॥ स्वामी चामीकराम्भोजन्यस्तकमसरोरुहः।। क्रमेण विरहन् धात्री, चम्पापुरमुपैष्यति ॥ ३२ ॥ सुरास्तत्र विधास्यन्ति, प्राकारत्रयमत्र च । स्वर्गसिंहासने स्वामी, रविवत् प्रविभास्यति ॥ ३३ ॥ तदागमसमुल्लासिहदयः सपरिच्छदः । वसन्तराजराजोऽपि, प्रभुपादौ प्रशंस्यति ॥ ३४ ॥ प्रबुद्धो भगवद्वाचा, गत्वा चम्पापुरीमसौ । न्यस्य राज्ये निजं पुत्रमुपश्रीपार्श्वमेष्यति ॥ ३५ ॥
1. वणारस्यां B।
२. प्रतिभा' AI
आ.
परि न्हा
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ ] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः
संप्राप्य संयम स्वामिकरण किल केवली । स भावी सिद्धिकमलाकोडीकृतिकुतूहली ।। ३६ । दु० व्या०-कोडीकृतिः-आलिङ्गिता ॥ ३६॥ श्रुत्वेति श्रमणगिरं, प्रणिधातनिषेधनम् । अबक्रेण हृदा चके, मुदा राजमुतस्तदा ।। ३७ ।। भूरिभक्त्या मुनि नत्वा, मित्रैः सह स हर्षवान् । संप्राप समनि छम, श्रीपार्श्वस्मृतिलालसः ॥ ३८ ॥ यत्प्रसादाद् ध्रुवं सिद्धिरुपकारी स एव मे । इति पार्श्वप्रभोमूर्ति, रचयित्वाऽञ्चति स्म सः ॥ ३९ ॥ आयातः स सभां प्रातः, पितरं नन्तुमन्यदा । ददर्श दर्शनीयाङ्गं, हयं केनापि ढौकितम् ॥ ४० ॥ किं हेलितेजः सर्वस्वं, हत्वा नष्टोऽष्टमो हयः । सैष तेजोऽधिकस्तस्मात् , सप्तसप्तिः परोऽपि यत् ॥ ४१ ।। दु० व्या०-हेलि:-सूर्यः । सप्तसप्तिः-सप्ततुरङ्गः ।। ४१ ॥ परीक्ष्योऽयं मया ध्यायन्निति विज्ञप्य भूपतिम् । कुमारो हयमारोहदुच्चैःश्रवसमिन्द्रवत् ॥ ४२ ॥ युग्मम् ।। अदैन्यसैन्ययुक्तोऽसौ, वाह्याल्यां वाह्यकोविदः । हयं परीक्षयामास, स्पष्टं गतिचतुष्टये ॥ ४३।। वेगसारो यश्चेति, चिन्तयंस्तं नृपात्मजः । दृढीकृत्य स पर्याणममुश्चत शरं यथा ।। ४४ ॥ क्षणादहश्यो लोकानां, शति यातीति जल्पताम् । पञ्चमीगतिमासाद्य, हयः सिद्ध इवाभवत् ।। ४५॥
१. "चमी ग
B !
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । यथा यथाऽकृषद् वल्गां, कुमारः स तथा तथा । चचाल व्यालवदनो, वैनतेय इवोत्पत्तन् ॥ ४६॥ दु० व्या०-व्याल:-सर्पः ॥ १६ ॥ जन्तुवत् कर्मणा तेन, नीयमानेन कानने । कुमारेण कराद् वलगा, मुमुचे खिनचेतसा ।। ४७ ॥ वातपूर्णमुखमाणोऽश्वोऽपि तत्रैव तस्थिवान् । मेने राजाङ्गजेनायं, वैपरीत्येन शिक्षितः॥ ४८ ॥ तस्मादुत्तीर्य पर्याणे, कुमारेण विदूरिते । अस्वामिभक्त इत्यश्वः, स प्राणैः परितत्यजे ।। ४९ ॥ क्रमचारी भ्रमन्नेष दवदग्वद्रुमे वने । फलं जलं विना क्षुत्तुट्पीडितोऽगमयद् दिनान् ॥ ५० ॥ दशमे वासरे तत्र, निषण्णं खिन्नविग्रहम् ।। पिव नीरमिदं भद्रेत्यभ्यधात् कोऽपि तं नरम् ।। ५१ !! दु० व्या०-विग्रहः-देहम् ॥ ५१ ।। सोऽपि कण्ठगतप्राणः, प्रतिवक्तुमशक्नुवन् । पयः पीत्वाऽवदत् कस्त्वमित्येनं सोऽपि तं जगौ ॥ ५२ ॥ अदूरेऽस्ति पुरं स्वस्तिपात्रं श्रीहस्तिनापुरम् । यत्र मुक्तामया लोका हारा एव गुणोज्ज्वलाः ।। ५३ ।। दु० व्या०-मुक्तामयाः पक्षे मुक्तरोगाः ॥ ५३ ।। तत्र पालयति प्राज्य, राज्यं राजा गजभ्रमः । विजया पट्टदेव्यत्येन्द्रस्येव जयवाहिनी।। ५४ ।। दु० व्या०-जयवाहिनी-इन्द्राणी ॥ ५४॥
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८] श्रीश्रीधरचरितमहाकाव्यस् । चतुर्थः
मृगयाव्यसनी सोऽयं, ससैन्योऽत्रावतिष्ठते । अहं भृत्योऽस्मि तस्यातस्त्वमप्येहि नृपान्तिकम् ।। ५५ ।। नोत्तिष्ठति कुमारेऽस्य, वृत्ते चानेन वेदिते। भूभुजा स्वान्तिकं भृत्यैरानायि विनयेन सः ॥ ५६ ।। तेनालापं नृपः कुर्याम् , यावत तावचरैनरैः। ऊचे पवनवेगेन, कुरङ्गा यान्त्यमी इति ।। ५७ ॥ तच्छ्रुत्वा चापभृद् भूपो, हयारूढो रयादभूत् । विततार कुमाराय, चतुरं च तुरङ्गमम् ॥ ५८ ।। सोऽपि तं हयमारुह्य, परासह्यपराक्रमः । सतन्त्रं भूपति स्माह, सोत्साह्यचनक्रमः ॥ ५९॥ ययमेकदिशा यात, प्रेरयध्वं मृगानितः । स्थाने यथाऽहमेकोऽपि, रक्षामि निखिलानमून् ।। ६० ॥ दु० व्या०-स्थाने पक्षे युक्तम् ॥ ६० ॥' राज्ञा तथाकृते तेन, कुमारेण कुमारणात् । विमुक्ता हरिणाः सर्वे, धर्मद्वारा प्रजा इव ॥ ६१ ।। कुपितेनेव भूपेन, किमेतद् विहितं त्वया । इत्युक्त सोऽवदत् तात ! , युक्तमेव मया कृतम् ।। ६२ ।। रणाङ्गणेऽपि मुच्यन्ते, वैरिणस्तृणभक्षणाव । निर्वैरा हरिगा एते, वधमर्हन्ति तत् कथम् ? ।।६३ ॥ रणाङ्गणे यो मत्खड़गनटो नर्तयते भटान् । कथंकारं करोत्येष, कुरङ्गेषु विजम्भितम् ॥ ६४ ॥ १. ॥ तथा राज्ञाक° A
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । २९
दु. व्या०-कुरङ्गेयु पक्षे कुत्सितरङ्गेषु ॥ ६४ ॥ रञ्जितोऽभ्यन्तरे राजा, भाषे कोपभृद् बहिः । कुरुध्वं गौरवं योग्य, वाचाटस्यास्य भो भटाः ।।६५ ॥ तेषु स्थितेषूदनेषु, सवेगादृश्यविग्रहः । अनिनन् कृपयाऽमीपां, कृपाणश्रममातनोत् ।। ६६॥
दु० व्या०-वेगेन अदृश्यः । अमीषाम् "निप्रेभ्यो नः" [२. २. १५ ] इति पदेन पष्ठी ॥६६॥
अहो ! शौर्यमहो ! धर्यमहो! चातुर्यमद्तभुम् । स्तुवनिति निवार्यास्मान्नृपतिः पयरब्ध तम् ॥ ६७॥ दु. व्या०-अस्मात्-कृपाणश्रमात् । पयरब्ध-आलिलिङ्ग ॥६७ ॥ भूभुजा सादरं पृष्टः, स स्वं वृत्तमचीकथत् । भूपोऽवग् मम मित्रस्य, सुतस्त्वमसि मेऽपि तत् ।। ६८।। अथासौ ससुतंमन्यो, मृगयाविनिवृत्तधीः ।। पुरं गजपुरं गर्जन्महेन महताऽविशत् । ६९ ॥ कुमारं नृपतिः प्रोचे, वत्साऽऽदत्स्व पुरादिकम् । सोऽप्यचक् सांप्रेतमस्तु, तात ! त्वत्पदसेवनम् ॥ ७० ॥ दु० व्या०-आदत्स्य-गृहाग ॥ ७० ॥ दत्तायां स्वाङ्गसेवायां, तस्मै तुष्टेन भूभुजा । निशीथेऽन्येधुरभावि, रुदितं करुणं स्त्रियाः ॥ ७१ ।। केयं रोदिति हाहेति, हेतिभिर्निहतेव हा । हन्त ! हेतुमिमं पश्य, कुमारमिति सोऽब्रवीत् ॥ ७२ ॥ १. प्रतं मेऽस्तु B । २. नियः BI
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३० ]
श्रीश्रीधरचरितमहाकाव्यत् ।
[ चतुर्थः
दु० व्या० - हाहेति कृत्वा । हेतिभिः - प्रहारेण (२) । ७२ ।। विद्युदुत्क्षेप किरणाद्, प्रमुल्लङ्घय सोऽगमत् । करवालकरः शब्दानुसारी प्रेतमन्दिरम् ॥ ७३ ॥ कन्यकावरीपाणि, कर्त्तिकाकुत्ततत्पलम् । उपज्यलवह्निकुण्डं, सोन्द्राक्षीत् तत्र योगिनम् ॥ ७४ ॥ रे रे ! मातङ्गकर्माऽसि पाखण्डिन ! खण्डितत्रत ! | इत्युक्तस्तं जगौ योगी, बद वीर ! शनैः शनैः ॥ ७५ ॥
अष्टोत्तरशता हुत्या, भेटको मम सेत्स्यति । सोवादीत् तेन किं कार्य, यस्मै नापि मायेते ॥ ७६
"
Acharya Shri Kailassagarsuri Gyanmandir
अनार्यकार्यमेतचेत् कार्यमेव तत्रास्ति तत् ।
मुञ्च कन्यामिमां स्वाङ्गमांसाहुतिमहं ददे ॥ ७७ ॥ कुमार- योगिनोस्तत्र, तत् कर्म विदधानयोः । भास्वानिव क्षणेनाख्यत् प्रत्यक्षीभूय चेटकः ॥ ७८ ॥
>
त्वं कुमार ! गुणाधार !, जय कारुण्यसागर ! | साहसात् तच तुष्टोऽस्मि, वरं वृणु समीहितम् ॥ ७१ ॥ स जगौ सिद्धतां याहि योगिनस्त्वन्नियोगिनः । सोऽवक सिद्धमिदं स्वार्थ, प्रार्थपाडलं तु सोऽब्रवीत् ॥ ८० ॥ दु० व्या० - स्वन्नियोगिनः स्वव्यापारिणः । अलम्-पर्याप्तम् ||८०||
तथापि गारुडं मन्त्रं दत्वा तं स्माह टकः । कार्ये स्मार्योऽस्मि ते नित्यमद्यप्रभृति किङ्करः ।। ८१ ॥
ទូ
सञ्जीकृत्य ययौ कन्यां कुमारं च स चेटका बालामालापयत् सोऽपि भूपालाभ्यर्णमागमत् ॥ ८२ ॥
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्त्रोपश दुर्गपदव्याण्यालङ्कृतम् । [३१
कस्याङ्गजाऽऽसीत्युक्ता सा, व्याहग्न्नृपति प्रति । त्वत्पुरे दत्तनामाऽस्ति, श्रेष्ठी श्रेष्ठगुणालयः। ८३ ॥ तस्याहं दुहिता हन्न ! , वसन्तश्रियमीक्षितुम् । वनं गता वयस्याभिषियुक्ता योगिना धृता ।। ८४ ।। आननाव तस्य दृष्टस्य, व्याघ्रस्येव कुरनिका! मोचिताऽनेन वीरेण, रुच्येन, रुचिशालिना ।। ८५ ॥ दु० व्या०-रुच्येन-मनान, पक्षे मा ।। ८५ ॥ कुमारं प्रति तद्वाचं, भावगर्मा निशम्य ताम् । नृपतिर्मुदितः प्रेमीद् , दत्तमाकार्यतां गृहम् ॥ ८६ ।। दु० च्या-ताम्-कन्याम् ॥ ८६ ।। द्वितीये दिवसे प्रातस्तस्यास्तातः सभास्थितम् ।। क्ष्मा जगौ कुमारेण, चौर्य चक्रे करोमि किम् ? ॥ ८७ || संभ्रान्ने मसभे भूपे, कुमाराननवी क्षिणि । श्रेष्ठयाह श्रूयतां देव ! , यथा चौर्यमजायत ।। ८८ ।। याऽनेन नाथ ! वीरेण ररक्षे योगिरक्षमः । पेटामा रूपरत्नस्य, सा मे रत्नावली सुता ।। ८९ ॥
दु० व्या०-य:--कन्या ।। ८९ ॥
जहे हेपितमारेण, कुमारेणैव तन्मनः । ताताशङ्कोज्झितस्तेन, पीडयेत् ता मनोभवः ॥ ९ ॥ दु० व्या०-तात:-मनः ॥ ९० ॥
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः
भक्ति व्यनक्ति नो पित्रोन मुनक्ति न वक्त्यपि । न युनक्ति न सधीचीः, सा भिन्ना कामशक्तिभिः ॥ ९१ ॥ अथो किमिति जल्पाके, राज्ञि स्मित्वाऽऽह धीसखः । कुमारे क्रियतां दण्डस्तद्भुजापाशबन्धनम् ।। ९२ ॥ मुदितेष्यथ सभ्येषु, भूपतिः श्रेष्ठिनं जगौ। कुरु वैवाहिकं काय, सोऽपि दृष्टो गृहं ययौ ।। ९३ ।। लग्ने मौहर्तिकर्दत्ते, प्रवृत्तेऽथ महोत्सवे । कुमारः प्रातरन्येारचलद् क्रीडितुं वने ।। ९४ ॥ पुरान्तरा ब्रजप, पुरः कुस्वरडिण्डिमम् । क्रन्दन्नारीनरं वीक्ष्य, कुणयं भृत्यमब्रवीत् ।। ९५ ॥ मृतः क इति सोवादीनयमारस्य मन्त्रिणः । बाला कनकमालाऽऽख्या, मालावद् गुणशालिनी ।। ९६ ॥ निशि ध्वान्ते भुजङ्गेन, गृहीता करपल्लवे । जीवितेनोज्झिता युक्तं, सा याति पितृमन्दिरम् ॥ ९७।।
दु० व्या०-भुजगेन, पक्षे गणिकापतिना । पक्षे जीवितस्य इन:स्वामी-भर्ता, तेन त्यक्ता । पितृमन्दिरं पक्षे स्मशानम् ॥ ९७ ॥
कुमारोऽवम् द्रुतं याहि. मृतकं स्थापय क्षणम् । अयं तथाकृते तेन, तत्र गत्वा व्यलोकयत् ॥ ९८ ॥ तेन गारुडमन्त्रेणाभिमन्त्रिनजलोक्षणात् । क्षणाद् विचक्षणाय्येणोजीविता सा मृगेक्षणा ॥ ९९ ॥ दु० व्या०-उक्षणात्-सेचनात् ॥ ९९ ॥
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपज्ञदुर्गपदव्यास्थालङ्कृतम् ।
हर्षोन्मत्ते जने बाला, सा सुखं तन्मुखं पपौ । मन्त्री कन्यां गृहं निन्ये, धन्यंमन्यो महोत्सवैः ॥ १०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुमारेऽपि वनं गत्वा, रन्त्वा प्राप्ते स्वमाश्रयम् । नय सारसभामेत्य, नत्वा भूपं व्यजिज्ञपत् ॥ १०१ ॥ उज्जीविता कुमारेण, परं मारेण मे सुता । दूयते वारणेऽप्यस्य, तमेव शरणं कुरु ॥ १०२ ॥ प्रपने भूभुजा सोsपि, वैवाहिकविधिं व्यधात् । स्वजनाशाभिराकृष्ट, इवा गाल्लग्नवासरः || १०३ ॥ कुमारः कृतशृङ्गारः, करीन्द्रमधिरूढवान् । धृतच्छत्रः स्फुरच्चारुचामरः स रुचामरः ॥ १०४ ॥ दु० व्या० - रुचा अमरः ॥ १०४ ॥
वर्ण्यमान गुणैर्भर्वणिनीगीतमङ्गलः । स प्राप मण्डपागारद्वारं तोरणमण्डितम् ॥ १०५ ॥
कृतोचितक्रियो बिन्दुवधूवृन्दैः क्षणे क्षणे । मृगेक्षणे उपयेमे, क्षणेऽसौ लग्नलक्षणे ॥
दु० व्या० - बिन्दुः- निपुणः । मृगेक्षणे द्वे ॥
१०६ ॥
For Private And Personal Use Only
१०६ ॥
जनितस्वजनानन्दः, कृते यौतुककौतुके । समहं स गृहं प्राप, वीक्षमाणः पुरीजनः ॥ १०७ ॥
[1
दु० व्या० - यौतुकम् - युतयोर्देयम्, कौ - पृथिव्याम् ॥ १०७ ॥ रतिप्रीतिसमं पौरैस्तस्य वीक्ष्य वधूद्वयम् । ऊचे पृथिव्यामयं मारः कुमारत्वं ततोऽत्र किम् १ ॥ १०८ ॥
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीश्रीधरचरितमहाकाव्यम् ।
तु दु० व्या०-मारः-कामः । कुमारस्तस्य भावः ।। १.८॥ वसुधावासवो वासवेश्म तस्मै विधाप्य तम् । उवाच सेवयाऽलं ते. वत्स ! क्रीड यथासुखम् ॥ १.९॥ इति नृपतिनिदेशस्त्यक्तसंफ्लेशलेशः,
कृतकुनयविदेश: पेशलश्रीनिवेशः । रतचतुरकुरङ्गीक्तरङ्गी भविष्णुः,
स्मररसमनुषङ्गी सोऽभजद् भोगमङ्गीः ॥ ११० ।। दु० च्या०-कुरकीहक् स्त्री ।। ११०॥ लसल्लक्ष्मीलीलाविनयनयलावण्यलहरी
परीतं पचिन्योर्युगलमविकल्पप्रणयमाक् । स भेजे शोभाभिः सुभगरुचिमाणिक्यभवने,
विलासैः कासारे मधुकर इवानन्दजनने ॥१११॥ . दु० व्या०--रुच्शब्दः ॥ १११॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे श्लोकलक्ष्यविजयचन्द्रपाणिग्रहणवर्णनो नाम
चतुर्थः सर्गः॥ प्रन्थानम् ॥ १२५ ॥ अ० २४ ॥
यस्वने ।
२ रवि A
अक्षणवि B।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्वमा सर्गः। राज्यलक्ष्मी कुमोरेन्द्रे, न्यस्य भूपों गजभ्रमः । अथाऽऽर्यरक्षिताचार्यपादाम्ते व्रतमग्रहीत् ।। १ ।। राजा विजयचन्द्रोऽपि, चन्द्रोज्ज्वलयशोमरः । प्रजा इवानुरागेण, पालयामास स प्राः ॥ २ ॥ दु० व्या०-प्रजा इव अपत्यानीव ॥ २॥ अन्येास्तं सभासीनं, वेत्रधारी व्यजिज्ञपत् । पुरीवाराणसीशस्य, दूतो द्वारेऽवतिष्ठते ।।३॥ आनयेति नृपाज्ञप्तः, सोऽपि दूतमुपानयत् । नत्वा निविष्टं तं भूपः, स्माह विस्मेरया गिरा ॥ ४ ॥ कचिद् वाराणसी स्वस्था, प्रजाः प्राप्तशुभवजाः । तन्नायको गतापाय:, मापं दूतोऽप्यभाषत ।। ५ ।। उत्तरं प्रश्न एवात्रास्मन्नाथे निरपायता। तुच्छ्वत् पृच्छयमाना तु, राजन्नौचित्यमश्चति ।। ६ ॥ यस्य प्रतापकाश्मीरैर्यशः कर्पूरमिश्रितः।। कृताङ्गरागा दिकान्ताः, स्वपतीनां हरन्ति हृत् ॥७॥ भूपालमौलिमौलिस्थक्रमे भूरिपराक्रमे । सापायत्वं कुतस्तस्मिन् , स्वप्नेऽपि हि विभाव्यते ? ८॥ नयी विजयते स श्रीरुक्माङ्गदनरेश्वरः । तद्वाचिक समद्वाचा, : कुण्डलतां नये ॥ ९ ॥
रेन्दी न्य. RI २ वाणारसी BI ३ बाणारसी B । ४ करें 5 BI
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६ ]
श्रीश्रीधरचरितमहाकाव्यम्। [पञ्चमः आगच्छ तुच्छता त्यक्त्वा, सेवां कुरु मयि स्वयम् । देहि वा दण्डमुद्दण्डप्रचण्डद्युतिडम्बरे ॥ १०॥ अथवा वीरमानित्वान्ममाज्ञां नैव मन्यसे । एकमेव वचस्तर्हि, सज्जीमव रणाङ्गणे ॥ ११ ॥ ज्वलदौनिलं वार्द्धिमन्तरा गूढकोपतः। मित्रीकुर्वन् नृपो दूत, चित्रीयितवचा जगौ ॥ १२ ॥ दु० व्या०-और्वानलं वडवानलम् ॥ १२ ॥ वार्येऽस्मिन् सज्जताऽऽकार्य !, कार्याकार्यज्ञ! कार्यते । सैन्यं मृगप्रणाशाय, केसरी कियदानयेत् १ ॥१३॥ तथापि मूढचेताश्चेत् , त्वनेता नैव तिष्ठति । वयमुद्दण्डदोर्दण्डा:, सज्जा एव रणे ततः ॥ १४ ॥ दतोऽवक सस्मितं देव !, शौर्य वाचि सुखावहम् । युद्धे त एव युद्धयन्ते, ये धीरा धीरवंशजाः ॥ १५ ॥ यथा वने मृगा कश्चिद्, बाल्येऽभून्मृतमातृकः । सिंह्या करुणयाऽपालि, साकं स्वीयसुसेन सः ॥ १६ ॥ समं स्तन्यं पिबन्तौ तौ, विचरन्तौ बने समम् । समं संप्राप्ततारुण्यावभूतां प्रीतिशालिनौ ।। १७ ।। गते वनान्तः पारीन्द्रे, मृगे सिंही समीपगे। गजेन्द्राणां घटाऽन्येधुश्चक्रे गर्जितमूजितम् ॥ १८॥ स सिंहीस्तन्यपायित्वात् , कुरङ्गः शूरतां दधत् । उत्तिष्ठन् करिविध्वंसे, जनन्याऽभाणि सस्मितम् ॥१९॥
'ने धीर
।
२ सम्मितम् ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [३७ शूरोऽसि कृतविद्योऽसि, दर्शनीयोऽसि पुत्रक!। यस्मिन् कुले भवान् जातो, गजस्तत्र न हन्यते ॥२०॥ इति वक्रोक्तिगर्भेण, दूतस्य वचसा ज्वलन् । सचिवः शुचिवाक् माह, क्रुधाऽरुणमुखेक्षणः ॥ २१ ॥ भूताभिभूत ! रे दूत !, दोषस्यूतदुराशय !। परभूपसभामेत्य, वक्तुं नो वेत्सि तुच्छधीः ? ॥ २२ ॥ जयचन्द्रकुलोद्भुतं, गजभ्रमहदि स्थितम् । भूपं श्रीविजयं मन्ये, केऽन्ये वेश्मान्धुदर्दुराः ॥ २३ ॥
दु० व्या०-अन्धु:-कूपः ॥ २३ ॥ रत्नाकरे कौस्तुभरत्नमासीद्, दासीकृताशेषमणिः स्वकान्त्या। अतिष्ठिपत् तत्पुरुषोत्तमोऽपि, हृदि स्वयं तन्नहि कस्य वर्ण्यम् ॥२४॥
इति निर्भत्सितो बाढमर्धचन्द्रानिरासितः। दूतो गत्वाऽऽह तत् सर्व, वाराणस्यां निजेशितुः ॥ २५ ॥ अयं सैन्यस्यं कुर्वन् , मन्त्रिवाचा चराचरात् । प्रेषीज्ज्ञातुं द्विषवृत्तं, राजानश्चरचक्षुषः ॥ २६ ॥ इतश्च विजयं भूपं, पौराश्चौराद् गतस्वकम् । स्वकं विज्ञपयामासुः, सोऽप्यारक्षमभाषत ॥ २७ ॥ दु० व्या०-गतस्वकम्-गतद्रव्यम् ॥ २७ ॥ रे! रे!! त्वमेव लुण्टाको, यल्लुण्टाकान रक्षसि । स जगौ देव ! दुर्ग्राह्यचौरोऽयं खेचरो यथा ॥ २८ ॥
, वाणारस्यां B.
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८] श्रीश्रीधरचरितमहाकाव्यम् । [पञ्चमा
क्षणेन भोः तलारक्षे, स्तेनमेनमिहानय । इत्युक्वा चेटकं स्मृत्वा, क्षणाद् बद्धं तमानयत् ॥ २९॥ तथाऽवस्थं पुरः स्तेनं, वीक्ष्य लोके सविस्मये ।। नृपस्तं स्माऽऽह किं कुर्वे, सोऽवग् यत् त्वयि रोचते ॥३०॥ रोचते जीवितं मह्यमतश्चौरेऽपि चातुरी । चिन्तयन्तमिति मापमाख्यत् पाटच्चरः पटुः ।। ३१ ॥ ममावस्वापिनीविद्या, वर्तते वसुधापते ! । घूर्णयित्वा यया लोकं, सर्वस्वं हियते मया ॥ ३२ ।।
दृष्टे मुखेन्दौ ते नाथ !, विलीनं मेऽखिलं तमः। आरुरुक्षुः शिवावासं, जिघृक्षे संयमश्रियम् ॥ ३३॥
लोत्रं लातु निजं लोको, विद्यां त्वं मे सनाथय । तथाकृतेऽसौ पाबाजीद्, भूभुजा विहितोत्सवः ॥ ३४ ॥ दु० व्या०-लोन्त्रम्-हृतद्रव्यम् ।। ३४ ।। दुष्कर्ममर्मभिदुरं, तप्त्वाऽसौ दुस्तर तपः। केवलश्रियमासाद्य, सद्यः शिवपुरं ययौ ॥ ३५ ॥ चौराकृष्टिचरित्रं ते, चरा वाराणसीपतेः। पोचुः शीघ्रतरं सोऽथ, साध्व साऽऽकुलितोऽभवत् ॥३६।। उपदासहितैस्तेन, प्रहितैः सचिवैर्हितः।। राजा विजयचन्द्रः प्राग, रोषितोऽपि हि लोषितः ॥ ३७॥ १ 'स्तपं त° B। १ वाणारसी° BI
-
-
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सः स्योपनदुर्गपदव्याख्यालङ्कतम् । [३९
तन्मत्वा भूभुजोऽन्येऽपि, वेपिनस्तं प्रपेदिरे । ददिरे दूरदेशस्था दण्डं तस्मै सविस्मयाः॥ ३८ ॥ दु० व्या०-वेपिन:-कम्पमानः ॥ ३८ ॥ अन्यदाराऽजिते तस्मिन्नन्यदा राजिते जनैः। सभासीने नरः कोऽपि, लेखपाणिरुपागमत् ॥ ३९ ॥ दु० व्या०-अन्यदारैरजितः ॥ ३९ ॥ लेखं मुक्त्वा पदोपान्ते, नमत्यस्मिन् महीपतिः । दृष्टे नाम्नि पितुः प्राप्तहल्लेखस्तमवाचयत् ॥ ४० ॥ "स्वस्ति श्रीमङ्गलपुराज्जयचन्द्रनरेश्वरः । हस्तिनागपुरे पुत्रं, विजयं विजयोर्जितम् ॥ ४१॥ सस्नेहं साजसं गाढमालिङ्गयादिशति स्वयम् । शुभमत्रास्ति तत्रत्यं, विज्ञप्यं कार्यमुच्यते ।। ४२ ॥
युग्मम् ॥ वत्स! वत्सलतया तव सर्वत्रापि राज्यकमलाऽनुचरीयम् । त्वद्वियोगविधुराः पुनरेते, निवृता न भवने न वने वा ॥ ४३॥ जननी तव वत्स! नेत्रतो, जलधारा क्षरति क्षणे क्षणे । उपशान्तिमुपैति नो पुनस्त्वद्विरहो वडवानलो नवः" ॥४४॥
अथोत्कः पितरौ नन्तुं, मत्वेति विरहातुरौ। ससैन्यसचिवे राज्यशिक्षां दत्त्वाऽचलन्नृपः ॥ ४५ ॥ अविच्छिन्नप्रयाणोऽथ, स मङ्गलपुरं ययौ । नृपति वर्धयामासुः, जयचन्द्रं च केचन ।। ४६ ॥ . १R B आदर्शयोः 'युग्मम्' इति पदं न लिखितम् ।
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४० श्रीश्रीधरचरितमहाकाव्यम्। [पञ्चमः
शोकचित्राम्बुदग्धस्तद्वीजीह श्रुनीरया । आगाद् विजय इत्युक्तिस्वात्याऽभून्नवपल्लवः ॥४७॥ दु० व्या-वीजी-पिता ॥ १७ ॥
अथ वानवासिकाअथो नरेन्द्रः प्रधानवर्गान् , महोत्सवानां विधौ न्यदीक्षत् । विभूषितं तैः पुरं च चञ्चध्वजवजाद्यैः समं समन्तात् ।।४८॥
अथ मात्रासमकम्श्रुत्वा मुदितै विजयमुपेतं, पौरैः सहिताः सुगुणनिकेतम् । तमभिययुस्ते नमदवनीपं, स च संप्रापन्नगरसमीपम् ॥ ४९ ॥
अथ उपचित्रा--- अथ पुरललनास्तूर्यनिनाद, श्रुत्वा विरचितविश्वाह्लादम् । अपि जघनस्थलभाराकलितास्त्वरितं विजयं द्रष्टुं चलिताः ॥५०॥ चपलाश्चञ्चलकुण्डलहारा मिलिता वर्मनि शीघ्रमुदाराः । विजयविलोकनलालसनेत्राः, प्रोचुर्वचनमिदं मृगनेत्राः ॥ ५१ ॥
अथ चित्राधन्यः स जयतु नृपजयचन्द्रस्तत्कुलविपुलगगनतलचन्द्रः। नयनामृतमयि यदि गततन्द्रः, सततमुदित इह विजयनरेन्द्रः॥५२॥
अथ पादाकुलकम्शिवेन देहे, स्मरो नहीदं, किन्त्वेषोऽमुं विलोक्य रम्यम् । सहसा विगलितगर्वतरङ्गत्रपया समजनि नियतमनङ्गः ॥ ५३ ॥
दु. व्या०-देहे इति दग्धः । इदं नहि ॥ ५३॥
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः 1
www.kobatirth.org
स्वोपशदुर्गपदव्याक्यालङ्कृतम् ।
अथ वदनकम् -
पुरतचाचलिरद्भुतरूपं, वर्णयति स्म गुणैरिति भूपम् । मागधजनता वलितग्रीवं तं पश्यन्ती महसा पीदम् ॥ ५४ ॥
दु० व्या०- पीदम्-पुष्टम् ॥ ५४ ॥
अथाडिल्ला
,
भुजबलकलिताऽखिलव सुधाकर ! देशस्थित बहुमणिवसुधाकर ! ।
दानकला दिवमिव न सुधा कर
Acharya Shri Kailassagarsuri Gyanmandir
मुज्झति तव निजवंशसुधाकर ! ।। ५५ ।।
दु० व्या० - वसुधा - पृथ्वी, करः - दण्डः । मणिः - रत्नम्, वसु-स्वर्ण, धा - धारकः । आकर ! सर्वत्र सम्बोधनम् । सुधा यथा । दिवम् - स्वर्गम् । तथा तव । करं दानकला ।। ५५ ।।
[ ४१
विद्यारञ्जित सकलकलाधर 1, यशसाऽरं जितसकलकलाधर ! | यानविगेयसुरेश्वरकुञ्जर !, जय जय विजयनरेश्वरकुञ्जर ! ||५६ || दु० व्या० - यशसा अरम् - अत्यर्थम् । विगेयः -- निन्द्यः ॥ ५६ ॥ अथ पद्धडिका
ܕ
जय चन्द्रधवलकलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर । जयचन्द्रकलाम्बुजराजहंस !, जय विजयचन्द्र ! वीरावतंस ! ॥५७॥
दु० व्या०-हे चन्द्रवदन ! | हे रुचिविजितसूर ! 1
श्रीपार्श्वनाथ पदन लिनभृङ्ग !, गुणगरिमविजितगिरिमेरुशृङ्ग ! । रणरङ्गनटितघनविकट वीर !, जय विजयचन्द्र ! जलनिधिगभीर ! ||५८ |
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२] श्रीश्रीधरचरितमहाकाव्यम् । काश्मीरैः कृतहस्तकं प्रविलसन्मुक्ताफलस्वस्तिकं,
कर्पूरागुरुसौरमोल्वणपथं प्रेङ्खत्यताकाकुलम् । चश्चत्तोरणमुल्लसजनमनः संगीतभङ्गीमयं,
भूपालः स विशेश मङ्गलपुरं माङ्गल्यकेलीगृहम् ॥ ५९ ॥ स ताभ्यामानन्दोल्लसितनवरोमाञ्चकवचो,
वधूभ्यामानंसीजनकजनयित्रीचरणयोः । चिरांद् भ्रष्टं प्राप्य प्रवरतरमाणिक्यमिव तं,
वचस्तीतं तौ च पदमधिषातामनवधिम् ।। ६० ।। दु० व्या -तत्तम्-अतीतम् । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसरिविरचितं श्रीमाणिक्याङ्के श्रीधरचरित्रे पञ्चमसर्गस्य
स्वोपशदुर्गपदव्याख्या समाप्ता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरिने धानासि
कादिलक्ष्यविजयचन्द्रजनकसंगमो . नाम पञ्चमः सर्गः । ग्रन्थाप्रम ७२ । अ०४॥
१ 'मुज्लज्ज A, "मुच्छ्वसज्ज B२ रटं R। ३ वचोऽतीतं R| ४ °च्छे श्रीमां° B। ५ °रसूरिवि° BI
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः सर्गः।
अथ वर्णवृत्तछन्दसा लक्षणम् ।। १. उक्तायां जातौ ग श्री । २. अत्युक्तायां गौ स्त्री। ३. मध्यावां मो नारी। ४. प्रतिष्ठायां मो गः कन्या । ५. सुप्रतिष्ठायां भी गौ पङ्क्तिः । ६. गायत्र्यां न्यौ शशिवदना । ७. उष्णिहि नौ गो मधु । ८. अनुष्टुभि मौ गौ विद्युन्माला । ९. बृहत्यां -न-स हलमुखी। १०. पङ्क्तौ म-स-ज-गाः शुद्धविराट् ।
भू-म्- -गा रुक्मवती।
म्-भ-स्-गा मत्ता वेदैः । ११. त्रिष्टुभि म-स-जा गौ वैकरूपम् ।
भौ-भो-गौ दोधकम् । भ-त-ना-गौ श्रीः । नौ-र-ल-गौ भद्रिका ।
तौ-जो-गौ इन्द्रवज्रा। । अस्मिन् सर्गे छन्दोलक्षणसूत्रपर्यन्तं R आदर्श छन्दोनाम्ना सह 'छन्दः' इति पदं सर्वत्र निहितमस्ति पर AB आदर्शयोस्तदसत्वामानास्माभिः गृहौतम् ॥
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४] श्रीश्रीधरचरितमहाकाव्यम् । षष्ठा
ज-त-जा-गौ उपेन्द्रवजा-एतयोश्च संकरश्चतुर्दशधा
सर्वजातीनामपीति वृद्धाः ॥ र-न-भा-गौ स्वागता । र-न-र-ल-गा रथोद्धता ।
मा-त्तौ-गौ शालिनी वेदैः। १२. जगत्यां ज-त-जा वंशस्थम् ।
तौ-नौ इन्द्रवंशा। एतयोः संकरः प्रागवत् ॥ न-भ-भ्रा द्रुतविलम्बितम् । जौ-जौ मौक्तिकदाम । सौ-सौ तोटकम् । यौ-यो भुजङ्गप्रयातम् । रौ-रौ स्रग्विणी। मौं यौ वैश्वदेवी शरैः । न ज ज्याः तामरसम् । र न भ साः चन्द्रवर्म । न भ ज्रा प्रियंवदाः। स जौं सौ प्रतिमाक्षरा । म्भौ स्मौ जलधरमाला वे ।
त्यौ त्यो मणिमाला रसैः । १३. अतिजगत्यां म नौ जौ गः प्रहर्षिणी गुणैः ।
स्जी स्जौ गो नन्दिनी। भौ स्जौ गो रुचिरा वेदैः । स्यौ स्नो गः सुदत्तम् ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [४५ १४. शर्कयां न्भौ जौ गौ वसन्ततिलका ।
नौ भनौ ल्गो प्रहरणकलिकाः । १५, अतिशर्कयां नौ नौ सो मणिगुणकरः ।
नौ म्यौ यो मालिनी नागैः । त भौ जौ रो मृदङ्गः।
मौ मौ मः कामक्रीडा । १६. अष्टौ न ज भ न गा वाणिनी। १७. अत्यष्टौ य म्न स्भ ल्गा शिखरिणी रसैः ।
न्सौ नौ म्हौ गो हरिणी रस: वेदैः । ज्स स य ल्गाः पृथ्वी नागैः।।
मो नौ तौ गौ मन्दाक्रान्ता वे : रसैः । १८. धृतो
तौ न्यौ यो कुसुमितललना शराङ्गैः। १९. अतिधृत्यां मोन्सौ रौ गो मेघविस्फूर्जिता रसैः रसैः ।
___म्सौ सौ तौ गः शार्दूलविक्रीडितं सूर्यैः । २०. अथ कृतौ म र भ न य म ल गाः सुवदना द्विरश्वैः। २१. प्रकृतौ जातिः नौ नौ यौ यः स्रग्धरा द्विकिः । २२. अथाकृतौ भ्र र र न गा भद्रकं दिग्भिः । २३. अथ विकृती न ज न ज ज भलगा रुद्रैः । २४. अथ संकृतौ भ न म्भ भ्न याः अश्वललितम् । २५. अभिकृतौ भ म स्ना नौ नौ गः क्रौञ्चपदा द्विशरैर्वसुमुनिभिश्च ।
१८ नाग: B । २ प्रेक्षती A B | भी B
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६]
२६. उत्कृतो समवृत्तप्रकरणम् । चण्डवृष्टिः
श्रीश्रीधरचरितमहाकाव्यम् ।
[षष्ठः मौ लौ नौ रसौ लगौ भुजङ्गविजृम्भितं वस्वीशैः । अथ दण्डकाः । नौ सप्त राश्चण्डवृष्टिः । यथोत्तरमेकैक 'र'वृद्धास्वर्णार्णव-व्याल–जोमूत-लीला. करोदाम-शङ्खादयः स्वयमभ्यूह्याः । पञ्च ला यथेष्टम् , राश्चण्डकालः ।
अथा समप्रकरणम्- ओ जे तो जो गौ यु जि ज त जा गौ आख्यानकी,
व्यत्यये विपरीताख्यानकी । ओ जे नौ यी समेन जनगा पुष्पिताग्रा । ओ जे सौ सलगाः भौ भाद्गो उपचित्रम् । ओ जे सौ सल्गाः समेन भ भ्रा हरिणप्लुता । मो जे नौ रल्गाः समेन जजाः अपरवक्त्रम् । ओ जे भौ भो गौ समेन जजा द्रुतमध्या ।
xअथ विषमवृत्तप्रकरणम्-आधाऽष्टाक्षरपादाश्चतुर्वृद्धाः क्रमात् परे पदचतु
रूर्वम्, एतच्चतुर्विंशतिधा विषमोच्चारत्वात् तभेदाः न वक्ष्यन्ते । षड़भिः पदैः षट्पदीविषमाक्षरपदा विषमाक्षरा । अथैषां क्रमालक्ष्यमाह
B भादर्श xएतच्चिदान्तरितः पाठः पतितः ।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्त्रोपझदुर्गपदव्याख्यालवृतम् । उक्तयां श्रीछन्दः
___ गीः श्रीः धीः स्तात् ॥ १॥ दु० व्या-धी:-बुद्धिः, स्तात्-भवतु ॥ १ ॥ अथात्युक्तायां स्त्रीछन्द:-~
दत्ता स्वस्ति श्रीमान् पार्श्वः ॥ २ ॥ मध्यायां नारी
धीरं झं गम्भीरं गर्जन्तं शौण्डीरम् ॥ ३॥ प्रतिष्ठायां कन्याप्रेसद्भासं विश्वोल्लासं, लक्ष्मीवाणी लीलावासम् ॥४॥ सुप्रतिष्ठायां पङ्क्तिः-- सौवसुवंशाम्भोजमरालं, त्रुट्यदरातिक्ष्मापतिजालम् ॥ ५॥ दु० व्या-सौवः-स्वकीयः ॥५॥ गायत्र्यां शशिवदनाxनयनविशालं नयनवशालम् । अविकर,भालं शशिकलमालम् ।। ६ ।।
दु० व्या-नये-न्याये नवाप्राकारम् । अविकला मा प्रभा आलं-भूषणं यस्य तम् । अली भूषणं पर्याप्तिः इत्यादिधातोः ॥ ६ ॥
उष्णिहि मधुनिशमनविषयं तमथ कृतवती । प्रमदमधिगता नृपसभजनता ।। ७ ।। कुलकम् ॥ दु० व्या०-निशमनं-आलोकनम् ॥ ७ ॥ अथानुष्टुभि विद्युन्माला१ B आदर्श xएतच्चिह्नाङ्किता पतिताः पङ्क्तयः ।
X
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८ ]
श्रीश्रीधरचरितमहाकाव्यम् |
आलिड्याथ न्यस्तं रङ्गेणैतं पित्रोत्सङ्गे च | मौलेर्लीला लोलन्मालापातं नेमुः क्षोणीपालाः ॥ ८ ॥ बृहत्यां हलमुखी-
पूर्वशैल इव तरणिं विन्ध्यशैल इव करिणम् । अङ्कगं क्षणमथ वहन्नन्दनं नरपतिरभात् ॥ ९ ॥ अथ पङ्क्तौ शुद्धविराट् -
[ षष्ठः
उद्दामद्युतिमण्डलं सदा, युक्तं तेन महाबलेन च । प्रेक्षन्तोऽग्रमिवाग्निमञ्जसा, क्षोणीन्द्रा जयचन्द्र भूपतिम् ॥१०॥
दु० व्या० - महाबलेन पक्षे वायुना ॥ १० ॥ अथ रुक्मवती
प्राभृतमेके कुञ्जरमधं, भूषणमन्ये विस्मितविश्वम् । ढौकितवन्तः श्रीजयचन्द्रात केऽपि च तुष्टात् प्रारिदं द्राक् ॥ ११ ॥
1
मत्ता -
क्रीडागारैः सकलकलायास्तत्रौपम्यैरिव कमलायाः । लीलालो काहृत मदनाभिश्चक्रे नृत्यं शशिवदनाभिः ॥ १२ ॥
अथ त्रिष्टुभि एकरूपम् -
उद्भूतो हृदये ललन् विरेजे, तासां हारमिषेण हर्षभारः । मेदिन्या वलयेऽपि चास्य मानं, नाख्यँस्ताचलकुण्डलच्छलेन ॥ १३ ॥
For Private And Personal Use Only
अथ दोधकम्
श्यामललोमलतावलिदण्डा, कोमलकायघनस्तन तुम्बा | काचन मुग्धसखीमिव वीणामङ्कतलं नयति स्म प्रवीणा ॥ १४ ॥ दु० ० व्या०- प्रवीणा - प्रकृष्टा वीणा । प्र पश्चिमो न गुरुः ॥ १४ ॥
१रिद्रद्रा R
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम्। [४९
अथ श्री:वर्षकरीणां धनिरिव वीणावेणुरवः स्यात् पुनरिह चित्रम् । गर्जति तूर्ये धन इव तासां, हंसकनादः क्रमकमलेऽभूत् ॥ १५ ॥ दु० व्या०-वर्षकरी तिमिरी, हंसकपक्षे नू पुरः ॥ १५ ॥
अभ भद्रिकानटनटनरसाश्चिता जनाः, सफलतरुतुलां न के ययुः ?। वितरणकलयाऽभिमार्गणान् , सुरतरुसदृशो नृपस्त्वभूत् ॥ १६ ॥
अथेन्द्रवज्राइत्थं भवत्युल्लसितप्रभायामस्मिन् महे तत्र महासभायाम् । पार्श्वस्थपुत्र जयचन्द्रभूपं, व्यज्ञापयद् वेत्रधरः प्रणम्य ॥ १७॥
इन्द्रवज्राद्वारि प्रभो रत्नपुराधिनाथरत्नाङ्गादक्ष्मापतिमन्त्रिमुख्यः । आस्ते विधित्सुस्तव देवसेवां, ब्राह्म मुहूर्त लिरिवाम्बुजस्य ॥१८॥
अथोपेन्द्रवत्राततस्तमाज्ञावशतः क्षितीन्दोरवीविशद् वेत्रिवरः समाजम् । पुरः स्फुरत्कौशलिकं निधाय, प्रधानराज्ञः प्रणनाम भूपम् ॥१९॥ अथो निविष्टं नृपतिस्तमिष्टं, जगौ सगौरव्यगुणं गुणज्ञः । अलद्धि कचिल्लघुताविहीनः, सुखं भवद्भिः शुभवद्भिरध्वा ॥२०॥
अथ सङ्करःकश्चित् पुरं रत्नपुरं प्रशस्तं, भिया जनानां न मनो विहस्तम् । न केशलेशप्रहतः स देशः, समुल्लसद्धर्मधनप्रवेशः ॥ २१ ॥ दु० व्या-विहस्तं व्याकुलम् ॥२१॥
'ततः समा° RI
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५० ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
>
कच्चिद् द्वितीयं हृदयं तृतीयं विनिद्रनेत्रं मम तत्र मित्रम् | रत्नाङ्गदः पाति नृपः प्रतापप्राज्यं च राज्यं विजितारिवर्गः ||२२||
तस्य प्रधानं गुणसंनिधानं, प्रधानवत् साङ्ख्यमते प्रधानम् । त्वमेष हृल्लेख करश्चिराद् वा, प्रीत्यै स्वमित्रागतपक्षिणोऽपि ॥ २३ ॥
दु० व्या - प्रधानवत् - प्रकृतिवत् । हल्लेख:- उत्कण्ठा ॥ २३ ॥
1
एष स्वभावः स्थिरसौहृदानां यथाऽर्कपद्मेन्दुपयोनिधीनाम् । मिथो यदाssलोकनतः प्रमोदस्तथापि कार्यश्रवणे विनोदः ||२४||
ऊचेऽथ भूपं सचिवः स्वरूपं, भवद्भिरः किं न वदन्तिरूपम् । इदं समाधानपदं हृदन्तर्मुदं ददत् ते विदधे तथापि ॥ २५ ॥
"7
दु० व्या० - वदन्तिरूपं प्रकृष्टम् । वदन्ति " त्यादेश्च प्रशस्ते रूपपू [ ७.३.१०.] प्रत्ययः । समाधानम् - उत्तरम् । पक्षे वैं - निश्चितम् ॥ २५ ॥
जित्वा दिवं रत्नपुरं विराजि, यल्लक्ष्मणानामपि वै जयन्ती । अबाधया यत्र पुमर्थ माजां, साम्यं प्रजानां दधते न देवाः ॥ २६ ॥
दु० व्या० - जयन्ती - इन्द्रपुत्री ॥ २६ ॥
रत्नोज्ज्वलैरिभ्यजनस्य हयैर्धर्मालयै मौक्तिकधर्मरम्यैः । अहो ! महीमण्डलमण्डनाय, तन्मण्डलं कुण्डलतामियर्ति ||२७||
रत्नाङ्गदे रक्षति बाहुदण्डमिव क्षमामण्डलमिद्धकान्तौ । कुतः कुशोभारिपवोऽभितस्तत् पराभवं कर्तुमलं भवन्ति ||२८||
दु० व्या० - कुशोभा - एकः, कुशोभा - पृथ्वीशोभा तस्या रिपवः ॥ २८ ॥
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्थोपनदुर्गपदव्याख्यालङ्कृतम् । [५१ विद्युल्लतागोलकवद् विजेता, न जायतेऽसौ रणमेघकाछे । स्वयं रयादभ्रबलं ददानो, यतोऽनुकूलोऽसि महाबलस्त्वम् ॥२९॥
दु० व्या०-भूपपक्षे रयाद् , अदभ्रं-बहु ॥ २९ ॥ नक्तं दिने वा दिवसावसाने, तन्मण्डलेऽध्वन्यवधूश्चरन्ती। विभूषणं मुश्चति भारभीत्या, न चौरभीत्या न च शत्रुभीत्या ॥३०॥
अथेन्द्रवज्रादित्रयं यथेच्छम् ।
नवाम्बुदस्येव विलोकनाय, सदा तदन्तःकरणं मयूरः । तथापि मे संप्रति यनिदानं, समागमे तच्छृणु सावधानम् ॥३१॥
दु० व्या०-मयूरसदृशम् ॥ ३१ ॥ तस्य प्रभोश्चित्तसरोजहंसी, राज्ञीषु मान्या मदनास्ति राज्ञी। रूपश्रियाऽस्या व्यथिताशया सा, रम्भान्तराऽसारतरुवनेऽभूत् ॥३२॥
दु० व्या०-प्रसिद्धरम्भा-कदली, अन्तरे असारः ॥ ३२ ।। सुलोचनेत्यस्य समस्ति कन्या, तत्कुक्षिपद्माकरलब्धजन्मा। यां पद्मिनीमादित एव रङ्गाद् , भेजुर्जनानां नयनानि भृङ्गाः ॥३३॥ सा चन्द्रलेखेव सुनिष्कलङ्काऽलं कामभल्लीव सुनिष्कलङ्का । तरीव तूर्ण सकलं समन्ताद्, कलासमुद्रं कलयांबभूव ॥३४॥
दु० व्या०-अलम्-अत्यर्थम् , कामभल्लीव सुतेजः, तदेव निष्क स्वर्णं तस्य लङ्का ॥ ३४ ॥ आस्येन तस्य विजितः कलावान् , निजाः कलाः कौशलकीचकार । स शुन्यहृत्वेन विलोक्यतेऽकन्यलीकतस्तत्र च ताः समस्ताः ॥३५॥
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२ ] .
