Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.]
प्रकृत्यधिकरणम्. ज्ञेयं प्रसुप्तमिव सर्वतः" इति। १“अस्मान्मायी सृजते विश्वमेतत्" इत्याचनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च । यत्त्वेकस्य निमित्तत्वमुपादानत्वं च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य ; लोके तथा नियमदर्शनात् । अतोऽग्निना सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति । अत्रोच्यते-सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सर्वमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलालादेविचित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः । अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ २३ ॥
अभिध्योपदेशाच्च । १।४।२४ ॥ इतश्चोभयं ब्रह्मैव, २ “सोऽकामयत बहु स्यां प्रजायेयेति" ३ "तदैक्षत बहु स्यां प्रजायेय"इति स्रष्टुब्रह्मणस्वस्यैव बहुभवनसङ्कल्पोपदेशात्। विचित्रचिदचिद्रपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ २४ ॥
साक्षाच्चोभयाम्नानात् । १।४।२५॥
न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमों निश्चीयते,ब्रह्मण एव निमित्तत्वमुपादानत्वं च साक्षादाम्नायते ४"किं विद्वनं क उस वृक्ष आसीद्यतो द्यावापृथिवी निष्टतथुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टताः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भ१. श्वे ४.९॥
३. छा. ६-२-३ ॥ २.ते. भा. ६.२ ॥
| ४. अष्ट. २-प्र. ८. अनु. ७-५-८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465