Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
Catalog link: https://jainqq.org/explore/020696/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। । चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :१ जैन आराधन श्री महावी केन्द्र को कोबा. ॥ अमतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये प्रथमो भागः. For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये प्रथमो भागः 4- अयं च श्रीशैलाद्दति लक्ष्मीनरसिंहकुमार कुमारतातार्य कविभूषणस्वामिभिः प्रत्यवेक्षितः नश्चडालमा ATIOजयत वदान्त ला. अ. वी. नरसिंहाचार्यैः, ति. वि. चे. नरसिंहाचार्यैश्च परिशोधितः आर्. वेङ्कटेश्वरकम्पन्यधिकारिभिः आनन्दमुद्रायवालये पराशयतिवरादिगुरुपरम्पराब्देषु ५ ० १ १ तम सौम्यसंवत्सरचैत्रशुद्धदशम्यां बहि: प्रकाशितश्च विजयतेतराम् ॥ १९०९. Copyright Reserved. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री. श्रीमते रामानुजाय नमः उपोद्धातः. विदितमेव खलु-भगवान् भाष्यकारः अनवरततन्तन्यमानपरमपुरुषनियमनातिकमणजनिततन्निग्रहसंकल्पविषयतया दुरभिभवभवदहनदन्दह्यमानान् सरभसेन प्रतिकूलवातेन नीयमानानिव सांयात्रिकगणान् पवनाशनवराधिष्ठितभवनवासिन इव कुटुम्बिनः हुतवहपरीतकाष्ठमध्यवर्तिन इव कीटान् महाप्रवाहमध्यगतानिव जम्बूकान् जन्तूनवलोक्य निरवधिकरुणार्द्रहृदयः पुरुषोत्तमप्रसादमेव तेषां संसृतिनिस्तरणोपायं मन्वानः, तस्य च निग्रहसङ्कल्पशान्तिपूर्वकतया तस्याश्र भक्तिप्रपत्तिजन्यत्वेन " भन्या त्वनन्यया शक्यः" " भक्त्या त्वनन्यया लभ्यः प्रपत्त्या वा महामुने" "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इत्यादिप्रमाणगणप्रमिततया, तदनुष्ठानस्य च भगवत्स्वरूपरूपगुणविभवविद्यास्वरूपतद्भेदतदितिकर्तव्यताज्ञानाधीनतया अपेक्षितनिखिलार्थावबोधकं श्रीभाष्याख्यं प्रवन्धरत्नमेतत्प्रणिनाय-इति। तथाचोक्तमागमान्तगुरुभिः " पथ्यानि घोरभवसंज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेवचांसि” इति । सचायमाचार्यः कतमः, कस्मिन् देशे संजातः, कश्चायमस्य प्रबन्धस्य विषयः-इत्यत्र किंचिदुच्यते । स भगवान् श्रियः पतिनिखिलहेयप्रत्यनीककल्याणकतानस्वरूपः " यो ब्रह्मणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" "हर्तुं तमस्सदसतीच विवेक्तुमीशो मान प्रदीपमिव कारुणिको ददाति" इत्युक्तरीत्या स्वस्वरूपरूपगुणविभूतिस्वाराधनतत्फलादिप्रदर्शकं वेदाख्यं प्रमाणं चतुर्मुखादिपरम्परया प्रवर्तयामास । एवं कृतेऽपि "किंचित्तदन्यथाभूतं त्रेतायां द्वापरेऽखिलम्" इत्युक्तरीत्या तत्तत्कर्मानुरूपमतिविलसितजनिताप्रतिपत्त्यादिभिर्निष्फलीकृते " तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् ॥ उत्सन्नान् भगवान्वेदानुजहार हरिस्स्वयम् । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा" इति व्यासरूपेणावतीर्य वेदान् विशदीकर्तुं प्रवृत्तः स्वशिष्येण जैमिनिमुनिना स्वाराधनकप्रधानपूर्वभागार्थविचाररूपपूर्वमीमांसासूत्राणि कारयित्वा स्वयमेव स्वस्वरूपादिप्रतिपादनेदंपरोपनिषदर्थविचाररूपशारीरकमीमांसासूत्राणि प्रणिनाय । तानि चेमानि सूत्राणि औपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहितैरनधिगतप्रत्यक्षादिप्रमाणयाथात्म्पैरयथायथं व्याख्यतानीति तदर्थयाथात्म्यप्रतिपादनकृतादरेण दामोदरेण नियुक्तः "नि For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैः यथोचित शेष इतीरिते जनैः” इति सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधशेषवृत्तिकरणेनानितरसाधा. रणशेषसमाख्याविख्यातः सूरीणामग्रणीः श्रीकान्तचरणारुणाम्बुजपरिचरणतत्परजननिबिडतया प्रख्यातगुणसमाख्यायां श्रीभूतपुर्यभिख्यायां नगर्यां सन्ततविहितानभिसंहितफलसप्ततन्तुसमाराधितरमारमणस्य हारितकुलजलधिराकाशशाङ्कस्य केशवसोमयाजिनाम्नो विप्रवर्यस्य जायायां भूदेवीसमाह्वायां श्रीशैलपूर्णसहोदरायां पिङ्गलाब्दचैत्रशुक्लपञ्चम्यामा युजि गुरोश्शुभे वासरेऽवततार ॥ ___ अत्र केचिदेवं मन्यन्ते-एतन्महिमातिशयवर्णनेदंपरप्रवृत्ते संयमिसार्वभौमेणैव स्ववैभवप्रकटनमसम्मन्यमानेनापि कुरुकेशदाशरथिप्रभृतिभिस्सविनयमर्थितनाङ्गीकृत्य स्वशिष्येभ्यः प्रवर्तिते शतान्तादिप्रवन्धे पञ्चायुधावतारत्वमेवास्य वर्णितम् ; यतिराजसप्तत्यामपि "प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्नयन्मयत्वैर्ववृधे पञ्चभिरायु. धैर्मुरारेः” इति पञ्चायुधावतारत्वम् , तत्रैवान्यत्र "विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहस्सन् विष्वक्सेनो यतिपतिरभूद्वेनधारस्त्रिदण्डः' इति सेनेशांशत्वमपि प्रतिपादितम् , नानन्तावतारत्वम् ; अतः पञ्चायुधावतार एवायम् --इति । पञ्चायुधीसेनेशसमुच्चयवत् पन्नगेन्द्रसमुच्चयोऽपि सङ्घटेतेति नात्रातीव विवादः शोभत इति विरम्यते । एवमवतीर्णश्वायमाचार्यों यथाविधिविहितसंस्कारः काञ्चीपुरनिवासिनो विबुधाद्यादवप्रकाशाभिधात् कणभक्षाक्षचरणपाणिनिगुरुकुमारिलादिमतविशेषार्थीनग्रहीत् । तदात्वे च तद्देशाधिपस्य पुत्रीं कश्चिद्ब्रह्मराक्षसो जग्राह । स तु नरपतिर्यादवप्रकाशं मनवित्तमं ज्ञात्वा तमाकारयामास । स च शिष्यैः परिवृतः क्षितिपतिसभां गत्वा तेन च यथार्ह विहितसपर्यः कन्यां तामाह्वापयामास । सा च कन्या भूताविष्टा साट्टहासं विहस्याह-अहो त्वमद्य मामुत्सारयितुमागतः, किं न श्रुतं त्वया-परश्शतं मात्रिका मदीयेन सरभसाट्टहासेन भीता यथागतं प्रदुद्रवु: ---इति । किं च त्वदीयं पूर्वजन्मवृत्तान्तम् अपि जानासि ?; त्वं किल गोधात्वमनुप्राप्य कस्मिंश्चिद्गल्मे वसन् शेषाचलशिखशेखरायमाणस्थ भगवतः श्रीनिवासस्य संसेवनाय प्रस्थितानां हरिदासानां भुक्तोच्छिष्टभक्षणेन विप्रत्वं प्राप्तः । अहं तु भगवद्दासः क्रतुभिः कैटभारिमाराधयन् तत्र स्वरादिभ्रेषेण ब्रह्मराक्षसोऽभवम् । परं तु योऽयं त्वदन्तेवासी लक्ष्मणाभिधानः भस्मच्छन्नानल इव स्वमहिमानमनवधिकमप्यनाविएकुर्वन् प्राकृत इवास्ते, स यदि स्वचरणारुणाम्बुरुहयुगलं मदीये मूर्ध्नि विन्यस्य मामादिशेत् ; तदा यथानियोगमनुतिष्ठामि—इति । नरपतिश्चैतदाकर्ण्य सप्रश्रयं प्रणम्य गुरुवरं प्रा. र्थयामास । गुरु तल्लजश्चायमुररीचकार नरपालाभ्यर्थनाम् । कन्यायामाविष्टो ब्रह्मराक्षसश्च गुरुवरमेनं प्रणम्य तदीयं पदपङ्केरुहं स्वशिरसि धृत्वा 'कृतार्थोऽस्मि' 'धन्योऽस्मि' इत्युक्त्वा For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तां कन्यां सन्त्यज्य गतः । तदनु मुदितेन राज्ञा कृताभ्यनुज्ञो यादवप्रकाशः सशिष्यः.स्वाव सथमगात् । अथ कदाचिद्यादवप्रकाशस्याभ्यञ्जनं कुर्वति गुरुवरे तेनोक्तं "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी" इत्यस्याः श्रुतेः 'मर्कटपृष्ठसदृशे भगवतोऽक्षिणी' इत्यर्थ श्रुत्वा शोकेनाश्रुबिन्दून व्यसृजत् । ते च वह्निकणा इव तदूर्वोर्म्यपतन् । तान् दृष्ट्वा यादवप्रकाश एनमाचार्यमपृच्छत्कु तस्तवायं शोकः--इति । श्रुतेरस्यास्समीचीनेऽर्थे सम्भवति भवद्भिरुक्तमपार्थे श्रुत्वाहं दूये-इति प्रत्यवादीत् । सच कोऽयं समीचीनार्थः' इति पप्रच्छ । आचार्यशिखामणिरयं-'कं पिबतीति कपिस्सूर्यः , तेनास्यते विकसित क्रियत इति; कमुदकं प्यास आसनम् उद्भवो वा यस्येति; कपिः नालम् , तस्मिन् आस आसनं यस्येति च व्युत्पत्त्या रविकरविकसितगम्भीराम्भस्समुद्भतसुमृष्टनालपुण्डरीकदलामलायते भगवतोऽक्षिणी,-इत्यर्थत्रयमुपन्यस्योत्तरयांचकार । एवमस्य गुरोर्भगवत्प्रेमातिशयः, अनितरसाधारणं निगमान्ततत्त्वार्थनिरूपणकौशलं, तदितरविषयवैतृष्ण्यम्-इत्यादयो गुणा दिनेदिनेऽभिवृद्धा अभूवन् । एवं काञ्चीनगरे निवसति गुरुवरे यामुनार्यनामा गुरुवरः श्रीरङ्गनगरनिवासी लक्ष्मणार्यस्य गुणगणान् श्रुत्वा विषयेऽस्मिन् किञ्चित्कुर्वता मया भवितव्यमिति मन्यमानोऽपि शास्त्रान्तराभ्यासपरिसमाप्तिं प्रतीक्षमाणः तदात्व एव स्वस्य मुक्तिघण्टापथप्रस्थानवासरं प्रत्यासन्नं मन्वानः महापूर्णमेतदानयनाय प्राहिणोत् । निशम्य चैनमुदन्तं चिरकासितयामुनार्यशिष्यभावो गुरुवरस्त्वरया मह्त्या निरगाच काञ्चीनगरात् । स यावद्रङ्गनगरं नाससाद, तावदेव यामुनार्यस्समलञ्चकार मुरवैरिलोकममलम् । गच्छन्नेव कनकनिम्नगावास्तटे दक्षिण पश्यन्नतिमहती परिषदं श्रीवैष्णवानां विदितयामुनार्यवृत्तान्तो नितान्ततान्त आकुलस्वान्तश्च आचार्यविप्रयोगजनिते महति शोकसागरे निममज। चिराल्लब्धधृतिरुपसृत्य तच्चरमविग्रहमाचार्यस्यापादमौलि संसेवमानः दक्षिणे करे आकुञ्चितमङ्गुलित्रयमद्राक्षात् ; अप्राक्षीच तत्रत्यानन्तेवासिजनान् --कदानु पुनरिदमङ्गलित्रयमाकुञ्चितम् ; कीदृश्यस्य शरीरे रुजा सञ्जाता---इति । ते च प्रत्यब्रुवन् - न काचिदपि रुजाविरासीदस्य वपुषि, निर्याणानन्तरमेवाकुञ्चितमिदमङ्गुलित्रयम्-इति । पुनरपि तान् पप्रच्छ--किमस्यापूरितो मनोरथ आसीत्-इति । तेच प्रत्यूचुः-श्रीशारीरकमीमांसासूत्रस्य बोधायनमहर्षिप्रणीतवृत्तिग्रन्थानुसारिणी नातिसङ्क्षिप्ता नातिविस्तृता च व्याख्या प्रणेतव्या ; व्यासपराशरयोरस्मत्सिद्धान्तप्रवर्तकयो म तत्कृतोपकारस्मृतिफलतया प्रकटनीयम् ; प्रपन्नजनकूटस्थेन श्रीशठमथनमुनिना प्रवर्तिताया द्रमिडोपनिषदो व्याख्या च कर्तव्येति मुहुर्मुहुः कथयन्त एवासन् ; एतत्रितयमपि न कृतमेव-इति । एतद्वचनमाकl 'सर्वमहं करिष्ये' इति प्रत्यशृणोत् । अनन्तरं चाञ्जलयो यथापूर्वमासन् । ततश्च यामु For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नार्यस्य अनन्तरकर्तव्यशेषे यथाक्रम निर्वृत्ते लक्ष्मणार्योऽयं तुर्याश्रमश्रीपरिकर्मितः कूरनाथकुरुकेशदाशरथिप्रभृतिभिरन्तेवसद्भिः परिवृतस्तेषां तत्त्वार्थानुपदिदेश । अथ कदाचिद्दिगन्तवास्तव्यप्रतिमतकथकविजयाय प्रस्थितो वाराणस्यां सरस्वतीभण्डारमभ्ययात् । तत्र च भारती स्वयमेवास्याभिमुखमागत्य "तस्य यथा कप्यास पुण्डरीकम्' इत्यस्याः श्रुतेरथै बहि ---इत्यपृच्छत् । यतिपतिरयं सम्यगर्थे न्यरूपयत् । तच्छ्रुत्वातितुष्टा तुष्टाव तं शारदा । तस्कृतं च भाष्यं स्वशिरसा सम्भाव्य ‘तवैवेदं श्रीभाष्यकार इति नाम युज्यते' इत्युक्त्वा सादरं तं व्यसृजत् । एवमयं संयमिसार्वभौमः "गाथा ताथागतानां गलति गमनिका कापिली क्वापि लीना क्षीणा काणादवाणी द्रहिणहरगिरस्सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवारवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदी त्रिवेदीम्' इति विशिष्टाद्वैतसिद्धान्तं सर्वतोमुखयन् तत्परिपन्थिनश्च वादाहवैर्निरुन्धन्नुवास । अस्य चाचार्याः पञ्च-महापूर्णः पञ्चसंस्कारादिसर्वार्थोपदेष्टा, भीशैलपूर्णः श्रीरामायणोपदेष्टा, गोष्ठीपूर्णः रहस्यार्थशिक्षकः, श्रीरङ्गनाथगुरुः द्रविडोपनिषदुपदेष्टा, श्रीमालाधरगुरुस्तदर्थोपदेष्टा ; श्रीकाञ्चीपूर्णस्तु वार्ताषट्कं हस्तिगिरिमस्तकभूषणाद्वरदादुपश्रुत्य कथनेनोपकारकतया स्वीकृतः । ताश्च वास्सिंगृहीताः-"परं तत्त्वं सोऽहं प्रपदनमुपायोऽन्तिमदशास्मृतेनैवापेक्षा वपुरपगमे मोक्षगमनम् । विशिष्टाद्वैतं स्वं मतमपि महापूर्णभजनं घडप्य नेतानुपनिषदिवाहौपनिषदः" इति । तत्कृताः प्रबन्धाश्च नव-(१)वेदान्तसारः (२)वेदान्तदीपः (३) वेदार्थसङ्ग्रहः (४) श्रीभाष्यम् (५) श्रीरङ्गगद्यम् (६) श्रीवैकुण्ठगद्यम् (७) शरणागतिगद्यम् (८) गीताभाष्यम् (९) नित्यग्रन्थश्च-इति । अस्य वैभवातिशयस्तु सहस्रवदनेनापि न निरूपयितुं शक्य इति ग्रन्थविस्तरभिया न लिख्यतेऽस्माभिः, गुरुपरम्पराप्रपन्नामृतादिग्रन्थेषु विशदमनुसन्धेयः ॥ ___ अथ विशिष्टाद्वैतसिद्धान्तशब्दस्य कोऽर्थः ? , कथमस्य यतीन्द्रमतस्य तच्छन्दवाच्यत्वम् ? इति चेत्--अत्र किं चिदुच्यते-सिद्धान्तशब्दः प्रामाणिकतया परिगृहीतार्थवाची, तदुक्तं न्यायपरिशुद्धौ "अथ सिद्धान्तः प्रामाणिक इत्यभ्युपगतोऽर्थः" इति । न्यायसारे च "प्रामाणिकतयाभीष्टस्सिद्धान्तः स विधा मतः" इति । स एव मतशब्दा. भिलप्यः । तत्र द्वयोर्भावः द्विता, द्वितैव द्वैतम् ; भेद इत्यर्थः । न द्वैतमद्वैतम् अभेदः। विशिष्टस्याद्वैतं विशिष्टाद्वैत स्वव्यतिरिक्तसमस्तचेतनाचेतनविशिष्टं ब्रह्मैकमेव तत्त्वमिति प्रतिपादनात् रामानुजीय मतं विशिष्टाद्वैतसिद्धान्त इति व्यपदिश्यते ॥ ___ शङ्करादिभिः 'ब्रह्मैकमेव तत्त्वम्, तद्यतिरिक्तमखिलं मिथ्या' इति निरूपणात्तेषां मतम् अद्वैतसिद्धान्त इति व्यवह्रियते। आनन्दतीर्थीय मतं द्वैतमिति,तैः जगतो ब्रह्मणश्च पाल्यपालकभावसंबन्धाहते ऐक्यव्यपदेशयोग्यसम्बन्धविशेषानभ्युपाम्पत्,उभयोस्सत्यत्वाङ्गीकारा For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाएतन्मते चिदचिदात्मकप्रपञ्चस्य ब्रह्मणश्च सत्यत्वमङ्गीकृत्य तयोश्शरीरशरीरिभावसम्बन्धाभ्युपगमेन लोके शरीरस्य जीवात्मनश्चात्यन्तभेदेऽपि 'चैत्र एकः' इत्यादिरेकत्वव्यवहारो यथा दृश्यते, तहापि चिदचिच्छरीरकस्य ब्रह्मण एकत्वव्यपदेशः परस्परं स्वरूपभेदश्च यु. ज्यते । तदुक्तं श्रीमन्नयायसिद्धाञ्जने--"अशेषचिदचिदचित्प्रकार ब्रह्मैकमेव तत्त्वम् इदमेवचेत्थम्भूतं सामान्यतः प्रमाविषयतया विशेषतः प्रकर्षण मेयतया च प्रमेयमित्युच्यते । तत्र प्रकारप्रकारिणोः प्रकाराणां च मिथोऽत्यन्तभेदेऽपि विशिष्टैक्यादिविवक्षया ऐक्यव्यपदेशः, तदितरनिषेधश्च''-इति। एतेन विशिष्टाद्वैतशब्दार्थोऽर्थाद्विवृतो भवति। नन्वस्मिन्मते मतान्तरवादिभिरनभ्युपगता अनेकेऽर्था नित्यसूरिसद्भावादयोऽङ्गीकृताः, तत्किमित्येभिर्न व्यपदिश्यते । उच्यते-तेष्वभ्युपगतेष्वस्यैव शरीरशरीरिभावसम्बन्धस्य प्रधानप्रतितन्त्रत्वात् ; तल प्रतिनियतं तन्त्रमिति व्युत्पत्त्या अन्यसिद्धान्तिभिरनभ्युपगततत्तन्मतासाधारणार्थः प्रतितब्रशब्दाभिधेयः ; तदुक्तं न्यायसारे--- "स्वतन्त्रमात्रसिद्धस्तु प्रतितन्त्रोऽभिधीयते” इति । ते चास्मिन्मते नित्यसूरिसद्भावादिकाः ; तेष्वप्यस्य सम्बन्धस्य प्रधानत्वात् प्रधानप्रतितन्त्रमिति व्यवह्रियते । किं नाम प्राधान्यमस्यार्थस्येति चेत्स र्वश्रुत्यर्थतत्त्वावबोधकत्वं सर्ववादिविजयावहत्वं चेति ब्रूमः । तच्चोक्तम्-'आधेयत्वप्रभृतिनियमैरादिकर्तुश्शरीरं सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् । विश्वं पश्यन्निति भगवति व्यापकादर्शहष्टे गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥ यद्येत यति सार्वभौमकथित विद्यादविद्यातमः प्रत्यूषं प्रतितन्त्रमन्तिमयुगे कश्चिद्विपश्चित्तमः । तत्रैकत्र झडित्युपैति विलयं तत्तन्मतस्थापनाहेवाकप्रथमानहैतुककथाकल्लोलकोलाहलः" इति । अस्यार्थस्य सर्वश्रुत्यर्थतत्त्वावबोधकत्वमित्थमुपवर्णितम्-"मिथो भेदं तत्त्वेष्वभिलपति भेदश्रुतिरथो विशिष्टैक्यादैक्यश्रुतिरपि च सार्या भगवती । इमावौँ गोतुं निखिलजगदन्तर्यमयिता निरीशो लक्ष्मीशश्रुतिभिरपराभिः प्रणिदधे"--इति । इदमत्राकूतम्- "पृथगात्मानं प्रेरितारं च मत्वा" 'ज्ञाशौ द्वावजावीशनीशौ" "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" इत्यादिका भेदश्रुतिः, "नेह नानास्ति किञ्चन" "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' “सर्वं खल्विदं ब्रह्म'' इत्यादिका अभेदश्रुतिः, “यस्यात्मा शरीरम्' यस्य पृथिवी शरीरम्” “य आत्मनि तिष्ठन्' इत्यादिका घटकश्रुतिः । आसुच श्रुतिषु अद्वैतिभिः भेदश्रुतयः औपचारिकाः बाधितार्था वा स्वीकर्तव्याः; तथा द्वैतिभिभेदश्रुतयोऽङ्गीकर्तव्याः ; उभयैरपि घटकश्रुतयस्तथैव वर्णनीयाः। विशिष्टाद्वैतिमतेतु लोकदृष्टशरीरशरीरिन्यायेन शरीरस्य शरीरिणश्च परस्परं भेदस्यानुभाविकतया तादृशभेदबोधकत्वेन भेदश्रुतयः, 'चैत्र एकः' इतिवत् विशिष्टस्य शरीरिण एकत्वेन अभेदश्रुतयः, एतादृशसम्बन्धबोधकत्वेन घटकश्रुतयश्च मुख्या अबाधिताश्चाङ्गीकृताः-इति । अतः सर्वश्रुतिमुख्यार्थावबो For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धकत्वयादिविजयप्रयोजकत्वाभ्यां शारीरशरीरिभावसम्बन्धः प्रधानप्रतितन्त्रमित्युच्यते । तथाच 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायेन तादृशसम्बन्धबोधकेन विशिष्टाद्वैतशब्देन व्यपदिश्यते । एतेनेदमपि प्रत्युक्तम्, यदुत सूक्ष्मचिदचिद्विशिष्टब्रह्मणः स्थूलचिदचिद्विशिष्टब्रह्मणश्चाभेदस्य सिद्धान्तसिद्धतया विशिष्टाद्वैतशब्दस्य विशिष्टयोरद्वैतमिति व्युत्पत्त्या तादृशार्थबोधकत्वम् – इति ; चेतनाचेतनयोश्शरीरत्वे सिद्ध एव तादृशार्थसिद्धिरिति शरीरशरीरिभाव सम्बन्धोपजीवित्वाचास्यार्थस्यति । अयं च विशिष्टाद्वैतसिद्धान्तः पूर्व पराशरेण श्रीविष्णुपुराणे प्रतिपादितः । अनन्तरं च पाराशर्येण महाभारतशारीरकसूत्रादिषु वर्णितः । ततश्च बोधायनेन मुनिना वृत्तिग्रन्थेन विस्तृतः । अथ च टङ्कद्रमिडादिभिः द्रमिडभाध्यादिषु सङ्क्षिप्तः । एवं युगान्तरेषु प्रचुरोऽप्ययमस्मिन् कलियुगे प्रथमं श्रीपराङ्कशमुनिना स्वीयद्रविडोपनिषदि साधिकविंशतिभिर्गाथाभिस्सङ्गह्य प्रवर्तितः । तथाचोक्तम् “द्विकाभ्यां द्यष्टानिर्दुरधिगमनीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । तदादौ गाथाभिर्मुनिरधिकविंशाभिरिह नः कृती सारग्राहं व्यतरदिह सङ्गह्य कृपया'' इति । ततः परं च श्रीमन्नाथमुनिभिया॑यतत्त्वाख्यप्रबन्धेन निरूपितः, यामुनमुनिभिरागमप्रामाण्यसिद्धित्रयादिभिः प्रवन्धैः विवृतश्च; भगवद्भाष्यकारैः कुमतिमतविततितूलवातूलायमानयुक्तिनिकरपरिकर्मितेनानेन श्रीभाष्याभिख्येन ग्रन्थेन सम्यक प्रतिष्ठापितश्च । तच्चोक्तम्-"नाथोपर्श प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैस्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शन नः" इति । तत्तद्न्थानुसारीचायं ग्रन्थ इति प्रदर्शनाय - 'तदाह वृत्तिकारः' इति, 'भाष्यम्' इति च बोधायनवृत्तिद्रविडभाष्यसंवादः,सिद्धित्रयसंवादश्च दर्शितः । प्रतिज्ञातं च प्रबन्धारम्भे ग्रन्थकृता---'भगवद्वोधायनकृतां विस्तीर्णी ब्रह्मसूत्रवृत्तिं पूर्वाचार्याःसञ्चिक्षिपुः; तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते'-- इति । व्याख्यातं च श्रुतप्रकाशिकायाम्"इह तु वृत्त्यनुसारः प्रतिज्ञातः, न च तत्प्रतिज्ञानमहृदयमिति शङ्कनीयम् , दुष्परिहरबाधकानुपलम्भादिति, परमर्षिप्रणीतानि व्याख्येयानि,तेषां महर्षिप्रणीतानि व्याख्यानानि च सन्ति चेत्----तान्येवानुरोद्धव्यानि ; नानृपेस्सूक्ष्मदर्शित्वम् ; ऋषेरभिप्रायमृषिरेव च स्वतो वेदितुमर्हति,न तु अडमतिरितरो जनः"--- इत्यादि । इतरेषां च व्याख्यातॄणामार्षव्याख्यातिलचित्वम् "उपासातैविध्यात्" "सर्वत्र प्रसिद्धोपदेशात्'' "भूमा सम्प्रसादादध्युपदेशात्' "दहर उत्तरेभ्यः" इत्यादिषु स्वष्टतरमिति च । अतः “निराबाधा बोधायनफणितिनिष्यन्दसुभगा विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्टैः कल्पन्ते यतिपतिनिबन्धा निजमुखैरनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम्' इत्युक्तरीत्या शारीरकसूत्राणामियं संयमीन्द्रकृतैव व्याख्या महर्षिमतानुसारिणी सम्यग्ज्ञानविवृद्धिजननी सुतरामादर्तव्येति च सुस्पष्टम् । अत्र च प्रबन्धे 'स्वप्राः स्वयमेव साधनं ब्रह्म' इत्ययमर्थः चतुर्वघ्याये For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षु प्रतिपाद्यते । तत्र च द्विकद्वयभिन्ने पूर्वद्विकं ब्रह्मशब्दार्थत्वप्रतिपादनपरम्। जगजन्मादिकारणत्वेन हि ब्रह्मत्वं श्रुतिप्रतिपादितम् – “यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति' इति । अतो जगजन्मादिकारणत्वसमर्थनपरं पूर्वद्विकं ब्रह्मशब्दार्थत्वप्रतिपादनपरं सिद्धोपायोपेयप्रतिपादनपरं विषयप्रतिपादनपरमिति तात्पर्यभेदवर्णनं कृतम्। उत्तरद्विकं तु प्रापकत्वप्राप्यत्वप्रतिपादनपरं साध्योपायोपेयप्रतिपादनपरं विषयिप्रतिपादनपरमिति च भिदा वर्णिता। तत्र च प्रथमाध्यायः ब्रह्मणि जमत्कारणत्वान्वयं प्रतिपादयति । द्वितीयश्च ब्रह्मणो निखिलजगदेककारणत्वे वेदान्तवाक्यविरोधशङ्काया यौक्तिकविरोधशङ्कायाः केषांचिन्नित्यत्वश्रुतिविरोधशङ्कायाश्च निवर्तकः । तृतीयश्च साधनप्रतिपादकः । चतुर्थश्च प्राप्तिचिन्तापरः- इति चतुर्णामध्यायानामर्थभेदो निरूपितः । पादानां च षोडशसंख्याकानामर्थभेदश्च इत्थं वर्णितः---प्रथमेऽध्याये प्रथमपादे अस्पष्टतरजीवादिलिङ्गकानि वाक्यानि विचारितानि। द्वितीये पुनरस्पष्टजीवादिलिङ्गकानि तृतीये स्पष्टतल्लिङ्गकानि,चतुर्थ स्पष्टतरजीवादिलिङ्गकानि । द्वितीयस्य प्रथमे पादे--सांख्यादिस्मृतिभिर्बाधस्य परिहारः; द्वितीये-- प्रतिपक्षतर्काणां वेदान्तवाक्यानुसारिभिस्सत्तकैर्निराकरणम्; तृतीये—आकाशादेः कार्यत्वनिरूपणम्; चतुर्थे-~~-इन्द्रियादेः कार्यत्वनिरूपणं च कृतम् । अथ तृतीयस्य प्रथमे ---जाग्रदाद्यवस्थावस्थितस्य जीवस्य दोषादिनिरूपणम् ; द्वितीये-पुरुषोत्तमस्य सर्वदा हेयप्रत्यनीकत्वकल्याणगुणाकरत्वरूपोभयलिङ्गत्वप्रतिपादनम्; तृतीये---साधनभेदनिरूपणम् ; चतुर्थे–अङ्गनिरूपण च कृतम् । अथ चतुर्थस्य प्रथमेउपासनारोहमाहात्म्यमुत्तरपूर्वाघाश्लेषविनाशरूपम् ; द्वितीये---उत्क्रान्तिप्रकारः; तृतीये -अर्चिरादिगतिः; चतुर्थे --- ब्रह्मप्राप्तिरूपमपुनरावृत्तिलक्षणं च निरूपितम्-इति । तदुक्तं निगमान्तगुरुभिः-"शास्त्रं चैतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैरध्यायैषोडशानिद्विकयुगभिदुरं पटभेदादिनीत्या । तत्राद्यं वक्ति सिद्धं विषयमपि परं तत्प्रतिद्वन्द्वियुग्मं स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम् ॥ तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः । दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथोपासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि" इति।तत्र च आद्याधिकरणचतुष्टयं शास्त्रारम्भसमर्थनरूपम्। तत्र च पूर्वद्विकमुः त्तरद्विकमिति पेटिकाभेदः । प्रतीतिजनकत्वस्थापनपरा पूर्वपेटिका । उत्तरा तु वैफल्यशङ्कापरिहारपरा । तत्र सिद्धपरशब्दसामान्यस्य बोधकत्वं प्रथमाधिकरणे न समर्थितम् । द्वितीयेन सिद्धपरशब्दविशेषस्य ब्रह्मरूपार्थविशेषबोधकत्वम् । तृतीयेन मानान्तरावगतत्वाब्रह्मणः शास्त्रस्य वैफल्यमिति शङ्का निराकृता । चतुर्थेन शास्त्रजन्यज्ञानस्य प्रवृत्तिनिवृत्त्यबोधकत्वाद्वैफल्यमिति शङ्का । तच्चोक्तं-" द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतजन्यबुद्ध्यो : ” – इति ; " व्युत्पत्त्यभावः प्रतिपत्तिदौस्स्थ्यमन्येन लभ्यत्वमथाफलत्वम् । एतानि वै सूलचतुष्टयेनानारम्भमूलानि निराकृतानि " --- इति च ॥ अत्र ग्रन्थे समुदितसूत्रसंख्या पञ्चचत्वारिंशदधिकपञ्चशती (५४५) । अधिकरणसंख्या षट्पञ्चाशदधिकं शतम् (१५६ ) । तच्चोक्त सौत्री संख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे - इति । सूत्रलक्षणं तु "अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः" इति प्रतिपादितम् । भाष्यलक्षणं तु – “सूनाथों वर्ण्यते यत्र वाक्यैस्सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः " - इति । अत्र च 'एतदुक्तं भवति' इत्यादिवाक्यैः स्ववाक्यविवरणात् सूत्रार्थनिरूपणाच्च भाष्यलक्षणवत्त्वं स्फुटम् । 