श्रीश्रीधरचरित महाकाव्यम् ।
[ षष्ठः
सा शैशवं यवनिकां विशाले, श्रितानुकूले कलिता रसौधैः । मनोरमा नित्यमरालगत्या, सरस्वती कैर्न जगे कुमारी ॥३६॥
दु० व्या० - कुमारीपक्षे शैशवं बाल्यम्, यौवनिकां तारुण्यं श्रिता । ते द्वे, किंविशिष्टा ? विशालभारती, पक्षे विशाले - अनुकूले हिते पुरुषे श्रिता शेषं स्पष्टम् । नदीपक्षे विशाले विगते पक्षे तु विगते कूले तटे द्वे श्रिता, नित्यं अरालगल्या चक्रगत्या ॥ ३६ ॥
न नागकान्ता न च नाकनारी, न खेचरी कापि तुलामुपैति । तस्याः पुनर्दर्पणतल्पशा यिच्छाया कियच्छायलवं लभेत ||३७||
दु० व्या० - छायालवम् ॥ ३७ ॥
अथान्यदा यौवनपल्वलान्तविहारिणी तातसमानलिन्याम् । प्रातः सखीव्रातयुता वितेनेऽलिनीव सा नूपुरझङ्कृतानि ॥ ३८ ॥
तातं नता नन्दितनेत्रभृङ्गमालाप्रवालाभकरा न कस्य । कोडीकृता तेन च भूभृता सा, चेतोहरच्चम्पकवल्लरीव ॥ ३९ ॥
दु० व्या० - तातं प्रति ॥ ३९ ॥
,
छन्दः स्थितिज्ञाशुभलक्षणाऽसि त्वं विश्वसाहित्यबुधा द्विधेति । नरेश्वरः स्वीय गिरावनम्रां प्रष्टुं सुतां प्रेरयति स्म विज्ञान् ॥४०॥
दु० घ्या०- छन्दोऽभिप्रायः - छन्दशास्त्रं वा लक्षणम्, शास्त्रं सामुद्रिक वा, विश्वं समस्तम्, साहित्यं पक्षे हितसहितत्वं तद्विषये बुधा विज्ञा इति गिरा ॥ ४० ॥
एके समस्यामपरे प्रमाण प्रहेलिकादीन्यवदन् विदग्धाः । लब्धोत्तराः पृष्टनिरुत्तराय, न बालया बालतराः कृतास्ते ॥४१॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः
स्वापशदुर्गपव्याख्यालङ्कृतम् ।
[ ५३
विज्ञामवज्ञातसुरों निरीक्ष्य, तारुण्यलक्ष्म्यर्पितचारुलीलाम् । कन्यावरोधे स निदेश्यकन्यामज्ञापयन्मन्त्रिवरं नरेन्द्रः ॥ ४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या०- कन्यावरोधे - कन्यान्तः पुरे ॥ ४२ ॥ नितम्बिनी राजति कल्पवल्लीबल्लीलया कान्तमवाप्य काले । ममापि चिन्ताऽजनि तत्सुताया वरोऽनुरूपोऽथ निरूपणीयः ||४३|| दु० व्या०-- वल्लीवत् ॥ ४३ ॥
रूपं यदि स्यान्न कुलं ततः स्यात्, ते चेन्न नैपुण्यमपि श्रुतेषु । वरेषु दुर्ज्ञेयमिदं विभाव्य, स्वयंवरं कारयितुं समीहे ॥ ४४ ॥
दु० व्या० - ते रूपकुले ॥ ४४ ॥
मन्त्री नृपं स्माह सुयुक्तमुक्तं, व्यक्तं सुवर्णाभरणेषु योग्यः । मणिर्न रौति त्रपुणि प्रबद्धः, परं भवेद् योजयितुर्जडत्वम् ||४५|| दु० ० व्या० - रौति वक्ति ॥ ४५ ॥
ततो निदेश्यान्नृपतिर्विधातुं पतिंवरा मण्डपमादिदेश । देशाधिपान्हातुमहं निदिष्टस्त्वामागमं श्रीजयचन्द्र भूप ! ||४६ ॥ गीते कवित्वे भरतेsपि भूपाः, कुमारवत् पण्डितसन्निधिस्थाः । मनोविनोदाय सुलोचनायाः, कलाकलापं कलयन्ति के न ? ॥४७॥ अथ क्षितीशस्तमुवाच हृद्यं, सौहृद्यमेवं सुहृदा न्यवेदि । धीरोचितो मेऽजरतो रतोत्कधीरोचितोऽयं न पुनर्विवाहः ॥४८॥
दु० व्या०-हे धीर ! अजरतो-न वृद्धस्य न उचितः, रतेरुत्का धीर्येषां तेषां रोचितः ॥ ४८ ॥
जरा नराणां खलु काष्ठकीरः, काष्ठं यथाऽन्तस्तनु जीर्णयन्ती । तच्चूर्ण पातादिव शुक्ललोमा विलोक्यतेऽसौ किल वृद्धलोकः ॥ ४९ ॥
दु० व्या० - अन्तस्तनु-तनुमध्ये ॥ ४९ ॥
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
प्रायो जनाः स्युः पशवः शिशुत्वे, स्त्रीशैव लिन्यां शफरा युवत्वे । धर्मे मतिर्येषु न वार्द्धकेऽपि, हाहा ! हता ही हरिणा इवामी ॥ ५० ॥ ततः स्वयं स्थातुमहं समीहे, संप्रेषये तत्र निजं तु पुत्रम् । श्रुत्वेति तं क्षोणिपतेः सकाशे, निध्याय मन्त्री हृदये सदध्यौ ॥ ५१ ॥ अहो ! महोराशिरहो महत्त्वमहो ! महोल्लासकरी तनुश्रीः । तस्या यदि स्यादयमेव भर्त्ता, तत् किं परैः किन्तु बली निदेशः ॥५२॥
दु० व्या०-निदेश :-आदेशः ॥ ५२ ॥
आदिश्यतां तत् त्वरितं स्वसूनुरित्युक्तिपूर्वं प्रणिपत्य भूपम् । गन्तुं प्रवृत्तः सचिवोऽन्यदेशान् पितुर्निर्देशाद् विजयोऽप्यचालीत् ॥ चलत्पताका शफराप्तरङ्गा, विलोलवादैर्विलसचरङ्गा । स्वभावतोऽप्यस्य चमूचरन्ती, रिपुडुमान्मूलन सिन्धुरासीत् ॥ ५४ ॥ ग्रामाऽऽकरद्रङ्गधरां धरित्रीमुल्लङ्घमानः स लघुप्रयाणैः । वैताढ्यभूमीधरसन्निधानेऽन्यदा लुलोक स्फटिका चलेन्द्रम् ||५५||
*
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - द्रङ्गः - पत्तनम् ॥ ५५ ॥
कोऽयं गिरिर्नत्रमुदं प्रदत्ते, पुर: स्फुरचन्द्रकरावदातः । इति प्रणुन्नः प्रयतः प्रणम्य, स्थगीधरः स्माह धराधिनाथम् ॥५६॥
दु० व्या - प्रणुन्नः - प्रेरितः ॥ ५६ ॥
लोकेषु कैलास इति प्रसिद्धः, शम्भोर्निवास प्रवदन्ति यत्र । अष्टापदं सिद्धिपदं युगादिप्रभोः पुनर्जेनमते मतोऽयम् ॥ ५७ ॥ यन्मौलिचन्द्रोपलचारुरोचिर्वीची विहायोऽभिमुखं चलन्ती । स्वर्गापगा जेतुमिवावभासे, हेलावहेला गमितेन्दुबिम्बा ॥ ५८ ॥
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । यदिन्द्रनीलाकुरकान्तिजालमालम्बितं व्योमतलं विलीनम् ।। विगाहते वारिधिवारिशायिनारायणच्छायममायलक्ष्मि ॥ ५९॥
दु० व्या०-लक्ष्मी पक्षे शोभा ॥ ५९ ॥ सब्रह्मचारी रजतोच्चयस्याप्यलं सितांशूज्ज्वलकान्तिशाली । योऽष्टापदाख्यां कलयन् कवीनां, शुक्ले च गौरे च समत्ववादी।
दु० व्या०-सब्रह्मचारी-सदृशः । अष्टापदपक्षे स्वर्णः ॥ ६० ॥ शङ्गाग्रजाग्रन्नवमेधमाला, जनावलि रतभूमिपात्रे । यः प्रोज्ज्वलो निर्झरनीरपूरैः जलप्रदीपस्य कुतूहलाय ॥६॥ यस्मिन् दरीभ्यः सुरसुन्दरीणामधीतिनीम्यो मणितेषु नित्यम् । स्पर्धिष्णुरादान्मणिताश्रयत्वमधित्यकोपत्यकयान्विताऽपि ॥२॥
दु० व्या०-मणिता-रत्नलक्ष्मोः ॥ ६२ ॥ कादम्बिनीनामवलम्बिनीनामालम्बनं सन्मणिसानुरागा । यद्भः प्रिया कस्य मुदे न तारहारानुकारायतवारिधारा ।।६३॥
दु० व्या०-मणे: सानुरागा या । आयतः-प्रलम्बः ।। ६३ ॥ तस्यास्यमौलौ भरतेश्वरेण, विराजते कारितमादिचैत्यम् । स्थाने यदष्टापदचारुदुष्टकर्मद्वीपध्वंसितयेक्षकाणाम् ॥ ६४ ॥
दु० व्या-स्थाने-युक्तम् । पक्षे अष्टापदशरभवत् ॥ ६४ ॥ व्याजन्मणीकिङ्किणिकावणानां चलत्पताकाञ्चललोललोला। श्रीर्यस्य नित्यं शिखरे जिनेन्द्रगुणावलीर्गायति किम्भरीव ॥६५॥
दु० व्या०-लोला-जिह्वा ।। ६५ ॥ तबाहतां श्रीऋषभादिकानां, काम्याश्चतुर्विंशतिर्मूतयश्च । प्रतिष्ठिताः श्रीभरतेन वर्णध्वजप्रमाणादियुता जयन्ति ॥६६ ।।
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६ ]
श्री श्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
धरस्य भूमिं परितो विदार्य, कदापि काले किल दण्डरत्नात् । रक्षाsस्य चक्रे सगरस्य पुत्रैः, गङ्गापयोभिः परिखां प्रपूर्य ॥ ६७ ॥ श्रुत्वेति हर्षोत्पुलकः क्षितीशस्तमारुरोह स्मृतचेटको द्राक् । अभ्यर्च्य सायं जिनपङ्क्तिमेष विशेषतः पार्श्वजिनं नुनाव ॥६८॥
तथाहि - षड् गुप्तानि -
" नतसुरमुकुटाली चन्द्रिका चारुचञ्चचरणकमर सद्यो द्योतयन्नाज्ञया ते ।
सकलकुशलशालीति स्तुतः साधुचक्रे - रनिशमिह सुदेव: पार्श्वदेवाधिदेवः ॥ ६९ ॥
दु० व्या - नतसुरमुकुटेत्यादि - इह विश्वे निरन्तरं पार्श्वदेवाधिदेवः वःयुष्माकं मुदे - हर्षाय भवतु । किंविशिष्टः ? इत्यमुना प्रकारेण साधुचः सतां समूहैः स्तुत इतीति किम् । हे नतसुरमुकुटाली चन्द्रिकाचारुचञ्चचरण ! नताः - नम्राः सुराः - देवास्तेषां मुकुश्रेणिस्तस्याश्चन्द्रिकासु ज्योत्स्नामध्ये चारुचञ्चन्तौ चरणौ यस्य स एतावता प्रभोश्चरणयोरतीव कान्तिमत्त्वमुक्तम्, तस्य सम्बोधनम् । यो ना - पुमान् ते-तव आज्ञया कं- मस्तकं द्योतयन् सन् अलसत् - उल्ललासेत्यर्थः । स पुमान् कलकुशलशाली ज्ञेयः । कला : - मनोज्ञाः कुशलाः- विद्वांसस्तेषु शाली अथवा कलैः - कुशलैर्मङ्गलैः शोभमानः ॥ अत्र वृत्ते गुप्तानि ६ । चरणकमलेति योगेऽपि चरणेत्यत्र स्थित्या मन्त्रणगुप्तम् १ | कं - कर्मगुप्तम् २ । सद्य इत्यत्र अलसत् क्रियागुप्तम् ३ । यः कर्तृविशेषणगुप्तम् ४ । नाकर्तृगुप्तम् ५ । सः - विशेषणगुप्तम् ६ ॥ ६९ ॥
त्रयोदशगुप्तानि -
कमलनाथ ! मनोहर हंसवद् भवतमोऽपि विभाविभवाऽऽलय ! | गुरुगुणत्रजगौरव ! ते गुणान्मम मुदा स्तुवतः स्तुतिगोचरम् ||७० ||
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः
www.kobatirth.org
स्वोपज्ञ दुर्गपदव्याख्यालङ्कृतम् ।
1
Acharya Shri Kailassagarsuri Gyanmandir
[ ५७
दु० व्या०- कमलेति वृत्तम् कमलनाथ । मनोहर हंसवत् । भव तमोऽपि । विभावि भव । आलय गुरुगुणवज गौरव । एवं स्पष्टाः शब्दा एव । अथ व्याख्या - हे विभो ! त्वं हंसवत् मम मनः कं मनः एव जलम् | न अल न लिभूषय ? अपि तु अल- विभूषय । ' यत्रोदकं तत्र भवन्ति हंसा: ' इति न्यायवत् । अलेत्यत्र अली - भूषणपर्याप्तिवारणेषु, अलपं हि हेलेपिाद अल इति । हे विभो ! | अथवा हंसवत्-सूर्यवत्, भव, तमोऽपि न हर ! अपितु हर, हरेति प्रसिद्धम् । हे विभो ? अत एव कारणाद् विभाः - प्रभा आलय - उद्यमय । यदि भगवतः सूर्योपमा ततः प्रभाणामुद्यमनं युक्तन् । 'अड - उथमे ' अडू कारितागमे हेलेपाद डलयोरैक्ये आलय इति सिद्धम् । पुनः हे विभो ! ते तव गुणान् स्तुवतो मम स्तुतिगोचरं अव-याहि 'अव - रक्षणगतिकान्ति' इत्यादि । अव सिद्धं गोचरमित्यत्र 'गावश्वरन्ति यत्र तदपि गोचरम् ' तच्च स याति यो वृषभो भवति । अतस्त्वं किंविशिष्ट: ? गुरुगुणगौरवः प्रौढा ये गुणास्त एव ब्रजानि गोकुलानि तेषु गौरिव गौ वृषभः ॥ अत्र त्रयोदश गुप्तानि तथाहि - कं- कर्मगुप्तम् १ | अल-क्रिया[गुप्तम् ] २ । न- शब्दगुप्तम् ३ । अथ - शब्दगुप्तम् ४ | मन:- कर्मगुप्तम् ५ । हर-क्रियागुप्तम् ६ | हंसवत्-अर्थगुप्तम् ७ । विभा - कर्मगुप्तम् ८ । विभो - संबोधनगुप्तम् ९ । आलय - क्रियागुप्तम् १० । व्रज - अर्थगुप्तम् ११ । गौः - कर्तृविशेषणगुप्तम् १२ । अव - क्रिया [ गुप्तम् ] १३ । एवं गुप्तानि ॥ ७० ॥
,
।
।
'अथ नामचित्रम्-
राजहंसकलहंसकलापी काकको किलकपोतपदश्रीः ।
त्वं जिनेडजमृजादरफालीरेनसां हि फणमण्डलमाली ।। ७१ ।।
१ नास्ति पदद्वयं B आदर्श ।
С
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८] श्रीश्रीधरचरितमहाकाव्यम् । [षष्ठः
दु० व्या०-वृत्तद्वये गुप्तचित्रं नामचित्रम् , राजहंसेत्यादि-राजहंस कलहंस कलापो मोर काक कोकिल कपोत जादरफाली माली-आरामिकः । अथ व्याख्या-किलेति सत्ये । हे काकको! | हे जिनेट् ! । हे मजादरफ!। हि-निश्चितं त्वं एनसां-पापानां आली, अज-क्षिप-निराकुरु ! काकको इति का-यमस्तं प्रति अका-कुटिलाः कु:-भूमियः । एतावता मृत्योरगम्यः । उपलक्षणत्वाद् जन्मजरामृत्युरहितस्तस्य संबोधनम् । जिनाः सामान्यकेवलिनस्तेषु, इट-स्वामो तस्य संबोधनम् । मृजा-शुद्धिः-कर्ममलापगमस्तहायकं राफा-ज्ञानं यस्य सः, तस्य संबोधनम् । 'चर्फरफ रिफ' इत्यादि रंफधातुः । 'सर्वे गत्यथा ज्ञानार्थाश्च इति वचनात् । किंविशिष्टस्त्वम् ? राजेति राजा-चन्द्रः हंसः-सूर्यस्तद्वत् कलां-मनोज्ञां हंसकलां-आत्मकलां प्राप्तुं शीलमस्येति राजहंसकलहंसकलापी कपोतेति । कं-जलं तस्य पोतो बाला, एतावता जलजत्वात् कमलं तद्वत् पदश्री:-क्रमशोभा यस्य सः । पुनः किंविशिष्टः ! फणेति एकः प्रसिद्धोऽर्थः । द्वितीयस्तूच्यते । फणा गत्यर्थत्वाद् ज्ञानानि । रूपरूपिणोरभेदोपचारात् श्रुतज्ञानरूपाः फणा:आगमास्तेषां मण्डलेन-समूहेन माली-व्याप्तः । 'अथं भासइ भरिहा' इति वचनात् ।। ७१ ॥
अथ विभ्रमचित्रम्यदीहसेहाऽवर तेजसाऽढयमहो महामोहममुं ततस्त्वम् । विना वसन्तं नवनीरसं तं, रसा रसाला रसशालिनः स्युः॥७२॥
दु० व्या०-अथ विभ्रमचित्रम् , यदीहेति-यदि ईहसे । हावर महामोहं नवनीरसं इत्यादि । अथ व्याख्या-अहो इति आमन्त्रणे । हे भव्य ! यदि इह विश्वे सेह ! - सा-लक्ष्मीस्तस्या ईहा वर्तते ततस्त्वं अमुं प्रभु मह-पूजय । किंविशिष्टः ? अमुं वरतेजसा प्रधानकान्त्या आढयम् । अमोहं-अज्ञानरहितम् । दृष्टान्तेनैतद् दृढयति, विनेति - रसाः-रसालाः--
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्योपादुर्गपदव्याख्यालङ्कृतम् । भूमिसत्काः सहकाराः, तं सर्वप्रसिद्धं वसन्तं विना रसशालिनो न स्युः । स्वर्गादिषु पक्षमासादि कालाभावात् । रसा-परिग्रहः । किविशिष्टः ! वसन्तं वनीरसं --- वनीपु-वनसमूहेषु रसं-जीवनौषधम् ॥ ७२ ॥
अथ नामचित्रम्नारङ्गकदम्बदाडिमीजम्बीरं सहकार ! किं जयेत् । कदलीकणवीरकेतकीर्यदि विश्वेश ! ददासि नो दृशम् ॥ ७३ ॥
दु० व्या०-पुनर्नामचित्रम् । नारङ्गेति - नारङ्गकदम्बदाडिमीजम्बोरं सहकारकदलीकणवीरकेतकीति इति । अथ व्याख्या-हे सहकार! सहन्ते परीषहादीनिति सहाः--साधवस्तान् करोतीति सहकारस्तस्य संबोधनम् । ना-पुमान् ईनं-वीरम् । किं जयेत् ! अपितु न ई:-लक्ष्मीस्तया जातः ईजः -कामस्तं वोरं सुभटं, बवयो रैक्यम् । हे विश्वेश ! यदि त्वं दृशो नो ददासि स्वामिनो दगदानं विना युद्धे भटानां नोत्साहः स्यादिति । किंविशिष्टः ? ईज-वीरं रङ्गकदम्बदाडि रङ्गकदम्बः-हर्षसमूहस्तस्य दा- खण्डनं तद्विषये, डलयो रक्याद् अलिं-वृश्निकं यथा वृश्चिकदंशे हर्षभङ्गस्तथा अनङ्गोद्रेके पुण्यरङ्गभङ्गः स्यादिति । किविशिरस्त्वम् ! कदलीति अक्षर. लोपाद् — अनुस्वारविसर्गौ न चित्रभाय सम्मतौ' इति वचनाच्च कदलीककणवीरा केतकीरिति ज्ञेयम् । कुत्सितं अलीकं कदलीक एतावता कदलीकानिघातिकर्मेतराणि-दग्धरज्जुप्रायाणि चत्वारि कर्माणि तेषां कण:-अंशः स एव वीरक:-अवशिष्टभटस्तद्विषये अन्तं विनाशं किरति-विस्तारयतोति अन्तकीविज्ञः प्रभुः । 'शत्रुशेषं न सहते' इति नीतेः देवः--पतिर्विदुषि नैषधराजगत्येति वृत्ते नैषधेऽपि अक्षरलोपोऽभिमतः ॥ ७३ ॥ __ अथापभ्रंशभाषाचित्रम्मोह हंस महसीहर माडी, राहि मानन शिवेन भवे त्वत् । आज देव किरि पाप पखाली, मोहमेष न जलाशयपाली ।।७४॥
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०] श्रीश्रीधरचरितमहाकाव्यम्। [षष्ठः
दु० व्या०-अथापभ्रंशभाषा चित्रम् । मोरुहंसेति मोरुहंस । महसि सिहर माडी । आज देव किरि पाप पखाली । मोह मेष जलशायमाली इति । अथ व्याख्या -हे महसि ऊरुहंस ! मह सि तेजोविषये ऊरु:-गरीयान् हंसः-सूर्यस्तस्य संबोधनम् । हे मानन शिवेन ! माननं - पूजा शिवःमोक्षस्तयोरिनः स्वामी ! पूजार्हत्वात् सिद्धिगमनाहत्वाचार्हत इति संबोधनम्। इह भवे-संसारे रमालीः मा राहि - मा देहि रमाः-श्रियस्ता एव डलयोक्यात् आलीः । सहचारित्वात् 'राक् दाने' रा धातुः। श्रियोऽप्रार्थने हेतुमाह - हे किरिपापप ! किरिः-शूकरः क्षुद्रत्वात् तद्वद् यत् पापं तस्मात् पातीति किरिपापस्तस्य संबोधनम् । एष मल्लक्षणो जनः आजत् । खानि-इन्द्रियाणि तेषामाली श्रेणिस्तस्या मोहं आजत्-क्षिपति स्मैव । एष किंविशिष्टः ? न जलाशयपाली, डलयो स्क्यात् न जडाभिप्रायरक्षकः । यो हयज्ञानेन्द्रियरसव्यग्रश्च स एव मोक्षः प्रदे-प्रभौ प्राप्त श्रियः भभिलषति ॥७४ ॥ ___ अथ विभ्रमचित्रम्येन येन विनयेन बन्धुरा, वीतराग ! तव धीरमानसा । भूरि भूरि भविना न ते नरा निश्चलास्पदमिदं किमद्भुतम् ॥७५॥
दु० व्या०-पुनर्विभ्रमचित्रम् , येनेति-येन येन विनयेन बन्धुरा वीतरागधीरमानसा भविना ते नरा इत्यादि । अथ व्याख्या-हे येन ! या-लक्ष्मी स्तस्या इनः स्वामी तस्य संबोधनम् ! हे इतराग ! इतः--गतः रागो यस्मात् सः, तस्य संबोधनम् । हे अमान ! प्रसिद्धम् । येन पुरुषेण सा सर्वप्रसिद्धा तव धी:-बुद्धिः प्रवचनरूपा विनयेन आवि। 'अव रक्षणे' इत्यादिधातोः रक्षितेत्यर्थः । धीः किंविशिष्टा : बन्धुरा-मनोज्ञा अथवा बन्धुः स्वजनरूपा। हे भूरिभूरिः घनघनाभा-कान्तिर्यस्य सः, तस्य संबोधनम् । रा-द्रव्यं तेन पुरुषण विनाऽन्यत्र निश्चलास्पदं न भवति किमाश्चर्यमिदम् ! यो लक्ष्मीपतेर्षियं रक्षति तद्गृहे धनं निश्चलं स्यात् तस्य धनार्जनविज्ञत्वादिति ॥५॥
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [६१
विभ्रमचित्रम् । सुव्रतेश ! सुमतेऽभिनन्दनाऽनन्तधर्मजिनवर्धमान ! तु । नेमिनाथ! ऋषभश्रियाऽऽश्रितः, पार्श्वदेव ! शरणं त्वमेव मे ॥७६।।
दु० व्या०-पुनर्विभ्रमचित्रम् । सुनतेति-हे सुव्रतेश ! हे सुमते ! हे अभिनन्दन ! हे अनन्त ! हे धर्म ! हे जिन ! हे वर्धमान ! हे नेमिनाथ ! हे वृषभ ! इति । आद्यवृत्ते श्रीपार्श्व एव स्तुतः । अत्र तु बहवो जिनाः संबोध्यन्ते । कस्यैषा स्तुतिरित्यहो-विभ्रमः ॥ अथ व्याख्या-अमून्यामन्त्रणानि श्रीपार्श्वस्यैव ज्ञेयानि । शोभनवतानां ईशः स्वामी तस्य संबोधनम् । शोभना मतिर्दयारूपा यस्य तस्य संबोधनम् । अभि सामत्येन नन्दन:समृद्धिकरस्तस्य संबोधनम् । अनन्तः-अविनाशो धर्मो यस्य तीर्थव्यवच्छेदाभावात् तस्य संबोधनम् । जिनेषु केवलिष्वतिशयादिभिः वर्धमानस्तस्य संबोधनम् । तु एवार्थः । नेमय:-प्रणमनशीलाः नाथा:-भूर्भुवः स्वःपतयो यस्य सः, तस्य संबोधनम् । हे पार्श्वदेव ! मे-मम त्वमेव शरणम् । किविशिष्टः ? ऋषभश्रिया धुर्यः-लक्ष्म्या आश्रितः । वसभ इव जायत्थामेति वचनात् ॥७६॥ स्तुन्वेति चित्रदैः कोव्यैः, मरिमाणिक्यसुन्दरः। याचेऽहं त्वत्पदाम्भोजे, रङ्गाद् भृङ्गायितं प्रमो!"७७॥
दु० व्या०-अथ फलमाह-स्तुत्वेत्यादि सुगमम् ॥ ७७ ।। तत्राऽऽगतोऽप्रावसरे सुरेन्द्रस्तद् वीक्ष्य वृत्तं हृदि विस्मितस्तम् । जगौ जिनेन्द्रेश्वविशेषवत्सु, किं ते विशेषः प्रभुपार्श्वदेवे ॥७॥ तं वजिणं वीक्ष्य पुरः स्फुरद्भिविभूषणैर्भासितदिङमुखं सः। विद्वान् विधिं वैनयिकं विधाय, पूर्व स्वधृतं सबभाषे ॥७९।।
दु० व्या०-विद्वान्-जानन् ॥ ७९ ॥ १ पैMनिमा' A1
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२] भीभीधरचरितमहाकाव्यम् [षष्ठः "रात्रौ दिवा जागरणे शये वा, मदाशये तिष्ठति पार्श्वदेवः । अयं स्वयं सिद्धिवधुविवाहविधि हि मे विश्वविभुर्विधाता १८०
जगौ हरिस्तं जगदेकमौले, चिरं जय त्वं विजयक्षितीश!। त्वन्मानसं यद् भजतेऽमराली, सेव्यप्रभोभक्तिरिय मराली ।।८।।
दु० व्या०-अमराली ॥८१॥ जाता गुणेभ्यः सहकारिभावं, विनाऽपि विश्वान्यपि चाश्नुवाना । पटीयसी कीर्तिपटी त्वदीया, प्रमाणमुल्लञ्चयतीति युक्तम् ।। ८२ ॥
दु० व्या०-अन्यपटीनिष्पत्तौ तन्तवः समवायिकारणम्, तन्तुद्वयसंयोगेऽसमवायिकारणम् , तुरिवेमादिनिमित्तकारणम् , ते द्वेऽपि सहकारिकारणे । कीर्तिपटो नैवं जायते । अनुवाना-व्याप्नुवन्ती। प्रमाणानि षट् हस्तकादिकं च तर्कशास्त्ररीतिर्वा । पटीयसी-पटुतरा ।। ८२ ॥
यशः सिताम्भोजमहो ! त्वदीयं, विकस्वरं विश्वसरोवरे यत् । विराजतेऽसौ किल राजहंसलीलाविहारस्त्वधित्यकायाम् ॥८३।।
दु० व्या०-पक्षे राजहंसौ-चन्द्रसूर्यो । ८३ ॥
अक्षय्यतूणीरमथो शरीरशङ्गारमस्मै प्रवितीर्य वजी । स्वर्ग ययौ सोऽपिच पूर्वरीत्या, शेषे निशायाः श्रयति स्म सेनाम् ।। अथ व्यधुर्मङ्गलगीर्विलासमिलापतेारमुपेत्य चारु । पटालयस्थस्य विभातवेलां, विलोक्य वैतालिकमण्डलानि ।।८५॥
तीर्थेश्वराः श्रीऋषभादयस्ते, दिशन्तु राजेश्वरमङ्गलानि । हरन्तु हेले किरणा इवोच्चैस्तमः समग्रा गणधारिणोऽपि ॥८६॥
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः 1
स्वोपज्ञदुर्ग पदव्याख्यालङ्कृतम् ।
[ ६३
आरोप्य पूर्वाचल मौलिमैन्द्री, हरिभभोरत्ननिमेन कुम्भम् । विभाति ते मङ्गलकारिणीव, कौसुम्भवासायितसान्ध्यरागा ॥८७॥
दु० ० व्या०-हरित् दिक् ॥ ८७ ॥
दिवं शशाङ्कः परिभुज्य मित्राऽऽगमात् पलायिष्ट रयात् त्रपालुः । धम्मिल्लां साऽपि तमः शिरोजभारं नयत्याशु रतिप्रकीर्णम् ॥ ८८ ॥ ॥ दु० व्या०-मित्रः सूर्यः ॥ ८८ ॥
नूनं निशाशीतगुसंप्रयोगे, स्वेदस्य विन्दूनि भुवं निपेतुः । किमन्यथा वारिकणावलोकः, प्रातः कुशाग्रेषु विनाऽपि मेघम् ॥८९॥
स्फुरत्प्रभामण्डलमण्डलाग्रमाखण्डलाशासुभटं दिनेशम् । नेशे द्विजेशेन निशम्य दूरात्, कियबलं स्वामिनि वाडवे वा ॥ ९० ॥
दु० व्या० - मण्डलामपक्षे इट् । द्विजेन पक्षे चन्द्रेण इनं सूर्यं पति वा ॥ ९० ॥
समागतं वीक्ष्य विदूरदेशादिनं दिनादौ किल पद्मिनीभिः 1. सौरभ्यलीन भ्रमरालिदम्भादानञ्जिरे पङ्कजलोचनानि ॥ ९१ ॥
सरः सरित्पुष्करिणीषु शैत्यं, पद्मेषु सौरभ्यमुभे क्रयाणे । लात्वा मरुत्वान् मृदु बम्भ्रमीति, यच्छन् जने नैगमवत् प्रभाते || १२ ||
दु० व्या० - नैगमः - वणिक् ।। ९२ ।।
उच्चैः करं प्राच्यगिरेर्विहारी, चिकेलिषुव्यममहातडागे । उन्मूलय भेष तमस्तमालीर्विभाति हस्तीव गभस्तिमाली ||१३|| दवा वियोगाय मुदश्रुनीरैर्जलाञ्जलि हेलिविभावलोके ।
अयं नरीनर्त्ति हि चक्रवाकः प्रीतः प्रियासङ्गमरङ्गशाली ॥ ९४ ॥
"
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
निमीलकः कैरविणीवनानामुन्मीलकः पद्मवनावलीषु । चालांशुकिम्मरित शैलसानुरुदेति राजेन्द्र सहस्रभानुः ॥ ९५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - किमरिता - कर्बुरिता ।। ९५ ।।
प्रतापविध्वस्ततमः समूह, समुल्लसद्दीधिति मण्डलाग्रम् । त्वां मित्रवन्मित्रमुपैति मित्रो, दृष्टुं प्रभातेऽप्युचितः प्रबोधः ॥ ९६ ॥ पूर्व प्रबुद्धोऽपि नृपः प्रबोधकरेषु दच्वोचितमप्रबुद्धः । नाभूत् ततः प्राञ्जलिभृत्यजातः, प्रभातकृत्यं सकलं स चक्रे ॥९७॥
[ षष्ठः
दु० व्या० - अप्रबुद्ध: - मूर्खः ॥ ९७ ॥ कर्पूरकालागुरुगन्धधूपमणीवकाद्यैरनणीयसीं सः । पार्श्वप्रभोर्मादिममूढबुद्धिर्वितत्य सुस्थः पुरतः प्रतस्थे ॥ ९८ ॥
दु० व्या०-मणोवकादि - पुष्पादिपूजा ( ' माढि पूजाम्' इति B आदर्श टिप्पणी । ) ।। ९८ ।। उल्लङ्घतेऽध्वन्यनिशं प्रयाणैः पुरः पुरं रत्नपुरं निरीक्ष्य । भ्रूपल्लवोल्लासितलब्धचेताः, स्थागीभृदूचे रमणं पृथिव्याः ||९९ ।। इदं मुदं मेदुरयत्यमन्दं, रत्नाङ्गदक्ष्मापपुरं नरेन्द्रः | खामाह्वयत् तुङ्गनिकेतनाग्रचलत्पताका करपल्लवेन ॥ १०० ॥
१ रुधूपगन्धं म° A २ नामे च B
०
इह स्फुटस्फाटिकसौधगृङ्गसमुल्लसत्कान्तिसमुच्चयेषु । सदा शशाङ्के द्युतिविभ्रमेण, शोकं न जातु श्रयते चकोरः ॥ १०१ ॥ एतजिनौकः शिखराधिरूढप्रौढप्रभाप्राभव हेमकुम्भान् । निभालय भानुभ्रमतः कदापि, शुचं क्वचिद् यान्ति न चक्रवाकाः ।।
दु० व्या० - ओक :- गृहम ॥ १०२ ॥
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपनदुर्गपदच्याख्यालङ्कृतम् । ६५ सन्नीरजस्थाष्णुमनोमरालैर्विश्वस्य तापच्छिदुरैविशालैः। स्वर्णश्रियाऽऽदयैरिह साधुलोकै कासारलक्ष्मीन चिरं निषेव्या॥१०३||
दु० व्या०-कासारः-सरोवरः, पक्षे सारलक्ष्मी का ?। नीरजः पक्षे निर्मलाः । स्थाष्णुः-निश्चल: पक्षे नीरजेषु स्थाणुः । मनोभिः मरालैः । पक्ष सुष्टु अर्णः पानीयम् ॥ अमुष्य जाम्बूनदशालशीर्षे, स्फुरन्मणीनां कपिशीर्षकाणि । दिगङ्गनानां वदनावलोकलीलायिते दर्पणतां वहन्ते ॥ १०४ ॥ प्राकारचीरं परिखाकलापगुणावनद्धं विपुलं वसाना । बिभर्ति रत्नालयकान्तिभार, कौसुम्भवासः किमिदं पुरश्रीः ॥१०५
दु० ध्या-कलापः-मेखला । वसाना-परिदधती ॥ १०५ ॥ वितानमुक्ता इह रत्नसौधेष्वधः पृथिव्यां प्रतिबिम्बभाजः । उड्डभ्रमाद् वीक्ष्य न केन वाच्यं, नमः प्रयातं बलिवेश्म कस्मात् ।।
दु० च्या०-केन इति वाच्यं न भवति ॥ १०६ ॥ धत्ते स्वयं सा यदि राजकन्या, सुलोचना स्वर्गवधूष्ववज्ञा । अदःपुरस्याऽऽभरणं तदेतन्मणीगृहं द्वेष्टि न कि विमानान् ॥१०७॥ इहत्यपौरर्दुरितं निहत्य, पुण्यैस्तथा दाग निरवासि नीलम् । यथाऽत्र तन्मित्रतमोऽपि नेशे, स्फुरन्मणीवेश्मरुचिपवेष्टुम् ।।१०८।। विसारिदानाचतुराश्रयाच, सदालिपालिश्रियमावहन्तः । अनेकपाख्या नरकुञ्जरत्वं, नरा भजन्वत्र नरेन्द्रमान्याः॥१०९।।
दु० च्या०-दान-मदः । चतुरः, हस्तिशाला । अलिपालि:-भ्रमर
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६ ] धीश्रीधरचरितमहाकाव्यम् । [षष्ठः श्रेणिः पक्षे सन् श्रेणिपालिना श्रियम् । 'अनेकप' इति आख्या-नाम येषां पक्षे अनेकपा:-अनेकरक्षकाः । नरकुञ्जरत्वं-नरश्रेष्ठत्वम् ॥ १०९ ।। इतः पुरोऽस्याः परितो वनाली, विलोक्यता नाथ! यथा घनाली। प्रेढोलनोच्छृङ्खलपौरनार्यो, विद्युल्लतावद् विलसन्ति यत्र ॥११०॥
दु० व्या०-पुरः-नगर्याः ।। ११०॥ स्वयंवरायातनरेश्वराणामितः सरस्यां तरलास्तुरङ्गाः । ललन्ति लीलाभिरपाङ्गदेशे, सुलोचनाया इव दृक्तरङ्गाः ॥१११॥ यैः स्पर्धित कोमलकाम्यकन्याऽऽनने नलीनान्यपि तानि नीरे। मृनन्ति पद्मानि पदैस्तडागे, तदर्थनां भूमिभृतां करीन्द्राः॥११२॥ इमाः पटावासघटाः सितामा राजन्ति राजनिकपा पुरं याः। सोढाः स्वशीर्षापरि भूमिपालैः, सुलोचनालोचनभङ्गिभासः॥११३
दु० व्या०-निकषा पुरं-पुरसमीपे ॥११३॥ सूक्तरमीभिः श्रवणप्रयुक्तैः कदधिः कुण्डलपौनरुक्त्यम् । क्षणे क्षणे तस्य विशेषवीक्षाप्रीत्येरितोऽगात् समया पुरं सः ॥११४॥
दु० व्या०-समया पुरं-पुरसमीपम् ॥११४॥ ततस्तमभ्यागतभूपरत्नाङ्गदः सतन्त्रं स्वपुरं प्रवेश्य । पौरः परप्रीतिभरेण गौरः, पेयं परे स्थापयति स्म सौधे ॥११५।।
दु० व्या०-पेयं-विलोक्यम् ।। ११५ ॥ कृष्टा गुणैस्तत्र सुलोचनायाः, समं समीयुर्यदि ते खगेन्द्राः। न कौतुकं किन्तु महीधराणामिहागमश्चित्रकृते नराणाम् ॥११६॥
दु० व्या०-खगेन्द्राः-पक्षिश्रेष्ठाः । महीधराणां-गिरीणाम् ॥११६॥
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग स्वोपवदुर्गपदच्याख्यालङ्कतम् । स्वयंवराया वरमण्डपोऽथ, प्रकल्पितः शिल्पिवरैविरेजे। यं वीक्षमाणोऽपि सहस्रनेत्रैर्मन्ये न यायान्मघवाऽपि तृप्तिम् ॥११७॥ वसुन्धरां यत्र विशुद्धवज्ररत्ननिवद्धामभितोऽपि वीक्ष्य । चक्रे वितक विवुधः किमाद्यं, रत्नप्रभायामिह वज्रकाण्डम् ॥११८॥
दु० व्या०-रत्नप्रभायां षोडश काण्डानि स्युः, आय रत्नकाण्डम् ।। वेल्लन्मणिवातविभातरङ्गाऽवलोकनाद् मज्जनशङ्कयेव । वितेनिरे स्तम्भशिरोनिलीनाः, पाश्चालिका यत्र न कस्य चित्रम् ।।
स्वस्यायती राजकमाशु जेयं, विचिन्त्य पूर्व लघुहस्ततायै । क्षिप्ताः स्मरेणैव शरा विलेसुर्यत्र प्रसूनप्रकरच्छलेन ॥१२० ।।
दु० व्या०-आयतो-उत्तरकाले । राजकं-राजसमूहम् । लघुहस्ततायै -अभ्यासाय ।। १२०॥
रुद्धेऽन्तरे मौक्तिकतारचारुचन्द्रोदयैर्भानुगणोऽधितस्थौ। क्षणं दिक्षुः कलशातकुम्भकुम्भालिदम्भात् किल यस्य मौलिम् ।।
दु० व्या०-अन्तरे-मध्यभागे ॥ १२१॥ चलद्घजैक्ष्य विलोलवीचिश्रियं श्रितां यत्र महामहाब्धौ ।। रङ्गन्मृदङ्गध्वनिभिर्गभीरः, समाददे सागरगर्जितश्रीः ॥१२२॥ कर्पूरागुरुधूपधूमपटेलीकादम्बिनीडम्बरे,
चश्चत्तोरणशकचापरुचिरे भट्टैर्मयूरायितम् । दुर्वाकरितमिन्द्रनीलमणिभिरायिते मौक्तिक
श्रेणीभिः शुचिपद्मरागमणिभिर्यत्रेन्द्रगोपयितम् ॥१२३॥ १ "टलैः का' AL
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरितमहाकाव्यम् ।
श्रीरत्नाङ्गदूतहृतिभिरथो विश्वेऽपि भूपालसद्रूपास्तत्र बभासिर स्थितिभृतो नामाङ्कसिंहासने । भेजे भानुतुलां गृही कृतनृपः शक्रप्रदत्तस्फुरन्माणिक्याभरणैकभासुरतनुः श्रीजायचन्द्रिः पुनः ॥ १२४॥
दु० व्या०-विश्वेऽपि सर्वेऽपि ! जायचन्द्रिः - विजयचन्द्रः ॥ १२४॥ इति श्रीमञ्चलगच्छे श्रीमाणिक्य सुन्दरसूरिविरचितं माणिक्याङ्के श्रीश्रीधरचरित्रे षष्ठसर्गस्य दुर्गपदव्याख्या समाप्ता ॥
[ पष्ठा
इति श्रीञ्चलच्छे आचार्यश्री माणिक्यसुन्दरसूरिविरचिते माणिक्या श्रीश्रीधरचरित्रे श्रीछन्दो मुख्यलक्ष्यसुलोचनाष्टपद- सूर्योदय नगरस्वयंवरवर्णनो नाम षष्ठः सर्गः ॥ प्रन्थानम् ॥ १८६ ॥ अ० १२ ।।
आचार्यश्री • AI २ " रवि B।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः।
अथ स्वागताछन्दःलीलया भाति मङ्गलगाने, वर्णिनीभिरथ साऽस्नपि कन्या । उन्नतस्तनजितप्रणताऽस्य, स्वर्णकुम्भसलिलैर्विधिपूर्वम ॥१॥
दु० व्या०-आस्य-मुखम् ॥ १ ॥ सनितम्बगुरुगोत्रधरित्री, ता निरीक्ष्य मुदितैरिव मन्ये। . म जुला मुमुचिरे कलशैस्तैः, सन्नत लधरैजलधाराः ॥२॥
दु० व्या०-सत्-प्रधानं नितम्बमेव गुरुगोत्रं-पर्वतं धरतीति जलधरैः, पक्षे मेधैः, "गिरौ वर्षन्ति माधवाः " इत्युक्तेः ॥ २ ॥ काम्यकाश्चनरुचिः शुचिवासवान्तवारिपृषतेयममासीत् । अस्ततारकगणेव गभस्तिप्रोज्ज्वलद्युतिरहर्मुखवेला ॥ ३॥
दु० व्या०-पृषत्-जलकणः ॥३॥ विश्वयौवतविभूषणचूलारत्नमाश्रितसितांशुदुकूला। क्षीरनीरधितरङ्गासरङ्गश्रीवि श्रियमियं श्रयते स्म ॥४॥
दु० व्या०-यौवतं-युवतीसमूहः ॥ ४ ॥
चन्द्रचन्दनमिलन्मृगनाभी, पङ्कपङ्किालतनुः किल कन्या। क्वापि कुडमचिता च विरेजे, द्यौरिवेन्दुतिमिराकविभाभृत् ॥५॥
दु० व्या०-चन्द्रः-कर्पूरः ॥ ५ ॥ १° उचकूचविजयप्र° AM
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७] श्रीश्रीधरचरितमहाकाव्यम् [सप्तमः रत्नजित्वररुचे किमु रत्नैः, काश्चनेन किमु काश्चनगौर्याः । सावहेलमिति हेममगीभिभूपितालिभिरसावखिलाङ्गम् ॥ ६ ॥
दु० व्या०-असौ अखिलानं-सर्वाङ्गम् ॥ ६ ॥
शेखरः शिरसि रत्नमयोऽस्याः, कामकेलिशिखरीव दिदीपे । अन्यथा तमवलोक्य वयस्याः, प्रीतिमन्मथरतीः कथमापुः ? ॥७॥ चित्रितस्तिलककुण्डलभानुद्योतितोपरि तदाननलक्ष्मीः। केन नैक्ष्यत पुनः स्तनशैलोत्तारिहारजलमज्जलधारा । ८ ॥
दु० व्या०-उपरि-विभागे ॥ ८ ॥ ऊर्मिकानिकरकङ्कणकाम्या, पादपद्मकलहंसकरम्या । अप्सरोभिरुचितं तुलिता सा, गूढमन्मथजलेभविलासा ॥ ९ ॥
दु० व्या०-उर्मिका-मुद्रिका, पक्षे कल्लोलः । कङ्कणपक्षे जलकणः । हंसकः-नू पुरः । अप्सरोभिः पक्षे जलसत्कसरोभिः ॥ ९ ॥ नृत्यति स्म मुदितः स्मरवीरस्तनितम्बनवरङ्गधरायाम् । तत्र यद् व्यलसदुज्ज्वलकाञ्चीकिङ्किणीकपटघरघोषः॥१०॥ सैवमाभरणभूषितगात्री, लोकलोचनसुधारसपात्री। याप्ययानमधिरुह्य बभासे, देवतावरविमानगतेव ।। ११ ।।
दु० व्या०-याप्ययानं-नरविमानम् ॥ ११॥
यां विलोक्य हृदि काममहेला, दध्युषीत्यहह ! का मम हेा । श्रीमदं वहतु तामभिरामा, का ततत्रिभुवनेऽप्यभिरामा ।।१२।।
दु० व्या०-काममहेला-कामस्त्रो इति दध्युपो-चिन्तयामास स महेला का तां अभि का रामा-खो ।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याल्यावृतम्।
अथ रथोद्धताछन्दःवर्णिनीविहितसर्वमङ्गला, रूपतो विजितसर्वमङ्गला । मौलिविस्फुरितबहिणच्छदछत्रपार्श्वचलचामराञ्चला ॥ १३ ॥
दु० व्या०-सर्वमङ्गला-पार्वती ॥ १३ ॥ विश्वविश्वजनचित्तहारिणी, सा स्वयंवरणमालभारिणी । व्योमपूर्यस्वतूर्यडम्बरा, प्राप मण्डपमुखं पतिवरा ॥ १४ ॥ युग्मम् ।।
अथ शालिनीछन्दःरोमोद्धर्मव्याजतो लग्नबाणा, लक्ष्मीभूता भूमिपालाः स्मरस्य । सन्धानाथं तेन हुन्नेत्रदूतान् , कन्यायां तद्राजधान्यां प्रजिघ्युः ॥१५॥
दु० व्या०-रोमोद्धर्षः-रोमाञ्चः । तेन स्मरेण सह संधिहेतवे प्रजिघ्युः -प्रेषयामासुः ॥ १५॥ अन्तर्भूपश्रेणियुग्मं गतायां, वाह्यालीवद् चल्गु वल्गन्तमस्याम् । नेत्रं धृत्वाऽपत्रपा वलगयाऽश्वं, चेष्टां चक्रुः नव्यनव्या नरेन्द्राः ॥१६॥
दु० व्या०-अपत्रपा-लज्जा । नेत्रमेवाश्चम् ॥ १६ ॥
जगत्यां वंशस्थठन्दःघरापतिः कोऽपि हृदि स्मरातुरः, स्मरनिमां साविकधर्मसङ्कुलः । अहो ! महोष्मेति वदनचीचलत् , करेण केलिव्यजनं मुहुर्मुहुः ॥१७॥ कनीमनीहां मयि सस्पृहेऽत्र मा, विधा विधातुर्नियतं न चेदसौ। शिरोविभेदाय तवेति चिन्तयोदलालयत् कश्चन रत्नकन्दुकम् ॥१८॥
दु० व्या०-अनीहां-अनिच्छाम् । मा विधाः-मा कार्षीः । असो रत्नकन्दुकः ॥ १८ ॥
१० वर्षेनी ° BI
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२ ] श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमा महाभुजः कश्चन बाहुसंस्थितं, करेण रत्नाङ्गदमास्पृशन्मुहुः । ययाच तां तपितरं परीटिभिः, परिष्ठरत्नाङ्गदनामधारिणम् ।।१९।।
दु० व्या०-तां-कन्याम् । 'याच्' धातुर्दिकर्मकः । परीष्टिभिःसेवाभिः ॥ १९ ॥
अथेन्दुवंशाछन्दःपाणी कृपाणीनरिननच्छलात,
कश्चिद् विधि भर्सयति स्म वर्यधीः । एतां निरीक्ष्यान्तकजिह्वया निभां,
छिन्द्यान्ममाशालतिकामकालतः ॥ २० ॥ दु०. व्या०-नरिनर्त्तनं-अत्यर्थ नर्तनम् ।। २० ॥ ज्योतिर्मये कश्चन रत्नकुण्डले, जाज्वल्यमाने ज्वलनस्य कुण्डवत् । हस्तं क्षिपन्नात्मनि रागनिर्णय, दिव्येन कन्या हृदि संन्यवीविशत् ।
__ अथ सङ्करःरम्भाच्छदस्य व्यजनं दधिः करे, मुहुर्मुहुस्तस्य विलोलनच्छलात। रम्भाऽपि रूपस्य तुलां न याति ते, कनीमदः कोऽपि सगौरवं जगौ। - दु० व्या०-कनीम् , अदः ॥ २२ ॥
अथ द्रुतविलम्बितम्अथ घनस्वरघस्मरकस्मरध्वजरवं विनिवार्य यशोधरा । क्षितिधरान्वयवृत्तविदाऽलपन्नृपसुतां प्रति वेत्रलताधरा ॥२३॥
दु० व्या०-धनः-मेधः । घस्मरकः-भक्षकः । स्मरध्वजरवं-वाद्यम् । वृत्तवित्-चरित्रवित् ॥ २३॥
१°धिं ता जयति° AI
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् ।
[७३ अयि ! विलोकय कोकनदानने !, घुसृणरागभरेण नरेश्वराः। तव गुणैरमलैनवमालती परिमलरलिवत् किल संगताः ॥२४॥
दु० व्या०-घुमणरागभरेण-कुङ्कुमरागभरेण । कोकनदानने-रक्तोस्पलसदृशमुखि ! ॥२४॥ अधिपतिर्मगधेषु पुरन्दरेत्यभिधया पुरतः परिभाव्यताम् । रसितयद्गुणसज्जनहीलितो, न वसुधातलमेति सुधारसः ॥२५॥ .
दु० व्याo-रसित:-आस्वादितः ॥ २५ ॥ सुतनु यस्य रणाङ्गणसंचरत्तरलतुङ्गतुरङ्गखुरोद्धते । रजसि याति दिवि प्रविभाव्यते, न रजनी न दिवा न दिवाकरः ।।
दु० व्या -[ 'प्रविभाव्यते-ज्ञायते ' A आदर्श टिप्पणी] ॥२६॥ मज भुवःपतिसंहतिरोहिणीवरममुं प्रणयादिव रोहिणी। वितरणाय धृतेः सुररोहिणी, भव सुमात्र शरत्रणरोहिणी ।।२७॥
दु० व्या०-रोहिणीवर-चन्द्रम् , रोहिणी इव । धृते:-समाधेः सुर. रोहिणी-कामधेनुः ['सुमास्त्र:-स्मरः' A आदर्शे टिप्पणी] व्रणरोहिणीऔषधिः भव ॥ २७॥ नयनभङ्गिभिरेव तयेरिता, तमपहाय नृपं पुरतस्ततः । क्षितिपमाप्य महेन्द्रमुवाच सा, पति नरेन्द्रसुतां प्रतिहारिका ॥२८॥ इह बभूव पुरा वृषभप्रमुस्तनुरुहोऽस्य विदर्भ इति श्रुतः । जयति सैप महेन्द्रमहीपतिः, सुनयने च तदन्वयचन्द्रमाः॥ २९ ॥
दु. व्या०-सैप इति व्याकरणविशेषः ॥२९॥ १.वि प्रतिभा ° RI
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ सप्तमः
अयमरातिनरेन्द्रयशोऽम्बुधिं, लघु निपीय रणाङ्गणतृष्णया । विरचयन् विरसं चिरदुर्यशोमयमिहाभिनवः कलशोद्भवः ॥३०॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - दुर्यशोमयम् | [ 'कलशोद्भवः - वडवानलः ' A आदर्श टिप्पणी ] ||३०||
भज भुजद्वयवत् कुसुमखजं, परिनिवेश्य गलेऽमुमिलाभुजम् । यदि जिनेन्द्र निकेतनमण्डितं, नगरकुण्डिनमीक्षितुमिच्छसि ||३१|| स्वमवधेहि जिनेन्द्रनमस्त्रियामहमिहापि कृताञ्जलिरस्मि ते । इति परस्परहास्यपरे जने, नृपकनी तमवाजगणन्नृपम् ॥ ३२ ॥+ दु० व्या० - अवाजगणत् - भवगणयति स्म ॥ ३२ ॥
इदमनन्तरमुत्तरकोशलाधिपमनन्तमनुत्तरकौशला । नृपतिमुद्दिशती नवसूत्रवत् पुनरिमां प्रति वेत्रधरा जगौ ||३३||
दु० व्या० - अस्मादनु ॥ ३३ ॥
अयमनन्त इति क्षितिमण्डले, क्षितिपतिः प्रथितः क्षितिपेषु यः । अधिकमुद्वहति प्रतिभाप्रभाभरमहो ! भरतान्त्रयभूषणः ॥ ३४ ॥ दु० व्या० - इदमनन्तरम् ॥ ३४ ॥
कथमहि भयाय यदि द्विषो, दशति कोशबिलान्तरनिर्गतः । अपि तदुज्ज्वलकीर्तिपयः पिवत्यसितयत्करवालभुजङ्गमः ||३५|| दु० व्या०-असितः - कृष्णः ॥ ३५ ॥ अभिरतिर्यदि ते सरयूजलप्लवनशाड्वलकानन केलिए । क्षितिपतेस्तदमुष्य भव प्रिया, सुररिपोरिख गौरि ! हरिप्रिया ॥ ३६ ॥ दु० व्या० - अभिरतिः - इच्छा | प्लवनं-तरणम् । [ 'मुररिपुः, हरि प्रिया - लक्ष्मी: ' A आदर्शगत टिप्पणी ] ॥३६॥
>
+ A आदर्श 'स्त्रमवधेहि' इति ३२ श्लोकानन्तरं ' अयममनन्त इति श्लोक उपन्यस्तः ।
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः 1
स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् ।
[U
छलपराश्चि विलोकनलीलया, तमपि वर्जितमेव तया रयात् । समवलोक्य गता क्षितिपान्तरं, पुनरवोचत सा नृपनन्दिनीम् ॥३७॥
दु० व्या०- पराञ्च पराङ्मुखम् | [ 'पराचि - परप्रतिगमनशीला ' A आदर्शगत टिप्पणी ] ॥ ३७ ॥
अथ मौक्तिकदामछन्दः -
विलोकय लोकविभाकरतुल्यमितो हरिभूपमनन्यजभल्लि ! | विभाति हतारितमिस्रविलासमयं कृतकासि सरोज विकाशः ||३८||
दु० व्या०-हे अनन्यज - कामभल्लि । हतारितमिस्रविलासं यथा भवति ॥ ३८ ॥
करालकृपाणधरे रणरङ्गविलासकरेऽजनि यत्र कुरङ्गः । द्विधाऽपि चलाचलदृष्टितरङ्गभरं रिपुरुज्झितहस्तितुरङ्गः ॥ ३९ ॥
दु० व्या० - पक्षे कुत्सितरङ्गः । चलाचलदृष्टितरङ्गभरं यथा भवति । उज्झितः ॥ ३९ ॥
अथ तोटकं छन्द:
नवयौवनकानन केलिकरं, करपल्लवनिर्जितपद्यवरम् । वररत्नममुं वृणु सर्वकलं, कलय त्वमतस्तरुणत्व फलम् ॥ ४० ॥
दु० व्या०- सर्वाः कला यस्य तम् । अतो राज्ञः ॥ ४० ॥
न विलोकयति स्म कनी तमलं, नलिनीव कलाधरमप्यमलम् । अधिगत्य ततोऽन्यनृपं चतुरा, पुनरेवमवोचत वेत्रधरा ॥ ४१ ॥
दु० व्या०--तम् अलम् ॥ ४१ ॥
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीषीधरचरितमहाकाव्यम् । [सतमा अथ भुजङ्गप्रयातम्अमुं पश्य पदाक्षि ! पर्व नृपालं, यथार्थाभिधं सद्गुणश्रीविशालम् । परं कण्टकोच्छेदनः खड्गदण्डः, करेऽस्योच्चकैस्तन्मृणालप्रचण्डः ॥
दु० व्या०-तन्मृणालं-कमलनालम् ।। ४२॥
अथ स्रग्विणीछन्दःकिन्नरीवृन्दगान्धर्वगीर्वन्धुरे, नित्यपर्यन्यतूारवाडम्बरे । केकिनृत्यं यदि प्रेक्षितुं रैवते, चित्रमेतं भज द्वारकेशं ततः॥४३॥
दु. व्या०-साऽपि प्रतिहारी, द्वारकेशम् ॥ १३ ॥ अथ वैश्वदेवीछन्दः
स्मित्वा हित्वाऽमुंभूपति भूपकन्या, प्रातीहार्यस्था प्रेरयामास विज्ञा। मेने साऽप्यस्मै स्वप्रयुक्तापशब्दं, मापानुद्दिश्य स्माह सप्ताग्रतश्च ।।
दु० व्या-अपशब्दम् ।। ४४ ॥ भय तामरसं छन्दः
अमलकलाधरकान्तिकलापं, कलय कैलिङ्गमलिङ्गितपापम् । विमृश मृगेन्द्रकशोदरि! दूरीभवति यतो न हि दृष्टिचकोरी ॥४५॥
दु० व्या०-अलिङ्गतं-भप्रकटितम् ॥ १५ ॥ अथ चन्द्रवर्त्म छन्दः
यस्य कीर्तिघनसारपरिमलैसिनैत्रिभुवनस्य घनतरैः । पासितो हि धनसारसमुदयः, प्रायशो भजति भूरिचपलताम् ॥४६॥
१० रोचते °R । २ °य किलेमम' ।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपञ्चदुर्गपदव्याख्यालङ्कृतम्। [
अथ सुदत्तं छन्दःसमरे यशोवीजमिवोप्तमर्वतां, हलवत् खुरैः क्षुण्णमहीतलेऽमुना। वियति स्फुरत्तारकमण्डलच्छलान्मदवारिसिक्तं करिभिः फलमहि ४७॥
दु० व्या०-टिप्पणी-अमुना-राज्ञा, समरे बीजमिव उप्तं-आरोपितम्, यशः फलेग्रहि, शङ्गारो भूषणम् , पक्षे सिन्दूरहस्तिनी, पक्षे त्रीविशेषः A आदर्शगतटिप्पणी । ] ॥ १७॥ अथ शर्कयां जातौ वसन्ततिलकाछन्दःकस्तूरिकामदचितस्तनकुम्भशृङ्गा, शृङ्गारभूषणविभूषितदेहदेशा । रेवाजले वहसि पअिनि हस्तिनीत्वं, चेन्मालवाधिपममुं तमुरीकरोपि॥ अथ प्रहरणकलिकाछन्दः- .
अमलकमलकोमलवरखदनं, स्फुरदुरुरुचिनिर्जिततरमदनम् । गजपुरपतिमुन्नतगुणसदनं, मज भज गजगामिनि! नृपमदनम् ॥४९॥ अथातिशर्कयां जातौ मणिगुणनिकरं छन्दः
जय जय जिनवर मधुकर! मधुरक्वण! नरसुरगणनुतगुणनिकर।। स्मररिपुभय! वह भविजनशरणक्रमसरसिजभवजलनिधितरण !॥५०॥
अथ मालिनीछन्दः
इति जिननुतिभक्तिव्यक्तकासारकेली
करणकलमरालं वैरिवंशे करालम् । नृपममुमथवाऽलं नामतः कीर्तिपालं,
भज शशिदलभालं देशकाम्बोजपालम् ॥५१॥ युग्मम् ॥
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८] श्रीश्रीघरचरितमहाकाव्यम्। [सप्तमा अथ मृदङ्गछन्दःआनन्दयत्वथ मनस्तव सैष मैथिल
श्चन्द्रानने ! कमलचन्द्र इति क्षितीश्वरः । यत्कीर्तिहंसपटलीभुवनं वतंसय.
त्युल्लासिसज्जनसरोरुहसंश्रयोद्यता ।। ५२ ।। अथ कामक्रीडाछन्दः
तारं तारुण्यं लक्ष्मीलीलालावण्यं सौन्दर्य, __ सर्वाङ्गे धैर्य वयं यस्मिन् भूयः स्याचातुर्यम् । एतेष्वेकं तं कश्चिद् भूपं रागेण वं पश्या.
वश्यं वाक्यं चित्ते न प्रीतिं चक्रे नैतत् तस्याः ॥५३॥ अथ प्रियंवदाछन्दःअमुमितः कप नृपं हि भोगिनं, मलयशैलतटनीवृतं प्रभुम् । भज वरं भव चिरं च भोगिनी, बहुचन्दनरसादिसादरम् ।।५४ ॥ - दु. व्या०-भोगिनम् , पक्षे सर्पम् [ नीवृतं-देशम् A आदर्श टिप्पणी] ॥ ५४॥ अथ प्रमिताक्षराछन्दःशशिनो हरेश्व कमला कमलाऽपस्ता विलासमिह यत् तनुते । कमलाविलास इति योऽतिथं, विरुदं बिभर्ति बहुराज्यवलः ॥५५॥
दु० व्या०-अपसृता-दूरीकृतता ॥ ५५॥
अथ जलधरमालाछन्दःदरादेतत् करकरवालं कालं, नव्यप्रेसज्जलधरमालोत्तालम् । रष्टवा शङ्कागलितरिरंसैः कष्टं, युक्तं नष्ट रिपुजनहंसः स्पष्टम् ॥५६॥
तं प्रभुम् RA। २ ° सादराम् BI
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपनदुर्गपदव्याख्यालङ्कतम् ।
[७९ अथ मणिमालाछन्दःतं भूपतिकोटीकोटीरमिलाख्यं, दक्ष जनताना नव्यं सुरवृक्षम् । स्वर्गाधिपतुल्यं कस्मीरधरित्या, लब्ध्वा भज हेलो शच्या शुचि।।
___ अथातिजगत्यां प्रहर्षिणीछन्दःउद्दामातिभरमण्डलाग्रजाग्रद्वीरश्रीविहितकटाक्षलक्षिताङ्गः । क्ष्मापालः क्षितिपतिमण्डलीषु, मान्योऽसामान्योजयति पुरस्तव प्रताप
अथ नन्दिनीछन्दःजनकस्य जन्यमयतेऽनुरूपतामिति सत्यमस्य यदरिप्रघातिनः। शशभृत्छलेन यशसा निहन्यते, रिपुदुर्यशोऽपि तिमिरस्य मूर्तिभाक् ॥
दु० व्या०-जन्यं पुत्रादि । अयते-याति ॥ ५९॥
अथ रुचिराछन्दःवदन्ति केऽप्यहह! पितामहंगतां, समाश्रितां सलिलनिधिं च केचन। सरस्वती वयमिह सुन्दरे, पुनर्लभामहे सुललितकण्ठसङ्गताम् ॥६०॥
अष्टौ जाती-वाणिनीछन्दः
कलयति नोजवलाङ्गमपि राजमण्डलं किं,
धृतिरतिरद्भुतयुतिभरेऽत्र पद्मिनी ते । इति चतुरोक्तिमालिमभिलापिनीमनैषुः,
सपदि कनों नरेन्द्र विजयं विमानवाहाः ॥ ६१ ॥
८० व्या०-भुवनम् , पक्षे जलम् . जलमध्यस्थत्वात् कमलम् , राजमण्डलम् , पक्षे चन्द्रमण्डलम् । अत्र वीक्ष्यमाणे इने-सूर्ये, स्वामिनि वा सा विजयचन्द्रं दृष्ट्वा निजं भावं प्रतीहार्थे प्रोचे इति भावः ॥ ६१ ॥
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८० ]
अत्यष्टौ जातौ शिखरिणीछन्दः -
श्रीश्रीधरचरितमहाकाव्यम् |
Acharya Shri Kailassagarsuri Gyanmandir
त्यजन्ती क्षोणीन्द्रान् रजनिदलकानीव निखिलाँस्तमःपक्षं चक्रे क्षितिपतिचयं श्यामवदनम् ।
[ सप्तमः
ततः सा तन्वङ्गी नृपविजयचन्द्रं सितसमुलत्पक्षं लब्ध्वाधिकमित्र विरेजे शशिकला ॥ ६२ ॥
दु० व्या० - सित - श्वेतसमुल्लसत्पक्षसदृशं शशिकला इव ॥ ६२ ॥
प्रतिहारीहारीकृतदशनकान्तिः पुनरवक,
पुराऽभूद् सुत्रामा भुव इव जयन्तः क्षितिपतिः । कुलाङ्करः शूरः शुभति जयचन्द्रोऽस्य नृपतिः, पुरस्तजन्माऽपि च विजयचन्द्रो विजयते ॥ ६३ ॥
दु० व्या० - भुवः सुत्रामा - इन्द्र इव ॥ ६३ ॥
विधत्तां क्षीरेशं सुहृदमथवा नीलवसनं, कलाभृत्कान्ताभाः कलयतु भुजङ्गेन्द्रसखिताम् । दधाना स्पर्धा यद्विजित रिपुभूमीन्द्रजनिताऽपकीर्तिर्यत्कीर्त्या तदपि ननु सा काकधवला ॥ ६४ ॥
For Private And Personal Use Only
दु० व्या०- कीर्त्या श्वेतपदार्था मित्रीकृताः, अतोऽपकीर्तिरपि यत्कीसह स्पर्धा दधाना सती क्षीरेशादिभिः मन्त्रं कुरुतां तदपि सा काकघवला एव एतद् हास्यवचनम्, क्षी रेशं क्षीरच ईशव क्षीरेशं द्वन्द्वैकत्वम्, पक्षे क्षीरेशं - समुद्रम्, नीलवसनं - नीलवस्त्रं वा, कलाभृत् कान्तः, चन्द्रपक्षे कलाभृत् कान्ता -रात्रि:, तदाभाः, भुजङ्गेन्द्रः- शेषः, पक्षे महासर्पः ॥६४॥
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
अथ हरिणीछन्द:---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् ।
W
हरिरिव हरेः शृङ्गारेण स्फुरद्युतिशालिना, हरतु हरिणीनेत्रे नेत्रे न कस्य नृपोऽप्यसौ ।
यदयमसमं वामभ्रूणां मनोभवत्रिभ्रमं,
सुतनु ! तनुतेऽनङ्गत्वेनोज्झितोऽपि तदद्भुतम् ॥ ६५ ॥
दु० व्या० - हरेः - इन्द्रस्य तन्नामाङ्कत्वात् तस्य अनङ्गत्वं कृशाङ्गत्वम् ॥
अथ पृथ्वीछन्द:
अमुं नृपतिमतल्लिकां मदनमलि ! भिन्द्धि स्वयं, स्वयंवरण मालिकान्यसनदम्भतोऽभ्यर्णगा । किमेतदथ कौतुकं तत्र मृगाक्षि ! यल्लीलया, कटाक्षविशिखैरपि क्षिपसि विष्टपान्यन्यतः ॥ ६६ ॥
दु० व्या० - विशिखैः - बाणैः, अन्यतः क्षिपसि ॥ ६६ ॥
अथ मन्दाक्रान्ताछन्दः
[ ८१
मौलौ माल्या लिसुरधुनीस्पर्धयाऽयं महेशं,
सा कालिन्दी कलयति करे चेतु कृपाणच्छलेन ।
तत् तेऽप्यस्मिन् परमहिमवत् भूभृतः संभवायाः, स्वाङ्गं दत्वा सपदि विशदं गौरवं गौरि ! युक्तम् ॥ ६७ ॥
For Private And Personal Use Only
दु० व्या० - महेशं, पक्षे महेश्वरम् | कालिन्दी - यमुना । प्रकृष्टमहिमयुक्तः, पक्षे परमहिमवद्भूभृतः - हिमाचल पर्वतस्य । गौरी, पक्षे पार्वती ॥ ६७ ॥
११
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीश्रीधरचरितमहाकाव्यम् ।
८२ ]
अथ घृतौ जातौ कुसुमितलताछन्द:--
आक्रामी रिपुकरिशिरः सान्द्र सिन्दूरपूरादूरीचक्रे ऽस्यारुणरुचिमिभद्वेषिशौर्यस्य युद्धे । कास्मीराले पैस्तव कुचपरिक्रीडनेऽमुष्य कामं, पाणिः शोणोऽभूदिदमपि वचः प्रीतये स्तात् कवीनाम् ॥६८
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - अंह्निः - चरणः अस्य इभद्वेषी - सिंहः ॥ ६८ ॥ अथ धृतौ जातौ मेघविस्फूर्जिताछन्द:
अथ शार्दूलविक्रीडितं छन्दः
[ सप्तमः
तपस्त्वामाराद्धं कलयति भुवः स्वर्वधूमस्य कीर्तिव्रजो मुक्ताहारः श्रितकुचगिरिः शालिरोमालिन्याम् । अथैनं संतुष्टा रमय नयनापाङ्गभङ्गीषु भूपं,
स च त्रैलोक्येऽपि प्रसरतु यथा वामनो वासुदेवः ॥ ६९ ॥
दु० व्या०- भुवः सर्वपृथ्वी सत्कादेव तां अस्य कीर्तित्रजो मुक्ताहारो मौक्तिकहाररूपः, मुक्तभोजनो वा स च कीर्तिर्व्रजः ॥ ६९ ॥
For Private And Personal Use Only
इत्येवं प्रतिहारिकानिगदितव्याहारकादम्बिनीसंसेकोत्पुलकच्छलेन परितः प्रोद्भूतदर्भाङ्कुरा । भूयिष्ठं तमरीरमत प्रसृमरे नेत्रान्तभङ्गीभरे सानन्दा शरदुज्ज्वलेव सरसी सा राजहंसं तदा ॥७०॥
दु ० व्या०-याहारः - वचनम्, राजहंसम्, पक्षे, राजश्रेष्टम् ॥७०॥
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपजदुर्गपदव्याख्यालङ्कृतम्। [a अथ कृतौ जातौ सुवदनाछन्दःतस्मिल्लावण्यवाधौं तरणिमिव दृर्श तस्या मनसिजो
निर्यामो युक्तमङ्गान्यनयत विविधस्थानानि विबुधः । मालभ्रूनेत्रवक्त्रोरसि भुजयुगले विभ्रान्ति सदनं,
नाभ्यावर्ते निमग्नाऽपि हि सपदि पुरो येनेयमचलत् ।। ७१ ।।
दु० व्या०-मनसिजः-कामः निर्यामकः । अङ्गान्येव विविधस्थानानि । विबुधः-देवः । उरः वक्षो वा। 'नी'-धातुर्द्विकर्मकः । भाल-भ्र-नेत्रवक्त्रोरसि, अत्र " प्राणितुर्यङ्गाणाम्" इति पदेनैकवचनम् । येन कामनिर्यामकेन । इयं दृगू नौः पुरे अग्रे ॥ ७१ ॥
प्रकृती जातो नग्धरा छन्दःउत्साथि त्रपां सा चरणझुणन्नू पुरं संचरिष्णु
लीला व्यालोलहारा ललितगतिचलत्कुण्डलाशिञ्जि भूषा । संमिन्ना भूरिभावैस्तुमुलवति जने सम्मदेनोन्मदिष्णौ,
सोत्कण्ठं कण्ठपीठे विजयनरपतेः' क्षेप्तुमैहिष्ट मालाम् ।।७२।।
८० व्या०-शिञ्जिशब्दः । अत्र काव्ये तस्याश्चापल्यं व्यनितुं युक्ति भने वक्ष्यति । यथा नौषधे-" अथ भोमसुतावलोकनैः" इत्यादि ॥७२॥
अथाकृतौ जातौ भद्रकं छन्दःहीकृततनिरूपणपतिवराननशशी सखीमुखमयो,
स्मेरयति स्म नीरजममुं प्रतीदमपि शीतलं शुचिवचः । सारसुधारसं वितरति स्म सस्मितमहो! महोत्सवमरे,
नश्यति शत्रुता ननु किमेतयोः कुतुकमञ्जयोः स्वजनयोः ।।७३।।
"तेस्तां निचिक्षेप मालाम् A |
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरधरितमहाकाव्यम् । [सप्तमा दु० व्या०-हिया धृतं तन्निरूपणं विजयवीक्षणं यया, एवंविधसखीमुखमेव नीरजम् । अमुं कन्यामुखशशिनं प्रति इदं सखीमुखमपि बच एव सुधारसम् । अब्जशब्देन कमलं चन्द्रश्च कथ्यते ॥ ७३ ॥ अथ विकृतौ जातो अश्वललितछन्दःनृपतिरयं रयेण ननु ते मनो हरति पश्यतोहर इव,
प्रकटभटान्वये स्वचरणरजा लघु बधान तं निगरणे। इति घटितत्र स्मितरसाश्चितं नलिनवद् वधूमुखमसौ,
न यदि परं भजेति वचसो रुषाऽजनि कृताञ्जलिहुङ्कतमपि ॥७४॥
दु० व्या०-निगरणे-गले । यदि असौ राजा, न तदा, परं भज ॥७४॥ अथ संकृतौ जातौ तन्वीछन्दःसुभ्र ! भजस्व क्षितिपतिविजयं गीरिति नीरदततिरिव सख्या, ___ या किल चक्रे घनरसकलिता चश्चललोचनशफरविलासा । सस्मितफेना क्षितिधरवरजा संश्रितहंसगमनरूचिरेषा, यातु नदीनं नृपममुसुचित चेतसि वीक्षकजन इति दयौ ॥७५||
दु० व्या०-इति सख्या गीः । यां कन्याम् । घनरसः, पक्षे जलम् । क्षितिधरवरजा, पक्षे नदी, एषा कन्या । नदीनं, पक्षे समुद्रम् ॥ ७५ ॥ अथाभिकृतौ जातौ क्रौञ्चपदाछन्दःशङ्करमानन्दादिव गौरी स्मरपरिभवकरशुचिरुचिनिकर,
वीक्ष्य मराली जैत्रगति तां विजयनृपतिममि सरभसचलिताम् । चालितचश्चत्कुण्डलचक्रं चरणकटकरवततधनविततं, हारगणो यल्लास्यमकार्षीदुचितमुचितमिति तदकृत रसना ॥७६।।
दु० व्या०-शुचिः, पक्षे अग्निः । हारसम्बन्धी गणः। रसना-मेखला ।।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपजदुर्गपदव्याख्यालड़तम् । [८५ अथोत्कृतौ जातौ भुजङ्गविजृम्भित छन्दःसा रोमालिस्तम्भे तुङ्गस्तनकलश उरसि भवने निवेश्य यमस्मरत , तं ध्यानादध्यक्षीभूतं विजयनृपकुसुमविशिखं समीक्ष्य सुलोचना। स्वेदाम्भोभिः क्लुप्तस्नानेव विमलवरतरवरणस्रजा प्रमदाकुला, चञ्चद्रोमाश्चातं च द्राक् समुचितमिदमिति चतुःशशंस न तां च कः?
दु० व्या०-तुङ्गस्तनकलशे । यं अध्यक्षोभूतं-प्रत्यक्षीभूतम् । कुसुमविशिखं- कामं, आनं च । पूजयति स्म । तां कन्यां को न शशंस ? ||७७॥
अथ चण्डवृष्टिदण्डकछन्दःकुलममलमिदं धरामण्डले धन्यमिक्ष्वाकु
रत्नाङ्गदमापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका साऽपि
धन्या वृतं सुष्टु इत्युगिरन्तो गिरम् । हृदि विशदमुदं दधानाः सुराः किन्नरा
वीक्षकास्तत्क्षणं तत्र विद्याधराः, प्रचुरसुरभिपुष्पवृष्टिं वितेनुस्तदा
भासुरा मौलिदेशे तयोरम्बरात् ॥ ७८ ॥
अथ चण्डकालछन्दःजलदरवजैत्रनिर्घोषनिर्दोषविश्वौक
सन्तोषकृच्चारङ्गन्मृदङ्गादिवाद्यानि नेदुस्तदा, कलितवचनबुंधा मागधास्ते सुधासभिभं
सारमाशीर्वचः प्रोचरन्ते स्म विस्मरचित्ता मुदा ।
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरधरितमहाकाव्यम् ।
[ सप्तमा श्रवणसुखकारि वीणास्वनोन्मिश्रगीतं
जगुयना रागरागाङ्गभावाङ्गविज्ञानसत्कोविदाः, रुचिररुचिपुण्यलावण्यलीलावतीभिः
समन्तादुलूलध्वनिस्तत्र तेने श्रितः श्रेयसां संपदा ।। ७९ ।।
दु० व्या०-बुधाः-निपुणाः । उठूल:-धवलः ॥ ७९ ॥ समवृत्तप्रकरणम् ।। अथार्धसमवृत्तादि आख्यानकीछन्दः--
आनन्दयनाननकैरवाणि, वरेण्यराजेन्दुनिरीक्षकाणाम् । निस्तन्द्रचन्द्रातपवत् प्रससिरिति क्षणस्तत्र बभूव भूयान् ॥८॥
दु० व्या०-निस्तन्द्रः-लक्षणया निर्मलः, चन्द्रतपः-चन्द्रज्योत्स्ना, प्रसस्रि-प्रसरणशीला, क्षणः-उत्सवः ।। ८० ॥ बालार्पिता साऽथ वरेण्यमाला, रराज कण्ठे विजयक्षितीन्दोः । एनं गुणाढथा गुणिनं श्रितेव, यशोरमा क्षोणिभुजां विरज्य ॥८१॥
दु० व्या०-एन-विजयम् ।। ८१ ॥ अथ विपरीताख्यानकीछन्दःतडागवन्मण्डपमागतास्ते, सर्वेऽपि जात्याः किल राजहंसाः । परं स तत्राजनि शुक्लपक्षः, कादम्बका एव परे नरेन्द्राः ॥८२ ॥
दु. व्या०-सः-विजयः । कादम्बाः धूसरपक्षे राजहंसाः ।। ८२ ।। अथ पुष्पिताग्राछन्दःघनघुसणवधूविभातवेलास्फुटितशुचिद्युतिमालयाऽनुषक्तः । रविरिव विजयस्तदाऽऽबभासे, नृपनिकरैरपि तारकैबभूवे ।। ८३ ।।
दु० व्या०-युतिमाला-कान्तिश्रेणिः, पक्षे नजः ॥ ८३ ।।
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-----
सर्गः ]
स्वोपच दुर्गपदव्याख्यालङ्कृतम् ।
अथोपचित्रं छन्द:
विजयं विपुले नृपमण्डले, भूपसुता वृणुते स्म न चित्रम् | सुरकोटिपु पुरुषोत्तमं नो भजते स्म स्यात् कमलाऽपि ॥ ८४ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
अथ हरिणप्लुताछन्द:--
अथवा स्वकृतं सुकृतं चिरं, विजयतां रुचिरं निखिलाङ्गिनः । व्रियते स्वयमेव स लीलया, कमलयाडमलयाऽपि घिया यतः ॥ ८५ ॥
[ ८७
अथापरवक्त्रं छन्द:जिनपतिचरणार्चनं चिरं, मुनिपतिदानमकारि चैतया । अथ विपुलतपो विनिर्ममे, यदयमभूद् विजयो वरः परः ॥ ८६ ॥
अथ द्रुतमध्याछन्द:
प्रीति भरोज्ज्वलमज्जुलवक्त्रं, सकलजनोऽपि तदेति बभाषे । रत्नमनर्घ्यमनर्वसुवर्णे, मिलितमतीव मुदे नहि कस्य ॥ ८७ ॥ चतुर्भिः कलापकम् ||
दु० व्या० - अनर्व: - मनोजः ॥ ८७ ॥
अथ विषमवृत्तेषु पदचतुरूर्ध्वं छन्द:
तदा रत्नाङ्गदो राजा राज्ञी च मदनावली मुदं प्राप्तौ, किमिदं वा कौतूहलमिद्धश्री भाग्य सौभाग्यं,
ललिततनु क इह धत्ते सौवापत्यं विलोक्य न प्रीतिम् ॥ ८८ ॥
१ विषमवृत्तेषु पदचतुरूर्ध्वं छन्दसश्ररणाक्षराणि प्रथमपदेऽष्ट | द्वितीये द्वादश तृतीये षोडश, चतुर्थे विंशति ज्ञेयानि ॥
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमः अथ षट्पदीछन्दःअकुण्ठोत्कण्ठमप्यस्याऽऽश्लपसौख्यं सिषेविषुः, कण्ठे वरजं न्यस्य वरस्य वलिता वधूः । अल्पारम्भा क्षेमकरा इति रीतिमिवास्मरत् ।। ८९ ॥
दु० व्या०-आश्लेषः ॥ ८९ ॥ अथ विषमाक्षराछन्दः
लावण्यरसमास्वाद्य, पुनर्वध्वां पुनर्वरण्ये । तृष्णोच्छेदं जनतादृष्टियुक्तं नहि प्राप ॥ ९० ॥
दु० व्या०-लावण्यपक्षे लवणम् , वरण्ये वरे ॥ ९० ॥ विलोक्य त्रैलोक्यानुपमवरमाणिक्यमिति तं,
वधरत्नं चान्तःकरणविषयं वीक्षकजनः । किंमङ्गी हर्षोऽयं किमियममृतस्नानसरसी
त्यसीमानं कामप्यलभत सुखायां नयनयोः ॥ ९१ ॥
दु० व्या०-अङ्गी-मूर्तिमान् । अयं नृपः । इयं-वधू । सुखायांसुखानुभवम् ॥९॥
इति श्रोअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरभि विरचिते माणिक्याङ्के श्रीश्रीधरचरिते सप्तम
सर्गस्य स्वोपज्ञदुर्गपदव्यास्था समाता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्क श्रीश्रीधरचरित्रे स्वागतादिसमवृत्तार्ध-सम-विषमवृत्तलक्ष्यस्वयंवरवर्णनो
नाम सप्तमः सर्गः ।
मादितो प्रन्थाप्रम ६२९ ॥ १ किमानन्दो मूर्तिः कि' A । २' च्छे श्रीमा' B। ३' रवि° AI
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
――
१२
www.kobatirth.org
अथ आर्यादीनां प्रस्तारादयः ।
आदितः स्थापयित्वाऽऽ, तद्गणानामघो लिखेत् । चतुष्कं पञ्चकं षष्ठे, द्विकं त्वेकं गलोरधः ॥ १ ॥ हताश्चतुर्भिः पञ्च स्युर्विंशतिः सा चतुर्हता । अशीतिरेवं गणने, या सख्या सा निगद्यते ॥ २ ॥ अष्टौ कोटय आर्याणां, लक्षा एकोनविंशतिः । विंशतिश्च सहस्राणि, छन्दोभेदाः प्रकीर्तिताः ॥ ३ ॥ तथाहि प्रस्तारो लिख्यते
अष्टमः सर्गः ।
'कं त्रिकं ग R
एषा प्रथमा ssssssssss / s sss । sss sss ssss | sss एषा द्वितीया s । sss sss 55*15 | sss | sss sss sss s sss एषा तृतीया s । sss sss ss | 5 | sss | SSS SSS SSS s | sss एषा चतुर्थी ।। ।। sss SSS SS | 5 | sss । sss sss sss s । sss एषा चतुर्भिर्विकल्पेश्वतस्त्र आयो जाताः । अथैभिश्चतुर्भिरेव विकल्पैः सह पृथक् पृथक् पञ्च पञ्च आर्या स्युर्यथा-
sss ssss | ऽ । ऽऽऽ । ऽऽऽ ऽऽऽ s । sss
एषा पञ्चमी sss | SSS SSS S | 5 | sss । sss sss sss ss। एषा षष्ठो || 5 || sss sss s । s । ssss sss sss sss एषा सप्तमी | 5 || एषा अष्टमी ||| || ssssss s st sऽऽ ऽऽऽ । sss sss sl sss एवमप्रेत नैस्त्रिभिर्विकल्पैः पृथक् पृथक् चतुःप्राप्त्या आर्या ज्ञेयाः, सर्वमीलने विंशतिः २० । एवमग्रेऽपि प्रस्तरणीयम् । अत्यार्या सर्वलघुरिति
इत्यार्याप्रस्तारः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९० ]
श्रीश्रीधरचरितमहाकाव्यम
हृते विकल्पैः पृष्ठाङ्के, शेषाङ्केन गणं न्यसेत् । लब्धं सैकं सति शेषे, नष्टाऽप्यवमाप्यते ॥ ४ ॥
[ अष्टमः
अस्यायं भावः - चतुरशीतितम्यार्या कीदृशी इति पृष्टे ८४ अङ्क एव स्थाप्यते, आद्यगगस्य । चतुर्विकल्पत्वात् चतुर्भिर्भागोऽस्य, ८४ ह्रियते, लब्धं २१ शेषाभावाच्चतुर्लघुरेव लब्धः स पदे लिख्यते ।
अथ द्वितीय गणस्य पञ्च विकल्पत्वात् पञ्चभिः २१ हियतें, लन्धं ४, शेषं १ एकेन सर्वगुरुर्लभ्यते, अतः सोऽपि चतुर्लघोरये लिल्यते ॥*
अथ यत्र कञ्चिदवशिष्यते तत्र लब्धं सैकमितिवचनाच्चतुष्के एकः १ क्षिप्तो जाताः ५, अस्मिँश्चतुभिर्हते धं १ शेषमपि १ पुनरेककेन सर्वगुरुलब्धः, सोऽप्यग्रे स्थाप्यः । लब्धं सैकमिति वचनात् पुनरेकमध्ये १ क्षिप्यते, जातं २ अङ्कस्य निष्ठितत्वाद् द्वितीयोऽन्तगुरु लिल्यते । अग्रे यथा गुरवः
स्थापना च |||| ssss || s
अथास्य प्रतीत्यर्थमुद्दिष्टम्
गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् ।
चतुःपञ्चादिकां संख्यां स्थानस्थानोचितां ततः ॥ ५ ॥ हत्वा इत्वाद्यमन्तेन, चोपरिस्थगणादधः । पृथग् घृतगणेभ्योऽथ, गणसंख्यां विशोधयेत् || ६ | हत्वा धार्योचिता तावद्, यावदाद्याङ्कसंभवः । तत्संख्यामुद्दिशेद् गाथामुद्दिष्टप्रत्यये बुधः ॥ ७ ॥
For Private And Personal Use Only
आयार्याः सर्वगुणान् स्थापयित्वाऽधश्चतुष्कपञ्चादिविकल्पान् लिखेत्, यावदन्ते : गुरोरध एकस्ततः पाश्चात्यपरिपाट्या एकेन ४ गण्यन्ते ४ एव भवन्ति । तत उपरि दृष्टिविकल्पं स्थापयित्वाऽघस्तनविकल्पांस्त्यजेत् । अत्रेदः १ * एतचिह्नान्तर्गताः पतयः पतिता दृश्यन्ते A आदर्श ॥
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपचदुर्गपदव्याख्याखङ्कृतम् ।
[st
हृदयम् -- यदि सर्वगुरोरघो ४ दृश्यन्ते तदा सर्वगुरोराध विकल्पस्यैव सफलत्वात् प्रस्तारानायातं शेषविकल्पत्रयमधः स्थचतुष्टत्वात् व्यजते ।
क एक एव स्यात्, यदि कदाचिदुपरि अन्तगुरुः स्यात् तदा विकल्पद्वयस्योपरि भुक्तत्वात् ४ मध्याद् द्वौ त्यज्येते । यद्युपरि आदिगुरुस्तदा ४ मध्यात् १ त्याज्यः, यद्युपरि सर्वलघुस्तदा न किञ्चित् त्याज्यम् । एवं पञ्चकेsपि भुक्त विकल्पेभ्यो अधो विकल्पास्त्याज्या इति तत्त्वम् । एवमङ्कगणने विकल्पत्यागे मुख्यगणे यथोक्तं लभ्यते । तथाहि |||| ऽऽऽऽ । ऽऽऽ | st इत्याद्यैषा आर्या स्थापिता अधो विकल्प लिखिताः । अन्यगुरोरधस्तनेनैकेन चतुष्को गण्यते । तत उपरि आद्य विकल्पं सर्वगुरुमेच दृष्ट्वा ४ मध्यात् ३ त्यक्ताः । तत एकके गण्यमाने यथासंभवं त्रिषु चतुर्षु एकस्मिन् रयज्यमानेषु तावद् यावच्चतुर्थे ॥IS रूपे एक एव ९ समेतस्तेन पञ्च गणिताः पञ्च एव ५ । उपरि द्वितीयविकल्पत्वाद् ५ मध्यात् ३ व्यक्ताः, शेषं २ ताभ्यां पूर्वचतुष्के गणिते जातम् ८, अस्य मध्यतः ३ व्यक्ताः जातं पञ्च, तैः पूर्वपञ्चको गणितो जातं २५, भस्य मध्यात् ४ त्यक्ता शेषं २१, तैः पूर्वचतुष्को गणितो जातं ८४, उपरि सर्वलघुत्वादत्र त्याज्यं नास्ति, ८४ एवं एव स्थिता - एषा चतुरशीतितम्यार्या इति वाच्यम् इति आर्या प्रस्तारनष्टोद्दिष्टानि ।
या वर्णानां भवेत् सङ्ख्या, मात्राभ्यस्तां विशोधयेत् । शेषान् गुरून् विजानीयाल्लघूनपि गुरून् विना ॥ ८ ॥ इति गुरु- लघुपरिज्ञानम् ||
अथाssर्याधिकारान्मात्राप्रस्तारादयोऽपि लिख्यन्ते
गुरोरधो लघु कुर्याद्, यथोपरि तथा पुरः । ऊने दद्याद् गुरूने, पश्चादेव पुनः कलाम् ॥। ९ ॥ एवं सर्वलघु यावत् प्रस्तारं कुरुते बुधः । आद्येऽपि रूपे विषममात्रे स्यात् पृष्ठमा कला ॥ १० ॥
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२] धीश्रीधरचरितमहाकाव्यम् । [ अष्टमा
अस्यायं भावः-एकस्या मात्रायाः प्रस्तारे एक एव लः, योगुरुलधू s-॥ च तिसृणां लगौ गलौ त्रयो लाः 15- 5/-॥ एवमग्रेऽपि ज्ञेयम्, एतावता गुरोरधो लघुः क्रियते पश्चान्मात्राद्वये वीक्ष्यमाणे गुरुः स्याद् नोचेल्लः । मायेऽपि विषममात्रे त्रि-पञ्चादिरूपे प्रस्तर्यमाणे कलो पश्चात् कृत्वा प्रस्तर्यते इति प्रस्तारः।
एक-दि-त्र्यादिकानङ्कान् , मात्राद्धौ समा लिखेत् । अन्त्याङ्कयुग्मसंयोगे, रूपसंख्या भवेत् पुरः ।। ११ ।।
अथास्य भावना-१-२-३-५-८ इत्यादि, एकस्या मात्राया एकं रूपं, द्वयोः द्वे रूपे, तिसृणां त्रीणि । कथं ज्ञायते त्रीणि इति ! एकस्य द्विक त्रिकयोमीलने ५ त्रिक-पञ्चकयोमर्मीलने ८ स्युः । एवं मात्रावृद्धावन्त्याङ्कद्वयमीलनेनाग्रेड रूपसंख्या ज्ञेया । इति रूपसंख्या ॥
सङ्ख्याङ्कतस्त्यजेत् पृष्ठान् , शेपाङ्के पङ्क्तिगे गुरुः । गुरोरग्यं विना शेषेष्वकेषु लघवः पुनः ॥ १२ ॥ अपक्तिगेऽत्र शेषेऽङ्के, यथाई चाङ्कमीलनम् । तेषामधो गुरुं कुर्याच्छेपे ला नष्टमुच्यते ॥ १३॥
भस्य भावना-षण्मात्राप्रस्तारे दशमं किंरूपमिति पृष्टे १-२-३-५-८ १३ एतानङ्कान् लिखित्वा सङ्ख्याङ्कतस्त्यजेदितिवचनात् , १३ मध्याद १० त्यज्यन्ते शेषं ३, तस्य पङ्क्तिगतस्त्रिकस्याधो गुरुर्लेख्यः ॥७॥ गुरोरण्यं पञ्चकं मुक्त्वा शेषेष्वङ्केषु लाः स्थाप्याः। दशमं रूपमीदृशमिति ॥5॥ वाच्यम् । तथा अपङ्क्तिगे चतुःसप्तादौ शेषे सति पङ्क्तौ यथाहमङ्कान् मीलयेत् । तेषामङ्कानां मध्ये गुरून् कुर्यात् , शेषं पूर्ववत् ॥ यथा यथा नवमं रूपं कीटगिति पृष्टे, १३ मध्यात् ९ त्यक्ताः शेषं ४, ते च पङ्क्तो न दृश्यन्ते, अत एकस्य त्रिकस्य मोलने ४ कृत्वा एकस्य त्रिकस्य चाधो गुरुर्लेख्यः । अयं विना च लघव इति नष्टम् ।
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम्। [९३
उद्दिष्ट रूपशीर्षेऽङ्कान , लिखित्वा तान गुरुस्थितान् । सङ्ख्याङ्कतस्त्यजेद् ग्राह्यो गुर्वङ्केनानगः पुनः ॥ १४॥
अस्य भावना--उदिश्यरूपशीर्षे एक द्वि-त्र्यादिकान् लिखेत् । अत्र गुरुरायाति तत्र गुर्वकेन अग्रगो द्वि-त्र्यादिकोऽको ग्राह्यः । एतावता तमकं मुक्त्वाऽप्रेतनोऽङ्कोऽये लेख्यः | गुरुस्थानकानेकत्र कृत्वा संख्यातस्त्यजेत् । शेषमुद्दिष्टं स्यात् १-२-३-५-८-१३ इदं तृतीयं रूपम् । एवं सर्वत्र ज्ञेयमिति उद्दिष्टम् ।
एक-द्वयादीन् लिखेदकानेककोपरि चैककम् । एकेन द्विगुणीकृत्य, चैकं न्यसेद् द्विकोपरि ॥१५॥ द्विकं द्विकेन पाश्चात्यैकेन युक्तं त्रिकोपरि । अग्रेऽपि व्यङ्कसंयोगे, प्रान्त्याङ्काम्यां गलक्रिया ॥१६॥
अस्य च भावना --चतुर्मात्राप्रस्तारे पञ्चरूपाणि । तेषु पञ्चस्वपि रूपेषु कियन्तो गाः, कियन्तो ला इति पष्टे १-२-३-५ इत्याद्याङ्काः स्थाप्याः । एककोपरि एककः स्थाप्यः, एककेन द्विगुणीकृत्य एतावता द्विकं कृत्वा द्विकोपरि स्थाप्यः । द्विको मूर्धस्थेन द्विकेन पात्रात्येनैकेन च युक्त एतावता पञ्चकं कृत्वा त्रिकोपरि न्यस्यते । अग्रेऽपि त्रिकं मूर्धस्थपञ्चकं पाश्चात्यधिक मीलयित्वा एतावता १० कृत्वा पञ्चकोपरि स्थाप्याः। एवमग्येऽप्यङ्कत्रयसंयोगे. नाङ्कशीर्षेऽङ्कस्थापना ज्ञेया । प्रान्त्याकशिरस्थाभ्यामकाभ्यां गलक्रिया स्यात् । एकमात्राप्रस्तारे ६ एको लः, द्विमात्राप्रस्तारे १३ एको गः, द्वौ लौ, तिसृणा प्रस्तारे १३५ छौ गौ, पञ्च लाः । चतसृणां मात्राणां प्रस्तारे १३१६० पश्च गा दश लाः। एवमग्रेऽपि ज्ञेयम् ॥ इति गुरुलधुक्रिया । अथ समवृत्तप्रस्तारादयः
वर्णसङ्ख्योऽर्धपसिस्थान्, द्विगुणद्विगुणान् लिखेत् । एकान्तरान् गलानेष प्रस्तारः समवृत्तगः ॥ १७ ॥
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९४ ]
श्रीभीधरचरितमहाकाव्यम् ।
[ अष्टमः
व्याख्या - वर्णसङ्ख्यया ऊर्ध्वपङ्क्या द्विगुणद्विगुणान् गुरुलघून् लिखेत् । एवं समवृत्तप्रस्तारः स्यात्, यथा एकाक्षर प्रस्तारो | वयक्षरे ssIS-SI- 11 त्र्यक्षरे SSS-ISS SIS-IIS-SS| - 15/- 5/- 111 एवमयेऽपि ज्ञेयमिति प्रस्तारः ।
Acharya Shri Kailassagarsuri Gyanmandir
नष्टस्य या भवेत् सङ्ख्या, तदर्धेऽर्धे समे लघुः । विषमे त्वेकमाधाय तदर्धेऽधे गुरुं लिखेत् ॥ १८ ॥
.
3
स्पष्टं यथा चतुर्दशं किंरूपं पञ्चाक्षर -जाताविति पृष्ठे १४ इत्यस्याद्वै सप्त ७ लब्धे लक्ष, अत्रैकं क्षिप्वा ८ कृत्वा अर्धे कृते लब्धो गः ४, સર્વે लब्धोऽलमलम्, अर्षे लब्धो लः अत्रैकं क्षिप्त्वा वो कृत्वा अर्धे लन्धो ग Isils इदं रूपमिति वाच्यम् । एवमन्यत्रापीति नष्टम् । अन्त्यलाऽधो द्विकं न्यस्य पश्चाद् द्विद्विगुणं लिखेद् गुरौ त्वेकोज्झनादाद्याकेनोद्दिष्टं निगद्यते, यथा - ISIS इदं चतुर्दशं रूपमिति वाच्यम् । एवं सर्वत्रेत्युद्दिष्टम् ॥
१४७४२
ऊर्ध्वश्रेणिस्थितान् सैकान्, वृत्तवर्ण समैककान् । उद्धर्श्वमूर्ध्वं क्षिपेदन्त्यं, मुक्त्वा सैषा गलक्रिया ॥ १९ ॥
व्याख्या - ऊर्ध्वश्रेणिस्थितान्
एककान् -एक
वृत्त वर्णसमान् सहितान् संस्थाप्य, ऊर्ध्वमूर्ध्वं क्षिपेत्, अन्त्यवर्णस्त्याज्यः, एषा गलक्रिया स्यात् । तथाहि - चतुरक्षरजातौ कियन्ति गुरुलघुरूपाणि इति पृष्टे, चत्वार एककाः सैकाः १११११ स्थाप्याः ताश्चोर्ध्वमूर्ध्वमन्यं मुक्त्वा पुनः पुनः क्षिपेत् यथा - १ - ४-३-२-१ पुनः क्षेपे १-४-६-३-१ पुनः क्षेपे
>
अन्त्यत्यागे १-४-६-४-१ एतावताऽऽयं रूपं सर्वगुरु बन्वारि रूपाणि त्रिगुरूणि षडूरूपाणि द्विगुरूणि चत्वार्येकगुरुणि एकं सर्वलघु ॥ इति गुरुलघुक्रिया ॥
।
गलक्रियाः सख्या स्यान्मित्रैः सा द्विगुणोकृता । एकोनाध्वाङ्गुलव्यापी, स्वधस्तादङ्गुलान्तरः ॥ २० ॥
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः:] स्वोपनदुर्गपदव्याख्यालङ्कतम् । [९५.
व्याख्या-प्रागुक्तर्गलक्रियाकैमर्मीलितैः सद्भिः सङ्ख्या स्यात्, यथा--एषां मीलने १६ चतुरक्षरजातौ १६ षोडशरूपाणि भवन्तीति वाच्यम् । सङ्ख्या द्विगुणीकृता चैकोनाधा स्यात् , स चालव्यापी, अधस्तादगुलान्तरः। एतावतेकत्रिंशदङ्गुलायां भुवि चतुरक्षरजातिः प्रस्तयते । एकमङ्गुलं वर्णेनावष्ठभ्यते । एकं चान्तरालमित्यध्वमानमित्यध्वा आर्यावद् गीतिः प्रस्तार्यते । तस्याश्च प्रथमदले द्वादशसहस्राणि अष्टौ शतानि १२८००॥ द्वितीयदलेऽपि तावन्त्य. न्योऽन्यतानायां पोऽशकोट्योऽष्टत्रिंशल्लक्षाणि चत्वारिंशत्सहस्राणि रूपाणि, १६३८४०००० प्रस्तारः सर्वत्र पूर्ववज्ज्ञेयः । उपगीतिप्रस्तारे पूर्वाध चतु:षष्टिशतानि रूपाणि ६४०० अपरार्धेऽपि तावन्त्यन्योऽन्यतानायां चतस्रः कोट्यः नवलक्षाः षष्टिसहस्राणि ४०९६०००० उद्गीत्यार्यागीत्यो रूपाणि आर्यावज्ज्ञेयानि ८१९२०००० ॥
अथ वैतालीयादयः-पण्मात्राप्रस्तारे त्रयोदशरूपाणि स्युरेतेषु पराश्रितकलारूपाणि त्यक्त्वा शेषाणि ८ रूपाणि वैतालीवविषमपादे ज्ञेयानि, तथाऽष्टमात्राप्रस्तारे रूपाणि चतुस्त्रिंशत् स्युः । तेषु पराश्रितकलानां निरन्तरं षट्कलानां च रूपाणि त्यक्त्वा शेषाणि त्रयोदशरूपाणि वैतालीयसमपादे स्युः । ततोऽष्टभिः त्रयोदशानां ताडने जातम् १०४ । एते वैतालीयपूर्वार्दै भेदा भवन्ति । परार्धेऽपि तावन्त एव १०४ । परस्परं गणने जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि १०८१६ । औपछन्दप्तिकेऽपीयन्त एव १०८१६ भेदाः । श्लोकस्य प्रथमे पादे आयो गुरुलधुर्वा, अतो द्वौ विकल्पौ २, ततः षड्गणाः ६, ततोऽपि षड्गणाः २, अन्ते गुरुर्लो वा २, एषामन्योऽन्याभ्यासे जातं चतुश्चत्वारिंशदधिकं शतं १४४ । द्वितीये पादे आयो गुरुलॊ वा, मतो छो विकल्पो, ततः पञ्च गणाः ५, ततोऽपि एको गणः, ततोऽन्ते गुरु वा प्रागुक्तस्य चतुश्चत्वारिंशदधिकशतस्य द्विकगणने ज्ञातं द्वे शते अष्टाशीत्यधिके २८८ । पुनरस्य पञ्चगणने जातं चतुर्दशशतानि चत्वारिंशदघिकानि १४४० । पुनरस्य एकगणने तदेव स्यात् । पुनरस्य द्विकगणने
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ अष्टमः
जातं अष्टाविंशतिशतान्यशीत्यधिकानि २८८० । एवं द्वितीयेऽप्यर्षे २८८०, अन्योऽन्याभासे जातं शोतिलक्षाणि चतुर्नवतिसहस्राणि चत्वारि शतानि ८२९४४०० इति श्लोकभेदानां सङ्ख्या, एवमन्यत्रापि स्वबुद्धया सङ्ख्या ज्ञेया ।
Acharya Shri Kailassagarsuri Gyanmandir
अथोक्तात्युक्तादिजातीनां रूपसंख्या लिख्यते -२-४-८-१६
३२-६४-१२८-२५६-५१२-१०२४- २०४८-४०९६-८१९२
१६३८४-३२७६८-६५५३६-१३१०७२-२६२१४४-५२४२८८ -१०४८५७६-२०१७१५२-४१९४३०४-८३८८६०८-१६७७
७२१६-३३५५४४३२-६७१०८८६४ ।।
इत्येवं लक्षणं प्रोक्तं, छन्दसामखिलं मया । hara कथा ज्ञेयाऽग्रतोऽद्भुतरसास्पदम् ॥ २१ ॥
इति प्रस्तारः ॥
अथार्याप्रस्तारादिकं सुगमम् । द्विगुरुः, स च माल्लौ च प्रस्तार्यते । श्लोकप्रस्तारे या सङ्ख्या सा उपलक्षणं मात्रम्, पादान्ते व्रतमग्रही, इति श्रीमसूरिकृतिदर्शनात् ।।
For Private And Personal Use Only
इति रीत्या यतो गणधर
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
www.kobatirth.org
स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् ।
२ ॥
श्रीमान् पार्श्वप्रभुर्जीयाज्जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोव्रजाः ॥ १ ॥ अथ संक्षेपतो वक्ष्ये, कथामाप्तप्रथामपि । सुराणां गुरुरप्यस्या नान्यथा पारमाप्नुयात् ॥ तदा स्वयंवरे तस्मिन्नानन्दे स्वजनान् श्रिते । निरानन्दतया श्लिष्टाः, स्पर्धयेव नरेश्वराः ॥ ३ ॥ वृत्ते स्वयंवराम्भोधौ, जिष्णौ तत्र श्रिया तया । उग्रत्वं भेजिरे भूमिभुजः कोपविषग्रहात् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या०-जिष्णो-जयनशीले पक्षे कृष्णे । श्रिया - श्रीरूपया ।
उग्रत्वं पक्षे ईश्वरत्वम् ॥ ४ ॥
प्रतापस्तेषु भृपाला, कोपभरभालभृत् ।
उवाच विजयं वाचा, वाचालितदिगञ्चलः ॥ ५ ॥
,
बालया बालबुद्धया त्वं वृतो वीग्व्रतोज्झितः । माभिमानं विधा रत्नमाला संभूपितश्ववत् || ६ || दु० व्या० - माः विधा: - मा कार्षीः ।। ६ ।।
प्रेरिताऽसौ प्रतीहार्या भवता प्रत्यजिग्रहत् । बाला मालामिदं चित्र, किं यतः प्रोच्यते जने ॥ ७ ॥ नारी नृपस्तुरङ्गच, तन्त्री वा सारणीजलम् । यथा यथा विधीयन्ते, भवन्त्याऽऽशु तथा तथा ॥ ८ ॥ नेदं सहे सहेलं त्वां विजित्य विजयश्रिया ।
"
साकं कन्यां वृणोम्येष नृर्घृगोऽहं रणाङ्गणे ॥ ९ ॥ सस्मितं विज्ञेयः स्माह, प्रतापं सहते न हि । भत्करे करवालोऽयं, धाराधर इवोन्नतः ॥ १० ॥
०
१ यः प्राह R । २ यं धरा RI
१३
For Private And Personal Use Only
[ २७
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८)
श्रीश्रीधरचरितमहाकाव्यम् । अपमः इत्युक्त्वोत्तिष्ठति स्फूर्जत्खड्गे श्रीविजये तदा । प्रतापप्रेरिताः सर्वे, सज्जीभूता रणे नृपाः ॥ ११ ॥ हया हेपारवं चक्रुर्गजा गर्जितमूर्जितम् । सुभटाश्च भुजास्फोटं, रथचक्राणि चीत्कृतिम् ॥ १२॥ प्रतापो मुख्यतां दधे, भूधनेष्वखिलेष्वपि। राजा रत्नाङ्गदो भेजे, विजयं सारसैनिकः ॥१३॥ दण्डादण्डि च खड्गाखड्गि बाणावाणि च भल्लाभल्लि | केशाकेशि च मुष्टामुष्टि युद्धं वृत्तं कृतसुरहष्टि ॥ १४ ॥ प्रतापः पुरतो भूत्वा, योधयामास भूभुजः। तथा यथा क्षणाद् मेजुर्विजयस्य भटा दिशः ॥१५॥ तद् दृष्ट्वाऽक्षय्यतूणीरधारी' वीरो धनुर्धरः । अश्वोऽस्य स्वभटान् वैरिघटाः प्रहरति स्म सः॥ १६ ॥ ज्ञात्वा प्रतापं दुर्जेयं, स च सस्मार चेटकम् । सोऽपि स्फुरज्जटाजुटः, कालरूप इवागमत् ।। १७ ॥ प्रणष्टाः केपि तं दृष्ट्वा, केपि कम्प्राङ्गतां दधुः। धृत्वा स पाणिपादेषु, शत्रून् कांश्चिदलूलुठत् ॥ १८ ॥ कोलाहलमये जाते, विश्वे तत्र विसंस्थुले । भ्यन्तरं सोऽपि सस्मार, प्रतापः पूर्वसाधितम् ॥ १९ ॥ आयाते व्यन्तरे व्योम्नि क्षणाच्चेटकरोधिनि । सप्रतापा महीपालाः, पुनर्योर्बु डुढौकिरे ॥ २० ॥ रणतूर्यरवेणालं, जायमाने रणे ततः। अकालप्रलयं वीक्ष्य, दध्यौ कन्यापिता हृदि ॥ २१ ॥
१ रो धीरो AI २ तापदु
A । ३ °तापपू A1
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम्। [
हा ! कन्येयं कथं सृष्टा, विश्वक्षयकरी विधेः। यत्कृते यान्त्यमी भूपा रणवह्नौ पतङ्गताम् ॥ २२ ॥ विजयोऽचिन्तयचित्ते, जीवरक्षणमेकतः । अन्यतः शत्रजयनं, दुर्घटं घटते द्वयम् ।। २३ ॥ ध्यात्वेत्यवस्वापिनी स, प्रमीला विद्यया ददौ ।। जज्ञिरे शत्रवः सर्वे, यया निद्रावशंवदाः ॥ २४ ॥ राजा विजयचन्द्रोऽपि, सर्वेषां धरणीभुजाम् । शस्त्राणि पाणितो लात्वा, शस्त्रराशि वितनिवान् ।। २५॥ सालस्याश्चक्षुरुन्मील्य, ततो भूपाः सचेतनाः। शस्त्ररिकान् करान् वीक्ष्य, वीक्षाश्चक्रुः परस्परम् ॥ २६ ॥ स्मित्वा विजयचन्द्रोऽपि, साह भो भूपपुङ्गवाः । उपलक्ष्य निजात्राणि, गृह्यन्तां शस्त्रराशितः ॥ २७ ॥ लग्नाचिन्तयितुं लग्ना नृपा नूनं महात्मना। अनेन मुक्ता जीवन्तो, लात्वा शस्त्राणि पाणितः ॥ २८ ।। दु० व्या०-लानाः-लज्जिताः ॥ २८ ॥ मान्योऽयं तन्न सामान्यो, ध्यात्वेति धरणीधवाः । भेजुस्तं तस्य मौलौ च, पुष्पवृष्टिं व्यधुः सुराः ॥ २९ ॥ जाते जयजयारावे, हष्टो रत्नाङ्गदोऽवदत् । अहो ! भाग्यवती कन्या, यस्या वरयितेदृशः ॥ ३० ॥ इति प्रमोदतस्तेन, स्वजनीभृतपार्थिवैः । कन्या विजययोश्चक्रे, पाणिग्रहमहोत्सवः ॥ ३१ ।। भूपाः सम्मानिताः सर्वे, ययुनिजनिजं पुरम् । विजयोऽपि कियतकालं, तत्र स्थित्वाऽचलद् वली ॥३२॥
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1001 भीश्रीधरचरितमहाकाव्यम् ।
[अष्टमा रत्नाङ्गदे निवृत्तेऽथ, विजयः कान्तयान्वितः । कृत्वा प्रयाणं कान्तारे, क्वापि सैन्यं न्यवेशत् ॥ ३३ ॥ मध्याह्ने पूजावसरे, कुर्वतोऽस्य जिनार्चनम् ।
चारणः श्रमणः कोऽपि, तत्रागत्यास्तवीज्जिनम् ॥ ३४ ॥ तथाहि- .
दूरादानन्दकन्दः किसलयकलनामाप नः पापतापव्यापज्ञातो विलिल्ये कलकुशलसरस्तूर्णमापूर्णमेव । शोषं संसारसिन्धुः समलमत शुभध्यानभानुर्दिदीपे,
कश्चित् त्वं देव! दृष्टो धनसमयतपस्फुर्तिमन्मूर्तिशाली॥३५।। दु० व्या०-धनसमयः-बह्वागमपक्षे, वर्षातपपक्षे प्रीष्मः ॥३५॥ श्रेयःसङ्केतशाला सुगुणपरिमलैजेयमन्दारमाला, छिन्नव्यामोहजाला प्रमदभरसरःपूरणे मेघमाला। नम्रश्रीमन्मराला वितरणकलया निर्जितस्वमिसाला, वन्मतिः श्रीविशाला विदैलतु दुरितं नन्दिता क्षोणिपाला ..
दु० व्या०-श्रीमन्मराली-श्रीमन्मुख्या ।। ३६ ॥ नत्वा नृपस्तमाचष्ट, कुतः साधो ! तवागमः । सोऽवक सप्तावतारेj, त्वं कं पृच्छसि भूपते ! ॥ ३७॥ विस्मितस्तं नृपः प्राह, किमप्रस्तुतमुच्यते । नाप्रस्तुतमिदं स्वेनानुभूमिति सोऽप्यवक् ॥ ३८॥ पुनर्जगौ स वैताव्यपर्वते माधवे पुरे । मेघविद्याधरस्तस्य, नन्दनश्चन्दनोऽभवत् ।। ३९ ॥
. ° ध्याइपू • A । २ रणश्र" R। ३ विद्दल° AI V न्दितक्षी' ABI ५ स्वरकं AL
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [१०१
स विद्यावलवाँश्चारुतारुण्यतरलेक्षणः। कपिलाद्रिं गतोऽन्येयुः, काश्चिद् विद्यामसाधयत् ॥ ४०॥ वलमानो रत्नपुरोद्याने कामपि कन्यकाम् । वीक्ष्य कामातुरो हत्या, स वैतात्यगिरि ययौ ।। ४१ ॥ यावदालापयेद् बाला, स माकन्दतरोस्तले । तस्य शाखास्थिता तावद्, वानरी वानरं जगौ ॥ ४२ ॥ यामोऽन्यपादपं जामि, निजामानीय खेचरः। रन्तुमिच्छति निर्लज्जो, लज्जते मन्मनः परम् ।। ४३ ॥ दु० व्या०-यामः-गच्छामः ॥ ४३ ॥ श्रुत्वेति भीतं कन्यायाः, पृच्छन्तं चरितं खगम् । जगौ वानर्यदूरेऽद्रौ, पृच्छ केवलिन मुनिम् ॥४४॥ गवैनं सत्वरं तत्र, पृच्छन्तं केवली जगौ । कन्यां तामेव भो ! पृच्छ, या मुक्ताऽस्ति तरोरधः ॥४५॥ व्यावृत्तः सोऽपि तां नत्वाऽपृच्छच्चरितमद्भुतम् । सोऽवम् वक्ष्ये निजं वृत्तं, न पुना तव वेम्यहम् ॥ ४६ ॥ रत्नाङ्गदो रत्नपुरे, पिता मे तस्य वल्लभा । मदना सुषुवे पुत्र-पुत्रीयुगलमन्यदा ॥४७॥ अपुत्रतायां संप्राप्ते, पुत्रे केनाप्यथो हृते । जातं शोकाकुलं राजकुलं जानपदैः सह ।। ४८॥ चारणः श्रमणः साधुचन्द्रस्तत्र समागतः । प्रणतं नृपति प्रोचे, न शोकः क्रियतां त्वया ।। ४९ ।। येन जीवेन यत् कर्म, भवेऽकारि शुभाशुभम् । तन्नूनं तेन भोक्तव्यं, निर्जयं तपसाऽथवा ।। ५० ।। ,°लं जन ° RI
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१
www.kobatirth.org
१०२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
वृत्तं युगलकस्यास्य, श्रूयतां पूर्वजन्मजम् । द्वीपेऽस्ति जम्बूनाम्न्यत्र माकन्दीनामतः पुरी ॥ ५१ ॥ राजा दुर्ललितस्तत्र तस्य राज्ञी मनोरमा । तया मनोरमाकारं, युगलं सुषुवेऽन्यदा ।। ५२ ।। पुत्री पुत्रश्च तौ धात्रीपालनादष्टवार्षिकौ । समं विद्याकलाभ्यासरम्यौ यौवनमापतुः ॥ ५३ ॥ अन्येद्युर्भूपतिः कृत्वा, तौ निजोत्सङ्गसङ्गिनौ । पुण्यं तद्रूपलावण्यं दृष्ट्वा चित्ते व्यचिन्तयत् ॥ ५४ ॥ विवाहमनयोर्नूनं, विधास्येऽहं परस्परम् । पृथगेवंविधौ कन्यावरौ न स्तो जगन्नये ।। ५५ ।। ध्यात्वेति नृपतिः प्रातरवादीन्निजपार्षदान् । विवाहव्यवहारोऽभूत् कथं वृषभवारके ।। ५६ ।। युगलस्येति तैरुक्ते, राजा प्रोवाच तन्मया । पूर्वरीतिर्विधीयेत, दातव्यं न हि दूषणम् ॥ ५७ ॥ इत्युक्त्वा पुत्रयोरेषोऽन्योऽन्यं पाणिग्रहं व्यधात् । धूनयन्तः शिरः सर्वे, जना निजगृहं ययुः ॥ ५८ ॥
दु० व्या० - पुत्रयोः - पुत्री पुत्रयोः पुत्रशब्दलोपोऽत्र ॥ ५८ ॥
पद्मश्च पचिनी चेति नाम्ना तो स्नेहनिर्भरौ । बुभुजाते सुखं राजा, पद्मोऽभूत् पितुरत्यये ।। ५९ ।। अन्तःपुरे पुरेऽप्यस्या जन्मस्नेहेन पद्मिनीम् । सम्भोगपात्रं वीक्ष्याएं, पुरोधा हितमब्रवीत् ॥ ६० ॥
● स्ति धातकीखण्डे मा
० #
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ अष्टमः
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वोपज्ञदुर्ग पदव्यास्यालङ्कृतम् t
अनौचित्यं कृतं पित्रा, यदि ते किं ततस्त्वया । अथ सत्यपि शुद्धान्तेऽनया धर्मे विलुप्यते ।। ६१ ।।
दु० व्या० - शुद्धान्ते - अन्तःपुरे ॥ ६१ ॥
सोऽवादीद् व्यवहारोऽयं, पुराणेऽपि निगद्यते । प्रजापतिश्चिरं रेमे, दुहित्रा चतुरोऽपि यत् ।। ६२ ।। अलं तच्चरितैरुक्तैर्धर्मं भज नराधिप । । इति प्रकुपितः सोऽस्मै, देशत्यागमकारयत् ।। ६३ ।। ऊचिवान सचिवोऽन्येद्युस्तं सुधर्माभिधः सुधीः । कुधीमत्वं परित्यज्य, भज धर्म धरापते ! ॥ ६४ ॥ जन्तोर्धर्मनयः, श्वभ्रे स्युस्तीत्रयातनाः । तप्तस्तीरपाञ्चालीपानाश्लेवपुरःसराः ॥ ६५ ॥
शीतातपादिभिः कष्टं स्पष्टं तिर्यक्ष्वपि ध्रुवम् । न्यायधर्मफलं स्वर्गो, यद् रम्यं तत् कुरु प्रभो ! ॥ ६६ ॥ भीतो मन्त्रिगिरा पद्मस्तयाऽसौ कान्तया सह । तापसत्रतमादाय, तपस्तेपे सुदुस्तपम् ॥ ६७ ॥ वर्षा- शीतोष्णकष्टं स, सह पत्न्याऽन्वहं सहन् । क्षयं निनाय दुष्कर्म, देहे दुःखं महाफलम् || ६८ ||
दु० व्या० - 'सह' धातुर्युजादिकः ॥ ६८ ॥
प्रान्ते ज्योतिष्कदेवेषु, देवीभूय ततश्युतौ । कर्मणः सावशेषत्वे, जातौ केकी च केकिनी ॥ ६९ ॥ व्याधशीतादिभिर्घात्यो, हंसी हंसौ मृगी मृगौ । कपोती च कपोतव, भवे षष्ठे बभूवतुः ॥ ७० ॥
For Private And Personal Use Only
[ १०३
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
अन्यदा मिथुनं चैतत्, श्रीसङ्घ जिनमन्दिरे । वीक्ष्य जातिस्मृति प्राप्त, स्वं निनिन्द पुनः पुनः ॥ ७१ ।। निद्रापरायण व्याधहतं साधुप्रबोधितम् । पुनयुगलरूपेण, त्वत्कुले जायते स्म तत् ।। ७२ ।। पुरोधास्तदविरोधाच, देशत्यागेन दुःखितः । कृत्वा बालतपो जजे, व्यन्तरो बलदुर्धरः ॥ ७३ ।। जातमात्रममुं पुत्रं, व्यन्तरः पूर्ववैरभाक् । दृष्ट्वा हृत्वा स वैताट्यशृङ्गाग्रमधिरूढवान् ।। ७४ ॥ महाबलः स कष्टाय, तं मुमोच नमस्तलात् । अधः सञ्चरता मेघखगेनासौ धृतः करे ।। ७५॥ रत्नकन्दुकवल्लब्ध्वा, बालं बालार्कभासुरम् । दत्या पियाय चक्रेऽसौ, प्रमोदेन महोत्सवम् ।। ७६ ॥ मुश्च शोकं महाराज ! स सुतस्तव भाग्यवान् । इत्युक्तिप्रणतः पित्रा, मुनिरन्यत्र जग्मिवान ।। ७७ ॥ ततः सुलोचनाऽऽख्यापि, जनन्योद्धरितेत्यहम् । भाष्यमाणाष्टवर्षाम्बामपृच्छं हेतुमन्यदा ॥ ७८ ॥ मात्रा मज्जन्मवृत्तान्ते, साश्रुपातमुदीरिते। जातिस्मृतिरभून्मेऽद्य, हृताऽस्मि भवता पुनः ।। ७९ ॥ श्रुत्वेति चन्दनो विद्याधरो स्वपितरौ क्षणात् । पप्रच्छ साग्रहं वृत्तं, तौ च तथ्यमवोचताम् ॥ ८० ।। विरक्तश्चन्दनो दध्यौ, हा ! मूढेन मया कथम् ?। भवाब्धौ पातितः स्वात्मा, कार्याकार्यविवेकतः ॥ ८१ ॥
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपडदुर्गपदव्याख्यालङ्कृतम्। . [ १०५
ज्ञापयित्वा कनीवृत्तं, पितरौ स व्यजिज्ञपत् । संयमश्रियमादास्ये, सर्वपापक्षयङ्करीम् ॥ ८२ ॥ तावूचतुः कथं वत्स !, वत्सलत्वेन पालितः । वार्द्धके दुःखवाझे तौ, नौवनोत्तारयिष्यसि ॥ ८३ ॥
दु० व्या०-नौ-आवाम् ॥ ८३ ॥ पितरौ दुःखभेदाय, जन्तोश्चारित्रमेव हि। इत्युक्ते तावपि स्थैर्य, भेजतुर्भवभञ्जने ॥ ८४ ॥ पितरौ तां च कन्यां स लात्वा केवलिनं ययौ। भवोद्विग्नानि तान्याशु, संयमं च ययाचिरे ॥ ८५ ॥ उवाच केवली वोऽन्तस्त्रयाणां संयमोऽस्ति भोः!। कस्य नास्तीति तैरुक्ते, कन्याया नेति सोऽब्रवीत् ॥८६॥ अस्या भोगफलं कर्मेत्युक्त चन्दनखेचरः। अपृच्छद् वानरी महँगिरा वदति किं विभो । ॥ ८७ ॥ साधुः प्राह त्वया सेयं, हियते स्म यदा तदा। . वज़दाढखगोऽप्येना, जिघृक्षुरभवत्तराम् ॥ ८८॥ त्वत्तो लातुमशक्तस्तु, स प्रायुक्त प्रतारिणीम् । तया च वानरीवाचा, प्रेरितोऽसि मदन्तिके ।। ८९ ॥ मया हितैषिणा पश्चात् , प्रहितोऽस्ति पुनर्भवान् । विलम्ब स्वं च निन्दन्ती, विलक्षाऽगात प्रतारिणी ॥९॥ प्रहारोऽपि गुणस्तेऽभूदित्युक्ते मुनिना खगः। कन्यां रत्नपुरे प्रेग्य, पितृयुक्तोऽग्रहीद् व्रतम् ॥ ९१ ।। अहं चन्दननामेति, साधुनोक्ते सुलोचना। भ्रातांतरिति प्राप्ता, जल्पन्ती साश्रुलोचना ॥ ९२ ।।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
नत्वा तं सादरं पृष्ट्वा सुखसंयमतादिकम् । ददौ महाग्रहं तस्मै, शुद्धाहारं सुलोचना ॥ ९३ ॥ भूपो व्यचिन्तयच्चित्ते कीदृशं भवनाटकम् । जन्तवो यत्र नृत्यन्ति, बहुधा निजकर्मभिः ॥ ९४ ॥ व्योम्ना गते मुनौ तत्र, निःस्नेहे पद्मपत्रवत् । भुक्त्वा भूपोऽपि सायाह्ने, प्रयाणमकरोत् पुरः ॥ ९५ ॥ पुरःसरो राजभीत्या, केनचित् पार्श्वयायिना । दुर्गायां जायमानायां, भिल्लेनावादि भूपतिः ।। ९६ ॥ पाण्डवीय तथा रौति, त्वरितोऽपि यथा भवान् । क्लेशं श्रियं च संप्राप्य, षड्भिर्मासैर्गृहं गमी ॥ ९७ ॥ सायं सैन्ये प्रयाणान्ते, स्थिते सति महीपतिः । संशिश्रिये पटावासं, वाजि - हस्तिघटाष्टतः ॥ ९८ ॥ अवार्यो दैत्य- देवेन्द्रैरुत्तार्य व्योमपादपात् । कालः कवलयामास, रविं पक्वफलोपमम् ॥ ९९ ॥ वसुस्वामिनि सूरेऽस्ते, तमः पूरे पुरःसरे । बभासे सेन्दुभिव्योम्नि, लुण्टाकैरिव तारकैः ॥ १०० ॥
For Private And Personal Use Only
[ अष्टमा
दु० व्या०- वसु द्रव्यं तेजश्च ॥ १०१ ॥
जाग्रद्विजयचन्द्रोऽपि समं सुभटमण्डलैः ।
9
प्रियाया हियमाणायाः, स्वरं सुश्राव दूरतः ॥ १०१ ॥ हृता सुलोचना केन, जल्पन्निति नरेश्वरः । दधावे सुभटैर्यावत्, तावत् पृष्ठेऽभवद् ध्वनिः ॥ १०२ ॥ हे नाथ ! ह्रियते सेयं, प्रिया तव सुलोचना । याति यात्यमः सैष भटाः ! धावत धावत ।। १०३ ॥
(,
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सगे।] स्वोपक्षदुर्गपदव्याख्यालङ्कृतम्। [१०७
सत्यं पृष्टे पुरो वेति, विभ्रान्तो यावदाययौ। प्रियां विना पटावास, तावद् दृष्ट्वा मुमूर्छ सा ॥१०४॥ संसिक्तः चन्दनाम्भोभिरदम्भैः पारिपार्श्वकैः ।। कथचिल्लम्धचैतन्यो, विललाप क्षमापतिः ॥ १०५ ।। हा प्रिये ! हा. कुरङ्गाक्षि!, छलिना च्छलितोऽस्मि चेत् । तत् किं कुर्वे पटवासः, कपटावासतामगात् ॥ १०६ ॥ स्मृतागतश्चेटकोऽवग, वजदाढोऽस्ति खेचरः । पुर्यां चमरचञ्चायां, जहे तेन सुलोचना ॥ १०७ ॥ मयाऽप्यजय्यः स प्राज्यबलविद्याबलोद्धतः । विजेष्यते च कालेन, सत्त्वतः स त्वया स्वयम् ॥ १०८ ।। गते तस्मिन् नृपः स्माह, धैर्यात् प्रातः स्वसैनिकान् । आहरामि प्रियामेष जित्वा देवमपि ध्रुवम् ॥ १०९॥
दु० व्या०-आहारामि-आनयामि ।। १०९ ॥
इत्युक्त्वा नृपतिः सत्त्वशाली शालीनमानसः । दवा चमृपतेः शिक्षा, प्राचालीदुत्तरां प्रति ॥ ११० ॥ स्थगीधरो धराधीशभक्तिभार धैर्यवन्धुरः । कामप्याशा द्विधाऽऽश्रित्य, चचाल करवालभृत् ।। १११ ।। किमप्युपायमप्राप्य, भ्रमन् गिरिवनादिषु । आक्रान्तस्कृषयान्येधुरपश्यद् भूपतिः सरः ।। ११२ ॥ अखण्डं पुण्डरीकश्रि, लसच्चामरचित्तहृत् । यद् भूपास्थानवद् रेजे, राजहंसविभूषितम् ।। ११३ ॥ दु० व्या०-पुण्डरीकपक्षे छत्रम् ॥ ११३ ॥
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८] भीश्रीधरचरितमहाकाव्यम् । [अष्टमी
उत्फुल्लनालिनालीषु, निलीना यत्र षट्पदाः । बमुस्तमिव पश्यन्तो, नेत्रतारास्सरः श्रियः ॥ ११४ ।। पयः पीत्वा नृपस्तत्र, छायामिच्छबवैक्षत । श्रितहल्लीसकक्रीडा, नागकन्या वनान्तरे ॥ ११५ ।। फणीन्द्रमुकुटास्तारशृङ्गारास्ता निरीक्ष्य सः । भयाश्चर्यरसापूर्णः, स्थातुं गन्तुं न शक्तवान् ॥ ११६ ॥ तं वीक्ष्य तास्वपि स्वरमागच्छन्तीषु सन्मुखम् । तत्स्वामिनी पुरोभूय, जगौ वत्स ! कुतो भवान् ? ॥११७॥ साश्चय नृपतिः प्राह, मातस्तेऽहं सुता कुतः ।। साऽवग् गजपुरेशस्य, प्रियाम्बा विजया तव ॥ ११८॥ गृहीतदीक्षे त्वत्ताते, तत्ताहर धर्मतत्परा । जझेऽहं घरणेन्द्रस्य, वल्लभा विजयाऽभिधा ।। ११९ ॥ इमा जानीहि वैरोट्यामेनां पद्मावती जयाम् । वयं स्वपरिवारेण, विहरामो यथासुखम् ॥ १२० ।। तां नत्वा विजयेनोक्ते, स्वचरित्रे तया रयात् । नागेन्द्रपार्थे निन्येऽसौ, स्वाङ्के तं न्यस्य सोऽवदत् ॥१२१॥ पुत्रस्त्वं विजयायाश्चेत्, तन्ममापि विशेषतः । त्वत्प्रियामानये तूर्ण, नैवं ते गौरवं पुनः ॥ १२२ ।। किश्चिद् ध्यात्वेति च प्रोचे, वैरिणं रुन्द्रि तावता । सानिध्यं हि विधास्यामो, वयं तव रणाङ्गणे ॥ १२३॥ नागलोकं विलोक्याऽसौ, विविधापर्यसकुलम् । नित्याहत्प्रतिमां नत्वा, स्वं कृतार्थममन्यत ॥ १२४ ॥
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [१०९
पाताला बहिरानीय, रूपव्यत्ययहेतवे । गुटिका व्यतरत् तस्मै, विजया विजयप्रदाम् ॥१२५ ॥ विजयोज्य भुवं भ्राम्यन् , रत्नवेश्मवने क्वचित् । विलोक्य विस्मितोऽपश्यत् , सिहं तन्मार्गरोधकम् ॥१२६।। तर्जितस्तेन हर्यक्षो, नादेन स्फोटिताम्बरः । धराच्छोटितलागलो, दधावे विजयं प्रति ॥ १२७ ।। विजयोऽविभ्रमद तं च, करेणाक्रम्य तत्क्रमम् । सोऽपि विद्युल्लताकारं, दर्शयित्वा ययौ क्वचित् ॥ १२८ ।। साश्चर्यो मन्दिरद्वार, प्राप्त गीतं वधूजनैः । अौषीच्चरितं स्वं स यद् बभूव स्वयंवरे ॥ १२९ ।। कन्या काऽपि सखीयुक्ताऽनुरक्तात्रास्ति किं मयि । चिन्तयनिति चक्रेऽसौ, शुकरूपं विचक्षणः ॥ १३० ॥ आशु कोऽपि शुकोऽभ्येति, जल्पत्यस्याः सखीजने । मत्तवारणगामिन्याः, स मेजे मत्तवारणम् ।। १३१ ।। दु० व्या०-आशु-शीघ्रम् , एवं जल्पति, मत्तवारणः-मत्तगजः॥१३॥ शशिलेखां सखीताराचन्दे तारुण्यशालिनीम् ।। कन्यां भद्रासनासीनां, शुको वीक्ष्य विसिष्मिये ॥ १३२ ॥ राहोरहिरिपोर्मीत्या, शशिना शेषभोगिना । वक्त्रवेणीनिभादेणीनेत्राऽसौ शरणीकृता ॥ १३३ ।। सनू पुररणत्कार, कन्याऽप्युत्थाय तं शुकम् । आदाय स्वकरेऽवादीद्, वद किश्चित् प्रियं शुक ! ॥१३४। शुकोऽवक् तद्वनं सौध, यत्र स्यात् प्रियसङ्गमः । तत्सौधमप्यरण्यानी, न यत्र प्रियसङ्गमः ॥ १३५ ॥
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११० ]
भीभीधरचरित महाकाव्यम् ।
सा निःश्वस्य शुकं माह, दूरे मे प्रियसङ्गमः । सोवक का त्वं कृतोऽवासि, कः प्रियस्तव चेतसि ? ॥ १३६ ॥
[मष्टंमा
सावक प्रतापभूपस्य सुताऽहं प्रियलोचना । राज्ञे विजयचन्द्राय दित्सिता व्यन्तरोक्तिभिः ॥ १३७ ॥
दु० व्या - दित्सिता - दातुमिष्टा ॥ १३७ ॥
तत्सङ्गमोत्र भावीति, मदर्थे रत्नमन्दिरम् । कृत्वा मृगेन्द्ररूपेण, व्यन्तरो विपिनं भ्रमेत् ॥ १३८ ॥ किं कुर्वे मन्दभाग्याऽहमद्यापि न लमे वरम् ।
अद्य प्रोक्तेऽपि नायाति, न जाने तत् कियद्दिनम् ? ।। १३९ ।।
दु० व्या०- तद् अद्य ॥ १३९ ॥
दिनं याति जनालापैर्न याति रजनी पुनः ।
अनुरागी च रोगी च, दृश्येते सदृशो शुकः ॥ १४० ॥ प्रातर्गेहाङ्गणे नृत्यन् मयाऽसौ मधुरस्वरः । क्षिप्तः प्रियागमप्रीत्या, काकोऽपि स्वर्णपञ्जरे ॥ १४१ ॥
स्वैरं विश्वे शुकः भ्राम्यस्त्वं न जानासि तं नृपम् | सोऽवक् करतले तस्य, निवासो मे निरन्तरम् ॥ १४२ ॥ सुलोचनाकुचद्वन्द्वमहं वा मृगलोचने । तत्कोमलकरस्पर्शसुखानुभवभाजनम् ।। १४३ ।।
For Private And Personal Use Only
साधं बाला स्मरण्यालदंशाकुलतयाऽवदत् । हृदि स्थितोऽपि किं नाथ !, न दत्से मम दर्शनम् || १४४ ॥ सहसा प्रकटीभूते, विजये विस्मितानना । सा मुदा नरीनर्ति स्म, चकोरीव निशाकरे ।। १४५ ॥
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपक्षदुर्गपदव्याख्यालातम् । [१११
सिंहरूपधरोऽभ्येत्य, व्यन्तरो दिव्यरूपभाक् । सिंहासने निवेश्यैनं, बभाषे रचिताञ्जलिः ॥१४६ ।। आदत्य विरहग्रीष्मतप्ताङ्गी भूमिभृद् भुवम् । स्वाङ्गसङ्गसुधासारैरासिश्च शुचिमेघवत् ॥ १४७ ॥
दु० व्या०-भूमिभृत्पक्षे शुचिः-आषाढः ।। १४७॥
तावद्विवाहे नौचित्य, यावौति सुलोचना । विधास्ये वलितः सर्वमित्यसौ तं न्यषेधयत् ॥ १४८॥ आश्वास्य बाला सोऽचालीद्, व्यन्तरानुमतस्ततः । वीक्षमाणा तमङ्गुल्या, सा कथञ्चिन्यवर्तत ॥ १४९ ॥ पीत्वा वारि मनोहारि, नद्यास्तीरे तरुस्थितः । अन्येयुः सहसाऽपश्यन्महीनाथ: स्थगीधरम् ॥ १५० ॥ संभ्रान्तः सोऽपि तं दृष्ट्वा, प्रणम्य परमादरम् । देव्या नामाङ्कितं तस्मै, ददौ श्रवणकुण्डलम् ।। १५१ ।। करण हृदि तश्यस्य, भूपः स्माह सगद्गदम् । गृहाण कुण्डलं देवि !, निवासोऽत्रैव तेधुना ।। १५२ ॥ भूभुजा सादरं पृष्टो, जगौ वृत्तं स्थगीधरः । तदा स्वां चलितं ज्ञात्वा, प्राचलं प्रति पश्चिमाम् ।। १५३ ।। केनाऽध्वना दूता देवीत्येवं चिन्तयता पुरः। मयैतत् कुण्डलं लब्ध्वा , शिश्रियेऽध्वा स एव हि ॥ १५४॥ हा वत्स विजय ! क्यासि, हा चिरण्टि सुलोचने । हा बन्धो विजयेत्येवमोषं दारुणं स्वरम् ।। १५५ ।।
दु० व्या-चिरण्टि-हे वधु ! ।। १५५ ।।
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
किमेतदिति संभ्रान्तो यावद् यामि द्रुतं द्रुतम् । स्वामिजामियुता तावद्, दृष्टा माता कलावती ॥ १५६ ॥ नत्वा किमिदमम्बेति, मयि जल्पति सा जगौ । वत्स ! स्थगीधराऽवाच्यं, दुधरित्रं दुरात्मनाम् ॥ १५७ ॥
[ अनुमः
दु ० व्या - हे अम्ब ! ॥ १५७ ॥
गवाक्षस्था सुता शीर्षे, यावद् वेणीं करोम्यहम् | तावत् तत्र विमानस्थः, खेटः प्रापदिति ब्रुवन् ॥ १५८ ॥ ईप्सिताऽपि मयोद्वोढुं तेनात्ता चेद सुलोचना । हरामि तर्हि तज्जामि, ततोऽसौ विधृता करे ॥ १५९ ॥ स्नेहाद् बाहुविलग्नां मामप्यस्याः खेचराधमः । स विमानं समारोप्याचलत् पवन वेगतः ॥ १६० ।। आगतः स कियद्दूरे, कान्तारे कामपि स्त्रियम् । पुनर्विमानमानिन्ये, कदन्तीं तामुवाच च ।। १६१ ॥ मुग्धे ! विजयचन्द्राख्यमर्त्यकीटे त्यादरम् । भजस्व मां भुजादण्डविडम्बितनरामरम् ॥ १६२ ॥ स्वामिन् ! विजयचन्द्रेति, कदन्ती पिहितानना । कर्णन्यस्ताङ्गलिर्मेने, मया पुत्रवधूरिति ॥ १६३ ॥
यदर्थेऽहमुपक्रान्तः, सेयं लेभे सुलोचना । किमाभ्यामिति जल्पाकः, सोऽमुञ्चन्नौ विमानतः ॥ १६४॥ |
For Private And Personal Use Only
दु० व्या० - नौ आवाम् ॥ १६४ ।।
अनुकूले सरित्कूले, सिकतासङ्कुले किल । पतनाज्जीविते आवां त्वं कुतस्तु स्थगीधर ।। १६५ ॥
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [११३
स्ववृत्तं ज्ञापयित्वाऽहं, ततो मातृसुते उमे । सुखेन चालयन्मार्गे, नाभूवं मातृशासितः ।। १६६ ।। दु० व्या-मातृशासितः-मूर्खः ॥ १६६ ।। कोमलक्रमणे ते द्वे, वृषिते च बुभुक्षिते । सुश्रूषयन् वने प्राप, कथञ्चित् तापसाश्रमम् ॥ १६७ ॥ गागलिस्तापसाधीशो, मवृत्ते च गतेऽवदत् । मुश्च भद्रस्त्रियावत्र, पालयिष्यामि वत्सल ! ॥ १६८ ॥ उटजे स्थापयित्वा ते, गृहीत्वाऽहं तदाशिषम् । भ्रमन् वनेषु दिङ्मूढो, देवादेव समागमम् ।। १६९ ॥ अभाषत महीशस्तं, शस्तं यत् तव सङ्गमः। गमिष्यति च सा कान्ता, कान्तास्या वासरान् कथम् ॥१७॥ दु० व्या०-महीश:, तम् ।। १७० ॥ कथं मयि श्लथस्नेहा, न दत्से देवि ! दर्शनम् । विलपन्तमिति स्पष्टं, स्थगीभृद् भूपति जगौ ।। १७१ ॥ धीरस्त्वमेधि मेधाविन् !, सति तत्रापि सा सती। सुवर्णे श्यामिका न स्यात् , माणिक्ये न मलः पुनः ॥१७२।। दु० व्या०-एधि-भव ॥ १७२ ॥ स्थगीधरधराधीशाविति तत्र स्थितौ क्षणात् । अद्राष्टां नभसा यान्तं, पत्रिणं पत्रिकामुखम् ।। १७३ ॥ कोऽयं केयं प्रभो ! पत्री, जल्पत्येवं स्थगीधरे । विहङ्गस्तरुमाश्रित्य, राज्ञोऽङ्के भूर्जिका जहौ ॥ १७४ ।। दु० व्या०-कोऽयं पत्री-पक्षी, केयं पत्री ! ॥ १७४ ।
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ ]
श्रीश्रीधरचरितमहाकाव्यम् [ मष्टमा दृष्ट्वा सुलोचना नाम, तत्र राज्ञि सविस्मये । पविरूपं परित्यज्य, सोऽयं सिद्धिनरोऽभवत् ।। १७५ ।। चन्द्रांशुवसनोऽम्येत्य, स कृत्वा वन्दनं तयोः। सती सुलोचना जीयादित्याचष्ट पटिष्ठगीः ॥१७६।। साश्रुनेत्रे नृपे सिद्धोऽवोचनमुश्च शुचं शुचे। पुर्या चमरचश्चायां, मयाऽलोकि सुलोचना ।। १७७ ॥ अशोकवनिकास्थायि, शोकसङ्कलमानसा । शम्भूलीवचनैर्वज्रदाढस्य पिहितश्रवाः ॥ १७८ ॥ युग्मम् ।। दु० व्या०-शम्भूली-दूती ॥१७८ ॥ कपरफालि सागरा, सुरसिन्धुं सशैवलाम् । सुधां सभुजगां दृतीयुताऽजैपी सुलोचना ॥१७॥ तस्याहरणवृत्तान्तं, विदित्वा जनतामुखात् । अहं वाढतरं दूनो, वजदाढसभा ययौ ॥ १८० ॥ मन्मित्रजयचन्द्राख्यभूपपुत्रस्य वल्लभाम् । विमुश्चेति मया प्रोक्ते, साऽभूत् प्रत्युत मत्सरी ॥१८१॥ तस्योपदेशानौचित्याद्, गत्वाऽवोचं सुलोचनाम् । त्वद्भ। ज्ञापयाम्येष, भूर्जे किञ्चिल्लिख स्वयम् ।। १८२ ॥ तया रुदत्या हारस्थेक्षणाञ्जनशलाकया। कज्जलाविलनेत्राऽश्रुजलैलिखितमर्पितम् ॥१८३।। दु० व्या० ईक्षणं-नेत्रम् ।। १८३ ॥ श्रुत्वेति भाषितं सिद्धपुरुषस्य महीपतिः। पत्री पुनः पुनर्वीक्ष्य, रोदिति स्म सगद्गदम् ।। १८४ ।। १ स्थापि शो' A । २ सासारां A BI
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपनदुर्गपदव्याख्यालकृतम् । [११५
सिद्धोऽवगू धीर। धीरत्वं, भज भस्वा निजं रिपुम् । दिनैः स्तोकस्तया साकं, त्वमाप्स्यसि जयश्रियम् ॥१८५॥ अथ जैनमतालापैरतिक्रम्य दिनं मुदा। सायंतनक्रियां कृत्वा, विश्रान्तास्तत्र ते त्रयः ॥१८६ ।। सिद्धस्थगीभृतोः स्वापमाप्तयोरभवन्नृपः । स्मरन् विकल्पकल्पान्तमरुद्भ्रान्तमनाः प्रियाम् ।। १८७ ।।
दु० व्या०-स्वाप-निद्राम् ॥ १८७ ।। आर्या---
साऽभूननु मा रजनी, मारजनी सोऽप्युदेति मारजनी। रुचिनिर्जितमारजनी, न यत्र तल्पं ममारजनी ॥१८॥
दु० व्या०-मा रजनी मा भूद् , मारोत्पादिका । मारजनी-मारवः । भार-प्राप । जनी-वधूः ॥ १८८ ॥
कथचिल्लब्धनिद्रस्य, तस्य कश्चिन्महानिशि। अमोटयत् पदाङ्गष्ठ, लघुनिद्रां स चात्यजत् ॥ १८९ ।। आसीनः स्फारशृङ्गारां, पूर्णचन्द्रमुखीमसौ । देवीं सुलोचनां वीक्ष्य, वीक्षापनो व्यचिन्तयत् ॥१९०॥ दु० व्या०-वीक्षापन:-विलक्षणः ।। १९०॥ सम्भाव्यं सांप्रतं तस्याः, कथमागमनं ननु । भ्रान्तिरेषेत्यधो नेत्रे, तस्मिन् सा सस्मितं जगौ ॥ १९१ ।। न लक्षयसि किं नाथे 1, स्वप्रियां शत्रुणोज्झिताम् । समेतो स्मरसंतप्तां, परिरिप्साऽपरां त्वयि ॥१९२॥ १'थं स्वां Eि AI
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ मष्टमः
खलबत् किमु निःस्नेह, स्तोककालेन वीक्ष्यसे । असंभाव्यं विभाव्येति, नेक्षाञ्चक्रेऽपि तां नृपः ॥ १९३ ॥
॥ युग्मम् ॥
अपसृत्य सनिःश्वासं, लतागेहान्तरं गता । दीनस्वरं सा रुदती, प्राह श्रवणदुःसहम् ॥ १९४ ॥ दूरे पितृगृहं मेऽद्य, दूरे च श्वसुरालयः । आसनोऽपि ममाभाग्याद्, दूराद् दूरतरः प्रियः ।। १९५ ।। हृताऽऽदौ वैरिणा दैव ! यदि तेनोज्झिता च सा । प्रतिकूलः पतिस्तर्हि किं करोतु सुलोचना ॥ १९६ ॥ प्राप्ते निर्दयतां पत्यौ, रे किं हृदय ! रोदिषि । कण्ठे पाशं क्षिपाम्येषा, सर्वदुःखच्छिदेऽधुना ॥ १९७ ॥ श्रुत्वेति विजयो दध्यौ हा ! मह्यं (म १) म्रियतेऽङ्गना । अतोऽसौ तत्र गत्वा द्राक्, प्रोचे मा साहसं कुरु ॥ १९८ ॥ सावग् बाला न दूयेत, नालापमपि चेल्लभेत । भ्रान्तिस्ते चेत् ततो वग्मि, सर्व विदितमावयोः ॥ १९९ ॥
स्वयंवरात् प्रभृत्यस्य, तत्प्रेम ललितादिकम् । नीचैर्विलोचनं भूपे, शृण्वति स्माह सा ततः ॥ २०० ॥ पुनः सोचे प्रिय ! भ्रान्ति, मुश्च नो चेन्निजार्पिताम् । उर्मिकामपि पश्यैतां तां दृष्ट्वा सोऽथ दध्यिवान् ॥ २०१ ॥
"
रूपानुकारैः सङ्केतैरपि नामाङ्कमुद्रया ।
इमां सुलोचनां मन्ये, न मन्येत मनः पुनः ॥ २०२ ॥ विमृश्य विजयः प्रोचे, वद चेत् त्वं सुलोचना । स्वभ्राता को सुनिः किञ्च तेनोचे चरितं निजम् ॥२०३॥
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भा स्वीपशदुर्गपदव्याख्यालकृतम् । [११७
योषा जोषमथो भेजे, तवृत्तान्तमविन्दन्ती। विजयः प्राह धूर्तत्वं, त्यज मूर्ति निजां भज ।। २०४॥ दु० व्या०-जोष-मौनम् ॥ २०४ ॥ हित्वा सुलोचना रूपं, सा भूत्वा खेचरी जगौ।
धन्या सुलोचना यस्याः, पतिस्त्वं विश्वमण्डनम् ।। २०५ ॥ वसन्ततिलकाछन्दःलीलाविलोलललनानयनाचलेन,
येषां मनोमधुकरः परिधूयमानः । उन्मीलदुज्ज्वलविशालविशुद्धशील.
लीलाम्बुजं त्यजति नाशु त एव धन्याः ।। २०६।। सुलोचना च त्वं चेहग, द्वयमेव जगत्रये । न यत्परप्रियासक्तं, रूपस्मरकथादिभिः ।। २०७।। पत्या मे वजदाढेन, त्वत्मिया निष्कुटान्तरे । मुक्ताऽस्ति मुक्तावल्लीव, नर्मल्यगुणशालिनी ॥ २०८॥ दु० व्या०-निष्कुटः-वाटिका ॥२०८॥ मदर्दप्रहिताऽनेकदूतीवचनमुद्गरैः । न तस्या विमेदे शीलमिव वज्रविनिर्मितम् ॥ २०९ ।। कृपया तदुपासिन्या वत्सलायाः स्वभावतः । नखामिषसमं सख्यं, तया साकं ममाभवत् ।। २१० ।। दु० व्या-सख्यं-मैत्र्यम् ॥ २१०॥ जपन्ती नाम मन्त्रं ते, पृच्छन्त्यां मयि सा निजम् । स्त्रीस्वभावात् कियत् प्रेम, ललिताचरितं जगौ ।। २११॥
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
यत् तयोक्तं हि तद् वेधि, न यदुक्तं न वेमि तत् । शिक्षितैश्च मितैर्यद्वा, सिद्धिः का वचनैर्ययैः ॥ २१२ ॥ दत्त्वोमिका तयाऽऽज्ञप्ता, स्वच्छुद्धथै तव कान्तया। भ्रमन्त्यत्रागतां वीक्ष्य, त्वां जज्ञेऽहं स्मरातुरा ।। २१३ ॥
दु० व्या०-'सीया बोलमव्या वरा नाथ बोल नही परा' इति योगिवाक्यम् ।। २१३ ॥
मयि स्वकान्तारूपायामपि त्वं न विमूढधीः । का कथा परदारेषु, तत् त्वं धन्यशिरोमणिः ॥२१४ ।। प्रियोर्मिकां करे न्यस्य, स्वां प्रदाय प्रमोदभाक् । तां विसृज्य नृपः प्राप, स्वापस्थानं तरोस्तले ॥२१५॥ सिद्धस्थगीभतो तत्राऽनवेक्ष्य हृदि शङ्कितः। काननान्तरसौ भ्रान्तः, श्रान्तः शाखितले स्थितः ॥ २१६॥ तस्मिंस्तत्र निषण्णेऽथ, तरोरुपरि संस्थितम् । भूतं भूतः परः स्माहागम्यतां तत्र गम्यते ॥ २१७ ।। कुत्रेति व्याहते तेन, पुरोऽवक् त्वं न वेत्सि किम् । इतोऽस्ति दशयोजन्यां, पुरं विजयसंज्ञया ॥२१८॥ राजा चन्द्रबलस्तत्र, तस्य चैत्रः पुरोहितः । कृत्वा गवाश्वमेधादीन् , नुमेधं कुरुतेऽधुना ॥ २१९ ।।
दु० व्या०-'गवाश्व' 'गोर्नाम्न्यवोऽक्षे' [सिद्धहेम० १-२.२०] इत्यनेन अव् ॥ २१९॥
अष्टोत्तरशतं नृणामध्वरे वधमेष्यति । सप्तोत्तरशतं क्षुद्रदैवतैस्तत्र मेलितम् ।। २२० ॥ अवशिष्टो विशिष्टस्तैः, कश्चिदात्तो वनादतः । यदि सूर्योदये जज्ञे, भाव्यं यज्ञेन तद् ध्रुवम् ॥ २२१ ॥
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [११९
पश्यायः कौतुकं तत्रेत्युक्त्वाऽमुत्र स्थिते परः । जगावीदृक्षयज्ञानां, कोऽपि वारयिता न किम् ? २२२॥ नैवेति गदिते तेन, परोऽवादीन सोऽस्ति किम् ? । यः श्रुतो विजयः कश्चिन्नृपो हिंसानिषेधकः ।। २२३ ॥ सोऽप्याख्यन्नाम भोस्तस्य, वाक्टरस्य न गृह्यते । ईदशी यः क्षितीशोऽपि, न रक्षति नरक्षतिम् ।। २२४ ।। दु० व्या०-नरक्षतिम्-नरक्षयम् ।। २२४ ॥ एवं पुनः परः स्माह, कृतमेतेन भूभुजा। अन्योऽपि भुवने नास्ति, देवो नागो सुरोऽथवा ॥२२५ ॥ सोऽवादीचिन्तयाऽलं तेऽनया यज्ञेऽथ गम्यते । परोऽवक् कथय भ्रातः !, तथापि यदि बुद्धयते ॥२२६॥ सोऽवक कर्कोटशैलेऽस्ति, कर्कोटफणिनः स्फुरत् । क्रीडास्थानं स आगत्य, पातालात् तत्र खेलति ।। २२७ ॥ नागदत्तः मुनिः कश्चिदत्रागत्य स्थितोऽन्यदा। तं नागेन्द्रं दयाधर्मेऽऽस्थापयद् विश्ववत्सलः ॥ २२८ ।। ततः प्रभत्यसौ कुर्यादध्वरध्वंसमुधुरः । अयं यज्ञः सुखं भावी, कर्कोटश्चेन्न वेत्स्यति ॥ २२९ ।। उड्डीनयोस्तयोरेव मुक्त्वा राजा व्यचिन्तयत् । अहो ! स्थगीभतः कष्टं, महदेतदुपस्थितम् ।। २३० ।। अन्यच्च श्रूयते कीर्तिः, श्रवणाभ्यामनीदृशी। सत्यं वा जीवितं मे धिग, नरमेधमरक्षतः ॥२३१॥ आत्मना वा परेणापि, जन्तूनामिह रक्षणम् । कृतमेव वरं येन, विना सर्व वृथा परम् ।।२३२।।
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० ]
श्री श्रीधरचरित महाकाव्यम् ।
[ अष्टमः
स ध्यायन् किं करोमीत्यवक् स्मृतागत चेटकम् | मवृत्तं यज्ञवृत्तं च कर्कोटाय निवेदय ॥ २३३ ॥ अथो तथाकृते तेन, नागलक्षैः परिष्कृतम् । कर्कोटं धावितं दृष्ट्वा, विजयोऽपि सहाचलत् || २३४ ।। बहवः पटवः पापा ऋच पठनपूर्वकम् । यावन्नराहुतिं दद्युस्तावन्नागबलं ययौ ॥ २३५ ॥ पलायध्वं पलायध्वं वदन्तस्तत्र वाडवाः । काकवन्ने शुरुज्झित्वोत्तरीयादित्वराकुलाः || २३६ ॥ द्विवेदी च त्रिवेदी धोपाध्यायः पाठकस्तथा । दीक्षितो यायजूकथ, नष्टाः पश्चाद् विलोकनैः ॥ २३७ ॥
दु० व्या० - यायजूकः - यज्ञकर्ता ॥ २३७ ॥
यूपमुन्मूलयन्मूलाद् वह्निकुण्डं विलोठयन ! |
•
हव्यं विक्षेपयन् व्योम्नि, कर्कोटोऽभञ्जयन्मखम् ॥ २३८ ॥ एवं नागैर्मखे भग्ने, मोचितान् नृपतिर्नरान् । यावत् पश्यति तावद् भूकम्पः कोऽप्यभवत्तराम् ॥ २३९ ।। कम्प्रेषु गिरिशृङ्गेषु, क्षणा निर्घातपूर्वकम् । ददर्श भूमेर्नियतं नृपतिर्यातुधानकम् ॥ २४० ॥
दु० व्या० यातुधानकम् - राक्षसम् ।। २४० ॥
दीर्घदन्तं प्रलम्बोष्ठं, रौद्रास्यं रक्तलोचनम् । करे धृतासुगापूर्णचषकं खड्गधारिणम् ।। २४१ ॥ पीनकुक्षिं महाभीष्मं, नवताल प्रमाणकम् । तं दृष्ट्वैव पलायिष्ट, कर्कोटः सपरिच्छदः ॥ २४२ ॥ युग्मम्
B
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
]
स्वोपझदुर्गपदव्याल्यालकृतम। [१२१ यज्ञमुक्ता नरास्तेऽपि, कम्प्राङ्गास्तन्निरीक्षणात् । स्थगीभृता युताः सर्वे, भूपालं शरणं ययुः ॥ २४३ ॥ भूपोऽपि पृष्टे तान् न्यस्य, स्थितः खड्गधरः पुरः। मुश्चन् मुखेऽनलज्वालामूचे तं च निशाचरः ॥ २४४ ।। रे दुरात्मन् दुराचार !, रे रे !! मानवकीटक! । अध्वरं मम विध्वस्य, क्व प्रयास्यसि मूढधीः ? ॥२४५ ॥ यज्ञे जुह्वत्यमी विप्रास्तृप्तिमें जायते पुनः। याज्ञिकान् मम वित्रास्य, क्व प्रयास्यसि मूढधीः ? ॥२४६।। तार्क्ष्यस्येव ममालोकान्नागैः सर्वैः पलायितम् । त्वं काक इव दृष्टोऽथ, क्व प्रयास्यसि मूढधीः ॥ २४७॥ अहं चेन्न त्वया दृष्टस्तदा नाम्नाऽपि न श्रुतः। महाकालभिधः कालः, कीनाशस्य सहोदरः ॥२४८ ॥ अद्यापि मे नरान् हव्यान , देहि पृष्टे स्थितानिमान् । न चेन्मौलिं लविष्यामि, खड्गेनतेन तत्क्षणात् ॥ २४९ ।। क्षोणीपतिस्ततः स्माह, पलादं प्रति सस्मितम् । ददामि जीवितं तेऽपि, नाहं शरणमागतम् ॥ २५० ॥ जल्पन्ति चाल्पं ये धीराः, कातरा बहुमाषिणः। इति क्रुद्धो दधावेऽथ, नृचक्षा नृपति प्रति ॥ २५१ ॥ खड्गखेटकभृद् भूपमेरितश्चेटकस्तदा । योद्धं डुढौके क्रव्यादस्तं विजिग्ये च तत्क्षणात् ।। २५२ ।। तादृक् तुङ्गपलादेन, सह योद्धुमथोच्छ्रितम् । चेटकोपीदृशस्कन्धमारोपयदिलापितम् ॥ २५३ ॥ खड्गाखगि रणे जायमाने बाढं तयोश्विरम् । क्षोणीपतिप्रहारेण, पृथिव्यां राक्षसोऽपतत् ।। २५४ ।।
१६
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
हा हतोऽस्मि हतोऽस्मीति, क्रन्दन्तं तं जगौ नृपः। . निस्त्रिंशेन मया बाढं, दुःखितोऽस्ति हहा ! भवान् ॥२५५।। तमवादीत् पलादोऽपि, त्वं दयालुशिरोमणिः । न छिन्नं यदि मे शीर्ष, करालकरवालतः ॥२५६॥ कृपालो ! हन्तु घातेन, दुःखितश्च बुभुक्षितः। भक्ष्यं पेयं किमप्यस्मै, यच्छ वत्सलचेतसा ॥ २५७ ॥ भूपः प्रोचे फलं देयं, जलं वा सोऽप्यभाषत । नृमांसशोणिताम्वादाः, पलादास्त्वं न वेत्सि किम् ! ॥२५८।। द्विवान् द्वौ वा नरं चैक, देह्येतेषु नरेश्वर । नृपोऽवक् संकथां मुश्च, जीवहिंसापथोचिताम् ॥ २५९॥ सोऽवक् प्राणाः प्रयास्यन्ति, प्रहारेण क्षुधा च मे । परं कृपायास्ते देव ., दास्यते हि जलाञ्जलिम् ॥ २६० ॥ सत्यमेतदिति क्षमापस्तं जगौ तनिजागतः । जाङ्गलं शोणितं किश्चिद्, ददे रक्षस्तमब्रवीत् ॥ २६१ ।। ममेदृक् प्रौढदेहस्य, तेन स्वल्पेन किं भवेत् । अस्माकं नरमप्येकं, विना का तृप्तिरुच्यताम् ! ।। २६२ ।। जगौ सच्चधरो राजा, सस्वरक्षाकरः परः । उत्तिष्ठ भो ! मया देहः, सकलः कल्पितस्तव ॥ २६३ ।। तत्क्षणादुत्थितं रक्षो, जन्तुरक्षोद्यतं नृपम् । स्माह साहसमेतद्धि, किमर्थ क्रियते त्वया ? ॥ २६४ ॥ दत्वेषु नरमप्येकं, त्वं राज्यं सुचिरं कुरु।। भूपोऽवक् किमु राज्येन, तेन जीववधो यदि ॥ २६५ ॥ रक्षो जगौ वयं देवा देवानामनलो मुखम् ।। त स्थस्य मे स्कन्धमारुह्य त्वं पताऽनले ॥ २६६ ॥
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपक्ष दुर्गपदध्यात्यालङ्कृतम्। । १२३
वह्निकुण्डहुतं पक्वं, त्वामश्नामि ततः स्वयम् । इत्युक्ते नृपतिः सिंह इव तत्राधिरूढवान् ॥२६७॥ स्थगीभृति हहाकारे, यावत् पतति भूपतिः । तावनयज्ञमद्राक्षीन रक्षो न च तान् नरान् ।। २६८ ।। तस्मिन्नेव च कान्तारे, सुप्तौ सिद्धस्थगीधरौ । स्वापस्थानेऽस्यमूर्द्धस्थं, वीक्ष्य चासौ विसिमिये ।। २६९ ।। स्वप्न किमिन्द्रजालं वेत्येवं चिन्तयतोऽम्बरात् । पुष्पवृष्टिरभूत् तस्य, शीर्षे जयरवैर्युता ।। २७० ।। चलत्कुण्डलहारार्द्धहारमण्डलभूषिते । ऊमे शुमे नभोदेशे, निरैक्षिष्ट नृपः स्त्रियौ ॥ २७१ ॥ के युवामिति तेनोक्ते, तयोरेकाऽवदन्नुपम् । . शृणु सौधर्मकल्पेऽस्ति, सौधर्मेन्द्रसुरेश्वरः ।। २७२ ।। । प्रेक्षणप्रेयसी प्रेक्षाप्रेला प्रेसोलनादिभिः ।। लीलाविशेषों वेच्यनेहसं गतमप्यसौ ।। २७३ ॥ दु० व्या०-प्रेता-हिंडोलका । अनेहसं-कालम् ।। २७३ ।। शतकोटिस्फुरत्पाणेः, कोटिसङ्ख्याऽप्सर पतेः। हरिणीहारिणीनाम्न्यो, तस्यावामपि वल्लभे ॥ २७४ ॥ दृष्ट्वा तमुग्रधन्वानं, धुन्वानं मौलिमन्यदा। शचीप्रभृतयः स्माहुः, शुद्धान्तस्थं सविस्मयम् ॥२७५ ॥ दु० व्या०-उपधन्वान-इन्द्रम् ।। २७५ ॥ दृष्टं देव ! किमाश्चर्य, यदेवं धूयते शिरः । महेन्द्रोऽवम् महाश्चर्यहेतुर्विजयभूपतिः ।। २७६ ॥
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ ]
श्रीश्रीधरचरित महाकाव्यम् ।
अष्टापदं गतेनासौ, मयाऽलोकि स्वयं प्रियाः । अपि गुणा यस्मिन्नेकस्मिन्नपि संस्थिताः ॥ २७७ ॥ वर्ण्यते जन्तुरक्षाऽस्य, श्रितावात्सल्यमेव वा । सौशील्यं वेति तस्योक्तं, समस्ता मेनिरे प्रियाः ॥ २७८ ॥ अधाने तचावामिहागत्य दिवि स्थिते । खेचर्यालापमष्ट, तव सौशील्यशालिनः ।। २७९ ॥ तस्यां गतायामावाभ्यां, सेयं माया व्यरच्यत । आप्तं ते चेटकं बद्ध्वा रूपं तस्यापि दर्शितम् ॥ २८० ॥ राजन् ! संप्रत्यमी यज्ञा, न भवन्ति भुवस्तले । भविष्यन्ति च कालेन, भवितव्यनियोगतः ॥ २८९ ॥ धिग् धिक् कुर्वन् नृपः स्माह, कः पापस्तान् करिष्यति । सा जगौ शृणु विख्याता, विद्यते पूर्वराणसी ॥ २८२ ॥ सुभद्रा सुलसे तत्र, स्वसारौ वेदकोविदे । पारिव्राज्यधरे वादसादरे च भविष्यतः ।। २८३ ॥ ते श्रुत्वा याज्ञवल्क्याख्या, परित्राइ दूरदेशतः । तत्राऽऽगन्ता विवादार्थी, शास्त्रं कस्येह जीर्यति ॥ २८४ ॥
[अष्टमः
लालसा खुलासा शास्त्रे, दासत्वपणबन्धतः । विवादं कुर्वती तेन, भूपसंसदि जेष्यते ॥ २८५ ॥ सत्यप्रतिज्ञा सा दास्यं, ततस्तस्य करिष्यति । तदास्यं पश्यतो नित्यमस्य चेतवलिष्यति ॥ २८६ ॥
For Private And Personal Use Only
दु० व्या०-तत्- आस्यम् || २८६ ॥
आम्यन्ती परितो वातोर्मिके वापि स्थिरं क्षणात् । नितम्बिनी मनक्त्येव योगिनोऽपि मनस्तरुम् ।। २८७ ॥
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपश्च दुर्गं पदव्यास्यालङ्कृतम् ।
धातूनां द्रावणात् पुण्यपण्यानां दहनात् पुनः । कृशानुश्च कशाङ्गी च मन्येते द्वौ सहोदरौ ॥ २८८ ॥ इतस्तस्तः स्मराकूतस्यूतवाक्यं विलोक्य तम् । साऽपि चापलतामाप्ता, सुमचापसमुद्भवाम् || २८९ ॥
दु० व्या०-आप्ता- प्रास्यति ॥ २८९ ॥
परस्परं परिष्वङ्गपरावेतौ ततः परम् । आत्मयोनिरसव्यग्रावात्मजं जनयिष्यतः ।। २९० ॥ जातमात्रममुं हित्वा, बालं तत्रैव बालिशौ । जनानां हास्यतो भीती, तं देशं तौ च हास्यतः ॥ २९१ ॥ सुलसायाः स्वसा प्रातरायाता तत्र तं शिशुम् । वीक्ष्य तौ चानवेक्ष्यासौ चिन्तयिष्यति चेतसि ॥ २९२ ॥ स्वसुर्मुखानुसारेण तत्पुत्रो मन्यते ह्यसौ । हित्वाऽमुं तौ ध्रुवं नष्टौ ड्रीणौ कामविडम्बितौ ।। २९३ ।। अनङ्गेनापि हेऽनङ्ग !, त्वया विश्वं विडम्बितम् । तदा किं नाम जायेत, साङ्गत्वं यदि ते भवेत् ।। २९४ ॥ पिष्पलाधः स्थितं तस्य, पिप्पलस्य फलादनात् । पिप्पलादेति जल्पन्ती, तं लात्वा सा चलिष्यति ।। २९५ ।। स्वस्थान मागता सेयं, वर्धयन्ती तमर्भकम् । समये सकला विद्याः, वेदाद्या: शिक्षयिष्यति ॥ २९६ ॥ क्रमात् तारुण्यमाप्तोऽसौ, पिप्पलादेति नामभाक् । वादीन्द्रो विश्वविख्यातो, भूपमान्यो भविष्यति ॥ २९७ ॥ निजाङ्गजमजानानौ, श्रुत्वा वादीश्वरं मदात् । सुलसायाज्ञवल्क्यौ तं जेतुं तत्रागमिष्यतः || २९८ ॥
For Private And Personal Use Only
[ १२५
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः विदधानौ महावाद, राजसंसदि तेन तौ । जेष्यते हेलया नव्यहस्तिना जीर्णहस्तिवत् ॥ २९९ ॥ विषण्णौ लज्जितौ वीक्ष्य, वक्ष्येते तौ सुभद्रया । किमेवं खिद्यते युष्मत्पुत्रः सैप तदोज्झितः ।। ३०० ।। ततस्तौ मुदितौ मुखौं, जनाग्रे कथयिष्यतः। स्वपुत्रजितयोः का नौ, त्रपा प्रत्युत गौरवम् ।। ३०१ ।। तच्छ्रुत्वा पिष्पलादोऽपि, क्रुद्धोऽन्तश्चिन्तयिष्यति । दुष्कर्म कुरुतः पापो, पुनः कथयतः स्वयम् ॥ ३०२ ।। दुष्कर्म कृत्वा हित्वा मां, विदेशं गतयोस्तयोः। अद्य सङ्गतयोः कुर्वे, प्रायश्चित्तं कथं कथम् ? ।। ३०३ ॥ ध्यात्वेति तद्वधोपायान्, नव्यान् वेदान् विधास्यते । लेखयित्वा रहश्चैतान , नृपाने वाचयिष्यति ॥ ३०४ ।। गवाश्व च्छाग मेधादीन्, नृ-मातृ पितृमेधकान् । स्थापयित्वा फलं वक्षत्यसौ स्वमतिकल्पितम् ।। ३०५ ॥ नृपेणानुमतः सोऽथारप्स्यते तान् महामसान् । प्राप्ते चावसरे नौ स पितरौ तत्र नेष्यति ॥ ३०६ ॥ एतौ मत्पितरौ राजन् :, पितृमेघे निहन्म्यहम् । इत्युक्त्वा तर्जनापूर्व, खण्डशस्तौ स होष्यति ॥ ३०७ ॥ प्रवर्तयिष्यते लोके, पिष्पलादः पलादवत् । मखास्तान केचिदज्ञाताः, प्रथयिष्यन्त्यमूनपि ।। ३०८ ।। इति केवलिना पार्श्वेऽस्माभिः श्रुतमिलापते । त्वं धन्योऽसि परं यस्य, दया विश्वत्रयाद्भुता ॥ ३०९ ॥ अथ याचस्व किश्चित् त्वममोघं देवदर्शनम् ।। सोऽवक किं याच्यते सर्वश्रेयोहेतुः कृपाऽस्तु मे ॥३१०॥
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१२७
नैवं चेदुच्यता ज्ञानाद् , वलिता मे प्रिया कदा। साऽवादीदेकमासेन, त्वत्कान्ता ते मिलिष्यति ॥३११॥ पञ्चमे वासरे वैरिजयोपायं तु लप्स्यसे । इत्युक्त्वा तं पुनर्नवा, स्तुत्वा ते भेजतुर्दिवम् ।। ३१२ ॥ अथ भूपो विशश्राम, पार्श्वे सिद्धस्थगीभतोः। समये तत्यजुनिंद्रां, ते त्रयोऽपि ततः प्रगे ॥ ३१३ ।। कृते कृत्ये प्रभाताहे, दचाऽशीर्वादमादरात् । विधासिद्धो चलद् व्योम्ना, तो चोत्तरदिशं प्रति ॥३१४!! घस्रेऽथ पश्चमेऽजत्रं, यान्तौ तौ क्वापि पर्वते । अपश्यतां स्फुरद्रत्नमन्दिरं क्षुद्रपचनम् ॥ ३१५ ॥ दु० व्या०-क्षुद्रः-लघुः ॥ ३१५ ॥ स्थगीभृता युतो यावद् , याति राजा पुरान्तिकम् । उत्पश्यावभ्यधावेतां, तावद् द्वौ सुन्दरौ नरौ ॥ ३१६ ॥ अहोभाग्यमहोभाग्यमागान्नागेन्द्रनन्दनः । तयोः प्रणमतोरेवमेकं शीघ्रं पुरं ययौ ।। ३१७ ॥ उत्सवात् सम्मुखायातपुराधीशेन तत्क्षणात् । स्वसौधं विजयो निन्ये, विनयोज्ज्वलभक्तिना ॥ ३१८ ।। रत्नौकापत्तनं लोकं, हारकुण्डलभूषितम् । भक्तिं च भूयसी प्रेक्ष्य, बाढं चित्रं दधौ नृपः ॥ ३१९ ॥ दु० व्या० -ओकः-गृहम् ॥ ३१९ ।। गौरिभिः स्नपितो गौरगौरवेण गरीयसा। बुभुजे भूपतिः साररसाद् युक्तः स्थगीभता ।। ३२० ॥ क्षणं विश्रम्य पल्यङ्के, प्रबुद्धेऽस्मिन् पुराधिपः । अढौकयत् पुरश्चारुहारचीरादि भूरिशः ॥ ३२१ ।।
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८ ]
श्री श्रीधरचरितमहाकाव्यम् ।
[ अष्टमः
प्रोचे तं विजयः कस्माद्, भक्तिरेवं विधीयते ? 1 स जगौ गौरवं सर्व, स्वार्थे देव ! यतः शृणु ॥ ३२२ ॥ पुरी चमरचञ्चाsस्ति, वैताढ्ये विद्यया बली । पुरा महाबलस्तत्र, सुत्रामेवाधिपोऽभवत् ॥ ३२३ ॥ खेचरीणां सहस्राणि, परिणिन् स खेचरः । परं संप्राप नापत्यं, दुष्कर्म प्रति कः प्रभुः ! ॥ ३२४ ॥ इतश्च वसुधापीठे, पुरे तिलकसंज्ञया । महेन्द्रोऽभून्नृपस्तस्य, सुन्दरी नामतः पिया || ३२५ ।। अन्येद्युः पूजितो राज्ञा, तदुदिक्षा कुतूहली । आदर्श मुखदर्शिन्या, नारदः कोपितस्तया || ३२६ ॥ ततश्चमरचञ्चायां, महाबलसभां गतः ।
मुनिः सम्मानितस्तेन, प्रोचे प्राञ्जलचेतसा ॥ ३२७ ॥ अवकेशिष्विव फलं, नापत्यं खेचरीष्वहम् ।
प्रापं ततस्त्वया क्वापि, द्रष्टा सल्लक्षणा वधूः || ३२८ ॥ दु० व्या० - अवकेशिषु - अफलवृक्षेषु ॥ ३२८ ॥
धरायां तिलकपुरे, महेन्द्रस्य धरापतेः ।
प्रिया सल्लक्षणाऽस्तीति, मुनिः प्रोच्य ययौ नमः || ३२९ ।। पूरयित्वा रुषं याते, तस्मिन् दध्यौ स खेचरः । पुत्रार्थं तां हरिष्यामि, विद्यायां तूच्छिदा न मे ॥ ३३० ॥ दु० व्या०- उच्छिदा - उच्छित्तिः ॥ ३३० ॥
अथो विमानमारुह्य, तां प्रसह्य नृपः स्त्रियम् । आदाय वलितोऽयोध्यापुरोपरि चचाल सः ।। ३३१ ॥ शक्रावतारतीर्थस्थोपरिष्टाद् यानमस्खलत् । श्रेयो हि प्रतिबध्नाति पूज्यपूजाव्यतिक्रमः ॥ ३३२ ॥
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपसर्गपदव्याख्यालङ्कृतम् 1
धरणेन्द्रस्तदा नन्तुमागतो वृषभप्रभुम् । सुन्दर्या रुदितं श्रुत्वा खमं दृष्ट्वा शशाप तम् || ३३३ ॥ विद्याभ्रंशोऽस्तु सन्ताने, तवान्यायविधायिनः । श्रुत्वा स हृष्टो दूनवापत्यविद्यातिनाशतः ॥ ३३४ ॥
दु ० व्या० - अपव्याप्तिविधानाशः ॥ ३३४ ॥
तूर्णं विमानादुत्तीर्णस्तं चदुक्त्या मुहुर्नमन् । प्राञ्जलिः प्राञ्जलीचक्रे, नागं नागमतीव स ॥ ३३५ ॥ दत्तः शापोऽन्यथा न स्यात्, किन्तु मत्पुत्रतः पुनः । सर्वविद्याः स्फुरिष्यन्ति, सन्ताने सप्तमे तव ॥ ३३६ ॥ आकर्ण्यति फणीन्द्रस्य, वाचं किञ्चिन्मुदः पदम् । जिनं ननाम मोहारिता पदं स गतापदम् ।। ३३७ ॥ खेचरं शपतेऽहीन्द्रः, सुन्दरीं तु न रक्षति । जन्तोः कर्म परीपाके, प्रभोरपि मतिभ्रमः || ३३८ ||
महाबलस्तामबलामादाय स्वपुरं गतः । रङ्गतः प्रेयसीं कृत्वा, भेजे प्रेमतरङ्गतः ॥ ३३९ ॥
[ १२९
दैवयोगादभूत् तस्याः सुतस्तस्याथ शङ्करः । न्यायोऽन्धकण्टकी ज्ञेयो, न्यायेऽपि यदीप्सितम् ॥ ३४० ॥
नागशापानुभावेन, दीनविद्यं शनैः शनैः । सीमाश्रयो निरासैनं, वज्जदादस्य पूर्वजः || ३४१ ॥
For Private And Personal Use Only
राज्ये चमरचचायास्तेनास्ते स महाबलः । सकुटुम्बः कदम्बाख्यशैलेऽस्मिन् वासमातनोत् ॥ ३४२ ॥
,
अलिखत् पुस्तके विद्याः सर्वाः स च विचक्षणः | सप्तमो नीलवन्नामा, तस्य सान्तानिकोऽस्म्यहम् || ३४३ ॥
१७
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
पमाषेऽहं निमित्तझं, किमेतदसमञ्जसम् । . देवानां निरपत्यत्वे, भावी नागसुतः कथम् ? ॥३४४ । तेनोक्तं धरणेन्द्रस्य, प्रतिपन्नसुतो भुवि । राजाऽस्ति विजयो जरु, वज्रदाढेन तत्प्रिया ॥ ३४५ ॥ अत्रैष्यति भ्रमन्नेष वाञ्छिताप्तिस्ततो हि वः। तस्यागमदिने सैष सहकारः फलिष्यति ॥ ३४६ ॥ गृहाङ्गणेऽफलश्रुतः, फलितोऽद्य निरीक्षितः । सद्दर्शनेन मे देव !, फलन्त्वथ मनोरथाः ॥ ३४७॥ साधयाऽऽशु स्वयं विद्या एताः पुस्तकसंस्थिताः। ततः प्रसादयास्माकमाकलय्य यथोचितम् ।। ३४८ ॥ इति तगिरमाकर्ण्य, हदि दध्यौ महीपतिः । एतदर्थमहं मन्ये, नागेन्द्रेण विलम्बितम् ॥ ३४९ ॥ तेस्तैरथोपहारैद्रांग, नीलवन्मुख्यमेलितैः।। अष्टोत्तरशतं विद्याः, स साधं सममुद्यतः ॥ ३५० ॥ कदम्बकन्दरे कुण्डं, कृत्वाऽकृशकृशानुयुक् ।। विद्यास्ताः स्मरतस्तस्य, युगपत् समुपस्थिताः ।। ३५१ ॥ अथ सत्त्वपरीक्षार्थ, जगुस्ता भूपमर्वताम् । अष्टोत्तरशतं यच्छ, वत्स ! सिद्धि यदीच्छसि ॥ ३५२।। ऊचेऽसौ जीवहिंसायां, मातरः सोऽस्मि कातरः । अनयाऽलं ततः कुर्वे, मधुक्षीरघृताहुतीः ।। ३५३॥ ऊचुस्तानेति चेत् तर्हि, चतुर्विशतिवाजिनः । द्वात्रिंशल्लक्षणं चैकं, नरं देहि मुदे हि नः ॥ ३५४ ॥ दु० व्या०-नोऽस्माकं मुदे ।। ३५४ ॥
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्थोपचदुर्मपदम्याख्यालङ्कृतम् ।
हर्षो यो जीवहत्याभिर्जायते तेन पूर्यताम् । किं तेन क्रियते हेम्ना, त्रुटतः श्रवणो यतः || ३५५ ॥ विना मांसाहुर्ति चित्ते, चेन्न तृप्तिस्तदा स्वयम् | ददे स्वतनुखण्डानि, हुत्वा तावन्ति पावके ।। ३५६ ।। ओमित्युक्ते नृपस्ताभिः स्थिताभिः परितो स्यात् । जुहाव यावद् द्वात्रिंशत्खण्डानि ज्वलितानले || ३५७ ।। अहो ! तावन्महासत्त्वमित्युक्तिमुखराननाः । तदङ्गं विविशुर्विद्याः, सोऽथ सूर्य इवाशुभत् ॥ ३५८ ॥ स्थगीभृन्नीलवन्नीलनलहेमन्तकादयः ।
प्राप्य श्रीविजया विद्या दीपाद दीपा इवाबभुः || ३५९ ।।
For Private And Personal Use Only
[ १३१
भूरिभिर्भेरिमाङ्कारैर्जनयन् बधिरं जगत् । विमानाच्छादितव्योमा, सोऽचलद् वैरिणं प्रति ॥ ३६० ॥ वैताढ्यगिरिमाक्रम्य, निर्जितान्तरखेचरः ।
सैन्यं निवेश्य स प्रैषीद्, द्विषे दूतं स्थंगीभूतम् ॥ ३६१ ॥ गत्वा चमरचञ्चायां, वज्रदादमयं जगौ । राजा विजयचन्द्रस्वामाज्ञापयति मान्यगीः ।। ३६२ ॥ सत्वरं स्वयमागत्य, प्रत्यर्पय मम प्रियाम् । सोढः प्रौढतरोऽप्येकस्तव मन्तुरयं मया ॥ ३६३ ॥ मायाविना स्वया जहे, स्वानुवृत्या प्रिया मम । अहं प्रत्याहराम्येतामपि विश्वस्य पश्यतः || ३६४ ॥ नीलवत् पूर्वजानां च पुर्या चमरचश्चया । गर्वीयसि कथं निःस्वो यथापरविभूषणैः ।। ३६५ ।। राज्यजीवितयोर्वाञ्छा, हृदि ते यदि तद् ध्रुवम् । पुरीं नीलवते देहि, मझं देवीं सुलोचनाम् ।। ३६६ ॥
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२ ] श्रीमीयरचरितमहाकाव्यम् । [ अपमा
वजयद् वज्रदादोऽथ, वाढं स्फूर्जथुकल्पया । गिराऽवोचदसहोचलोचनः कोपरोपतः ।। ३६७ ।। दु. व्या०-स्फूर्जधुः-वज्रघोषः ॥ ३६७ ।। कोऽयं विजयचन्द्रो यः, स्थिते मभुजपञ्जरे। क्रष्टुमिच्छेत् पुरीदेव्यौ, हरिदन्तामिषं यथा ॥३६८ ॥ दूतोऽवग् दुष्टदेवेन, रे ! लं नूनं कटाक्षितः । विजयं धरणेन्द्रस्य, पुत्रं यदवमन्यसे । ३६९ ॥ सुप्तो जागरितः सिंहो, दण्डेनोत्थापितः फणी। प्राप्तो विजयचन्द्रोऽयं, त्वं नूनं प्रलयं गतः ॥ ३७० ॥ एनं वनीत बनीतेत्येवं जल्पति वैरिणि । भुजाम्या सद्भटान् क्षिप्त्वोत्पते दतन विद्युता ॥ ३७१ ॥ परासह परिस्फुर्जज्ज्योतिर्विद्योतिताम्बरः।। स्थगीधरः क्षणादेव, क्षोणीनाथं तचिवान् ।। ३७२ ॥ दतप्रदर्शिताश्चरितश्च सचिवैः समम् । वज्रबाहुर्लघुभ्राता, वजदादं व्यजिज्ञपत् ।। ३७३ ॥ प्रातांतः परं पापं, परखीहरणं हि यत् । तस्याः प्रत्यर्पणादेव, देव ! तत् त्यज सांप्रतम् ॥ ३७४ ॥ तइताच्चे पराभूतिः, पराभूतिः कुतस्तव । विचारय ततो बन्धो , तसो बन्धो वधोऽथवा ॥ ३७५ ।। दु० व्या०--पराभवः पक्षे पराकृष्टा भूतिः ॥ ३७५ ॥ फणी यथा पयः पीत्वा, विषोद्गार विमुञ्चति । पीततद्वाझ्या एवं, व्यसृजद् गिरमग्रजः ॥ ३७६ ।। शत्रुपाक्षिकमायाविन!, मा यासीदृक्षथं मम । नुनथेति ससैन्योऽयं, शिश्रिये विजयं नृपम् ॥ ३७७ ॥
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वर्गः]
www.kobatirth.org
स्वोपशदुर्गपदव्याक्यालङ्कृतम् ।
तेन सम्मानितस्तूर्ण, सगौरवमयं जगौ । दर्शये शूरभूमिं ते, समराय समं परैः ॥ ३७८ ॥ विजयः कौतुकादल्पतन्त्रस्तेन सह व्रजन् । प्रासादं तुङ्गमद्राक्षीन्मध्ये मूर्ति तथाईतः || ३७९ || एकतः साधुमूर्ति च क्रमलग्ने कखेचराम् । हेतुं पृष्टस्ततः स्माह, वज्रबाहुर्महीपतिम् ॥ ३८० ॥ इदं वालपेस्तीर्थ, तदैतिह्यं शृणु प्रभो ! । पुरे हिरण्यनाभाख्ये, सुवेगः खेचरोऽभवत् ।। ३८१ ॥ भद्राकुक्षिभस्तस्य, देवेन्द्र इति नन्दनः । मुनिचन्द्रमुनेः पार्श्वे, बाल एवाग्रहीद् व्रतम् || ३८२ ॥ बार्षिरिति विख्यातो, वैरविकशिरोमणिः । तपः स दुस्तपं कुर्वन्, कायोत्सर्गेऽथ तस्थिवान् ॥ ३८३ ॥ मिथ्याहक खेचरो हेमचूलस्तस्योपरि ब्रजन् । स्खलितः कुपितो वीक्ष्य मुनिं ताडयति स्म तम् ॥ ३८४ ॥ मुमुक्षोः सहमानस्योत्पेदे केवलमुज्ज्वलम् । बद्ध्वा समसुरैरूचे, हेमचूलो व्यथाकुलः || ३८५ ।। प्रासादो जिनमूर्तिश्व, साधुमूर्तिः स्वमूर्तियुक् । विवाप्यते तन्मोक्षस्तव रे दुष्ट ! नान्यथा ॥ ३८६ ॥ अपने ससुरैर्मुक्तोऽक्षामयन्मुनिपुङ्गवम् । तीर्थ व्यधापयचैतत्प्रभावोऽस्य निशम्यताम् ॥ ३८७ ॥
+
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
| १३३
देवान् नत्याऽत्र यो युद्धं, प्रस्तुतेऽस्य दिशि स्थितः । स नेन्द्रेणापि जीयेत, मल्लाभ्यां वा परीक्षम ।। ३८८ ।।
दु० व्या० प्रस्तुते - प्रारभते || ३८८ ||
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४ ]
भीभीधरचरितमहाकाव्यम
परीक्ष्य सोऽथ साथर्यस्तत्र सैन्यं स्वमानयत् । चरितेऽत्र परैरुक्ते, वज्रदाढो व्यचिन्तयत् ॥ ३८९ ॥ गृहीतं हि बलं भ्रात्राऽखिलं खलु खलेन मे । पशुर्वनस्पतेयेगाच्छिनत्ति हि वनस्पतिम् ॥ ३९० ॥ अस्तु वाऽग्नियुताऽयोवत् कुट्टयामि तमप्यहो ! । इति प्रकोपतः सोऽयं, रणभेरीरताडयत् ।। ३९१ । अथ तस्य बलं प्राज्यवाजिद्विप भटाकुलम् | वाचालीकृतदिक्चक्रम चालीत् तूर्यनिः स्वनैः ॥ ३९२ ॥ शकुनैः सचिवैश्वापि, वार्यमाणः स दुर्धरः । वज्रदाढोऽचलद् विद्याधरवीरविराजितः || ३९३ ॥ विमानाग्रध्वजस्तो मच्छादितव्योममण्डलम् । चपलं तद्बलं प्राप, विजयानीकसंनिधिम् ॥ ३९४ ॥ सैन्यद्वयं रणायोत्कं बभूव भुवनाद्भुतम् । सन्धिं विधातुमन्योऽन्यमक्षमेष्वथ मन्त्रिषु ।। ३९५ ।। शवजागरणं रात्रौ कृत्वा सूरोदये भटाः । दधिरे कवच बद्धरोमाञ्चकवचा अपि ।। ३९६ ।। करवालकराः केऽपि, केऽपि कुन्तघरा बभ्रुः । केsपि दण्डभृतः केऽपि काण्डकोदण्डमण्डिताः ॥ ३९७ ॥ यावन्नृपो जिनं नत्वा, निर्याति जिनमन्दिरात् । । नागेन्द्रं तावदद्राक्षीद्, युक्तं विजयया तया ॥ ३९८ ॥ तं प्रणम्य नृपः स्माह, वीक्ष्यं कौतुकमेव हि । प्राणान्तिकप्रहारस्तु, रक्ष्यस्तात ! त्वया मम ॥ ३९९ ॥ विजयाय वज्रमयं विजया विजयश्रिये ।
५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ अमा
तनुत्रं व्यतरद् विद्यां हृद्यां च मृतजीवनीम् ॥। ४०० ॥
1
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [१३५
अथ प्रथितवादित्रैर्वीराणां सैन्ययोद्धयोः । रणः प्रववृते देव !, नागेन्द्राकम्पकारणम् ।। ४०१ ।। तुरङ्गमखुरक्षुण्णोच्छलधुलित्रजच्छलात् । काश्यपी कश्यपसुतं, सा कम्पेव तदा ययौ ।। ४०२ ॥ दु० व्या-कश्यपसुतं-इन्द्रम् ।। ४०२ ॥ कन्दरीवदनैस्तूर्यप्रतिध्वनितदम्भतः । भीरुवद् गाढदायोऽपि, वैतात्यो विरवं व्यधात् ॥ ४०३ ॥ रजोघने कृपाणेन, कस्यचिच्चपलायितम् । केनापि कातरेणाशु, हंसवच्चपलायितम् ।। ४०४ ॥ दु० व्या०-चपला-विधुत् तद्वदाचरितम् ॥ ४०४ ॥ कुण्डलीकृतकोदण्डकाण्डे सन्धानदम्भतः । शुशुमे सुभटः कश्चिज्जयलक्ष्मीकटाक्षितः ॥ ४०५ ॥ कश्चित् कुन्ताप्रभिन्भेमकुम्भोच्छलितमौक्तिकैः । अराजद् विजयश्रीणां, हारवल्ली सृजन्निव ॥ ४०६ ॥ शरासारकृतः स्फारविस्फारस्फोटिताम्बरम् । वज्रदाढसुता हेमदन्ताद्या योद्धमुत्थिताः ।। ४०७ ॥ दु० व्या०-विस्फारः-धनुष्टङ्कारः ॥ ४०७॥ नीलवन्नीलमुख्यास्ते, लीलयैवानिला इव । घना धनानि धनानपि तान दिक्षु चिक्षिपुः ॥४०८ ॥ अथ गाढरूपा वजदाढो दन्तान् निपीडयन् । दधावे द्विरदारूढः, शक्तिशस्त्रस्फुरस्करः ॥ ४०९ ॥ न वाजीनगजो नैव, पत्तिस्तत्पुरतः स्थितः । बलं विजयचन्द्रस्य, ममन्थाब्धि स मेरुवत् ।। ४१० ॥
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६ ] श्रीश्रीवरचरितमहाकाव्यम् । (मनमः
स्थगीधरः स्थिरीकुर्वन् , स्वसैनिकभटावलीम् । बली बाणमिवायान्तं, शैलवत् तमचिस्खलत् ।। ४११ ।। चमरेन्द्र पुराराध्यप्राप्तां शक्तिममुं प्रति ।। चिक्षेप स च साक्षेप, वित्रस्ताखिलशात्रवीम् ॥ ४१२ ।। नीलवज्राङ्गहेमन्ताः, कुन्ताँस्तामक्षिपन्नमि । बज्रबाहुगदाघातात्, परं साधयलाऽभवत् ॥ ४१३ ।। इच शम्पाकृताकम्पा, सा पपात स्थगीभृतः। शीर्ष हाहारवे विश्वे, ज्योतिर्विद्योतिताम्बरा ॥ ४१४ ॥ दु. व्या०-शम्पा-विद्युत् ।। ४१४ ॥ तं ज्वलन्तं नृपो वीक्ष्याकुलः कुर्यात् प्रतिक्रियाम् । यावत् तावच्छली शैलं, मुमोचास्योपरि द्विषन् ॥ ४१५ ॥ छलेन घातिनी दृष्टवा, राति स्फाति फणीश्वरः । तूलबल्लीलया शैलमन्यतः, क्षिपति स्म तम् ॥ ४१६ ॥ विजया निजहस्तान्जपवित्रीकृतवारिणा। सिक्तं शक्तिव्यथामुक्तं, क्षणाच्चके स्थगीभृतम ॥ ४१७ ॥ रणोत्थितरजोबातावगुण्ठित इवारुणे। मग्नेऽथ पश्चिमाम्भोधौ, तारकैः शीकरायितम् ॥ ४१८ ॥ सन्ध्याऽरुणप्रभापूरसिन्दूरभरभूषितः । उडुसुक्तालसत्कुम्भः, कालः कुम्भिकला ललौ ॥ ४१९ ।। दिदृक्षाऽपि न शूराणां, रणे यस्य कुतूहलात् । मत्वा स्वकान्ते कातयं, श्यामा श्यामाननाऽभवत् ॥४२०॥ वीरविध्वंसवीक्षोत्थप्रमोदमदमेदूरः । शनैः शनैश्च सर्वत्राभ्रमध्वान्तनिशाचरः ॥ ४२१ ।।
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग:] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [१३५
रणक्षुण्णशरीराणां, धीराणां स्वसुधारसैः । उपकर्तुमिव प्राच्यामुदियाय सुधाकरः ॥ ४२२ ॥ विद्ययाऽमृतजीविन्या, विजयः स्वपरानथ ।। कृपयोत्थापयामास, शूरान् समरमूञ्छितान् ॥ ४२३ ॥ खेचरेन्द्रस्तदा दध्यौ, श्रुत्वा सज्ज स्थगीभृतम् । शक्त्याऽपि नारीसंहारः, किमाधारस्ततो मम ? ॥ ४२४ ।। तत्पूर्वाराधितं कुर्वे, शरणं चमरासुरम् । निश्चित्येति चिरं रात्रौ, स्थिरध्यानस्तमस्मरत् ॥ ४२५ ॥ पीठाकम्पात्तमायातमयं प्राञ्जलिरालपत् । शक्तिस्तेऽप्यरिणा साऽस्ता, राहुणेव रविप्रभा ॥ ४२६॥ सान्निध्यं कुरु तत् तात!, शत्रुसंघातघातकृत । तगिरेति प्रपन्नोग्रसमरश्वमरः स्थितः ।। ४२७ ।। उपसि द्विषतोः सैन्यद्वये सझामसादरे। असुरेन्द्रोऽसुरैर्युक्तो, डुढोके योद्धमम्बरे ॥ ४२८ ॥ नानास्त्रधारिणो व्योम्नि, धरणेन्द्रोऽथ वीक्ष्य तान् । दधावे नागकोटीयुक्, सहस्रफणमण्डलः ॥ ४२९ ।। नागानामसुराणां च त्रैलोक्येऽपि भयङ्करम् । रणं वीक्ष्योच्छ्रितभुजो, विजयो घोषणां व्यधात् ॥ ४३०॥ नरो नागोऽसुरो वाऽपि, यो युद्धं कुरुतेऽधुना। सैष बालर्षितीर्थस्य, मान्यामाज्ञां विलुम्पति ॥ ४३१ ॥ तच्छ्रुत्वा मुक्तयुद्धेषु, वीरेषु वसुधावरः । वैरिणे मागधं प्रेष्याजिज्ञपत् रुपयाऽहम् ॥ ४३२ ।।
१८
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८] भीश्रीधरचरितमहाकाव्यम् । [अष्टमः
किं हतेन स्वसैन्येन, स्वयं जन्यं वितन्यते । प्रपन्ने तेन कोऽप्यासीदनयोर्दारुणो रणः ॥ ४३३ ॥ दु० व्या० -जन्यं-युद्धम् ॥ ४३३ ।। कोदण्डकाण्ड कुन्तासिशस्त्री सकवचा रिपोः । छित्त्वा शरैर्नृपो विश्वमपि चक्रे सविस्मयम् ॥ ४३४ ॥ खेटोऽथ विकटं प्रैसीदाग्नेयास्त्रं नृपं प्रति । स्वसैन्ये ज्वलति मापो, वारुणास्त्रममुश्चत ॥ ४३५ ॥ एवं वायव्य मौजले, गारुडं तामसं तथा । सौरं वैधुन्तुदास्त्रं च, तावन्योऽन्यममुञ्चताम् ॥ ४३६ ॥ दु० व्या०-सौर-सूर्यास्त्रम् । वैधुन्तुदास्त्रं-राहवीयास्त्रम् ॥४३६ ॥ हीनोऽस्त्रशस्त्रैीणश्च, वज्रदाढो विमूढधीः । दधावे बाहुयुद्धाय, क्रुधा दष्टोऽष्टपल्लवः ॥४३७ ॥ विश्वे सविस्मये भूपो, यावत् किमपि चिन्तयेत् । तावद् विमानमायासीद्, व्योम्ना विजिततापनम् ॥ ४३८॥ कापि रामाऽमिरामाङ्गी, विभूषाभिर्विभासुरा। मा युद्धयां हहाँ वत्सौ 1, वदन्तीति विनिर्ययौ ।। ४३९ ।। साश्चर्ये सकले वीरलोके सा समरक्षितौ । समेत्य समतासारगिरा प्राह प्रभू उभौ ।। ४४०॥ श्रूयतां धातकीखण्डद्वीपे वैताठ्यपर्वते । रत्नज्योतिःपुरे रत्नचूडाख्या खेचरेश्वरः ॥ ४४१ ॥ तस्याहं वल्लभा रत्नमालिनी भावशालिनी । तीर्थङ्करं वज्रधरं नत्वाऽपृच्छं निजं भवम् ॥ ४४२ ॥ जिनोऽवादीदिह द्वीपे, दिदीपे स्वगुणैर्नृपः। कुपनाम्ना पुरे सुरपुरे स्वर्गपतियथा ॥ ४४३ ॥
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् ।
गान्धारी कुक्षिसंभूतौ सुतौ तस्य बभूवतुः । चन्द्रश्च श्रीधरती, क्रमात् तारुण्यमापतुः ॥ ४४४ ॥ मृगयाव्यसनासक्तं निघ्नन्तं कानने मृगान् । व्याघ्रो भूपं जघानै नमैनसं दर्शयन् फलम् ॥ ४४५ ॥ मन्त्रिभिर्बोधिता प्राणान्, जिहासुर्मासरेऽनले । गान्धारी धर्ममर्मज्ञा, चन्द्रं राज्ये न्यवीविशत् ॥ ४४६ ॥ श्रीधरस्य प्रिया गौरी, गौरीवाभून्मनोहरा । सेवालनीलं गङ्गाम्बु, यस्याः शीलसमं न हि ॥ ४४७ ॥ क्रीडितुं काननेऽन्येद्युर्व्रजन् वातायनस्थिताम् । चन्द्रचन्द्रमुखीमेतां वीक्ष्य चित्ते व्यचिन्तयत् ।। ४४८ ॥ कटरे रूपलावण्यस्फुटरेखामियं ययौ । धन्यः स मन्यते योऽस्याः परिरभ्याधरं पपौ ॥ ४४९ ॥ भृत्याद् ज्ञात्वा वधूं बन्धोर्बन्धुराङ्गीमिमामसौ । स्वराज्यफलमस्यैव, मेने मलिनमानसः ॥ ४५० ॥ गत्वा वनं सभवनं प्राप्तो व्याप्तो मनोवा | कदापि निर्जनं ज्ञात्वा, गौरी वासगृहं ययौ ॥ ४५१ ॥ साऽभ्युत्थाय तमायान्तं, ज्येष्ठं श्रेष्ठगुणाश्रया । विष्टरादिप्रदानेन, प्रतिपत्ति वितेनुषी ॥ ४५२ ॥ स्माह स्मेरस्मरालाएं, तं पापं सा पतिव्रता । न किं ते सुगुणक्षीरसिन्धोर्बन्धोरपि त्रपा || ४५३ ॥ तद्गिरेति स निश्चिक्ये, निवृत्तोऽस्या निवासतः । नूनं मामीहते सेयं शङ्कते किन्तु कान्ततः ।। ४५४ ॥ समामाशु समेत्यासौ, दम्भाद् भम्भामनीवदत् । तनादश्रवणादेव, मिमिलुः कोटिशो भटाः || ४५५ ॥
}
For Private And Personal Use Only
[ १३९
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमा
आगत्य श्रीधरोपि द्राग, भृपमेवं व्यजिज्ञपत् ।। कोऽयं प्रयाणसंरम्मः, कस्योपरि नृपोऽब्रवीत् ॥ ४५६ ॥ समरः शबरेशोऽस्ति, सोऽस्मन्नीवृतिकण्टकः । तजयाय प्रयाण मे, भ्रातः ! प्रोक्ते चरैनरैः ॥ ४५७ ।। अनुजः प्राञ्जलीभ्य, भ्यः प्रायः भुवः पतिम् । कातरे भ्रातरे तस्मिन् , न ते भाति पराक्रमः ॥ ४५८ ॥ जेष्यामि तमहं तात !, नेष्यामि त्वदुपान्तिकम् । इत्यादिभक्तिभिस्तेनान्वमन्यत निजाग्रजः ।। ४५९ ॥ अथासौ स्वगृहं गत्वा, गौरी गौरवतो जगौ। यामि यात्रा कुरजाक्षि!, स्थातव्यं सुखतस्त्वया ॥४६॥ गौरी तं नाशकद् वक्तुं, नेत्रात्रुजलबिन्दुभिः । इयन्मात्रागमघर, रेखास्तस्य वभार तु ॥ ४६१ ॥ दु० व्या०-चत्रं-दिनम् ॥ ४६१ ॥ विरोधभीत्या तज्ज्येष्ठकृत्तं हृदि दधानया। सगद्गदगिरा प्रोचे, कथञ्चिद् वल्लभस्तया ॥ ४६२ ॥ कौपदी कौमुदीशेन, सौदामिन्यम्बुदेन च । साकं चलेद कथं स्थातुमीहे नाथ ! त्वया विना ॥ ४६३ ॥ स जगौ निजगौरव्यगुणैस्त्वं इदये मम । स्थिताऽसि कौमुदीमुख्यमेतत् किं गदितं त्वया ॥ ४६४ ॥ रुदतीमयमाश्चास्य, सुदतीमिति त मुहुः । स्वसृमातृप्रदत्ताशीश्वचाल सह सेनया ॥ ४६५ ॥ मुदितो मेदिनीजानिरथ सेत्स्यन्मनोरथः । द्विवान् दिनानतिक्रम्य, चेया गौर्यै न्यवेदयत् ॥ ४६६ ॥
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग: 1
श्योपडदुर्गपदम्याक्यालङ्कृतम् ।
अद्य चन्द्रोदये चन्द्रमुखि ! चन्द्रमहीपतिः । त्वदङ्गसङ्गभङ्गीषु, मरालायितुमेष्यति ॥ ४६७ ॥ यद् रम्यं तद् विधाताऽस्मीत्युक्त्वा चेटीं विसृज्य ताम् । गौरी व्यचिन्तयच्चितेऽतीव तीव्रसतीव्रता ।। ४६८ ॥ हठादपि शठात्माsसौ, शीलरत्नमलिम्लुचः । मम भावी ततः पत्युरेवानुगमनं वरम् ॥ ४६९ ।। ध्यात्वेति सा निशावकत्रे, विपक्त्रिमतमश्वये । पतिप्रयाणकाध्वानमाक्रामत कोमलक्रमा || ४७० ॥ रयाद् भयात् प्रयान्ती सा, निशायां वासरोऽपि च । अटव्यां सायमन्येद्युः कञ्चिद् यक्षालयं ययौ ।। ४७१ ॥ श्रान्ता सुष्वाप सा तत्र, पवित्रे यक्षसमनि । गुह्यको कामश्चाभूत् तद्भूपनिरूपणात् ।। ४७२ ।
,
स कृताद्भुतशङ्गारः स्फारमारविकारवान् । व्याजहार मुखं पश्यन्नस्या निद्राणलोचनम् ॥ ४७३ ॥ अम्भोजलोचने निद्रां मुञ्च मां द्राग् विलोकय । मन्मथव्यथितस्यास्य, सुभगे ! शरणं भव ॥ ४७४ ॥ निद्रादरिद्रनेत्रा सा, पश्यति स्म पुरस्तुरम् । विभूषाभासुरं चन्द्रवदना मदनातुरम् ॥ ४७५ ॥
For Private And Personal Use Only
[२४१
स स्माहाश्लिष्य मां यक्षमुख्यमक्षतवैभवम् । भव भामिनि ! भूताऽपि मनुष्येष्वमरी क्षणात् ॥ ४७६ ॥ स्मराम्भोधेस्तरी तारतारुण्यारण्य सद्मनि ।
त्वं कुरङ्गाक्षि 1 कारुण्यं कुरुष्व मयि तत्प्लुते ॥ ४७७ ॥ मन्यसे चेन्न मद्राचमबले ! तबलादपि ।
एकान्ते कान्तवत् कान्तां, भजिष्ये त्वां स्ववेश्मगाम् ||४७८ ॥
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२ ] श्रीश्रीधरचरितमहाकाव्यम् । [ममा
गुणोऽपि रूपं मे कूप, पतत्विति विचिन्त्य सा। संवृताङ्गी तमाह स्म, किमाचक्षेत यक्षराट् ॥ ४७९ ॥ सुराङ्गनाङ्गकासारकेलीकरणलालसः । मनुष्यत्रीषु हा चुण्डीवमरा किमु रज्यति ? ॥ ४८० ॥ दु० ब्या०-चुण्डिः-यामसरः ॥ ४८०॥ जडेभ्यो दीयते शिक्षा, दक्षेभ्यस्तो ददाति कः ? । पुरः क्रियते कस्य, विबुधोऽपि त्वमीदृशः ॥ ४८१ ।। स्मर्यन्ते स्वाङ्गरक्षायै, यक्षाधास्तेऽपि भक्षकाः । यदि हा ! तज्जगमष्ट, वृत्तिभक्षति कर्कटीम् ॥ ४८२ ।। उवाच सचमत्कारः, स यक्षः शिक्षितस्त्वया। जय साध्वीशिरोरत्नशीलयत्नविशारदे ! ॥ ४८३ ॥ किकरः किं करोम्येष सांप्रतं सांप्रतं तव । सोवाच सविधं भर्तुमा नयस्व नयोज्ज्वल ! ॥ ४८४ ॥ दु० व्या०-सांप्रतं-युक्तम् ।। ४८४ ।। सोऽवक् चम्पासरस्तीरे, ससैन्योऽस्ति प्रियस्तव । आस्स्व मत्पाणियुगले, तत्र चेद् गन्तुमिच्छसि ।। ४८५ ।। दु० व्या०-आस्व-उपविश ॥ ४८५ ॥ सा जगाद करस्पर्श, परपुंसः सहे नहि । सोऽवदत् तद्गुणं लाहि, बध्वा हौ भव वारला ।। ४८६ ॥ माननीयं वचस्तेऽस्तु, कान्तोपान्तं व्रज द्रुतम् । तथेति कुत्या सोडीना, नभसा रभसाञ्चलत् ।। ४८७ ।। पक्षस्वर्ण कपन्ती सा, विहायसि कषोपले। प्राप्य पम्प पति प्रेक्षाश्चके सैन्यपरिष्कृतम् ।। ४८८ ।।
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
• सर्गः ]
स्वोपद्मदुर्गपव्याक्यालङ्कृतम् ।
पश्यन्तं स्वर्णवर्णा तां, चलन्तीं लीलया पुरः । प्रिया प्रेमघरं चक्रे, श्रीधरं नयनद्वयी ।। ४८९ ॥ तदादिष्टैस्ततो भृत्यैश्विरं पृष्ठानुगैरपि ।
सा स्वं न धारयामास, चलचङ्क्रमनर्मणा ॥ ४९० ॥ तस्मिन्नथ समुत्थायानुगच्छति शनैरियम् । स्वयं कान्तसुखस्पर्शलालसा तत्करेऽचटत् ॥ ४९१ ॥ सतां कृत्वा कराम्भोजभूषणं त्यक्तदूषणम् । भेजे विष्टरमित्येषा, प्रोचे स्पष्टगिराऽचलम् ।। ४९२ ॥ चञ्चद्राजकलारम्यविभूतिभरभूषितः । विभ्राजिष्णुमहासेनगौरीवर ! चिरं जय || ४९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
| १४३
दु० व्या० - राजपक्षे चन्द्रः, महासेनपक्षे कार्तिकेयः ॥ ४९३ ॥ अहो ! वैदग्ध्यभङ्गीति, पक्षिणामपि वीक्ष्यते । अस्तु वेयं कथं त्वेषा, वेद मे दयिताऽभिधम् ॥ ४९४ ।। विस्मितेन हृदा ध्यायन्नदस्तां श्रीधरोऽवदत् । पक्षिणीत्वेऽपि दक्षत्वविशेषं लभसे कथम् ? ।। ४९५ ॥ नाविश्चिकीर्षुरात्मानं, तदा सा भङ्गितो जगौ । भारत्या यानहंसस्य दयिता तेन वेद्म्यहम् ।। ४९६ ।।
दु० व्या०- वेद जानाति । अहं भारत्या यानहंसस्य दयिता, तेन हेतुना वे, पक्षे भारत्या वाण्या, याऽहं हंसस्य दयिता न, किन्तु ते-तव दयिता | काकूक्त्या अहं न वेद्मि किन्तु वेद्मि ।। ४९६ ॥
For Private And Personal Use Only
श्रीधरोऽचिन्तयद् युक्तं, तत् कौशलमिहाखिलम् |
या शृणोति सरस्वत्या, नित्यं प्रायः सरस्वतीम् ॥ ४९७ ॥ अथास्मिन् प्रश्ननिष्णाते, भवत्यूचे मरालिका । संपनीपद्यते विसे, स्वस्थ एवानवद्यधीः ॥ ४९८ ॥
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४ ]
श्रीश्रीधरचरितमहा काव्यम् !
?
तदाकूतविदं कौतूहलाद द्राक्षाफलादिकम् । भृत्यैरानाय्य यच्छन्तं सा पुनस्तं समालपत् ॥ ४९९ ॥ एकाकिना न भोक्तव्यं, सारं वस्तु विवेकिना । कुरुष्व संविभागं मे, त्वमेते च सभासदः ॥ ५०० ॥ तथाकृते तैः कृतिभिस्तद्विवेक चमत्कृतैः । तद्भक्ष्यमाददे साऽपि प्रतिपाणिस्थितं मुदा ॥ ५०१ ॥ यथेच्छमधा पृच्छथाऽहं बुधैरेवं तयो दिते ।
श्रीधरः स्माह मे तावत् प्रश्नस्योत्तरमुद्गिर ॥ ५०२ ॥
?
श्रीधर उवाच
पूजायां किं पदं प्रोक्तं, कृतज्ञो मन्यते च किम् १ | किं प्रियं सर्वलोकानामुपदेशो मुनेस्तु कः ? ॥ ५०३ ॥ हंसी- " सुकृतं कार्यम्" इत्युक्त्वा तमुवाच -
अथ पुरोधाः प्रोचे - "
हंसी
पश्यत्यपि जने कान्त !, कान्तावत्रं त्वमाकृपः ।
"
न लज्जा वीरलोकेऽभूत्, तव नित्यं विवेकिनः ॥ ५०४ ॥
दु० व्या० - पक्षे कान्ता कान्तिर्यस्य स तस्मिन् ॥ ५०४ ॥
"
श्रीधरः स्मित्वोचे
;;
अस्त्रम् 1
Acharya Shri Kailassagarsuri Gyanmandir
यूकया गलितो गजः
"1
1
For Private And Personal Use Only
[ अष्टमः
पत्रस्थबालस्योदरस्थं चेच्जगत्रयम् । तदाऽकस्मादिदं न स्याद्, 'यूकया गलितो गजः ' ॥५०५||
हंसी श्रीधरं प्रति" पद्मस्योपरि सरोवरम् " |
सोऽवादीत् श्रीधर :--
अहो ! विश्वस्य विस्तारः, सागरोऽयं महानपि । फणपत्रलभोगीन्द्र' पश्नोपरि सरोवरम् ' ।। ५०६ |
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपश दुर्ग पदव्यास्थालङ्कृतम्
| १४२
"
पुनः श्रीधरः- “ विलोकयाम्यक्षरमालिकेपा " इत्यार्थ पदमाह ।
हंसी चामतस्त्रीणि पदानि -
पत्री किमु प्रेषितव प्रियेण,
नालं प्रमोदाविलोलनेत्रा ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधरमित्रं प्राह - " शिरोहीना सुलोचना " |
।
हंसी
तद्वाचने त्वं ननु वाचयामि ॥ ५०७ ॥
I
क्रीडन्तीमम्बुधिक्रोडे, बेडां वीक्ष्यावदज्जनः । चित्रं पश्य तनौ रेखा, 'शिरोहीना सुलोचना ' ॥ ५०८ ॥
पुनः श्रीधरः स्माह
अथात्र पाणिग्रहणक्षणं प्रति, प्रणम्य शम्भुं जगतः पतिंवरम् । असात कर्मापधर्मदेशना,
चतुर्थ पदं हंसी प्राह-
स्मरा अपीन्द्राः समयोचितं व्यधुः ॥ ५०९ ॥ दु० न्या० - शम्भुं सर्वज्ञं ऋपभादिकम् ॥ ५०९ ॥ एवं सकौतुकं कृत्वा, कान्तयेव तया चिरम् । रत्नरुकपिञ्जरे स्वर्णपञ्जरे तां न्यवीविशत् ॥ ५१० ॥ समरेरितदूतोऽथ तत्रागत्य तमब्रवीत् ।
कुतः पूर्वमवैरेऽपि मद्देशं क्लेशयस्यलम् ॥ ५११ ॥
"
स्वयं वोत्थापिते सर्पे, लभस्व समरे फलम् । क्रुद्धोऽथ श्रीधरः प्रोचे, प्रति दूतं महाभुजः || ५१२ ॥
For Private And Personal Use Only
उत्तरं तावदाद्यं ते, वीरभोग्या वसुन्धरा ।
अन्यच्च त्वत्प्रभौ सर्पे, सर्पारातिरिहास्म्यहम् ।। ५१३ ॥
१९
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६ ]
श्री श्रीधरचरितमहाकाव्यम् |
गते दूतेऽगदन्मित्रमन्त्रिणः श्रीधरस्ततः । सा मतिः क्रियतां शत्रुर्जीयते लीलया यया ।। ५१४ ॥ कार्य सिद्धयति यद्बुध्या, तन्न प्रायः पराक्रमैः । वने सिंहः शशेनापि यद् बुद्ध्यैव निपातितः ॥ ५१५ ॥ अथ तैरुच्यमानासु, नानाबुद्धिषु नो पुनः । यान्तीषु सङ्गतिं सम्यग् हंसी मृदुगिराऽलपत् ।। ५१६ ॥ अपृष्टनच्यिते प्रायः, पृष्टे सति निगद्यते । स्वर्णकुन्तं क्षिपत्यङ्के, मति यच्छन् निरादरे ।। ५१७ | अपि स्त्रीणां मर्ति प्राहुः, पाणिगां न विशारदः । शारदाऽपि यतः स्त्रीषु, विश्वस्य मतिसारदा ॥ ५१८ ॥
दु० व्या० - मतिसारं तत्त्वम् ॥ ५१८ ॥
श्रीधरे सादरं पृच्छत्याह सा दरवर्जिता । कृत्वा मत्स्यगलन्यायं, निगृहाण रणे रिपुम् ॥ ५१९ ॥ गलं क्षिप्त्वा यथा मीनं मद्दान्तमपि मैनिकः । जलादाकृष्य गृह्णाति तथाऽत्रापि विधीयताम् ॥ ५२० ॥ स्वयमत्र स्थितः शत्रोः, पल्लीं प्रति कियद् बलम् ? । प्रेषयस्व स तद्वीक्ष्य, निर्जेतुं निर्गमिष्यति ॥ ५२१ ॥ भग्ने पलायितुं लग्ने, त्वद्वलेऽसौ बलोद्धतः । श्रीधरः कुत्र कुत्रेति, जल्पन् गर्वमुपैष्यति ॥ ५२२ ॥ यावज्जिताहवंमन्यः, सैन्यपृष्ठि करोत्यसौ ।
For Private And Personal Use Only
[ मष्टमः
पूर्व सज्जस्त्वमावेष्टय, क्षणात् तावद् बधान तम् ॥ ५२३ ॥ साधु साध्विति जल्पाकस्तस्याः पक्षौ स्पृशन् मुहुः । सभ्यैः समस्तैरप्युक्ते, तथैव कृतवानसौ ।। ५२४ ॥
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थोपच दुर्गपदव्याय्यालङ्कृतम् ।
समरं समरे बद्ध्वा दिशो रुद्ध्वा यशोभरैः । चचाल बलवानेष प्रतापी ग्रीष्मभानुवत् ॥ ५२५ ॥ करालीभूत उष्णतै, मरालो भूषितान्तिकः । तस्यामेव सरस्यां स विशश्राम पटाश्रमे ।। ५२६ ॥ ऊर्ध्व गलज्जलामंत्र जलबिन्दुनिरीक्षणात् । ईक्षण द्वितीयादश्रुविन्दुनि क्षरति स्म सः ॥ ५२७ ।।
[ १४७
दु० व्या० - जलामंत्र ॥ ५२७ ॥
,
हंसी स्माह तवाप्येतत् प्रभो ! किं दुःखचेष्टिताम् । मयि प्रसादज्जल्प, जगौ सोऽपि सगद्गदम् ।। ५२८ ।।
मत्प्रयाणे प्रियाभ्रूणि यान्यमुश्चच्छुचाऽऽकुला । जलामत्रेण मित्रेण, तान्यद्य स्मारितानि मे ।। ५२९ ।।
तद् दृष्ट्वा हंसीका प्रोचे, तवापि किमु दुःखिता । वात्सल्यं यदि मय्यस्ति, तदा कथय हे प्रभो ! ॥ ५३० ॥
भूपोऽवग् वासरे यत्र, चलितः कान्तया तदा । यान्यश्रूणि विमुक्तानि तान्यद्य स्मृतिमाययुः ।। ५३१ ॥
तमालपन्मराली तमानये मानिनीमिह । सोsव मे जीवितं दत्तं तच्छकौ किं विलम्ध्यते ॥ ५३२॥
For Private And Personal Use Only
अपनीय गुणं गौरगुणा, गौरी स्वरूपभाकू ।
मां मुदं विदधे पत्युस्तां विवेद स एव हि ॥ ५३३ ॥
"
अम्भोरुहास्ये रम्भोरु !, परिरम्भो रतिप्रदः । क्रियतामिति गीस्तां स प्रशस्ताङ्गीमरीरमत् ।। ५३४ ॥
१. ववले Al
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ ] श्रीभीपरचरितमहाकाव्यम् । [भएमः विशालशीलशालिना, शालेयं साऽलपत् प्रिये । पृच्छति स्वागमे हेतुं, स्नेहं न ज्येष्ठचेष्टितम् ॥ ५३५ ॥ दु० व्या०-शालेयं शालिक्षेत्रम् ।। ५३५ ॥ ज्ञातयक्षादिवृत्तान्तस्तदा कान्तस्तदास्यतः । एतया कान्तया मेने, धन्यमन्यत्वमात्मनः ॥ ५३६ ॥ सोऽथ स्वकान्तया साकमुत्पताकमगात् पुरम् । प्रणमन्तं च तं चन्द्रो, मोदयन् मृदुवाक्यमाक् ॥ ५३७ ।। प्रसन्नमनुजं वीक्ष्याग्रजश्चित्ते व्यचिन्तयत् ।। मवृत्तं न जगौ पत्युर्धन्या गौरी महासती ॥ ५३८ ॥ एतौ समरसुन्मोच्य, सन्मान्य प्रेष्य नीधृतम् । बान्धवौ पूर्ववद् राज्यस्थितिं भेजतुरञ्जसा ॥ ५३९ ॥ चन्द्रस्यावसरे क्वापि, क्वापि तु स्मरतष्णया । वितेने मानसं गौयाँ, सरस्यामिव खेलनम् ॥ ५४० ॥ मुदाऽन्यदा तो संप्राप्तमभिनन्दमुनि वने । नत्वा शुश्रुवतुर्धर्मोपदेशं सपरिच्छदौ ।। ५४१ ।। तरणाय भवाम्भोधौ, धर्मस्तावत् तरीसमः । चारित्रमेव चारित्रतुलां तत्र विमर्त्यलम् ॥ ५४२ ॥ दु० व्या०-अरित्रतुला-भायला ।। ५४२ ।। श्रुत्वेति भवनिर्विण्णौ, मुनि नत्वा पुरं गतौ । तौ चन्द्राङ्गभुवं सोम, राज्येऽतिष्ठिपता महात् ॥ ५४३ ।। तो भ्रातरौ तथा गौरी-गान्धारों जगृहुर्मुदा । संयम सुगुरूपान्ते, तपस्तीव्र च तेपिरे ।। ५४४ ॥ गौरी साकं भवर्तिन्या, व्रजन्त्यन्येधुरध्वनि । नावा रेवानदीं तीर्खा, कायोत्सर्ग तटे व्यधात् ॥ ५४५ ॥
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योगशदुर्गपदव्याण्यालङ्कृतम् । [१४९
आगात् तत्र प्रौढपुत्रपुत्रीयुक कापि वारला । दृशा स्नेहस्पृशा वीक्ष्य,यच्छन्ती चूर्णिमेतयोः ॥ ५४६ ॥ तदेव युगलं दृष्ट्वा, तदैव रतिलालसम् । माध्वी गौरी दधौ दैवात् , तदर्शनकुतूहलात् ॥ ५४७ ॥ पश्यन्ती तत्कृताश्लेषविशेषान् विस्मितानना । कायोत्सर्गच्युतध्यानमानसा सा व्यचिन्तयत् ॥ ५४८ ॥ धन्यत्वं मन्यतेऽनन्यसदृक्षप्रेमशालिनोः। पक्षिणोरेतयोरेतैर्विलासैः सह जन्मनोः ॥ ५४९ ॥ चिन्तयन्तीति साध्वीभिराहूता सा पुरोऽचलत् । नैतच्चालोचयाञ्चक्रे, चरित्रे निश्चलाऽपि सा ॥ ५५० ॥ चन्द्रश्च श्रीधरश्चैतन्माताऽपि समयेऽभवत् । मौधर्मदेवो देवी च, गौरी श्रीधरनाकिनः ।। ५५१ ॥ मेरो कल्पद्रुदोलास्थामन्येाश्चन्द्रनिर्जरः । पूर्व संस्कारतोऽम्येत्य, तो ययाचे रतं चटुः ।। ५५२ ॥ तया निषिध्यमानेऽस्मिनाययौ श्रीधरामरः । तं दृष्ट्वाऽसौ पलायिष्ट, निराशः सारमेयवत् ॥ ५५३ ॥ अथ स्वर्गाच्युता गौरी माकन्दीनगरीपतेः । सुता मनोरमादेव्याः, सुता युगलजाऽभवत् ॥ ५५४ ॥ सहजातं पति प्राप्ता, हंसक्रीडानुमोदनात् । सेयं सप्तभवान् भ्रान्त्वाऽधुना जज्ञे सुलोचना ॥ ५५५ ।। गान्धारीजन्तुरेषा त्वं, त्वत्पुत्री चाद्य भारते। विजयो वज्रदाढश्च, नरविद्याधरेश्वरी ॥ ५५६ ॥ पूर्व समरबन्धाय, बुद्धिदानोत्थकर्मणा ।। पूर्वानुरागमाग् जड़े, वज्रहादः सुलोचनाम् ।। ५५७ ॥
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ] श्रीधीपरचरितमहाकाव्यम् । [मष्टमः
एतदर्थे च तौ युद्धं, कुरुतः सांप्रतं द्रुतम् । श्रुत्वेति धाविताऽस्म्येषा, वत्सौ वारयितुं रणात् ॥५५८॥ युग्मम्।। मानवं भवमासाद्य, सद्यः कल्पद्रुमोपमम् । कामक्रोधादिदारियैः, पीडयेथे किं युवा हहा ! ॥ ५५९ ॥ श्रूयतां तीर्थनाथोक्तमुपदेशचतुष्टयम् । स्पष्टं भवविष दुष्टं, मन्त्रवद् यन्निवारयेत् ।। ५६० ॥ तथाहि-प्रश्नम्जाग्रतामपि का निद्रा, पश्यतामपि काऽन्धता ? । श्रुते सत्येऽपि किं जाड्यं, प्रकाशेऽपि च किं तमः ॥ ५६१ ॥ अथोत्तराणियया जगदिदं मूढं, सुरासुरसमन्वितम् । जाग्रतामपि सा निद्रा, मोहरूपा निवार्यताम् ॥ ५६२ ॥ उत्तराणियया जीवा न पश्यन्ति, स्त्रीषु विण्मूत्रपात्रताम् । कामानुरागितावश्यं, पश्यतामपि सान्धता ॥ ५६३ ।। उत्तराणिदृष्टिरागकृता येन, न युक्तायुक्तचिन्तनम् । श्रुते सत्यपि तज्जाड्यं, विदुषामपि दुस्त्यजम् ।। ५६४ ॥ यत्र मग्ना न बुध्यन्ते, गुरुदीपे स्फुरत्यपि। विचार्यमाणमज्ञानं, प्रकाशेऽपि च तत् तमः ।। ५६५ ॥ श्रुत्वेति खेचरीवाचं, वज्रदाढो विरागवान् । आहत्य सर्वविरति, कायोत्सर्ग व्यधाद् द्रुतम् ॥ ५६६ ।। साऽश्रुदृक् क्षमयामास, विजयस्तं तथास्थितम् । भ्यानान्मेरुमिवाचालीन चासौ विश्वचित्रकत् ॥ ५६७ ॥
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपशदुर्गपदव्याख्यालङ्कृतम् 1
सोऽथ स्थगीधरं प्रेष्यानैषीत् तत्र सुलोचनाम् । मलिनाङ्गीं वियोगेनाधिकं शीलेन शोभिताम् ।। ५६८ ।। इतश्च सर्वमार्जारकपिमूषक केकिभिः । विविधैर्वाहनैस्तत्राऽऽविर्बभूवुर्दिवः सुराः || ५६९ ॥ किमेतदिति साथ, जने व्यन्तरनिर्जरः । विजयं प्राञ्जलिर्नत्वा, प्रोचे मञ्जुलया गिरा ।। ५७० ॥ स मत्सरायतेऽनङ्गो, वासरो वत्सरायते । अतुच्छरायते दुःखं, पद्मायाः किं वरायते ! ।। ५७१ ॥
दु० व्या० - रायते - दीयते । वरा आयतिर्यस्य तस्य सम्बोधनम् ॥
बालां त्वद्विरहज्वालावलीढां वीक्ष्य वायुवत् । घनोदयं त्वामाद्वातुमागां विविधरूपभाक् ।। ५७२ ॥ श्रुत्वेदं मेदिनीकान्तः, सम्मान्य व्यन्तरामरम् | व्यसृजद् विजया नागनाथादीन् बहुमानतः ॥ ५७३ ॥ तेऽपि क्रियाश्चिरं राज्यमित्याशीः पूर्वमूचिरे । चरोऽस्त्वसौ त्वदाज्ञायां, जन्तुघातकरो नहि ॥ ५७४ ॥ पूर्वी चमरचञ्चायां, नीलवन्तं निवेश्य सः । वज्रदाढसुतेभ्योऽदाद् देशांशान्नतवत्सलः || ५७५ ॥ खेचर्यपि महीशेन, महिता साऽचलत् ततः । वज्रदामुनिः पटिदिनैः सर्वार्थमाश्रयत् ॥ ५७६ ।। विमानस्थः स्वप्रतापदूताहूतखगैर्वृतः । सप्रियो ववले सोऽथ, व्यन्तरेणाग्रयायिना ॥ ५७७ ।। तस्मिन्नरण्ये तारुण्यानिले नोच्छुले खलु । स कामवार्थी मात्याः, पद्मयाः करमग्रहीत् || ५७८ ॥
>
For Private And Personal Use Only
[ १५१
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२ ] श्रीधीघरधरितमहाकाध्यम [ अपमा
तदङ्गसङ्गमे रङ्गत्तरङ्गरतिभङ्गिभिः । अनङ्गतापनिर्वापमाप सा पद्मलोचना ॥ ५७९ ॥ मातरं च स्वसारं च, गागलेराश्रमान्नृपः । अनीकिनी च कान्तारात्, खगैः स्वान्तिकमानयत् ॥५८०॥ नवज्योतिश्चक्रभ्रममथ विमानवियति स
सफुरज्ज्योतिर्जालैर्जनमनसि तन्वन्ननु दिशम् । महानन्दोत्साहोत्सवमयमहो ! मङ्गलपुरं,
प्रविश्य प्राणसी पिचरणपो प्रमुदितः ।। ५८१ ॥ पिताऽऽश्लिष्य स्वाङ्गैश्चिरविरहदावानलशम
क्षमं सूनुं नूनं नयनजलधाराजलधरम् । मुदश्रूणां श्रावं सपदि विदधानः स्वयमपि,
प्रतेने नाश्चर्य क्षितिधरवरः कस्य हृदये ॥ ५८२ ॥ तस्मिन्नेव मुहूर्त एष विजयं माणिक्यसिंहासने,
न्यस्य श्रीजयचन्द्रभूपतिरदात् प्राज्यं स्वराज्यं मुदा । श्रीक्षेमकरसद्गुरुक्रमतले कृत्वा तपो निर्मलं, सिद्धिश्रीपरिरम्भसम्भवसुखं मेजे स्वयं केवली ॥ ५८३ ॥
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविचिते माणिक्याङ्के श्रीश्रीधरचरित विजयकथायां
सुलोचनाहरण-प्रत्यानयनवर्णनो नाम अष्टमः सर्ग समाप्तः ॥ ग्रन्थानम् ५६९ अ० २३ ॥
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमः सर्गः॥
पैतृकं पदमासाद्य, रेजेऽथ विजयोऽधिकम् । रत्नमौलिर्यथा मौलिमूलं सर्वत्र सुन्दरः ।। १॥ रुचाऽतपत्रमप्यस्य, विजिग्ये राजमण्डलम् । करालकरवालस्य, कः करोतु पराभवम् ॥ २ ॥ प्रतापतपने तस्य, विश्वोद्योतविधायिनि । सप्तापि तिमिराणीव, व्यसनानि तिरोदधुः ॥३॥ वरानुभावतो नागराजादीनां न नागराः । जना जनपदाश्चापि, जज्ञिरे जन्तुधातिनः ॥ ४ ॥ मृगारयो मृगारित्वमुलूकाः काकशत्रुताम् । दधिरे नाममात्रेणाऽन्योन्यं मित्रत्वमागताः ॥५॥ तद्राज्यकमले तस्थौ, कमला निश्चलं तथा। समदुःखा यथाऽभूवन, पद्य-श्रीपति सिन्धवः ॥ ६ ॥ पट्टदेवीपदे न्यस्य, विजयोऽथ सुलोचनाम् । नानाविलासैस्तां भेजे, गौरी गौरीवरो यथा ।। ७॥ पूर्वजन्मद्वयप्रेम, तथा तस्यां व्यजम्मत ।
मापः क्षणमपि प्राप, तां विना न यथा धृतिम् ।। ८ ॥ विद्याविरचितैः रूपैः, परमन्तःपुरं ययो । परिरेमे परं स्वप्नेऽप्येनामेव नृपः स्वयम् ।। ९ ।। सभास्थानं क्षणं मेने, स वत्सरशतोपमम् । तदङ्गसङ्गमास्वादसादरे हृदि सर्वदा ॥ १० ॥
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरितमहाकाव्यम् ।
[नवमः मौलौ बवन्ध धम्मिलं, स्वयं तस्याः कदापि सः । कदाचिल्लिलिखे तेन, कपोले पत्रवल्लरी ॥११॥ भुजोपपीडं मेजे तां, व्यक्तरागधरामिव । शीतकाले स कालेयपङ्कालेपपरां भृशम् ॥ १२ ॥ तपत्तॊ वर्तुलव्यक्तमुक्ताप्रालम्बशीतले । शिश्येऽसौ चन्द्रशालासु, तस्याः काम्यकुचस्थले ॥१३॥ स नाभीदननीरासु, दीर्घाक्षीं दीर्घिकासु ताम् । कदापि रमयामास, मराल इव वारलाम् ॥ १४॥ दु० व्या-नाभीदघ्नं-नाभीप्रमाणम् ।। १४ ॥ रेजे कदाचिद् दोलास्थस्तयाऽसौ काश्चनाता। घनसाविकधर्माम्बुर्विद्युत्वानिव नीरदः ॥ १५ ॥ तेन सा रतरङ्गाऽऽळ्या, प्रेसत्कङ्कणहारिणी । मन्ये सिवे सानन्द, सरसी स्वमिया धिया ॥ १६ ॥ दु० व्या०-सा पक्षे सातपूर्वकम् ॥ १६ ॥ लसघनरसस्फाति, सुमनोभवशालिनीम् । मालतीमिव तां भृङ्गः, सा भेजे वनकेलिषु ॥ १७ ॥ दु० व्या०-धनरसम् , पक्षे जलं सुष्टु । कामपक्षे पुष्पोत्पत्तिम् ॥१॥ अयं धनागमोदीर्णरागो नवरतोद्यतः । तनितम्ब गुरुं गौरगौरवाद्युक्तमैक्षत ॥१८॥ दु० ध्या०--धनागमेन उदीर्णरागः, पक्षे दीर्ण विदारिता ॥ १८॥ मन्त्रिषु न्यस्तसाम्राज्यभारस्य क्रीडतस्तया। एकरात्रिसमा तस्य, समा दशशती ययौ ॥ १९ ॥ दु० व्या०-समा-वर्षा ॥ १९ ॥
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपशदुर्ग पदव्याक्यालङ्कृतम् ।
अतृप्तस्तद्विलासानां, कला कौशलशालिभिः । चिरत्नयत्नतः क्ष्मापो रत्नसौधमकारयत् ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अतुच्छभिचिविच्छित्तिविचित्रोल्लोचसुन्दरम् । विशालशालभञ्जीभिर्भ्राजिष्णुस्तम्भमण्डलम् ॥ २१ ॥
तया दयितया साकमाकुलः कामपत्रिभिः । शुभे स भेजे तद्वेश्मवासरे विस्मयप्रदम् || २२ || युग्मम् ॥ अन्योऽन्यमङ्गुलीलग्नौ तौ मग्नौ प्रेमसागरे । तत्राऽलोकपरौ कामरती इव विरेजतुः || २३ |
[ २६५
एणीनेत्रे सुमश्रेणी, प्रहिता सुमपत्रिणा । त्वजितं वीक्ष्य मां व्यर्था, किमियं भुवि पेतुषी ॥ २४ ॥ वितानोलम्बिता मुक्तावली कान्ते ! विलोक्यताम् । सुदवीदशन स्पर्धाऽपराधादिव दण्डिता ।। २५ ।। सौन्दर्यगर्वमा विभ्रत्, किमिदं मन्दिरं परम् । स्वतुल्यं वीक्षते विश्वे, वातायनविलोचनैः ॥ २६ ॥
हरिन्मणिघृणिस्फारस्फटिकद्युविदम्भतः । किमेतौ तिमिरोद्योतावत्र मित्रत्वमागतौ ॥ २७ ॥
दु० व्या० - घृणिः - किरणः ।। २७ ।।
विज्ञानं बहिराकारं, लभते सौगते मते । भित्तिचित्रं त्विदं चैवविज्ञानं चित्रतां नयेत् ॥ २८ ॥
For Private And Personal Use Only
दु० व्या०-सौगते - बौद्धे । चैत्तविज्ञानं - नीलादिज्ञानं बाह्यवस्तुनो घटादेराकारम् । इदं भित्तिचित्रं - चित्रसम्बन्धि ज्ञानम् । चित्रता, पझे आश्चर्यरूपताम् ॥ २८ ॥
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६]
श्रीश्रीधरचरितमहाकाव्यम् ।
चारुचन्द्रोदया मुक्ता, तारकेयं किमीक्ष्यते ? | गौरि ! त्वदङ्गगौरत्वं, राका शिक्षितुमागता ।। २९ ॥ एकान्ते रजनीकान्तकान्तकान्तिभिरावृताः । कान्ताऽपास्तांशुकाः कान्ता नात्र यान्ति त्रपालुताम् ॥ ३० ॥ एवं सविस्मयं वेश्मस्थानान्यस्याः प्रदर्शयन् । अतन्द्रं चन्द्रशालां स चन्द्रमुख्या समं ययौ ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कान्ते ! विभाव्योऽवसरानुभावो रक्तो रविस्तावद्गात् प्रतीचीम् । निशाऽपि धत्ते शशिनोपगूढा,
स्फुरन्मणिप्रदीपास्ततमिस्रा तिमिरावलिम् । आस्तीर्णवर्यपर्यङ्कां तां दृष्टोचे प्रियः प्रियाम् ॥ ३२ ॥ नवभिः कुलकम् ।।
af
ताराच्छलात् स्वेदपयः पृषत्कान् ||३३||
विहायसि च यं पश्य, ताराणामुदितं प्रिये ! | परिरेमे स तामेव, वक्रोक्त्या सस्मितंत्रपाम् ॥ ३४ ॥
[ नवमः
For Private And Personal Use Only
रमणो रमणीयाङ्ग, रममाणो रमामयम् । रमारमणवन्मेने, रमणीनां मणिमिमाम् ॥ ३५ ॥ तस्यामथ रतिश्रान्तेर्निद्राणायां नरेश्वरः । पतिष्यामि पतिष्यामीत्यकस्मादगुणोद् गिरम् || ३६ || किमेतदिति संभ्रान्तः, स दध्यौ किं पतत्यधः । सौषं तत्कान्तया साकं, द्रुतं कुर्वे पलायनम् ॥ ३७ ॥ निःसवचेष्टितेनालं, मम वाऽनेन वल्लभा । नितम्बगुर्वी निद्रालुश्चपलं न चलत्यपि ।। ३८ ।।
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपज्ञदुर्गपव्याख्यालङ्कृतम्। [१५७
उचितं वच्मि तद किञ्चिदिति ध्यानन् पुनर्बनौ । जायमाने नृपोऽवादीदद्य मा पत मा पत ॥ ३९ ॥ ततः शब्दे स्थिते स्थैर्यशाली शालीनमानसः । प्रातमन्त्रिणमाहूय, निशावृत्तं नृपो जगौ ॥ ४० ॥ सोऽवादीद् भूमिशल्यादिशुद्धिं कृत्वा सुकोविदैः । कुतः पतत्यदः सौध, सुमुहूते विनिर्मितम् ॥ ४१ ।। इदमित्थं पर तावदई विज्ञापयामि यत् । तदाकये सकर्णानां, वर्णनीययशोभर ! ॥ ४२ ॥ मित्रेण मन्त्रिणा पूर्ण, कि विनयेन तेन वा। हितं न चक्ति यः काले, मित्रे राज्ञि तथा गुरौ ॥४३॥ त्वामन्तःपुरवर्षाभ्रपटलच्छन्नमर्कवत् ।। अविलोक्य चिरं लोकाः, क्लिश्यन्ते कमला इव ॥ ४४ ।। दु० व्या०-कमलं पुनपुंसकम् ॥ ४४ ॥ नाथेयं वनिता वहिज्वालेव किल तापकृत । सुचिरं सेविता साऽतः, स्वल्पं सेव्या सुधीजनैः ।। ४५ ।। वल्भादिकानामथ कामिनीनामतिप्रसक्तिन सुखं व्यनक्ति । कलेवरान्तः करिणः प्रविष्टः, काकस्तथा यज्जलधौ विनष्टः ॥४६ दु० व्या०-वल्मा-भोजनम् ॥ ४६॥ अश्रद्दधानस्तद्वाचमाचख्यौ सस्मितं नृपः ।। मन्त्रिमप्रस्तुतेनालं, पृष्टस्योत्तरमुगिर ।। ४७ ॥ अहो ! कामस्य वामत्वं, वामनेत्रा शरेण यः। सुरासुरासुरारीणां, रीणत्वं कुरुते रणे ॥ ४८ ॥ दु० व्या०-असुरारि:-इन्द्रः ॥ ४८ ।।
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ ] श्रीश्रीधरचरितमहाकाव्यम् । [नवमः पाण्डित्यलीलाभिरिलावतंसा,
ये ये विवेकेन च राजहंसाः। मीनध्वजाज्ञाध्वजवृद्धिदीनाः,
___ स्त्रीवारिधौ तेऽपि भवन्ति मीनाः ।। ४९ ॥
दु० व्या०-मीनध्वजः-कामस्तस्याज्ञा । स्त्रोवारिधौ मीनवृद्धिहेतवे जातास्तेन दीनाः ॥४९॥
इदं चिन्तयता चित्ते, मन्त्रिणावादि भूपतिः । वेश्मनः पतनस्यास्ति, सम्भवः कोऽपि न प्रभो ! ॥ ५० ॥
विभिर्विशेषकम् ॥ विशेषस्तु यथा ज्ञातः, पुनर्विज्ञपयिष्यते । अथ भूपो विसृज्यामुं, प्रियोपान्तमुपागमत् ॥ ५१ ॥ तया महेलया कामहेलया नीतवासरः । पुनस्तत्रैव सुष्पाप, निशि भूपः प्रियासखः ।। ५२ ।। देव्यां प्राप्तप्रमीलायां, ध्वनिर्जज्ञेऽम्बराध्वनि। विस्मृता ह्यस्तनी गीश्चेत् , तदद्य प्रयतः शृणु ।। ५३ ।। तस्योपरि पतिष्यामि, निश्चितं शयिताऽत्रपः । रिक्त मुक्ते विह स्थाने, राज्यत्यागं करोमि ते ॥ ५४॥ पतितव्यं त्वया नाध, गदित्वेति नृपस्ततः । धैर्यमेरुनिशां नीत्वा, प्रातराह्वास्त मन्त्रिणः ॥ ५५ ॥ चतुर्णा चतुराणां स पुरस्तेषामभाषत । तदाकूतं विजिज्ञासुनिशावृत्तोक्तिपूर्वकम् ।। ५६ ॥ दु० व्या०-आकृतं-अभिप्रायम् ।। ५६ ॥ शून्ये सोधेत्र में राज्यभ्रंशोऽस्मिन् शायिनो मृतिः । उच्यता का मतियाघदुस्तटीन्याय एष यत् ।। ५७ ॥
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् ।
पाट्पटमतिः प्रोचे, ते मन्त्री मतिसागरः । साध्येऽस्मिन् सुखसाध्येऽपि, किमेवं बाध्यते मनः ।। ५८ ॥ ९० व्या०-पाटूपट:-अतिपटुः ॥ ५८ ॥ यं वा तं वा निजं भृत्यं, नित्यं स्थापय वेश्मनि । तस्योपरि पतत्वेतन्नेतुश्चेतः सुखायताम् ॥ ५९ ॥ दु० व्या-पततु । सुखायताम्-सुखमनुभवतु ॥ ५९ ॥ बहस्पत्याख्यया मन्त्री, द्वितीयोऽप्यद्वितीयधीः । युक्तमुक्तमिति प्रोचे, तावथोवाच भूपतिः ॥६० ॥ परप्राणापहारेण, यविजप्राणरक्षणम् । जीवितव्यार्थिनः पुंसस्तन्नूनं विषमक्षणम् ॥ ६१ ॥ तृतीयो बुद्धिचन्द्रोऽवक, सचिवः शुचिवाक् ततः ।
अरा इव नरा नाभौ, नाथ ! सज्जे घनास्त्वयि ॥ ६२ ॥ . तुर्योऽपि चारुचातुर्यो, धीरचन्द्रोऽवदन्नृपम् ।
ऐद्रं पदं जयत्येतत् , प्राज्यं राज्यं प्रभो ! तव ॥ ६३ ।। त्वया विना विनाथेयं, मेदिनी न दिनस्थितिः। किं हतेन प्रभो ! दैवहतकेन च केनचित् ॥ ६४ ॥ त्यज मा तनि राज्यमित्युचानेऽत्र भूपतिः । उवाच बद्धरोमाञ्चकञ्चुको धैर्यचञ्चुरुक् ।। ६५ ।। दु० व्या०-मा त्यज । चञ्चुः-मनोज्ञः ॥ ६५ ॥ यथा मयि प्रियाः प्राणास्तथा सर्वेषु जन्तुषु । यथा मृत्योर्भयं कीटे, तथा कैटभवैरिणि ।। ६६ ॥ संपद्यन्ते च धर्मेण, प्राज्यराज्यादिसंपदः । तमाशे जन्तुहिंसादेस्ताम्यो दत्तो जलाञ्जलिः ॥ ६७ ।।
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०] धीश्रीधरचरितमहाकाव्यम् । [नवमः
आबाल्यसञ्चितं किञ्च, धनं घातनिषेधनम् । धनस्य तस्य लोपेऽद्य, सद्यो राज्येन तेन किम् ? ॥ ६८ ॥ पुरमन्तःपुरं पृथ्वी पृतना च परिच्छदः । तत् कृपा न कथं नाथ 1, क्रियते करुणाम्बुधे ! ।। ६९ ॥ अवधेहि धियं धीराऽस्माकमाकुलचेतसाम् । इति मन्त्रिकुले जल्पत्युदस्थान्नृपतिस्ततः ॥ ७० ।। युग्मम् ॥ मन्त्रिणोऽन्योऽन्यमाचक्षुर्दक्षत्वं धिम् निजं ननु । अपायरक्षणोपायः, प्रभोर्येन न जायते ॥ ७१ ॥ धीरचन्द्रोऽवदत् प्रायो भाव्यं भवति नान्यथा । तथापि श्रेयसां हेतुः, पुरे धर्मों विधाप्यते ॥ ७२ ।। विश्वम्भरा निराधारा, धर्मात तिष्ठति निश्चला। न मुञ्चन्ति स्वमर्यादा, धर्माद् रत्नाकरा अपि ॥ ७३ ।। हृष्यन्ति स्वजना धर्माद्, धर्मात तुष्यन्ति देवताः। धर्मादन्यत् परित्राण, नास्ति विश्वत्रयेऽप्यहो ! ।। ७४ ।। तथेति प्रतिपद्यते, चतुष्के चत्वरे त्रिके। इत्येवं कारयामासुः, पुरे पटहघोषणाम् ॥ ७५ ।। आप्रभातं प्रभोः स्वस्य, कश्चित् क्लेशोऽस्ति दुस्तरः । पुण्यं कुरुध्वं भो पौराः ! श्रेयसे परमादरात् ।। ७६ ।। श्रुत्वेति लोकास्त्यक्तान्यकृत्याः स्वस्वामिभक्तितः । देवा स्मरणायेषु, पराः सर्वेऽपि जज्ञिरे ।। ७७ ।। प्रियातोऽप्यधिकप्रीत्याऽऽश्रित्य सत्चश्रियं स्यात् । सायं प्रापदथ क्षमापः, सौधर्यशिरोगृहम् ॥ ७८ ।। रचौ तद्वीरतां ख्यातुमिव द्वीपान्तरं गते । दोषामुखे स निर्दोषस्तत्र शय्यामशिश्रयत् ।। ७९ ।।
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [१६१
नीते जाग्रत एवास्य, निशायाः प्रहरेऽम्बरे । पतिष्यामि पतिष्यामीत्यकस्मादुत्थितं वचः ।। ८० ॥ हसचिव नृपः पोचे, साहस्येकशिरोमणिः । पतित्वा पूरय स्वेच्छां, वाक्छ्रत्वं तु दूरय ॥ ८१ ॥ जगर्ज गगनं कर्णकटुभिर्जितैस्ततः । नेत्रे निमीलयन्नस्य, तेजःपिण्डः पपात च ॥ ८२ ।। सौधं न पतितं किश्चित , त्वन्यदेवेति कौतुकी। आलोकते स्म भूपालः, पुरः किमिति चिन्तया ॥ ८३ ॥ कान्तिविद्युल्लताम्रान्तिकारिणी तारहारिणीम् । चन्द्रास्यां शुभ्रशङ्गारां, चलत्कङ्कणकुण्डलाम् ।।.८४ ।। शुकहस्तां श्रितस्कन्धमरालद्वयशालिनीम् । काश्चित् काश्चनगौरी स वशां वीक्ष्य विसिष्मिये ।। ८५॥
॥ युग्मम् ॥ स्फुरन्नू पुरझङ्कारा, कृतनृत्तक्षणात् क्षणम् । गण्डूषं व्यसृजद् बाला, भुवि भृङ्गारवारिणा ।। ८६ ।। अंसतो हंसयुग्मं तदुत्तीर्य जलसीकरान् । चुणित्वा मौक्तिकीभूतानाजगाम निजस्थितिम् ।। ८७ ॥ दु० व्या०-अंसः-स्कन्धः ॥ ८७ ॥ किमिदं शुक-हंसादि, केयं किं काऽपि देवता ! । भूस्पृक्त्वान्मानवीं मन्ये, खेचरी वा पराऽस्तु वा ।। ८८ ।। इति ध्यायनसौ यावत् , काऽसि त्वमिति पृच्छति । तावद् गन्तुमनाः साऽभून्नृपो धर्तुमनाश्च ताम् ।। ८९ ।। यावदुत्तिष्ठति मापः, पर्यङ्काद् वर्यधैर्यभाक् । . तावत् पश्यत एवास्य, सा जगाम विहायसा ॥ ९० ॥ २१
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२] श्रीप्रीधरचरितमहाकाव्यम् । [नवमः
नाशक पृष्ठतो गन्तुं, सविद्योऽपि नृपः पुनः। तस्य तच्चिन्तनेनैव, विभाति स्म विभावरी ।। ९१ ॥ मन्त्रिणश्चिन्तयाऽतीतरात्रयस्तत्र सङ्गताः । जयवन्तं नृपं वीक्ष्य, महोत्सवमकारयन् ॥ ९२ ।। पौरपुण्यप्रभावेणान्तरायस्ते व्यलीयत ।। प्रभासय सभामद्य, प्रद्योतन इव प्रभो। ।। ९३ ॥ मन्त्रिणामिति विज्ञप्त्या, महोत्सवपुरस्सरम् । विभुर्विभूषयामास, समामिव नभः शशी ॥ ९४ ॥ मौलिमौलिस्थमालाभिरानम्रा तत्पदद्वयम् । पूजयामास सामन्तमण्डलेश्वरमण्डली ।। ९५ ॥ पौरा दूरादपि प्रीति, दधिरे तनिरीक्षणात् । व्योमस्थोऽपि नवाम्भोदो, नानन्दयति केकिनः! ॥ ९६ ॥ राजादिमानसहानप्रेक्षणादिक्षणेक्षणैः । क्षणदाकान्तवत् क्षोणीविभुर्विश्वमुदेऽभवत् ॥ ९७ ॥ हृदि स्मरनिशावृत्तमेवातिक्रम्य वासरम् । नृपस्तत्रैव शिश्ये तत्कन्यालोकनकौतुकी ॥ ९८ ॥ कन्याऽपि पुर्ववत् तत्रागत्य नृत्यं विधाय सा । ग्रहीतुमुत्थितं भूपं, वीक्ष्य व्योम्ना ययौ क्षणात् ॥ ९९ ।। च्यतफाल इव द्वीपी, तदनासादसादरः। तृतीयनिश्यपि मापस्तत्रागत्य व्यचिन्तयत् ॥ १०० ॥ दु० व्या०-अनासादः-अप्राप्तिः ॥ १०॥ विज्ञाता लक्षणैस्तावन्मया कन्यैव साऽङ्गना । नाङ्गभावादपि प्रायो, यो न वेत्ति स ना पशुः ॥ १०१ ॥
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपष्ठदुर्गपदभ्याख्यालङ्कृतम् । [ १६३
धन्यः स कृतपुण्यश्च पुण्यलावण्यवाहिनी । यं वरं याति सा कन्या भाग्य सौभाग्यसागरम् ॥ १०२ ॥
यथा तथा मया ग्राह्या, विवाह्यासाद्य सुन्दरी । ध्यात्वेति भूधनो दीप्रदीपच्छायामशिश्रयत् ॥ १०३ ॥
अत्रासा तत्र सा यावद्, बाला वाचालनूपुरा । भवेद् भुवि जामस्या भूपतिस्तावदग्रहीत् ॥ १०४ ॥
दु० व्या०- अत्रासा:-अभी: ॥ १०४ ॥
मुश्च मुश्च महाराज !, जल्पन्तीमिति कोमलम् । तामाश्वास्य नृपः प्रोचे, का त्वं किमिति खेलसि ? ।। १०५ ।। कि हंसयुग्ममंसस्थं, तब हस्ते शुकस्तु कः ? | दीपसाक्ष्यमुरीकृत्य, कन्ये ! त्वं मां कृतार्थय ॥
१०६ ॥
युग्मम् ॥
॥
साव देवाधिदेवस्थ, सुता सिद्धिपुरीशितुः । नाकिनामपि मान्याsहं, विज्ञेया विज्ञकन्यका ॥ १०७ ॥ न रुजा न भयं किञ्चिन्न मृत्युर्न जराऽपि मे । विश्वे नाम्नैव पाञ्चाली, सत्याऽहं नित्ययौवना ॥ १०८ ॥
दु० व्या०- पाञ्चाली - द्रौपदी, तस्या निव्ययौवना नाम ॥ १०८ ॥
वाच्या तु मानवी नाहं, नामरी न च किन्नरी । नरं वरं वृणोम्येषा, परं मे संगरं शृणु ॥ १०९ ॥ दु० व्या० - संगरं प्रतिज्ञा ॥ १०९ ॥
यः स्याद् वृत्तचतुः शैलः, सलीलं ब्रह्मविद् द्विजः । मवृत्तज्ञेन तेनाहं वरं वृण्वे पुरोधसा ॥ ११० ॥
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ नवमः
चेन्म विवोढुं वाञ्छा तत्, कार्यस्तादृक् पुरोहितः । सत्येतस्मिन् वृणोमि त्वामधुनाऽपि न संशयः ।। १११ ॥ वृत्तं मदंसहंसादेर्ममापि च स वक्ष्यति । तस्मिन्नवसरे त्वं मामाविर्भूतां विलोकयेः ॥ ११२ ॥ इत्युक्त्वाऽस्यां गतायां स तच्चरित्रं स्मरन्मुहुः । कोमलेsपि हि पल्यङ्के, कथञ्चित् प्राप संलयम् ॥ ११३ ॥
I
दु० व्या० - संलयं - निद्राम् ॥ ११३ ॥
1
प्रातरास्थानमास्थाय विज्ञपञ्चशतीं नृपः । अपृच्छत् क्वापि कस्यापीदृक् पुरोधाः श्रुतो न वा ॥ ११४ ॥ नैवेत्युक्ते तया भूपो, मन्त्रिदूतवरान् नरान् ।
लिङ्गिनोऽपि हि बौद्धादीन् पप्रच्छेकैकशोऽनिशम् ॥ ११५ ॥
1
भूपे पृच्छति देवाधिदेवत्वं केशवे शिवे ।
इन्द्रे ब्रह्मणि विप्राद्याः, प्राहुर्बुद्धे च सौगताः ॥ ११६ ॥
ऊचे सिद्धिपुरीत्वेन, वैकुण्ठः कुण्ठबुद्धिभिः । कैश्चिदन्यैश्च कैलासः परैर्वाणारसी पुरी ।। ११७ ॥ देवाधिदेवपुत्रीत्वे, जयन्ती भारतीमुखाः । ऊचिरे त्रिकयोगस्तु, क्वापि साङ्गत्यमाप न ॥ ११८ ॥ पुरोधसतुः शैलधरत्वं धीरचेतसा ।
केनापि क्वापि वाङ्मात्रेणापि नो घटितं पुनः ॥ ११९ ॥ एवं प्रश्नपरस्यास्य, विस्मृता परकर्मणः । अकान्ता नर्मणस्त्रिंशद्वासरा व्यतिचक्रमुः ॥ १२० ॥ एकत्रिंशेऽह्नि स प्रातर्यावदास्थानमास्थितः । शुश्राव तावता दिव्यदुन्दुभिध्वनिमद्भुतम् ॥ १२१ ॥
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१६५
भ्रत्क्षेपं तन्वति क्षमापे, तत्स्वरूपबुभुत्सया । मन्त्री विज्ञाय वृत्तान्तं, प्राञ्जलिस्तं व्यजिज्ञपत् ॥ १२२ ॥ वने मुनेर्जयन्तस्योत्पेदे केवलमुज्ज्वलम् । सेवाहेबाकिनो देवा देवाऽमुं कुर्वते महम् ॥ १२३ ।। दु० व्या-हे देव ! ॥ १२३॥ तच्छत्वा भूपतिर्दध्यावथ सिद्धा मनोरथाः । लोकालोके न तद् वस्तु, यन्न पश्यति केवली ॥ १२४ ॥ तदैवानन्दपूरेण, पूरितः पृथिवीपतिः। महर्द्धिभिर्वनं प्राप, नन्तुं केवलिनं मुनिम् ॥ १२५ ॥ खड्गचामरकोटीरच्छत्रवाह्यानि कौशलात् । विहाय राजचिह्नानि, विरेजे तत्र सोऽधिकम् ॥ १२६ ॥ सचित्तवस्तु नस्त्यागादचित्तात् त्यागतस्तथा। उत्तरासङ्गतः साधुदर्शनेऽञ्जलियोजनात् ।। १२७ ॥ मनः स्थिरीकृते श्चासौ, पश्चाप्यमिगमानिमान् । प्रपञ्चयन्मुनिप्रष्ठदृक्पथेऽजनि दृष्टहत् ।। १२८ ॥ युग्मम् ।। दु० व्या०-प्रष्टः-मुख्यः ॥ १२८ ॥ संशयध्वान्तविध्वंसिकैवल्यधुतिभासुरम् । तं स्वर्णपो सोऽद्राक्षीद् , यथा पूर्वाचले रविम् ॥ १२९ ॥ रविमरुमिव स्थैर्यधैर्यादिगुणमन्दिरम् । । अमरैः सेवितं भूपः, प्रदक्षिणयति स्म तम् ॥ १३० ॥ भक्त्या तच्चरणी नत्वा, संप्राप्य च तदाशिषम् । मुदितो मेदिनीभर्ती, निःपसाद मुनेः पुरः ॥ १३१ ॥
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६ ] श्रीश्रीधरचरितमहाकाम्यम् । [नवमः
सोऽयं सितासुधास्वादपराजयनलालसम् । पपौ भृङ्गवदस्यास्याम्भोरुहाद् देशनारसम् ॥ १३२ ॥ तथाहिभो भो भव्याः! भवेऽनादी, नानायोनिपरिश्रमात् । केऽपि द्वि-त्रि-चतुः पञ्चेन्द्रियत्वं यान्ति जन्तवः ॥ १३३ ॥ ततस्तिया दुःखानि, सहन्तस्ते कथञ्चन । दुर्लभं दशदृष्टान्तैर्लभन्ते मानवं भवम् ॥ १३४ ।। आर्यदेशादिसामग्र्यो, प्राप्तायां प्राणिनः पुनः । तत्रापि जिनधर्मस्याचरणं दुर्लभ यतः ॥ १३५ ॥ एके मुक्त्वा विवेकेन, मिथ्यारथ्यापतिष्णवः । न कुर्युः सदसदेव-गुरु-धर्मविचारणाम् ॥ १३६ ।। नश्वरीणामपि श्रीणामर्जनाय महाम्बुधिम् ।। तरन्ति केचित् कान्तारं, कामन्ति सुकृतेऽलसाः ॥ १३७ ॥ जीवाः पीवादराः प्रायः, परे विषयविभ्रमे । प्रेर्या मदनमोहाथैः, कुत्याकृत्यं न जानते ।। १३८ ।। जडाशयास्ते धावन्ति, विस्मेरस्मरतृष्णजः। मृगतृष्णास्विव मृगा मृगाक्षीषु सुखार्थिनः ॥ १३९ ॥ वेत्ति वै तरुणी मूर्खः, किं न वैतरणी नवाम् । दृष्ट्वाऽपि यस्या लावण्यत्रपुतापमुपैत्यसौ ॥ १४० ॥ दु० व्या०-वै-निश्चितम् ।। १४० ॥ कान्तारं किल कान्तारं, किं न वेत्तीति मन्दधीः । यद्वाहुबल्यां तं पद्ध्वाऽनङ्गभिल्लो न मुश्चति ॥ १४१ ॥ दु० व्या०-अर-अत्यर्थम् १४१ ॥
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपझदुर्गपदव्याख्यालङ्कृतम् । [१६७
पुर: पूत्क्रियते कस्य, सदा कारा वधूरियम् । वदन्तोऽपीति तत्सङ्गमीहन्ते हन्त ! बालिशाः ॥ १४२ ।। दु० व्या०-कारा-गुप्तिगृहम् ॥ १४२ ॥ योषिजघनरोमालिगोदण्डे पतयालवः । न विदन्तीति हा ! मुर्खा भ्रमिष्यामो भवाटवीम् ।। १४३ ॥ पुरीषमूत्रमूषासु, योषासु जडताभृतः । मुह्यन्ति मोहनव्यग्रा महामोहविमोहिताः ॥ १४४ ।। अत्यक्तकामास्ते मृत्वा, सहन्ते हन्त ! यातनाः । कुदेवेषु कुमर्येषु, तिर्यक्षु नरकेषु च ॥ १४५ ।। अतः प्रमादमुत्सार्य, धर्मः कार्यः सचेतनः । पश्चादपि यो धर्म, संधत्ते सोऽपि शस्यते ॥ १४६॥ यस्तु शाश्वतसौख्येच्छुरुद्वोढुं संयमश्रियम् । इहते मोहोत्रोऽसौ, धन्य एव यदुच्यते ।। १४७ ॥ दुर्लभं जगति जन्म मानुष,
तत्र जैनवचनं सुदुर्लभम् । कश्चिदेव लभते च भाग्यवान्,
सिद्धिनायकसुताङ्गसङ्गमम् ॥ १४८॥ स्वचित्तानुगतं श्रुत्वा, मुदितो मेदिनीपतिः । मुनीन्दुं प्राञ्जलिः प्राह, किञ्चिद् विज्ञपये प्रभो! ।। १४९ ॥ केयं सिद्धिरिति ख्याता, कश्च तन्नायकस्तथा। केयं तस्य सुता यस्या दुर्लभः सङ्गमः स्मृतः ॥ १५० ॥ मुनिर्जगाद देवाधिदेवः सिद्धिपुरीप्रभुः । धन्यमूर्धन्यतत्कन्यां, जानीयाः संयमश्रियम् ॥ १५१ ॥
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीघरचरितमहाकाव्यम ।
[नवमः यस्या अंसद्वये सद्वयं हस्ते शुकस्तथा । यन्मुक्तो जलगण्डूषो, व्यक्तं मुक्ताफलायते ।। १५२ ।। परं पुरोहितस्तस्या विवाहे दुर्लभो हितः । वर्ण्यते सैव याऽलोकि, त्वयाऽपि नवमन्दिरे ।। १५३ ।। न चेत् प्रतीतिस्तव पश्य, प्रतिज्ञापूर्तिहेतवे । तदूपामेव तो कन्यां, विहायसि समागताम् ॥ १५४ ॥ प्रभो ! किमेतदाश्चर्यमित्युक्ते भूभुजा मुनिः।। ऊचे सर्वमिदं राजन्नन्तदृष्टया विचारय ।। १५५ ॥ देवाधिदेवः सर्वज्ञ एव राजाधिगम्यताम् । तुष्टः प्रदत्ते भव्येभ्यो यो हि सिद्धिपुरे स्थितिम् ॥ १५६ ॥ लोकाग्रे च पुरी सिद्धिरुत्तानच्छत्रसनिभा। साधनन्ता वसन्त्यत्र, सिद्धा नित्यसुखास्पदम् ।। १५७ ।। एतां सर्वज्ञकन्यां च, मन्येथाः संयमश्रियम् । या मान्या मानवेन्द्राणां, देवानामपि दुर्लभा ।। १५८ ॥
तथा च
यदाननं निमर्लभाव एव, जयत्यहो! पार्वणचन्द्रबिम्बम् । अष्टाङ्गयोगेन यदीयमङ्गमष्टाङ्गशोभाभिरलं शुभंयुः ॥ १५९ ।। उपाङ्गकान्ति दधते च यस्या दशाधिकाः संयमसप्तमेदाः । विभूषणत्वं दशधा प्रणीतः, प्रयाति धर्मः सततं यदङ्गे ॥१६॥ यातो यदंसद्वयहंसलीलां, ध्याने चिरं निर्मलधर्मशुक्ले । हस्ते विवेकं च शुकं दधाना, सेयं कनी राजति संयमश्रीः॥ गण्डूषीकृतसिद्धान्तामृतं मुक्ताकणायते । परावर्तनया स्पष्टं, तच्चास्या ध्यानपुष्टये ॥ १६२ ।।
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स ] स्योपक्षदुर्गपदव्याख्यालकृतम् ।
[१९ चिन्त्यते न पुं-क्लीव स्त्रीरूपं संयमश्रियाः। एका चानेकरूपा च, सेयं श्लिष्यति चेतनम् ।। १६३॥ पुरोधा ब्रह्मविज्ञानाद् , ब्राह्मणस्तद्विवाहयुक् । चतुर्याममहाशैलधरः मुगुरुरेव च ॥ १६४ ॥ सेयं दिवि स्थिता कन्या, पुरोहितः पुरोहितः । घर त्वं च धराधीश !, भज त्वं यदि वाञ्छसि ।। १६५ ।। दु० व्या०-पुरः-अप्रै ।। १६५ ॥ धृत्वाऽप्यलक्ष्यरूपाया:, सारूप्यं संयमश्रियः। भाग्यदेवतयाऽवारि, भवान् विषयविभ्रमात् ॥ १६६ ॥ इत्युक्ते गुरुभिर्भाग्यदेवी तद्रूपडम्बरम् । हित्वाऽविशन्नृपस्याङ्गं, साश्चर्य वाधिवनदी ॥१६७ ।। मुदा भूपो मुनि प्राह, प्रबुद्धहृदयस्तदा। प्रभो ! त्वया स्यान्मज्जन्नुभृतोऽस्मि भवार्णवात् ॥ १६८ ॥ अनङ्गपन्नगविष, विनिरस्य भवगिरः। सुधां विधुरयन्त्येता मधुराणां धुरं श्रिताः ।। १६९ ॥ अक्षः केलिकता कामकितवेन समं कथम् ? । नारी नितम्बफलके, हा ! मया जन्म हारितम् ॥ १७० ॥ दु० व्या०-पाशकः, इन्द्रियैर्वा ॥ १७० ।। कान्ताङ्गदेशं रोमालिकाननं नाभिकन्दरम् । बजता विषयस्तेनैः, हा ! मया जन्म हारितम् ।। १७१ ॥ नाथ ! स्वर्गमपीच्छामि, यतस्तत्रापि नाकिनः। .. विषयान्धाः सदेवेन्द्र हरि-ब्रह्म-पिनाकिनः ॥ १७२ ॥ दु० व्या०-नाकिनः-देवाः ॥ १७२ ॥
૨૨
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100]
श्रीश्रीधरचरितमहाकाव्यम् ।
केवलं परिरिप्सेऽहं सोत्कण्ठं संयमश्रियम् । ईहे सिद्धिपुरे वासमजय्ये विषयारिभिः ॥ १७३ ॥ मा प्रमादीरिति प्रोक्ते, मुनिनाऽथ महीपतिः । तं नत्वा सपरीवारः, पौरैः साकं पुरं ययौ ॥ १७४ ॥ कृत्वा पार्श्वप्रभोः पूजां, भोजनादनु मन्त्रिणः । आहूय चतुरो भूपश्चतुरोक्त्या जगाद तान् ॥ १७५ ॥ पिशाचकीव मे जीवः, पातकी वातकीव हा ! | मूढचेता इयत्कालमभून्मोहविमोहितः ॥ १७६ ॥ अद्य सद्यस्तिरस्कृत्य तं मोहं केवली मुनिः । तमार्ग मयि प्राचीकट पटुवचस्त्विषा ॥ १७७ ॥ उदारा इति विन्यस्ताः, पूर्व दारा मया हृदि । उदारा एव सञ्जाताः, विवेकस्य विदारणात् ॥ १७८ ॥
[ नषमः
० व्या० - उत्कृष्टा आरा :- शस्त्रिकाः ॥ १७८ ॥ स्पृहयामि ततो नाहं, बाह्यराज्याय सर्वथा । अथामी मेनिरे चित्ते, विषया विषवन्मया ॥ १७९ ॥ भवाम्बुधेस्तितीर्षा मे, वर्षा संश्रमश्रियः । मारमोहादिशत्रूणां संजिहीर्षा च सांप्रतम् ॥ १८० ॥ यावत् प्रत्युत्तरं किञ्चिदुच्चरन्तेऽथ धीसखाः । सखीताssययौ तावत् तत्र राज्ञी सुलोचना || १८१ ॥
"
For Private And Personal Use Only
भद्रासने निषण्णा सा, भद्रदन्तीन्द्रगामिनी ।
साश्रुनेत्रा सनिःश्वासा, भूपं स्माह सगद्गदम् ।। १८२ ।। किमियं श्रूयते कान्त ! संयमग्रहसंकथा । श्रुतयाऽपि यया जज्ञे, पाढं मनसि मे व्यथा ।। १८३ ।।
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्ग: स्वोपचदुर्गपदय्याव्यालङ्गतम् ।
अद्यापि नाथ ! तारुण्यमरण्यमिव दुस्तरम् । बाधतेऽनङ्गभिल्लोऽत्र, स्वल्पेऽप्येकाकिनं जनम् ॥१८४ ॥ नव्यं रत्नमयं सौधमिदं च तनुते मुदम् । भजस्व तदलङ्कृत्य, पूर्ववद् भोगसंपदम् ॥ १८५ ॥ सरसीदीपिकादोलावापीमुख्यानि वल्लभ !। क्रीडास्थानानि दुःस्थानि, मया सह विधेहि मा ॥ १८६ ।। तीते वयसि तारुण्ये, त्वयाऽऽहत्यापि संयमम् । स्वेप्सितं साधयेः स्वामिन् !, समये शोभतेऽखिलम् ॥१८७।। अथ भूपः प्रियां स्माह, शृणु सुन्दरि । मदचः। विवेकवर्जितो जन्तुः, किं किं कुर्यान तादृशम् ॥१८८ ॥ ममाऽद्योन्मीलयामास, साधुर्वाक्यसुधाञ्जनैः । विवेकलोचनं तेन, तत्वातत्त्वं व्यलोकयम् ॥ १८९ ॥ ध्वजाश्चलाधिकल्लोलचपलागोलवच्चलः ।। असार एष व्यापारः, सारो धर्मश्च निश्चलः ॥ १९० ।। तपाखड्गधरो जित्वा, स्मरारि सति यौवने । संयम संजिघृक्षामि, प्रवयाः किं करिष्यति ? ॥ १९१ ॥ नानिलैः पूर्यते व्योम, सागरः सलिलैन च । नेन्धनस्तृप्यति शिखी, जन्तुश्च विषयैस्तथा ॥ १९२ ।। विमानवनवापीषु, पुरा स्वर्गे सुखायितम् । मया चेत् तर्हि वेश्मायैः, किं सौख्यं मानवे भवे १ ॥१९३॥ महोराशिमयीग्वेव, ललितं स्वर्वधूषु चेत् ।। तन्मूत्रविण्मयस्त्रीषु, कि सौख्यं मानवे भवे ॥ १९४ ॥ गते वयसि चात्तस्य, संयमस्य क्रियाऽपि न । क्षणं न चायुर्विश्वासो, दुष्टं तत् केन वार्धकम् ।। १९५॥
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२]
श्रीश्रीधरचरितमहाकाव्यम् |
इति प्रत्युत्तरं प्राप्य, पुना राज्ञी प्रियं जगौ । सत्यमेतत् परं नाथ, चारित्रमपि दुष्करम् ॥ १९६ ॥ कार्या केशोद्धृतिः सह्याः, क्षुत्तृपादिपरीपहाः । नित्यं चैव तपः क्लेशस्तां पुनः क्ष्मापतिर्जगौ ॥ १९७ ।। तिर्यग्योनिगतः स्वात्मा, वध-बन्धादिकं भवे । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ १९८ ॥ नरकेष्वपि कुम्भीषु, पाकच्छेद भिदादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ १९९ ॥ कुमर्त्येष्वपि दौर्गत्यकारावास - वधादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ २०० ॥ आकामनिर्जरैवाभूत्, तत्र जीवस्य दुःखिनः । सम्यग् मोक्षसुखोपायः, संयमः किमु दुःखदः ! ॥ २०१ ॥ इति प्रबुद्धा तद्वाचा, सा प्रोचे नाथ! तन्मया । प्रतिज्ञातं विरक्तस्य या गतिस्ते ममापि सा ॥ २०२ ॥
For Private And Personal Use Only
[ नवमा
मन्त्रिणस्ते नृपं स्माहुः, प्रियया सह संयमे । सज्जोऽभूस्त्वं परं देव !, राज्यं कस्मै प्रदास्यसि ॥ २०३ ॥ भूपोऽवग् मा भवत्पुत्रस्तावन्मे दैवयोगतः । यस्मै कस्मै तथापीदं राज्यं देयं मया प्रगे ॥ २०४ ॥ चिन्त्यं राजाऽर्हता कस्येत्युक्त्वा तान् व्यसृजन्नृपः । शुद्धाशयधरा पाप, शुद्धान्तं च सुलोचना ॥ २०५ ॥ कृती सुकृतकृत्येषु कृतसायंतनक्रियः । समये शिश्रिये तल्पमसंकल्पमना नृपः || २०६ ॥ प्रमीलायामपि क्ष्मापः, संयमैकमनोरथः । शर्वरीमतिचक्राम, भावयन् भवभावनाम् ॥ २०७ ॥
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपकदुर्ग पदव्याक्यालङ्कृतम् । प्रातस्तूर्यरवे जाते, यावत् पर्यङ्कमुज्झति । तावत् त्वराकुलाऽगत्य, प्रोचे तं काऽपि चेटिका ॥ २०८ ॥ दिष्टया त्वं वर्धसे पुत्र !, जन्मना देव ! ते प्रिया । गूढगर्भात सुतं निशीथे पद्मलोचना ॥ २०९ ॥ उचितज्ञस्ततथेय्यै, दत्वाऽसौ पारितोषिकम् ।
"
For Private And Personal Use Only
[ १७३
कृत्वा प्रभातकृत्यानि सभामृद्धघा व्यभासयत् ॥ ११० ॥ निजं सयुक्तिकं सैष संयमस्य मनोरथम् । सेत्स्यन्तं हृदये ध्यायन्, सुतजन्मोत्सवं व्यधात् ॥ २११ ॥ प्रमोदपुरः पौरेषु प्रससार प्रथीयसा । रंहसा प्रेरितः शीघ्रं, चलध्वजपटाञ्चलैः ॥ २१२ ॥ आलोच्य मन्त्रिभिर्भूपस्तत्रानाय्य तमर्भकम् । नेत्रानन्दकरं राज्ये, सुमुहूर्ते न्यवीविशत् ॥ २१३ ॥ तं सिंहासन पूर्वाद्रिस्थितं बालार्कवन्नृपः । वीक्ष्य बालार्क इत्याख्यां चक्रे विश्वाभिनन्दितम् ॥ २१४ ॥ विरेजे शिरसि छत्रं, परितश्चारुचामरे । बालार्क बहुमानेन, सामन्ताश्च सिषेविरे || २१५ ।। कृतकोशव्ययः पुण्यक्षेत्रेषु विदधे द्रुतम् । अथाखिला मिलानाथः, सामग्री संयमोचिताम् ॥ २१६ ॥ चत्वारो मन्त्रिणस्तेऽपि, भारमारोप्य सूनुषु । वैराग्यं वीक्ष्य भूपस्याभूवन् संयमसादराः ॥ २१७ ॥ जातदीक्षाभिषेकादिमहोत्सवभरो नृपः । याप्ययानाधिरूढोऽथ प्रचचाल प्रियान्वितः || २१८ ॥ तदाssतोद्यरखं श्रुत्वा वीक्ष्य चास्याभिषेणनम् । मोहस्य सेनया स्तमनङ्गेन पलायितम् ।। २१९ ॥
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४ ]
श्रीश्रीधर वरितमहाकाव्यम् ।
पुरान्तराऽसौ पौराणां, पुण्यभावं विवर्धयन् । गत्वा वनं केवलिनं, ववन्दे युक्तिपूर्वकम् ॥ २२० ॥ इतश्च धरणेन्द्रोऽपि, तज्ज्ञात्वा विजयान्वितम् । प्रमोदपूरितश्चक्रे तच्चारित्रमहोत्सवम् ॥ २२१ ॥ व्यजिज्ञपच्च हे पूज्याः !, ममात्मा सैष सत्वरः । भवद्विग्नो भवत्पाणिनेहते संयमश्रियम् ॥ २२२ ॥ वीरत्वे गीयमानेऽस्य, नारीभिर्निपुणं ददे । देवी मन्त्रियुता याऽस्मै, सुगुरुः संयमश्रियम् ॥ २२३ ॥ संयमीति ते सर्वजनैः सार्वजनीनवाक् ।
तेनेऽस्मिन् सुगुरुः शिक्षां, द्विविधां विबुधाञ्चितः ॥ २२४ ॥ भव्यक्षेत्रेषु सद्धर्मबीजं मोक्षफलप्रदम् ।
इत्यारोप्य ततोऽन्यत्र, विजहे केवली मुनिः ॥ २२५ ॥ राजर्षिमुख्यास्तद्भक्तिदक्षास्तेऽपि तमन्वगुः । सर्वे गुणा इवौचित्यं सूत्रं वा वार्त्तिकादयः ॥ २२६ ॥ बाह्यान्तरङ्गभेदेन, निर्ममे निर्मलं तपः । राजर्षि- मन्त्रि- मुनयः, साध्वी चापि सुलोचना ॥ २२७ ॥ विरराज स राजर्षिर्गृह्णन् गुरुमुखाम्बुजात् । श्रुतं मरन्दवन्नित्यमिन्दिन्दिरसहोदरः || २२८ || गुरुप्रतिष्ठाऽधिगतप्रशंसः, सद्वादशाङ्गी जलकेलिहंसः । क्षमां वधूं भूषयति स्म हारैर्यथा विहारैः सह साधुवारैः | इतश्च मङ्गलपुरे, बालो बालार्क भूपतिः । राजा राजावलीवन्द्यो, ववृधे बालचन्द्रवत् ॥ २३० ॥ तं वीक्षाञ्चक्रिरे भूपाः, शोणांड्रिकरपल्लवम् । अशोकद्रुमसंकाशं, कौतुकेन पुनः पुनः ॥ २३१ ॥
For Private And Personal Use Only
[ नवमा मा
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
(वर्गः )
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वोपचदुर्ग पदव्याक्यालङ्कृतम् ।
बाल्यं क्रमादतिक्रम्य, द्विधा शास्त्रविशारदः । चक्रे द्विधाऽपि धीराणां, चमत्कारमयं हृदि ॥ २३२ ॥
[ १७५
शक्तः शिशुरपि प्रौढमहेलां भोक्तुमन्वहम् । किं चित्रं वरुणः सैष, शिश्रियेऽनेकशो वधूः ॥ २३३ ॥
For Private And Personal Use Only
दु० व्या० - महा इलां - पृथिवीम् ॥ २३३ ॥ बालार्कः प्रसरत्प्राज्यप्रतापः पृथिवीतले । । चित्रं यैः सेवितस्तेषु, श्रेयोऽभून्नापरे पुनः ॥ २३४ ॥ कदाचिदेष विज्ञाततात संयम संकथः । वदंद्रियुगलं नन्तुमभूदुस्कण्ठितस्तराम् ॥ २३५ ॥ तं चान्यदाऽवनपाल, वनीपालो व्यजिज्ञपत् । वनं पुनन्ति राजर्षितातपादास्तव प्रभो ! || २३६ ॥ दत्वाङ्गभूषणान्यस्मै तत्क्षणं मुदितः पुरम् । तोरणध्वजमुख्यैः स भूषयामास पूरुषैः ॥ २३७ ॥ शृङ्गारिताथ दन्तीन्द्रः शृङ्गारितमहापथः । अपवाद्याधिरूढोऽयं, तातं नन्तुमथाचलत् ॥ २३८ ॥ परिधाप्य तरून् मार्गे, स्वस्तिकान् पुरयन्नधः । इत्याद्युत्सवपुरेण स प्रापत् पावनं वनम् ।। २३९ ।। तातं गुरुं ततः साधु-साध्वीव्रातपरिष्कृतम् । विवेकवान् ववन्देऽसौ मुदश्रुप्लुतलोचनः ॥ २४० ॥ एकं गुरुः परं तातस्त्रिजगत्ख्यातकीर्तिभाक् । किं चित्रं यन्मुदे सोऽस्य, स्वर्णमेकं सुगन्धि च ॥ २४१ ॥ धर्माधिपाय, मेघधारोपमां गुरुः ।
उद्ग्रीवं भव्यसारङ्गैरास्वाद्य देशनां व्यधात् ॥ २४२ ॥ दु० व्या० - सारङ्गैः चातकैः ॥ २४२ ॥
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६ ]
श्रीश्रीधरचरितमहाकाव्यम् । (नवमः आहत्य स पितुः पार्श्वे, श्रद्धाऽहं धर्ममार्हतम् । पुनर्नत्वा तमापृच्छय, मुदितः स्वपुरं ययौ ॥ २४३ ॥ न्यायधर्मधुरीणस्य बालार्कस्याभवद् भुवि । प्रजानुरागविभ्राजः, साम्राज्यमुदितोदितम् ॥ २४४ ॥ अथो विजयराजषिविश्वविश्वम्भरासरः । चिरं हंस इव स्वैरविहारेण व्यभासयत् ॥ २४५ ।। चत्वारो मन्त्रिमुनयश्चारुचारित्रनिश्चलाः । केवलज्ञानमासाद्य, सिद्धिसौख्यं सिषेविरे ॥ २४६ ॥ साध्वीषु मुख्यतां प्राप्ता, साध्वी साऽपि सुलोचना । तपसा कर्ममाणि, भित्त्वा शिवपुरं ययौ ॥ २४७॥ एवं सेवधिसारसंयमशमध्यानामृतमीणितः,
स्वान्तस्तान्तभवान्तकारिकरुणाकेलिगृहं सस्पृहम् । भव्येषु द्विविधं निवेश्य विशदं धर्म घरामण्डले,
पुर्णापुर्विजयो विमानममलः सर्वार्थसिद्धिं ययौ ॥ २४८ ॥ दु० व्या०-सेवधिः-निधानम् । तान्तः-विस्तीर्णः ॥२४८॥ च्युतश्चम्पापुर्यामथ परमदेवक्षितिपतेः,
कुलोत्सः कंसद्विषत इव सोऽरिष्टमथनात् । प्रभुश्रीमत्पाच्चिरणसुरमाणिक्यलभना
चिरं भेजे सौख्यं शिवपदगतः सम्मदमयम् ।। २४९ ।।
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते
माणिक्याके श्रीश्रीधरचरिते विजयचन्द्रसिद्धिगमनो नाम नवमः सर्गः समाप्तः ॥
॥ प्रन्थानम् २५८ स० २६ ॥
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यकर्तुः प्रशस्तिः ॥ श्रीअश्वसेनस्य कुलावतंसः, कल्याणकासारविलासहंसः । चिन्तामणीवज्जनचिन्तितानि, चिन्तामणिपार्श्वजिनो ददातु ।। श्रीमेदपाटदेशे, ग्रन्थो माणिक्य सुन्दरेणायम् । देवकुलपाटकपुरे, गुणरसवार्थीन्दुवत्सरे (१४६३) व्यरचि ॥२॥ गद्य-पद्यमयी हया, चम्पूश्चातुर्यशालिनी। अस्य ग्रन्थस्य विज्ञेया, चतुःपर्वीकथा स्वसा ॥ ३ ॥ अकारि शुद्धा श्रीपूज्यगच्छाधीशैः प्रसद्य सा । पुरे सत्यपुरे पौरमण्डिते मेरुमण्डले ॥ ४ ॥ द्यौरेषा रमते यावच्चारुतारककन्दुकैः । वाच्यमानो जनैस्तावद् ग्रन्थोऽयं भुवि नन्दतात् ।। ५ ॥ सहस्रमेकं सर्वानसंख्ययाऽनुष्टुभामिह । एकोनया नवत्या च, शतपटकं समन्वितम् ॥ ६ ॥
एवं ग्रन्थानम् १६८९॥ पण्डित:-श्रीमेरुविजयगणिसतीर्थ्यगणिश्रीशान्तिविजयगणि. शिष्यसत्यविजयगणिना पत्तनचित्कोशे प्रतिरियं मुक्ता॥
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याकर्तुः प्रशस्तिः। दु० व्या-माणिक्याङ्काभिधग्रन्थे मूरिमाणिक्यमुन्दरः ।
एवं दुर्गपदव्याख्यामकार्षीत् कविवल्लभाम् ॥ १॥ अष्टाशीत्यभिधे वर्षे, चतुर्दशशतान्विते । अभ्यर्थनादियं व्याख्या, कृता श्रीपत्तने पुरे ॥२॥ अलिखत् प्रथमं चेता, विनेयः कीर्तिसागरः ।
ग्रन्थो व्याख्यायुतो जीयाद्, वाच्यमानो निरन्तरम् ॥३॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के
___ नवमसर्गस्य स्वोपक्ष दुर्गपदव्याख्या समाप्ता ॥
संवत् १४८९ वर्षे दीपोत्सवे श्रीअणहिलपुरपत्तने विश्वरूपेण लिखिता॥
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only