'संक्षिप्तस्य च विस्तारः संक्षेपो विस्तृतस्य च । एतदुक्तं भवतिना समाधिर्व्याकुलस्य च " इति; 'एतदुक्तं भवति' इत्यादिग्रन्थस्य प्रयोजननिरूपणात् स्ववाक्यविवरणरूपत्वं स्पष्टम् । इदं च शास्त्रं शारीरकमिति व्यपदिश्यते । शरीरसम्बन्धी शारीरः । जगच्छरीरक इत्यर्थः । शारीरं कायति प्रतिपादयतीति शारीरकम् ; 'कै गै शब्दे' इति धातोः "आतोऽनुपसर्गे कः" इति कप्रत्ययः । जगच्छरीरकब्रह्मप्रतिपादकमित्यर्थः । उक्तं च श्रुतप्रकाशिकायां - " शारीरकं ब्रह्ममीमांसा; जगच्छरीरकः परमात्मा शारीरः "तस्यैष एव शारीर आत्मा" इति श्रुतेः । तद्विषयकं शास्त्रं शारीरकमित्युच्यते" इति ॥ 3 Acharya Shri Kailassagarsuri Gyanmandir उक्तं च तत्त्वटीकायां "सर्वशरीरगोचरत्वं दर्शयताशारीरकशब्देन " इति । प्रत्येकमधिकरणस्याङ्गानि पश्ञ्चेति केचिद्वदन्ति तानि च - विषयवाक्यनिरूपणम्, संशयप्रतिपादनम्, पूर्वपक्षसिद्धान्तयुक्तिनिरूपणम्, निश्चयः, पूर्ववक्षसिद्धान्तयोः प्रयोजननिरूपणं च - इति । तदुक्तं " विषयस्संशयश्चैव विचारो निर्णयस्तथा । प्रयोजनंच पञ्चाङ्गं प्राञ्चोSधिकरणं विदुः " इति । दशाङ्गानीति केचित् ; तच्चोक्तं " संगतिर्विषयश्चैव संशयो - त्थानकारणम् । संशयस्य प्रकारश्च तदर्थाच विचारणा । तस्यां फलफलित्वंच न्यायौ पक्षयोर्द्वयोः । निर्णयस्तत्फलं चेति बोध्यान्यधिकृतौ दश" इति ॥ एतद्रन्थस्येदं भागमुद्रणसमये समानीताः श्रीकोशा : श्री. उ. वे. परवस्तु रामानुजाचार्याणां, श्री. उवे. ति. घटाम्बु. राघवाचार्याणां श्रीरङ्गवासिनां, ए. वि गोपालाचार्याणां अहीन्द्र पुरवासिनां विदुषां चे. नरसिंहाचार्याणां, राजकीयप्राचीनलिखित पुस्तकशालायाश्च तालपत्रलिखिताः पञ्च प्रकृतैः, श्रीपरवस्तुरामानुजाचार्यैः लेखकप्रमादादिरहितं विद्वत्साहाय्येन परिशोधितः वेदान्तसारवेदान्तदीपाभ्यां श्रुतप्रकाशिकया च सहितः प्रमाणाकरनिर्देशपरिष्कृतश्चैकः परमुपाकार्युः। मुद्रितकोशोऽयमक्षरसंयोजनायोपपयुक्तो मातृकात्वेन च। अन्ये पुनस्तंमित्यानुवाचिताः । For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र प्रायः श्रुतप्रकाशिकानुसारी सरलश्च पाठो मूले संयोजितः । अन्ये पाठभेदाः यथोपलम्भं तत्तत्पुटेष्वधस्साङ्कविन्यासं प्रादर्शिषत । वेदान्तदीपवेदान्तसारमुद्रणे च श्रीपरवस्तुरामानुजाचार्यमुद्रितकोश एव मातृकासीत् । सरस्वती भाण्डारसभिकैर्मुद्रित एकः, राजकीयप्राच्यलिखित पुस्तकशालाया द्वौ तालपत्त्रकोशौ च परं साहाय्यमाचरन् । इत्थमुपकृतवतामेषां विषये वयं सधन्यवादं कृतज्ञतामाविष्कुर्मः । इदंपरिशोधनेन सादरं सावधानं च प्रमाणाकरपरिशीलनेन च परमुपकृतवतां परमहंसपरिव्राजकाचार्याणां श्रीमदयोध्यारामानुजसंयमिस्सार्वभौमाणां चरणारविन्दयोस्साञ्जलिबन्धं सकार्तज्ञ्यञ्चावेदयामः प्रणतिपरम्पराम् ॥ यद्यपि मुद्रित एव चिरादपि श्रीभाष्यकोशा आन्ध्रगैर्वाणलिपिषु लभ्याः, तथापि ते श्रुतप्रकाशिकासहिततया ग्रन्थविस्तरेण पृथुला दुर्भराश्चेति पठितॄणां न तथा पारायणे सौकर्यं विभ्रतीति मूलमात्रोऽयं कोशः महार्हेषु दृढतरेषु लघुषु च पत्रेषु लिप्यन्तराणां प्रादेशिकतया प्रायस्सार्वत्रिकैः प्रकृतिसुन्दरैर्नागराक्षरैः समुद्रितः ; झडिति सूत्रार्थपरिज्ञानाय तत्तदधिकरणावसाने वेदान्तसारवेदान्तदीपाभ्यां विशकलितानां तत्तदधिकरणपूर्वपक्ष सिद्धान्तार्थानाम् अध्यायादिसङ्गतिविशेषाणां च प्रदर्शिका श्लोकरूपया अधिकरणसारावल्या च संयोजितः ; प्रेक्षकाणां सौकर्याय तत्तेषु पुटेष्वधः प्रमाणानामाकर निर्देशेन अन्ततोऽधिकरणसूत्रसूचिकया च परिष्कृतः ॥ " For Private And Personal Use Only इति ति. चे. नरसिंहाचार्यः. Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१ १३८ १३९ १५८ १५८ هه १९८ १९८ २१३ २१३ श्री. श्रीशारीरकमीमांसाभाष्यवेदान्तसारदीपानां प्रथमाध्यायस्य अधिकरणानां सूची. | शारीरकमीमांसाभाष्ये| वेदान्तसारे | वेदान्तदीपे अधिकरणानि. आरम्भ. समाप्ति. | आरम्भ. समाप्ति. आरम्भ. समाप्ति. प्रथमपादे. जिज्ञासाधिकरणम् ११२ ११२ १२० जन्माद्यधिकरणम् १२४ १२४ १३० शास्त्रयोनित्वाधिकर- १३० १३८ १३८ समन्वयाधिकरणम् १५८ ईक्षत्यधिकरणम् | १५९ १६७ १६७ आनन्दमयाधिकरणम् १७२ १९६ १९६ अन्तरधिकरणम् । २०१ २०५ २०६ २०७ २०७ २०८ आकाशाधिकरणम् | २०८ २११ २१३ प्राणाधिकरणम् २१२ २१३ २१३ २१४ २१४ ज्योतिरधिकरणम् २१४ २१७ २१७ २१८ २१८ इन्द्रप्राणाधिकरणम् २२० २२४ २२५ द्वितीयपादे. सर्वत्रप्रसिद्ध्यधिकरण २३८ २३९ २४२ अनधिकरणम् २४६ २४७ २४८ २४९ अन्तराधिकरणम् २४९ २५४ २५४ २५५ २५७ अन्तर्याम्यधिकरणम् २६० २६० २६१ २६२ अदृश्यन्वादिगुणका- २६२ धिकरणम् वैश्वानराधिकरणम् २६९ २७६ २७८ २७८ तृतीयपादे घुम्वाद्यधिकरणम् २८१ २८४ २८४ २८५ २८६ भूमाधिकरणम् २८७ २९४ २९४ २९५ २९५ अक्षराधिकरणम् २९६ २९९ २९९ २९९ ईक्षतिकर्माधिकरणम् ३०२ ३०३ रहराधिकरणम् ३१४ ३१५ ३१६ प्रमिताधिकरणम् । ३२० ३२० । ३२० । ३२० م २२६ २२६ م २३८ २४० | २४२ ५ २५७ २६१ २६७ ا २ . २८ २९५ For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शारीरकमीमांसाभाष्ये वेदान्तसारे अधिकरणानि. आरम्भ. समाप्ति. आरम्भ. समाप्ति. ३२१ ३२७ ३२७ ३२८ ३३१ ३३२ ३३३ ३३३ ३३४ ३४२ ३४२ ३४३ ३४६ ३४६ ३५० ३५० ३५१ देवताधिकरणम् मध्वधिकरणम् अपशूद्राधिकरणम् प्रमिताधिकरणशेषः ३४५ ३४६ अर्थान्तरत्वादिव्यपदे- ३४७ शाधिकरणम् चतुर्थपादे. आनुमानिकाधिकरण ३५३ ३६० चमसाधिकरणम् ३६४ ३६९ संख्योपसंग्रहाधिकरण ३७२ ३७५ कारणत्वाधिकरणम् ३७७ ३८० जगद्बाचित्वाधिकरणम् ३८१ ३८७ वाक्यान्वयाधिकरणम् ३८९ प्रकृत्यधिकरणम् ३९९ सर्वव्याख्यानाधिकरण ४१२ ३९७ ४०८ ४१२ ३६१ ३७० ३७५ ३८० ३८७ ३९७ ४०९ ४१२ Acharya Shri Kailassagarsuri Gyanmandir अ-सं = अध्यायसंख्या ॥ पा- सं = पादसंख्या ॥ सू-सं = सूत्रसंख्या ॥ शा-भा. पु-सं= शारीरकमीमांसाभाष्यपुटसंख्या ॥ वे-सा, पु-सं = वेदान्तसारपुटसंख्या ॥ बे-दी. पु-सं = वेदान्तदीपपुटसंख्या || उपरितनसंकेतानां विवरणम् For Private And Personal Use Only ३६२ ३७० ३७५ ३८० ३८७ ३९७ ४१० ४१२ वेदान्तदीपे आरम्भ. समाप्ति. ३२८ ३३१ ३३३ ३३४ ३४३ ३४५ ३४६ ३४७ ३५१ ३५२ ३६२ ३७० ३७५ ३८० ३८७ ३९८ ४१० ४१२ ३६४ ३७२ ३७७ ३८१ ३८८ ३९९ ४११ ४१२ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री.. श्रीशारीरकमीमांसाभाष्यवेदान्तसारदीपानां प्रथमाध्यायस्य अकारादिक्रमेण सूत्राणां सूची ॥ सूत्राणि. अ-सं. पा-सं. सू-सं. शा-भा. वे-सा. पु-सं. | पु-सं. वे-दी. पु-सं. २९९ ३३० २५६ ३/२८॥ ३२५ | ३२८ २५२ २५५ २७३ २७७ २१३ २४७ २७९ ع MAgrg २१४ २४८ १२० २६८ २५७ لم २६७ २५५ لم به مد له ... سه २१८ ९८० २७४ २४९ २५७ २५४ २६० अक्षरमम्बरान्तधृतेः. अत एव च नित्यत्वम्. अत एव च स ब्रह्म. अत एव न देवता भूतअत एव प्राणः. अत्ता चराचरग्रहणात्. अथातो ब्रह्मजिज्ञासा. अदृश्यत्वादिगुणअनवस्थितेरसंभअनुकृतस्तस्य च. अनुपपत्तेस्तु न शा. अनुस्मृतेर्बादरिः. अन्तर उपपत्तेः. अन्तर्याम्यधिदैवा. अन्तस्तद्धर्मोपदे. अन्यभावव्यावृत्तेअन्याथै तु जैमिनिअन्यार्थश्च परामर्शः. अपि स्मयते. अभिध्योपदेशाच. अभिव्यक्तरित्याअल्पश्रुते रितिचेअर्भकौकस्त्वात्तअस्मिन्नस्य च तद्योअवस्थितेरितिकाआकाशोऽर्थान्तरत्वाआकाशस्तल्लिङ्गात्. आनन्दमयोऽभ्यासात्. आमनन्तिचैनमआत्मकृतेः, आनुमानिकमप्ये WM GS २५५ २६१ २०७ m mrarar ramanam" mor many mornt rrrorrrrrrrrrrrrrrrrrrrrrrrrrrror ه له مه مه م له لم له له سه لله سه س » سد س Mms3००/ Voro०१rmerox ३८७ ३१५ ३१५ ३८८ ३१८ سع به له سه له । » لم لم سه ع لع م ३१८ २४१ २०० مع م نه به السلع २७७ ३१५ २३९ १९८ ३९७ ३५० २०८ २१३ | १३ १७३ १९६ २३३ | २७५ २७८ ४२६ । ४०४ ४०९ ४ १ | ३५३ | ३६१ سلع २३ ३५१ २११ १९८ २८० مر الله WWW له ४११ ३६२ For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्राणि अ-सं. पा-सं. स-संशा -भा. वे-सा. वे-दी. पु-सं. | पु-सं. पु-सं. इतरपरामर्शात्स ३ ईक्षतिकर्मव्यपदेईक्षतेन शब्दम्. १६७ nawane on سه उत्क्रमिष्यत एवं भाउत्तरत्र चैत्ररथेनलिउत्तराच्चेदाविर्भूतउपदेशभेदान्नेतिउभयेऽपिहिभेदेनै ३९७ ३४२ ३९८ ३४४ ३१७ २११ ३१० २१६ WWW العلم ए. < एतेन सर्वे व्याख्याता ४१२ سد ३४६ م २३९ १९८ <Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्राणि. जीवमुख्यप्राणलिङ्गान्नेति चेनोपाज्योतिर्दर्शनात्. ज्योतिरुपक्रमातुज्योतिश्चरणाभिज्योतिषिभावाच्च. ज्योतिषैकेषामसज्ञेयत्वावचनाच्च. त. तत्तु समन्वयात्. तदधीनत्वादर्थवत्. तदभावनिर्धारणे च• तदुपर्यपि बादरायतद्धेतुव्यपदेशाच्च. तन्निष्ठस्य मोक्षोपत्रयाणामेव चैवमु द. दहर उत्तरेभ्यः. वाद्यायतनं स्व ध. धर्मोपपत्तेश्व. धृतेश्व महिम्नो न. न च स्मार्तमतद्धर्मान वक्तुरात्मोपदेशान संख्योपसंग्रहा नानुमानमतच्छ तरोऽनुपपत्तेः • प. पत्यादिशब्देभ्यः . परिणामात्. प्रकरणाच. प्रकरणात्. प्रकृतिश्च प्रतिज्ञाप्रतिज्ञा विरोधात्. www.kobatirth.org अ-सं. पा-सं. सू.सं. or o १ १ १ १ or or vv or or or or or ܡ ܡ ܗ ܘ ܡ ܗ ܀ ovom m m mm rav mov m or mov ३२ ४१ ९ o २५ m 5 or ३१ १३ ४ ४ ३ ७ ६ १३ or Acharya Shri Kailassagarsuri Gyanmandir २५ १५ १९२ शा भा. वे सा. पु-सं. पु. सं. २२३ २२६ ३४६ || ३४६ ३६६ ३७० २१४ | २१५ ३३१ ३३३ ३७४ | ३७५ ३५८ ३६१ २३ १३९ १५८ ३५७ | ३६१ For Private And Personal Use Only ३३९ ३४३ ३२१ ३२७ १९७ १६२ | १६८ ३५९ ३६१ ३०४ ३१४ २८१ २८४ वे. दी. पु.सं. २२८ ३४७ ३७१ २१८ ३३४ ३७७ ३६३ १५८ ३६३ ३४४ ३२८ १९९ १७१ ३६३ ८ २९३ २९५ २९५ १५ ३०८ ३१४ ३१७ ३१६ २८५ २० २५९ २६१ २६२ ३० २२१ २२५ २२७ ११ ३७२ ३७५ ३७५ ३ २८३ २८५ २८६ १७ १९३ १९७ २०० ४४ ३४९ ३५१ ३५२ २७ ४०४ ४०९ ४११ १० २४३ २४७ २४८ २८४२८५ २८६ ३९९ ४०५ ४१० १६३ १६८ १७१ Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्राणि - प्रतिशासिद्धेर्लिङ्गमाप्रसिद्धेश्व. प्राणस्तथानुगमात्. प्राणादयो वाक्यशे भ. भावं तु बादरायणोभूतादिपादव्यपदेशो - भूमा संप्रसादध्युभेदव्यपदेशाच. भेदव्यपदेशाश्चान्यः. भेदव्यपदेशात्. मध्वादिष्वसम्भवादन महदूच. मावर्णिकमेव चमुक्तोपसृप्यव्यपदे म. य. योनिश्च हि गीयते. रूपोपन्यासाच्च. वदतीति चेन प्रावाक्यान्वयात्. विकारशब्दानेविरोधः कर्मणीविवक्षितगुणोपविशेषणभेदव्यप विशेषणाच. वैश्वानरस्साधा श. शब्द इति चेन्नाशब्दविशेषात्. शब्दादिभ्यो ऽन्तःशब्दादेव प्रमि - www.kobatirth.org अ-सं. पा-सं. सू.सं. १ or or 2 o or or or or or or १ १ १ १ १ ४ २० १६ २९ १२ ܘ mr or mo ३ ३ mem ४ ४ NAR له ده ر ~ V A ४१ ३२ V M ३३२ | ३३३ २७ २१६ २१८ ७ २८७ २९४ १८ १९४ १९७ २२ २०८ २०५ २०७ ४ २८३ २८५ २८६ २४ A or or o ३० ३३१ ३३३ ३३३ १६ ७ ३६० ३६२ ३६३ १९२ १९७ १९९ २८३ २८५ २८६ Acharya Shri Kailassagarsuri Gyanmandir २३ १२ २५ २८ ४०८ ४१० ४११ २६७ | २६८ २६९ २७ ५ २७ ४४ २३ For Private And Personal Use Only शा-भा. वे सा. | वे-दा. पु-सं. पु-सं. पु-सं. ३९३ ३९७ ३९८ ३०९ ३१५ ३१७ m २२५ २२५ ३७४ ३७५ २२६ ३७६ ३३४ २१९ २९५ २०० ३५८ ३८९ १९० २७२ ३१८ ३६१ ३६३ ३९७ ३९८ १९६ १९९ ३२३ ३२७ ३२९ २३४ २३८ २४१ २६४ २६८ २४४ २४७ २४९ २६९ | २७६ २६९ २७८ ३२४ ३२७ ३२९ २३६ २३९ २४१ २७७ | २७९ ३२० ३२० Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्राणि. शास्त्रदृष्ट्या तूपशास्त्रयोनित्वात्. शुगस्य तदनादर श्रवणाध्ययना श्रुतत्वाच्च. श्रुतोपनिषत्कग संस्कार परामर्शसमाकर्षात्· समाननामरूपसम्पत्तेरिति जै सम्भोगप्राप्तिरिति चेसर्वत्र प्रसिद्धोपसाक्षाच्चोभयाम्ना साच प्रशासनात्. साक्षादप्यविरोसुखविशिष्टाभिसुषुप्त्युत्क्रान्त्योर्भे सूक्ष्मं तु तदर्हत्वात्. स्थानादिव्यपस्थित्यदनाभ्यां च. स्मर्यमाणमनुमानं - स्मृतेश्व. स्मृतेश्व. स्वाप्ययात्. ह. पेक्षया म यत्वावचनाच्च. www.kobatirth.org अ-सं. पा. सं. सू-सं or or १ or on or or १ १ २ mom ४ ४ ४ ४ ४ ४ ४ ४ ४ mov ४ ४ mov ३१ १ v mm V ३ ३३ ३६ १५ २९ ३२ ३४२ ३४३ ३८ | ३३९ १२ १६५ १६९ १७ २५३ २५५ va १ १० २६ ३ २४ ३९ १० Acharya Shri Kailassagarsuri Gyanmandir ३३९ ३४२ ३७९ | ३८० ३२६ ३२८ २७५ २३८ २३९ २४२ २३० २३८ २४० २५ ४०३ ४०९ ४१० २९७ २९९ / ३०० २७३ | २७७ २७९ २५० २५५ २५६ ३४९ | ३५० ३५१ ३५६ | ३६१ | ३६३ २५४ २५६ २८५ | २८६ २७६ २७८ २४१ ३४४ १७१ शा-भा. वे सा. पु-सं. पु-सं For Private And Personal Use Only २२२ २२५ २२७ १३० १३८ १३८ ३३४ २५० २८४ वे दी. पु-सं २७१ २३६ | २३९ ३३९ ३४३ १६३ १६८ ३१९ १६२ ३४३ ३४४ १७२ २५६ ३४४ ३८१ ३३० २७७ २८० ३२० ३२० १६८ १७९ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः ॥ श्रीभगवद्रामानुजविरचितं शारीरकमीमांसाभाष्यम् ॥ अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतवातरक्षैकदीक्षे । श्रुतिशिरसि विद ब्रह्मणि श्रीनिवासे भवतु मम परस्मिञ्शेमुषी भक्तिरूपा || पाराशर्यवचस्सुधामुपनिषद्दग्धान्धिमध्योद्धतां संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् । पूर्वाचार्य सुरक्षितां बहुमतिव्याघातदूरस्थितामानीतां तु निजाक्षरैस्सुमनसो भौमाः पिवन्त्वन्वहम् | + (प्रथमाध्याये - प्रथमपादे - जिज्ञासाधिकरणम् ॥ ) : भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सश्चिक्षिपुः, तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ॐ ॥ अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अत्रायमथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सं जातमोक्षाभिलाषस्यानन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी । For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा | ब्रह्मण इति कर्मणि षष्ठी, १" कर्तृकर्मणोः कृति" इति विशेषविधानात् । यद्यपि सम्बन्धसामान्यपरिग्रहेऽपि जिज्ञासायाः कर्मापेक्षत्वेन कर्मार्थत्वसिद्धि:, तथाऽप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात् कर्मणि षष्ठी गृह्यते । न च २" प्रतिपदविधाना षष्ठी न समस्यते " इति कर्मणि षष्ठयास्समास निषेधश्शङ्कनीयः, " ३" कृद्योगा च षष्ठी समस्यते " इति प्रतिप्रसवसम्भवात् ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्घयेयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवाधिकातिशयं सोsस्य मुख्योऽर्थः स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म । Acharya Shri Kailassagarsuri Gyanmandir ज्ञातुमिच्छा जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते ॥ मीमांसापूर्व भागज्ञातस्य कर्मणोऽल्पास्थिर फलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षयफलत्वाच्च पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तं भवति । तदाह वृत्तिकारः -- ४" वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा" इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं – ५“ संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः" इति । अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम् - ६" अथातो १. अष्टा. २. अ. ३. पा. ६५. सू. २. अष्टा. २. अ. २. पा. १० सू० वा. ३. अष्टा. २. अ. २. पा. ८. सू. वा. ४. बोधायनवृत्ति: ५. बोधायनवृत्ति: ६. कर्ममी. १. अ. १. पा. १. सू. For Private And Personal Use Only - Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् धर्मजिज्ञासा" इत्यारभ्य १" अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् " इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि – प्रथमं तावत् २" स्वाध्यायोऽध्येतव्यः" इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते ॥ Acharya Shri Kailassagarsuri Gyanmandir तच्चाध्ययनं किंरूपं कथं च कर्तव्यमित्यपेक्षायाम् ३" अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयेत्" इत्यनेन, ४ “ श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्त छन्दांस्यधीयीत मासान्विमोऽर्धपञ्चमान् ॥ " इत्यादिव्रतनियमविशेषोपदेशैश्वापेक्षितानि विधीयन्ते ॥ एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याऽचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहण फलमध्ययनमित्यवगम्यते ॥ अध्ययनं च स्वाध्यायसंस्कारः, ५" स्वाध्यायोऽध्येतव्यः " इति स्वाध्यायस्य कर्मत्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् | संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषा| र्थचतुष्टय तत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च ॥ एवमध्ययनविधिर्मन्त्रवत् नियमवदक्षरराशिग्रहणमात्रे पर्यत्रस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणे १. शारीरकमी ४. अ. ४. पा. २२. सृ. २. यजुरारण्यके २. प्र. १५. अनु. ३. शतपथब्राह्मणम् . ४. मनुस्मृ. ४. अ. ९५. श्लो. ५. यजुरारण्यके. २. प्र. १५. अनु. For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये अ. १. ऽधीतवेदः पुरुषस्वयमेव प्रवर्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तनिर्णयफलवेदान्तवाक्यविचाररूपशारीरकर्मामांसायामाधिकरोति । तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति– १“तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते" २" अन्तवदेवास्य तद्भवति" ३" नह्यध्रुवैःप्राप्यते" "प्लवा ह्येते अदृढा यज्ञरूपाः" ५" परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठातस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् " ६" ब्रह्मविदाप्नोति परम्" ७" न पुनर्पत्यवे तदेकं पश्यति" " न पश्यो मृत्यु पश्यति" ९"स खराडवति" १०" तमेवं विद्वानमृत इह भवति" ११" पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति"--इत्यादीनि ॥ ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वम् , स्वर्गादीनां च क्षयित्वं, ब्रह्मोपासनस्यामृतत्वफलत्वं च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्तताम् । किमर्था धर्मविचारापेक्षा । एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम् , सागाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् ; आपातप्रतीतिर्विद्यत एव, तथाऽपि न्यायानुगृहीतस्य १. छान्दोग्ये. ८. प्रपाठके. १. खण्डे. ६. वा. ७. २. बृहदारण्यके.५.अध्याये.८.ब्राह्मणे.१०.वा. ८. छा-उ. ७. प्र. २६. ख. २. वा. ३. कठे. २. वल्लयां. १०. वा. ९. छा-उ. ७. प्र. २५. ख. २. वा. ४. मुण्डकोपनिषदि.१.मुण्डके. २. ख. ७. वा. १०. पुरुषसूक्ते. २०. वा. ५. मुण्ड-उ. १. मुण्ड. २. ख. १२.१३.वा. ११. श्वेताश्वतरे. १. अ. ६. वा. ३. तैत्तिरीये, आनन्द. २.अ. १. अनु.१.वा. For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् वाक्यस्यार्थनिश्चायकत्वादापातप्रतीतोऽप्यर्थस्संशयविपर्ययौ नातिवर्तते; अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्तव्यः--इति चेत् । तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् । -.. (लघुपूर्वपक्षः).-..ननु च-ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । न धर्मविचारापेक्षा ब्रह्मजिज्ञासायाः, अधीतवेदान्तस्यानधिगतकर्मणोऽपि वेदान्तवाक्यार्थविचारोपपत्तेः। कर्माङ्गाश्रयाण्युद्गीथायुपासनान्यत्रैव चिन्त्यन्ते ; तदनधिगतकर्मणो न शक्यं कर्तुम् इति चेत् ; अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेददर्शननिमित्तजन्मजरामरणादिसांसारिकदुःखसागरनिम - नस्यनिखिलदु:खमूलमिथ्याज्ञाननिबर्हणायाऽत्मैकत्वविज्ञानं प्रतिपिपादयिषितम्। अस्य हि भेदावलम्बि कर्मज्ञानं कोपयुज्यते?। प्रत्युत विरुद्धमेव। उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते । स तु न साक्षात्सङ्गतः। अतो यत्प्रधानं शास्त्रं, तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् ॥ बाढम् । तदपेक्षितं च कर्मविज्ञानमेव,कर्मसमुच्चितात् ज्ञानादपवर्गश्रुतेः। वक्ष्यति च--- १" सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्" इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम् । अतस्तदेव पूर्ववृत्तम् ॥ नैतद्युक्तं, सकलविशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः; अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसाध्यसाधनेतिकर्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव साधनं भवेत् । श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति- २ " अन्तवदेवास्य १. शारीरकमी. ३. भ. ४. पा. २६. सू. | २. बृ-उ. ५. अ. ८. बा. १०. वा. For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. तद्भवति" १" तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते" २" ब्रह्मविदामोति परम्" ३"ब्रह्म वेद ब्रह्मैव भवति" ४" तमेव विदित्वाऽतिमृत्युमेति"-- इत्याद्याः॥ यदपि चेदमुक्तं यज्ञादिकर्मापेक्षा विद्येति । तद्वस्तुविरोधात् श्रुत्यक्षरपालोचनया चान्तःकरणनेमल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते ; न फलोत्पत्तौ, “विविदिषन्ति" इति श्रवणात् । विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरणोपायतां श्रुतिरेवाऽह - ५"शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत् "--इति ।। तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेषकर्ममृदितकषायस्य विविदिषोत्पत्ती सत्यां ६" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" ७" सत्यं ज्ञानमनन्तं ब्रह्म" "निष्कलं निष्क्रियं शान्तम्" ९" अयमात्मा ब्रह्म" १०" तत्त्वमसि" इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते। वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम वेदान्तवाक्यानि आत्मैकत्वविद्यापतिपादकानीति तत्त्वदर्शिनआचा न्न्यिाययुक्तार्थग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादिभेदवासनानिरसनायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्तयतीत्येवंरूपस्य श्रवणस्यावश्यापेक्षितमेव पूर्ववृत्तं ११वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमद१. छा-उ. ८. प्र. १. ख. ६. वा. ७. तै-उ. आन. २. अ. १. अनु. १. वा. २. तै-उ. आन. २. अ. १. अनु. १. वा. ८. श्वे-उ. ६. अ. १९. वा. ३. मुण्ड-उ. ३. मुण्ड. २. ख. ९. वा. ९. बृ-उ. ६. अ. ४. ब्रा. ५. वा. ४. श्वे-उ. ३. अ. ८. वा. १०. छा-उ. ६. प्र. ८. ख. ७. वा. ५. बृ-उ. ६. अ. ४. ब्रा, २३. वा. ११. किमपि ॥ इत्यधिकं कचित्पुस्तके दृश्यते ॥ ६. छा-उ, ६. प्र. २. ख. १. वा. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . मादिसाधनसम्पत् , इहामुत्रफलभोगविरागः, मुमुक्षत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अर्थवभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ।। एतदुक्तं भवति --- ब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिक भेददर्शनमेव बन्धमूलम् । बन्धश्वापारमार्थिकः । स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते । निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्ती कार्ये वा कर्मणो नोपयोगः। विविदिषायामेव तु कर्मणामुपयोगः। स च पापमूलरजस्तमोनिवर्हणद्वारेण सत्त्वविद्धया भवतीतीममुपयोगमभिप्रेत्य "ब्राह्मणा विदिषन्ति" इत्युक्तमिति ॥ अतः कर्मज्ञानस्यानुपयोगात् उक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् । --(लघुसिद्धान्तः )---- अत्रोच्यते यदुक्तमविद्यानिवृत्तिरेव मोक्षः सा च ब्रह्मविज्ञानादेव भवति ॥ इति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यविधित्सितं ज्ञानं किंरूपमिति विवेचनीयम्-किं वाक्याद्वाक्यार्थज्ञानमात्रम्,उत तन्मूलमुपासनात्मकं ज्ञानम् इति। न तावद्वाक्यजन्यं ज्ञानं,तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः; तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यं-भेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति, जातेऽपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्न दोषाय ; चन्द्रकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत् । अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति।।--इति, सत्यां सामग्रयां ज्ञानानुत्पत्त्यनुपपत्तेः; सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्वाधकज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम् ; भेदज्ञानसामय्या अपि वासनाया मिथ्यारू For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. पत्वेन ज्ञानोत्पयैव निवृत्तत्वात् ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्तिः। वासनाकार्य भेदज्ञानं छिन्नमूलमथ चानुवर्तत इति बालिशभाषितम् । द्विचन्द्रज्ञानादौ तु वाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेनाविनष्टत्वात् मिथ्याज्ञानानुवृत्तिरविरुद्धा | प्रबलप्रमाणबाधितत्वेन भयादिकार्य तु निवर्तते । अपि च भदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति ; भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात् तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरसनानुपपत्तेः । अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यै - विधित्सितम् । तथा च श्रुतयः - २" विज्ञाय प्रज्ञां कुर्वीत " ३" अनुविद्य विजानाति " ४" ओमित्येवाऽत्मानं ध्यायथ " ५" निचाय्य तं मृत्युमुखात्प्रमुच्यते " ६" आत्मानमेव लोकमुपासीत " ७" आत्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तव्यो निदिध्यासितव्यः " ८" सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः ” – इत्येवमाद्याः || > ". १. मिथ्याज्ञानानिवृत्तिरिति . पा. २. बृ. उ. ६. अ. ४. बा. २१. वा. ३. छा-उ. ८. प्र. १२. ख. ६. वा. ४. मुण्ड- उ. २. मुण्ड. २. मु. ६. वा. Acharya Shri Kailassagarsuri Gyanmandir " अत्र “ निदिध्यासितव्यः" इत्यादिनैकार्थ्यात् “ अनुविध वि जानाति ” “ विज्ञाय प्रज्ञाङ्कर्वीत " इत्येवमादिभिर्वाक्यार्थज्ञानस्य ध्यानोपकारकत्वात् “ अनुविद्य ” “ विज्ञाय " इत्यन्य “ प्रज्ञाङ्कुर्वीत “ विजानाति " इति ध्यानं विधीयते । “ श्रोतव्यः" इति चानुवादःस्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्त । ५. कठ- उ. १. अ. ३. वल्ली. १५. वा. ६. बृ-उ. ३. अ. ४. बा. १५. वा. ७. बृ. उ. ६. अ. ५. वा. ६. वा. ८. छा-उ. ८. प्र. ७. ख. १. वा. For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिशासाधिकरणम्. निर्णयाय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य “मन्तव्यः" इति चानुवादः । तस्माख्यानमेव विधी - यते । वक्ष्यति च - १ " आवृत्ति र सकृदुपदेशात्” इति । तदिदमपवर्गोपाय - तया विधित्सितं वेदनमुपासनमित्यवगम्यते, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् - २"मनो ब्रह्मेत्युपासीत इत्यत्र – “ भाति च तपति - " च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद, " ३" न स वेद अकृत्स्त्रो ह्येषः - आत्मेत्येवोपासीत", ४“यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्यत्र-५" अनुम एतां भगवो देवतां शाधि यां देवतामुपास्से " इति ॥ Acharya Shri Kailassagarsuri Gyanmandir ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् - ६८ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः” इतिध्रुवायास्स्मृतेरपवर्गोपायत्वश्रवणात् । सा च स्मृतिर्दर्शनसमानाकारा ७" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ " इत्यनेनैकार्थ्यात् । एवं च सति ८" आत्मा वा अरे द्रष्टव्यः " - इत्यto निदिध्यासनस्य दर्शनसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षादर्शनरूपता । वाक्यकारेणैतत्सर्व प्रपञ्चितं - ९" वेदनमुपासनं स्यात्तद्विषये श्रवणात्”–इति । सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम् । १०“ सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत्" इति पूर्वपक्षं कृत्वा -- ११ “सिद्धं तूपासनशब्दात्" इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । १२ उपासनं स्याद्धुवानुस्मृति ➖➖➖ 1 १. शारीर. ४. अ. १. पा. १. सू. २. छा-उ. ३. प्र. १८. ख. १. वा. ३. बृ- उ. ३. अ. ४, बा. ७. वा. ४. छा-उ. ४. प्र. १. ख. ४. वा. ५. छा-उ. ४. प्र. २. ख. २. वा. 2 ६. छा-उ. ७. प्र. २६. ख २. वा. ७. मुण्ड- उ. २, मु. २. ख. ८. वा. ८. बृ-उ. ६. अ. ५. बा. ६. वा. ९. १०. ११. १२. बोधायनवृत्ति:. For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० शारीरकमीमांसाभाष्ये [अ. १. दर्शनानिर्वचनाच" इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् ॥ सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः। एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां स्मृति विशिनष्टि-- १"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति । अनेन केवलश्रवणमनननिदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्त्वा यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तम् । प्रियतम एव हि वरणीयो भवति। यस्यायं निरतिशयप्रियस्स एवास्य प्रियतमो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति, तथा खयमेव भगवान् प्रयतत इति भगवतैवोक्त २"तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥".इति, ३"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।"इति च ॥ अतस्साक्षात्काररूपा स्मृतिस्स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य, स एव परेणाऽत्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति । एवंरूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अतएव श्रुतिस्मृतिभिरेवमभिधीयते४" तमेव विदित्वाऽतिमृत्युमेति" ५" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते", १. मुण्ड-उ. ३. मु. २. ख. ३. वा. ४. श्वे-उ. ३. अ. ८. वा. २. गीता. १०. अ. १०. श्लो. ३. गी. ७. अ. १७. श्लो. ५. पुरुषसूक्तम्. १७. वा. For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम्. १" नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ Acharya Shri Kailassagarsuri Gyanmandir भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन! | ज्ञातुं द्रष्टुं च तश्वेन प्रवेष्टुं च परन्तप ! ।। " २" पुरुषस्स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया ।। " इति ॥ १. गीता. ११, अ. ५३, ५४. लो. २. गी. ८. अ. २२. श्लो. ३. शारीरकमी, ३. अ. ४.पा. २६. सू. ४. शा. ४, अ, १. पा १२. सू ५. शा. ४. अ. १. पा. ६. शा. ३. अ, ४. पा. १६. सू. ३३. सु. ५ एवंरूपाया ध्रुवानुस्मृतेस्साधनानि यज्ञादीनि कर्माणीति - ३ " यज्ञादिश्रुतेरश्ववत्" इत्यभिधास्यते । यद्यपि - विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते, तथाऽपि तस्यैव वेदनस्य ध्यानरूपस्याहर हरनुष्ठीयमानस्याभ्यासाधेयातिशयस्याऽप्रयाणादनुवर्तमानस्य ब्रह्मप्राप्तिसाधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च - ४ " आप्रयाणात्तत्रापि हि दृष्टम् " " अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् " ६" सहकारित्वेन च ” - इत्यादिषु । वाक्यकारथ ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह ७" तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यस्संभवान्निर्वचनाच्च ” – इति । विवेकादीनां स्वरूपं चाऽह ---- “ जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिर्विवेकः” इति । अत्र निर्वचनम् -- ९" आहारशुद्ध सत्त्वशुद्धिस्सच्चशुद्धौ ध्रुवा स्मृतिः"इति । १०" विमोकः कामानभिष्वङ्गः” इति । ११" शान्त उपासीत " इति निर्वचनम् । १२“ आरम्भणसंशीलनं पुनः पुनरभ्यासः" इति । निर्वचनं च ८ ७. बोधायनवृत्तिः. ८. वृत्ति:. ९. छा- उ. ७, प्र. २६. ख. २. वा. १०, वृत्ति:. ११. छा- उ. ३, प्र. १४, ख, १. वा. १२, वृत्ति:, For Private And Personal Use Only ११ Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ शारीरकमीमांसाभाष्ये [अ. १. स्मार्तमुदाहृतं भाष्यकारेण - १ " सदा तद्भावभावितः " इति । २ “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया" इति । निर्वचनं - ३ “क्रियावानेष ब्रह्मविदां वरिष्ठः " ४" तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति च । ५ " सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि " इति । निर्वचनं– ६" सत्येन लभ्यः " ७" तेषामेवैषःविरजो ब्रह्मलोकः”–इत्यादि । ८" देशकाल वैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्व तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः " इति । तद्विपर्ययोऽनव। सादः । निर्वचनं - ९ " नायमात्मा बलहीनेन लभ्यः" इति। १० “तद्विपर्य - यजा तुष्टिरुद्धर्षः” इति । तद्विपर्ययोऽनुद्धर्षः । अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि – ११ " शान्तो दान्तः” इति । एवंनियमयुक्तस्याऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति ।। Acharya Shri Kailassagarsuri Gyanmandir तथा च श्रुत्यन्तरम् - विद्ययाऽमृतमश्नुते ||" - इति ॥ * १२ “विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्या मृत्युं अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया - कर्मणा । मृत्युं - ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म । तीर्त्वा अपो । विद्यया- ज्ञानेन । अमृतं ब्रह्म । अश्नुते- प्रानोतीत्यर्थः । मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्वहितं कर्मैव यथोक्तम् १३ 46 १. गीता. ८. अ. ६. लो. २. वृत्ति:. ३. मु-उ. ३. मु. १. ख. ४. वा. ४. बृ-उ. ६. अ. ४. बा. २२. वा. ५. वृत्ति:, इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ६. मु-उ. ३. मु. १. ख. ५. वा. ७. प्रश्न - उ. १. प्रश्न. १५. १६. वा. ८. वृत्तिः, ९. मु-उ. ३. मु. २. ख. ४. वा. १०. वृत्ति:. ११. बृ. उ. ६. अ. ४. वा. २३. वा. १२. ईशा - उ ११. वा. *विद्यां ब्रह्मोपासनरूपाम् अविद्यां तदङ्गभूतकर्मात्मिकां च एतदुभयं सह वेद अङ्गाङ्गिभावेन सहानुष्ठेयं वेदेत्यर्थः . १३. विष्णुपुराणे. ६. अंशे. ६. अध्याये, १२ श्लो. For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥" इति ॥ ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभिधेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमोविवृद्धिद्वारेण । पापस्य च ज्ञानोदयविरोधित्वम्-१“एष एवासाधु कर्म कारयति । तं यमधो निनीषति"इति श्रुत्याऽवगम्यते । रजस्तमसोयथार्थज्ञानावरणत्वं,सत्त्वस्य च यथार्थज्ञान हेतुत्वं भगवतैव प्रतिपादितं–२ "सत्त्वात्सञ्जायते ज्ञानम्"इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम् । तनिरसनं च अनभिसंहितफलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः-३"धर्मेण पापमपनुदति" इति । तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम् । अतोऽपेक्षितर्कर्मस्वरूपज्ञान, केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेयमिति , सेवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववत्ता वक्तव्या ॥ ___ अपि च नित्यानित्यवस्तुविवेकादयश्च, मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते,फलकरणेतिकर्तव्यताधिकारिविशेषनिश्चयाइते,कमस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः। स च तार्तीयः। उद्गीथायुपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि, ब्रह्मज्ञानापेक्षाणीति इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसम्मता ॥ __ ---(महापूर्वपक्षः )...यदप्याहुः-अशेषविशेषप्रत्यनीकचिन्मानं ब्रह्मैव परमार्थः, तदतिरेकिनानाविधज्ञातृज्ञेयतत्कृतज्ञानभेदादि सर्व तस्मिन्नेव परिकल्पितं १. कौषीतक्या. ३. अध्याये. ९. वा. । ३. तैत्ति. ६. प्रश्न. नारायणे. ५०. अनु. २. गीता. १४. अ. १७. श्लो. For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ शारीरकमीमांसाभाष्ये [अ. १. मिथ्याभूतं—१"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" २“अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भतयोनि परिपश्यन्ति धीराः" ३"सत्यं ज्ञानमनन्तं ब्रह्म" ४"निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनम्" ५“यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्""न दृष्टेष्टारं पश्ये:-न मतेमन्तारं मन्वी थाः" ७'आनन्दो ब्रह्म" ८"इदं सर्व यदयमात्मा" ९"नेह नानाऽस्ति किंचन। मृत्योस्स मृत्युमामोति य इह नानेव पश्यति"१० “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येतत्केन के विजानीयात्"११ "वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" १२ “ यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति" १३" न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि" १४“मायामात्र तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात्" , १५ " प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥" १६ “ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः। तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥" १७ " परमार्थस्त्वमेवैको नान्योस्ति जगतः पते ॥" १. छा-उ. ६. प्र. २. ख. १. वा. १०. बृ-उ. ४. अ. ४. ब्रा. १४. वा, २. मु-उ. १. मु. १. ख. ६. वा. ११. छा. ६. प्र. १. ख. ४. वा. ३. तै-उ. आन. १. अनु. १. वा. १२. तै-उ. आन. ७. अनु. २. वा. ४. श्वे-उ. ६. अ. १९. वा. १३. शारी. ३. अ. २. पा. ११. सू . ५. के-उ. २. ख. ३. वा. १४. शा. ३. अ. २. पा. ३. सू. ६. बृ-उ. ५. अ. ४. ब्रा. २. वा. १५. वि. पु. ६. अंश. ७. अ. ५३. श्लो. ७. तै-उ. भृगु. ६. अनु. १६. वि. पु.१. २. ६. ८. बृ-उ. ४. अ. ४. ब्रा. ६. वा. १७. वि. पु. १. ४. ३८. ९. बृ-उ. ६. अ. ४. बा. १९. वा. For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. जिज्ञासाधिकरणम्. १“ यदेतद्दश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रपमयोगिनः॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रपं परमेश्वर! ॥" २" तस्याऽत्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिनः॥" ३" यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम । तदेषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥" ४" वेणुरन्ध्रविभेदेन भेदषड्रजादि संज्ञितः । अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः॥" ५".सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः॥" ६" विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥" ७" अहमात्मा गुडाकेशः सर्वभूताशयस्थितः ॥" ८" क्षेत्रमं चापि मां विद्धि सर्वक्षेत्रेषु भारत !॥" ९" न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥" १. वि. पु. १. ४. ३९. ४०. ४१. ६. वि. पु. ६. ७. ९६. २. वि. पु. २. १४. ३१. ७. गी. १०. २०. श्लो. ३. वि. पु. २. १३. ९०. ८. गी. १३. ३. ४. वि. पु. २. १४. ३२. ९. गी. १०.३९. ५. वि. पु. २. १६. २३. For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाग्ये [अ. १. इत्यादिभिर्वस्तुस्वरूपोपदेशपरैश्शास्त्रैः-- निर्विशेषचिन्मानं ब्रह्मैव सत्यमन्यत्सर्व मिथ्या-इत्यभिधानात् ॥ मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम्, यथा रज्ज्वायधिष्ठानसादेः। दोषवशाद्धि तत्र तत्कल्पनम्। एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरिकल्पितमिदं देवतियङमनुष्यस्थावरादिभेदं सर्व जगद्यथावस्थितब्रह्मस्वरूपावबोधवाध्यं मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनायविद्या । १"अनृतेन हि प्रत्यूढाः" २"तेषां सत्यानां सतामनृतमपिधानम्" ३"नासदासीनो सदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेतम्" ४"मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" ५“इन्द्रो मायाभिः पुरुरूप ईयते" ६"मम माया दुरत्यया" ७"अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" —इत्यादिभिः निर्विशेषचिन्मानं ब्रह्मैवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यवगम्यते। यथोक्तम्-- ८"ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभूतः। ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि ॥ यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः॥" ९"तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्कचित्कदाचिद्दिज ! वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्वहुधाऽभ्युपेतम् ॥ ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशस्स वासुदेवो न यतोऽन्यदस्ति । १. छा-उ. ८. प्र. ३. ख. २. वा. ६. गी. ७. १४. २. छा-उ. ८. प्र. ३. ख. १. वा. ७. माण्डू-उ. २. ख. २१. वा. ३. यजु. २. अष्ट. ८. प्र.९. अनु. ८. वि. पु. २. १२. ३९. ४०. ४. श्वे-उ. ४. अ. १०. वा. ९. वि.पु.२. १२. ४३, ४४, ५. बृ-उ. ४. अ. ५. ब्रा. १९. For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् १ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ।। " इति ॥ अस्याश्वाविद्याया निर्विशेषचिन्मात्र ब्रह्मात्मैकत्वविज्ञानेन निवृत्तिं वदन्ति - न पुनर्मृत्यवे तदेकं पश्यति" " न पश्यो मृत्युं पश्यति " *" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति " २" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " ३" ब्रह्म वेद ब्रह्मैव भवति" ४" तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः " - इत्याद्याश्रुतयः । अत्र मृत्युशब्देनाविद्याऽभिधीयते । यथा सनत्सुजातवचनं - ५" प्रमादं वै मृत्युमहं ब्रवीमि सदा प्रमादममृतत्वं ब्रवीमि ” – इति । ६" सत्यं ज्ञानमनन्तं ब्रह्म " ७" विज्ञानमानन्दं ब्रह्म" इत्यादिशोधकवाक्यावसेयनिर्विशेषस्वरूपब्रह्मात्मैकत्वविज्ञानं च - " अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ” ९" अकृत्स्नो ह्येष : " १० " आत्मेत्येवोपासीत " ११ “तत्वमसि ” १२" त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि " इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव – १३ " आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । तथा च वाक्यकारः - १४" आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः " इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता ॥ । १. वि. पु. २, १२.४५, लो. २. मु. २. मु. २. ख. ८. वा. ३. मु-३. मु. २. ख. ९. वा. ४. वे. ३. अ. ८. वा. ५. भारत, उद्योगपर्व. ४१. अ. ४, श्लो. ६. तै- आनं. १. अनु. १. वा. ७. बृ-५. अ ९. बा. २८. वा. 3 Acharya Shri Kailassagarsuri Gyanmandir ८. बृ- ३. अ. For Private And Personal Use Only ४. बा. १०. वा. ९. बृ- ३. अ. ४. ब्रा. ७. वा. १०. बृ ३. अ. ४. बा. ७. वा. ११. छा. ६. प्र. ८. ख. ७. वा. १२. १३. शारी. ४. अ. १. पा. ३. सू. १४. वाक्यम्. १७ Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभावे [अ. १. ननु च-सकलभेदनिवृत्तिः प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते ? । कथं वा 'रज्जुरेषा न सर्पः' इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्तिः क्रियते । तत्र द्वयोः प्रत्यक्षयोर्विरोधः; इह तु प्रत्यक्षमूलस्य शास्त्रस्य प्रत्यक्षस्य च इति चेत् तुल्ययोर्विरोधे वा कथं बाध्यबाधकभावः । पूर्वोत्तरयोर्दुष्टकारणजन्यत्वतदभावाभ्याम् -- इति चेत् । शास्त्रप्रत्यक्षयोरपि समानमेतत् ॥ एतदुक्तं भवति—बाध्यबाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम् , ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात् । तत्र हि ज्वालैक्यं प्रत्यक्षेणावगम्यते । एवं च- सति द्वयोः प्रमाणयोर्विरोधे यत्संभाव्यमानान्यथासिद्धि, तद्भाध्यम् ; अनन्यथासिद्धमनवकाशमितरदाधकम्-इति सर्वत्र बाध्यबाधकभावनिर्णयः इति ॥ तस्मादनादिनिधनाविच्छिन्नसम्प्रदायासम्भाव्यमानदोषगन्धान - वकाशशास्त्रजन्यनिर्विशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्रब्रह्मात्मभा - वावबोधेन सम्भाव्यमानदोषसावकाशप्रत्यक्षादिसिद्धविविधविकल्परूपबन्धनिवृत्तियुक्तैव । सम्भाव्यते च विविधविकल्पभेदप्रपञ्चग्राहिप्रत्यक्षस्यानादिभेदवासनादिरूपाविद्याख्यो दोषः । ननु-अनादिनिधनाविच्छिन्नसम्पदायतया निर्दोषस्यापि शास्त्रस्य–१“ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येतोसत्यम् । पूर्वापरापच्छेदे पूर्वशास्त्रवन्मोक्षशास्त्रस्य निरवकाशत्वात्तेन बाध्यत एव । वेदान्तवाक्येष्वपि सगुणब्रह्मोपासनपराणां शास्त्राणामयमेव न्यायः, निर्गुणत्वात्परस्य ब्रह्मणः । ननु च–२ “यस्सर्वज्ञस्सर्ववित्" ३"पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" ४" सत्यकामस्सत्य ३. श्वे. ६. अ. ८. वा. २. मु. २. मु. २. ख. ७. वा. । ४. छा. ८. प्र. १, ख. ५. वा. १. For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . सङ्कल्प:"-इत्यादिब्रह्मस्वरूपप्रतिपादनपराणां शास्त्राणां कथं बाध्यत्वम् निर्गुणवाक्यसामर्थ्यात्---इति ब्रूमः ॥ एतदुक्तं भवति -- १" अस्थूलमनण्वहस्वमदीर्घम्" २ "सत्यं ज्ञानमनन्तं ब्रह्म"३"निर्गुणम्" ४"निरञ्जनम्" इत्यादिवाक्यानि-निरस्तसमस्तविशेषकूटस्थनित्यचैतन्यं ब्रह्म-इति प्रतिपादयन्ति ; इतराणि च सगुणम् । उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वादलीयस्त्वमिति न किंचिदपहीनम् ॥ ननु च-- “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यत्र सत्यज्ञानादयो गुणाः प्रतीयन्ते ।। नेत्युच्यते,सामानाधिकरण्येनैकार्थत्वप्रतीतेः। अनेकगुणविशिष्टाभिधानेऽप्येकार्थत्वमविरुद्धम् इति चेत् ; अनभिधानज्ञो देवानां प्रियः । एकार्थत्वं नाम सर्वपदानामर्थैक्यम्। विशिष्टपदार्थाभिधाने विशेषणभेदेन पदानामर्थभेदोऽवर्जनीयः । ततश्चैकार्थत्वं न सिध्यति । एवं तर्हि सर्वपदानां पर्यायता स्यात् , अविशिष्टार्थाभिधायित्वात् । एकार्थाभिधायित्वेऽप्यपर्यायत्वमवहितमनाश्शृणु; एकत्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकत्वपरत्वेन सर्वपदानामर्थवत्वमेकार्थत्वमपर्यायता च ॥ एतदुक्तं भवति–लक्षणतः प्रतिपत्तव्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम् । तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते। तत्र स. त्यपदं विकारास्पदत्वेनासत्याद्वस्तुनो व्यावृत्तब्रह्मपरम्। ज्ञानपदं चान्याधीनप्रकाशजडरूपाद्वस्तुनो व्यावृत्तपरम् । अनन्तपदं च देशतः कालतो वस्तुतश्च परिच्छिन्नव्यावृत्तपरम् । न च व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्मः । अपि तु सकलेतरविरोधि ब्रह्मैव । यथा शौक्लयादेः १. बृ. ५. अ. ८. बा. ८. वा. ३. आत्मोपनिषत्. २. तै-आनं. १. अनु. १. वा. ४. श्वे. ६. अ. १९. वा. For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org [अ. १. शारीरकमीमांसाभाष्ये कार्ण्यादिन्यावृत्तिस्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् । एवमेकस्यैव वस्तुनस्सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पद १. छा. ६, प्र. २. ख. १. वा. २. तै. भृगु, १. अनु. त्रयम् ॥ तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव - १" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” – इत्यादिभिरैकार्थ्यम् । २" यतो वा इमानि भूतानि जायन्ते" ३" सदेव सोम्येदमग्र आसीत् " । ४" आत्मा वा इदमेक एवाग्र आसीत् " - इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिदमुच्यते - ५ " सत्यं ज्ञानमनन्तं ब्रह्म" इति । तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मावगतम् । जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते । अन्यथा - ६" निरञ्जनम्" ७" निर्गुणम्" इत्यादिभिश्व विरोधः । अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति । ननु च - सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात् । नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधिकरण्यस्य यैक्य एव तात्पर्यमिति सर्वसम्मतम् । ननु च - सर्वपदानां लक्षणा न दृष्टचरी । ततः किम् ? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा ; समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां प ३. छा. ६. प्र. २. ख. १. वा. ४. ऐतरेयोपनिषत्. १. अ.१. ख.१, वा. Acharya Shri Kailassagarsuri Gyanmandir ५. तै आनन्द, १. अनु. १. वा. ६. वे. ६. अ. १९. वा. ७. आत्मोपनिषत्. For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . दानां लक्षणा समाश्रीयते । अपूर्वकार्यएव लिङादेर्मुख्यवृत्तत्वात् लिङादिभिः क्रियाकार्य लक्षणया प्रतिपाद्यते । कार्यान्वितस्वार्थाभिधायिनां चेतरेषां पदानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणाऽपि न दोषः। अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् ॥ प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम्। विरोध एव न दृश्यते, निर्विशेषसन्मात्रब्रह्मग्राहित्वात्प्रत्यक्षस्याननु च 'घटोऽस्ति' 'पटोस्ति' इति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मालग्राहीत्युच्यते । विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञानवदेकव्यवहारहेतुतैव स्यात् । सत्यम् । तथैवात्र विविच्यते । कथं? घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवहियते न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं संभवति, तयोभिन्नकालज्ञानफलत्वात् प्रत्यक्षज्ञानस्य चैकक्षणवर्तित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम्। भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषयत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते। अतो भ्रान्तिमूल एव भेदव्यवहारः॥ किंच भेदो नाम कश्चित्पदार्थो न्यायविद्भिनिरूपयितुं न शक्यते । भेदस्तावन्न वस्तुस्वरूपम् , वस्तुस्वरूपे गृहीते स्वरूपव्यवहारवत्सर्वमाद्भेदव्यवहारप्रसक्तेः। न च वाच्यं स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य प्रतियोगिस्मरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहारः इति । स्वरूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा च नोत्पेक्षितुं क्षमा, स्वरूपभेदयोस्वरूपत्वाविशेषात् । यथा स्वरूपव्यवहारो न प्रतियोग्यपेक्षः, भेदव्यवहारोऽपि तथैव स्यात् । 'हस्तः कर' इतिवत् 'घटो भिन्न' इति पर्यायत्वं च स्यात् । नापि धर्मः; धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः, अन्यथा स्वरूपमेव स्यात् । भेदे च तस्यापि For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ शारीरकमीमांसाभाष्ये [अ. १. भेदस्तद्धर्मस्तस्यापीत्यनवस्था । किंच जात्यादिविशिष्टवस्तुग्रहणे सति भेदग्रहणम्, भेदग्रहणे सति जात्यादिविशिष्टवस्तुग्रहणमित्यन्योन्याश्रयणम् । अतो भेदस्य दुर्निरूपत्वात्सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम् ॥ Acharya Shri Kailassagarsuri Gyanmandir किंच 'घटोऽस्ति' 'पटोऽस्ति' 'घटोऽनुभूयते' 'पटोऽनुभूयते ' इति सर्वे पदार्थास्तत्तानुभूतिघटिता एव दृश्यन्ते । अत्र सर्वासु प्रतिपत्तिषु सन्मावमनुवर्तमानं दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्तमानतया अपरमार्थाः, रज्जुसर्पादिवत् । यथा रज्जुरधिष्ठानतयाऽनुवर्तमाना परमार्था सती; व्यावर्तमानास्सर्पभूदलनाम्बुधारादयो ऽपरमार्थाः। ननु चरज्जुसर्पादौ 'रज्जुरियं न सर्पः' इत्यादिरज्ज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधितत्वात्सर्पादेरपारमार्थ्यम्, न व्यावर्तमानत्वात् । रज्ज्वादेरपि पारमार्थ्य नानुवर्तमानतया, किंत्वबाधितत्वात् । अत्र तु घटादीनामवाधितानां कथमपारमार्थ्यम् ? उच्यते, घटादौ दृष्टा व्यावृत्तिस्सा किंरूपेति विवेचनीयम् । किं घटोsस्तीत्यत्र पटाद्यभावः । सिद्धं तर्हि घटोऽस्तीत्यनेन पटादीनां aftaraम् । अतो वाधफलभूता विषयनिवृत्तिर्व्यावृत्तिः । सा व्यावर्तमानानामपारमार्थ्यं साधयति । रज्जुवत् सन्मात्रमवाधितमनुवर्तते । तस्मात्सन्मात्रातिरेकि सर्वमपरमार्थः । प्रयोगश्च भवति-सत्परमार्थः, अनुवर्तमानत्वात्, रज्जुसर्पादौ रज्ज्वादिवत् । घटादयोऽपरमार्थाः, व्यावर्तमानत्वात्, रज्ज्वाद्यधिष्ठान सर्पादिवत् - इति । एवं सत्यनुवर्तमानाऽनुभूतिरेव परमार्थः सैव सती ॥ ननु च - सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम् । नैवम् ; भेदो हि प्रत्यक्षाविषयत्वाद्दुर्निरूपत्वाच्च पुरस्तादेव निरस्तः । अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुसरति । तस्मात्सदनुभूतिरेव ।। सा च स्वतस्सिद्धा, अनुभूतित्वात्। अन्यतस्सिद्धौ घटादिवदननुभूतित्वप्रसङ्गः । किंच अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुम्, सत्त For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. यैव प्रकाशमानत्वात् । न ह्यनुभूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते,येन परायत्तप्रकाशाऽभ्युपगम्येत ॥ ___ अथैवं मनुषे उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासते 'घटोऽनुभूयते' इति। न हि कश्चित् 'घटोऽयम्' इति जानन् तदानीमेवाविषयभूतामनिदंभावामनुभूतिमप्यनुभवति । तस्माद्धटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसन्निकर्षवदनुभूतेस्सद्भाव एव हेतुः। तदनन्तरमर्थगतकादाचित्कप्रकाशातिशयलिङ्गेनानुभूतिरनुमीयते।एवं तनुभूतेरजडाया अर्थवज्जडत्वमापद्यत इति चेत् किमिदमजडत्वं नाम ? । न तावत्स्वसत्तायाः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्सम्भवात् : नहि कदाचिदपि सुखादयस्सन्तो नोपलभ्यन्ते अतोऽनुभूतिस्स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गल्यग्रस्य स्वात्मस्पर्शवदशक्यत्वादिति ॥ तदिदमनाकलितानुभवविभवस्य स्वमतिविजृम्भितम् , अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवदनुपलब्धेः, उभयाभ्युपेतानुमृत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पनानुपपत्तेश्च । अतो नानुभूतिरनुमीयते । नापि ज्ञानान्तरसिद्धा । अपि तु सर्व साधयन्त्यनुभूतिस्वयमेव सिध्यति । प्रयोगश्च-अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात् । यस्खसम्बन्धादर्थान्तरे यद्धर्मव्यवहारहेतुस्स तयोस्स्वस्मिन्ननन्याधीनो दृष्टः, यथा रूपादिश्चाक्षुषत्वादौ । रूपादिर्हि पृथिव्यादौ स्वसम्बन्धाच्चाक्षुषत्वादि जनयन् स्वस्मिन्न रूपादिसम्बन्धाधीनश्चाक्षुषत्वादौ । अतोऽनुभूतिरास्मनः प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयमेव हेतुः॥ सेयं स्वयंप्रकाशाऽनुभूतिर्नित्या च, प्रागभावाधभावात् । तदभावश्च स्वतस्सिद्धत्वादेव । न ह्यनुभूतेस्स्वतस्सिद्धायाः प्रागभावस्खतोऽन्यतो वाऽवगन्तुं शक्यते । अनुभूतिस्वाभावमवगमयन्ती, सती ताव For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. नावगमयति । तस्यास्सचे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति । एवमसत्यपि नावगमयति; अनुभूतिस्वयमसती स्वाभावे कथं प्रमाणं भवेत् ? । नाप्यन्यतोऽवगन्तुं शक्यते, अनुभूतेरनन्यगोचरत्वात् । अस्याः प्रागभावं साधयत् प्रमाणम् 'अनुभूतिरियम्' इति विषयीकृत्य तदभावं साधयेत् ; स्वतस्सिद्धत्वेन इयमिति विषयीकारानहेत्वात् , न तत्मागभावोऽन्यतश्शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुमित्युत्पत्तिपतिसम्बद्धाश्चान्येऽपि भावविकारास्तस्या न सन्ति ॥ अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते, व्यापकविरुद्धोपलब्धेः। न ह्यनुत्पन्नं नानाभूतं दृष्टम् । भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न सम्भवति । अतोऽनुभूतेरनुभवस्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्मः, यतो निधृतनिखिलभेदा संवित् । अत एव नास्यास्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवाऽत्मा, अजडत्वाच्च । अनात्मत्वव्याप्तं जडत्वं संविदि व्यावर्तमानमनात्मत्वमपि हि संविदो व्यावर्तयति ॥ ननु च-अहं जानामीति ज्ञातृता प्रतीतिसिद्धा। नैवम् सा भ्रान्तिसिद्धा, रजततेव शुक्तिशकलस्य, अनुभूतेस्वात्मनि कर्तृत्वायोगात् । अतो मनुष्योऽहमित्यत्यन्तबहिर्भूतमनुष्यत्वादिविशिष्टपिण्डात्माभिमानवत् ज्ञातृत्वमप्यध्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवति । दृश्यधीनसिद्धित्वादेव रूपादेरिव कर्तृत्वादेत्मिधर्मत्वम् । सुषुप्तिमूर्छादावहंप्रत्ययापायेऽप्यात्मानुभवदर्शनेन नाऽस्मनोऽहंप्रत्ययगोचरत्वम्। कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाऽत्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहरः। अहंमत्य For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् यगोचरात् कर्तृतया प्रसिद्धादेहात्तत्क्रियाफलस्वर्गादेर्भोक्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसिद्धमेव। तथाऽहमर्थात् ज्ञातुरपि विलक्षणस्साक्षी प्रत्यगात्मोत प्रतिपत्तव्यम् । एवमविक्रियानुभवस्वरूपस्यैवाभिव्यञ्जको जडोऽप्यहंकारस्वाश्रयतया तमभिव्यनक्ति। आत्मस्थतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः।दर्पणजलखण्डादिर्हि मुखचन्द्रबिम्बगोत्वादिकमात्मस्थतयाऽभिव्यनक्ति।तत्कृतोऽयं 'जानाम्यहम्'इति भ्रमः। स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्गन्यजडरूपाहङ्कारेणाभिव्यङ्गयत्वमिति मा वोचः, रविकरनिकराभिव्यङ्गयकरतलस्य तदभिव्यञ्जकत्वदर्शनाता जालकरन्ध्रनिष्क्रान्तामणिकिरणानां तदभिव्यङ्गयेनापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः, यतोऽहं जानामीति ज्ञाताऽयमहमर्थश्चिन्मात्रात्मनो न पारमार्थिको धर्मः; अत एव सुषुप्तिमुक्त्योर्नान्वेति । तत्र ह्यहमर्थोल्लेखविगमेन स्वाभाविकानुभवमात्ररूपेणाऽत्माऽवभासते । अत एव सुप्तोत्थितः कदाचिन्मामप्यहं न ज्ञातवानिति परामृशति । तस्मात्परमार्थतो निरस्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनि - त्यसंविदेव भ्रान्त्या ज्ञातज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूताविद्यानिबर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्यापतिपत्तये सर्वे वेदान्ता आरभ्यन्ते इति ॥ ---( महासिद्धान्तः)..तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादिपापवासनादूषिताशेषशेमुषीकाणामनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणत्ततदितिकर्तव्यतारूपसमीचीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति, न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम् ॥ १. मुखचन्द्रेति. पा... श्री.सारसूरि ज्ञानमन्दिर ... .. For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६ [अ. १. तथाहि-निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम् | यस्तु स्वानुभवसिद्धमिति स्वगोष्ठीनिष्ठस्समयः सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः; 'इदमहमदर्शम्' इति केनचिद्विशेषेण विशिष्टविषयत्वात्सर्वेषामनुभवानाम् । सविशेषोऽप्यनुभूयमानोऽनुभवः केनचिद्युक्तत्याभासेन निर्विशेष इति निष्कृष्यमाणस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषैर्निष्क्रष्टव्य इति निष्कर्षहेतुभूतैस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषैस्सविशेष एवावतिष्ठते । अतः कैश्विद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न कचिन्निर्विशेषवस्तुसिद्धिः । धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः । स्वापमदमूर्च्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपाद यिष्यामः । स्वाभ्युपगताश्च नित्यत्वादयो ह्यनेके विशेषास्सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादनाः, वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाददर्शनात्, स्वाभिमततद्विधाभेदैश्च स्वमतोपपादनात् । अतः प्रामाणिकविशेषैर्विशिष्टमेव वस्त्विति वक्तव्यम् || शारीरकमीमांसाभाष्ये Acharya Shri Kailassagarsuri Gyanmandir शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्यययोगेन हि पदत्वम् । प्रकृतिप्रत्यययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् । पदभेदश्वार्थभेदनिबन्धनः। पदसङ्घातरूपस्य वाक्यस्यानेकपदार्थ संसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्यात् न निर्विशेषवस्तुनि शब्दः प्रमाणम् । प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदभिन्नस्य न निर्विशेषवस्तुनि प्रमाणभावः । सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम् । निर्विकल्पकमपि सविशेषविषयमेव, सविकल्प के स्वास्मि - न्ननुभूतपदार्थविशिष्टप्रतिसंधान हेतुत्वात् । निर्विकल्पकं नाम केनचि For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . द्विशेषेण वियुक्तस्य ग्रहणम् , न सर्वविशेषरहितस्य तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते, त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात्। अतो निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते । तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्डग्रहणे धेवानुवृत्तिप्रतीतिः। प्रथमप्रतीत्यनुसंहितवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति, द्वितीयादिग्रहणस्य सविकल्पकत्वम् । सानादिवस्तुसंस्थानरूपगोत्वादेरनुत्तिर्न प्रथमापिण्डग्रहणे गृह्यत इति, प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम् ; न पुनस्संस्थानरूपजात्यादेरग्रहणात्। संस्थानरूपजात्यादेरप्यन्द्रियिकत्वाविशेषात् ,संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्त्वित्थमिति गृह्यते॥ ___ अतो द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत्संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव । अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् । ____ अतएव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम् । इदमित्थामति प्रतीताविदमित्थंभावयोरैक्यं कथमिव प्रत्येतुं शक्यते । तत्त्थंभावस्सास्नादिसंस्थानविशेषः, तद्विशेष्यं द्रव्यमिदमंश इत्यनयोरैक्यं प्रातिपराहतमेव । तथाहि प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशेषविशिष्टतयेत्थमिति प्रतीतेः। सर्वत्र विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्तभेदः प्रतीत्यैव सुव्यक्तः। तत्र दण्डकुण्डलादयः पृथक्संस्थानसंस्थिताः स्वनिष्ठाश्च कदाचित्कचिद. व्यान्तरविशेषणतयाऽवतिष्ठन्ते। गोत्वादयस्तु द्रव्यसंस्थानतयैव पदार्थ For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८ शारीरकमीमांसाभाष्ये [अ. १. भूतास्सन्तो द्रव्यविशेषणतया अवस्थिताः । उभयत्र विशेषणविशेष्यभावस्समानः । तत एव तयोर्भेदप्रतिपत्तिश्च । इयांस्तु विशेषः - पृथक्स्थितिप्रतिपत्ति योग्या दण्डादयः, गोत्वादयस्तु नियमेन तदनही : - इति । अतो वस्तुविरोधः प्रतीतिपराहत इति प्रतीतिप्रकारनिह्नवादेवोच्यते । प्रतीतिप्रकारो हि इदमित्थामेत्येव सर्वसम्मतः । तदेतत्सूत्रकारेण “नैकस्मिन्नसम्भवात् " इति सुव्यक्तमुपपादितम् || Acharya Shri Kailassagarsuri Gyanmandir अतः प्रत्यक्षस्य सविशेषविषयत्वेन प्रत्यक्षादिदृष्टसम्बन्धविशिष्टविषयत्वादनुमानमपि सविशेषविषयमेव । प्रमाणसङ्ख्याविवादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्वि शेषवस्तुसिद्धिः । वस्तुगतस्वभावविशेषैस्तदेव वस्तु निर्विशेषमिति वदन् जननीवन्ध्यात्वप्रतिज्ञायामिव स्ववाग्विरोधमपि न जानाति । यत्तु —– प्रत्यक्षं सन्मात्रग्राहित्वेन न भेदविषयम्, भेदश्च विकल्पासहत्वाद्दुर्निरूपः इत्युक्तम्, तदपि जात्यादिविशिष्टस्यैव वस्तुनः प्रत्यक्षविषयत्वाज्जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनस्स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितम् । संवेदनवद्रूपादिवच्च परत्र व्यवहारविशेषहे तोस्स्वस्मिन्नपि तद्व्यवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि सम्भवत्येव । अत एव च नानवस्थाऽन्योन्याश्रयणं च । एकक्षणवर्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूप तत्संस्थानरूपगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न किञ्चिदिह तिष्ठति ॥ अपि च सन्मात्रग्राहित्वे 'घटोऽस्ति 'पटोऽस्ति' इति विशिष्टविषया प्रतीतिर्विरुध्यते । यदि च सन्मात्त्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेदः प्रत्यक्षेण न गृहीतः किमित्यश्वार्थी महिषदर्शने निवर्तते । सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषयश्चेत्; तत्तत्प्रतिपत्तिविषयसहचारिण१. शारीरकमी. २. अ. २. पा. ३१. सू. | २. महिषदर्शनेनेति. पा. For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिशासाधिकरणम् २९ स्सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते । किञ्च अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेन उपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात् । प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थविषयत्वमेवाभ्युपगतं भवति । सर्वेषां संवेदनानामेकविषयतायामेकेनैव संवेदनेनाशेषग्रहणादन्धबधिरायभावश्च प्रसज्येत । न च चक्षुषा सन्मानं गृह्यते , तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वात् । नापि त्वचा, स्पर्शवद्वस्तुविषयत्वात् । श्रोतादीन्यपि न सन्मात्रविषयाणि ; किंतु शब्दरसगन्धलक्षणविशेषविषयाण्येव । अतस्सन्मात्रस्य ग्राहकं न किश्चिदिह दृश्यते । निर्विशेषसन्मात्रस्य प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात् । सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्वनाशित्वादयस्त्वयैवोक्ताः। अतो वस्तुसंस्थानरूपजात्यादिलक्षणभेदविशिष्टविषयमेव प्रत्यक्षम् ; संस्थानातिरेकिणोऽनेकेष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारोपपत्तेः। अतिरेकवादेऽपि संस्थानस्य संप्रतिपन्नत्वाच्च संस्थानमेव जातिः। संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसंधेयम् : जातिग्रहणेनैव भिन्न इति व्यवहारसंभवात्, पदार्थान्तरादर्शनात् , अर्थान्तरवादिनाऽप्यभ्युपगतत्वाच गोत्वादिरेव भेदः। ननु च–जात्यादिरेव भेदश्चेत्तस्मिन् गृहीते तद्व्यवहारवद्भेदव्यहारस्स्यात् । सत्यम्, भेदश्च व्यवहियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः, गोत्वादौ गृहीते सकलेतरसजातीयबुद्धिव्यवहारयोनिवृत्तेः । भेदग्रहणेनैव ह्यभेदनिवृत्तिः । 'अयमस्माद्भिन्नः' इति तु व्यवहारे प्रतियोगिनिर्देशस्य तदपेक्षत्वात् प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम् ॥ यत्पुनर्घटादीनां विशेषाणां व्यावर्तमानत्वेनापारमार्थ्यमुक्तम्,तदनालोचितबाध्यबाधकभावव्यावृत्त्यनुवृत्तिविशेषस्य भ्रान्तिपरिकल्पितम्।। For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 शारीरकर्मीमांसाभाष्ये [अ. १. द्वयोनियोर्विरोधे हि बाध्यबाधकभावः । बाधितस्यैव व्यावृत्तिः । अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति । यस्मिन् देशे यस्मिन् काले यस्य सद्भावः प्रतिपन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश्चेत् तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्तिः, देशान्तरकालान्तरसंबन्धितयाऽनुभूतस्यान्यदेशकालयोरभाव प्रतीतौ न विरोध इति कथमत्र बाध्यबाधकभावः। अन्यत्र निवृत्तस्यान्यन निवृत्तिर्वा कथमुच्यते।रज्जुसादिषु तु तद्देशकालसंबन्धितयैवाभावप्रतीतेः,विरोधो बाधकत्वं व्यावृत्तिश्चेति २देशकालान्तरव्यावर्तमानत्वं मिथ्यात्वव्याप्तंन दृष्टमितिन व्यावर्तमानत्वमात्रमपारमार्थ्यहेतुः।। यत्तु-अनुवर्तमानत्वात्सत्परमार्थः - इति,तत्सिद्धमेवेति न साधनमर्हति । अतो न सन्मात्रमेव वस्तु ॥ अनुभूतिसद्विशेषयोश्च विषयविषयिभावेन भेदस्य प्रत्यक्षसिद्धत्वादवाधितत्वाचानुभूतिरेव सतीत्येतदपि निरस्तम् ॥ ___ यत्त्वनुभूतेस्वयंप्रकाशत्वमुक्तम् । तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवः न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादिलिङ्गकानुमानज्ञानविषयत्वात् , स्वानुभवस्याप्यतीतस्य 'अज्ञासिषम्' इतिज्ञानाविषयत्वदर्शनाच्च । अतोऽनुभूतिश्चेत् खतस्सिद्धति वक्तुं न शक्यते ॥ अनुभूतेरनुभाव्यत्वे अननुभूतित्वमित्यपि दुरुक्तम् ; स्वगतातीतानुभवानां परगतानुभवानां चानुभाव्यत्वेनाननुभूतित्वप्रसङ्गात् । परानुभवानुमानानभ्युपगमे च शब्दार्थसम्बन्धग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः । आचार्यस्य ज्ञानवत्त्वमनुमाय तदुपसत्तिश्व क्रियते सा च नोपपद्यते । न चान्यविषयत्वेऽननुभूतित्वम् ; अनुभूति१. देशकालान्तरदृष्टस्य देशकालान्तरव्यावर्तमान- | २. प्रतिपत्तौ, इति. पा. त्वमिति, पा. For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . त्वं नाम वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं, स्वसत्तयैव स्वविषयसाधनत्वं वा । ते चानुभवान्तरानुभाव्यत्वेऽपि खानुभवसिद्धे नापगच्छत इति नानुभूतित्वमपगच्छति । घटादेस्त्वननुभूतित्वमेतत्स्वभावविरहात् ; नानुभाव्यत्वात् । तथाऽनुभूतेरननुभाव्यत्वेऽ पि अननुभूतित्वप्रसङ्गो दुर्वारः; गगनकुसुमादेरननुभाव्यस्याननुभूतित्वात् ॥ गगनकुसुमादेरननुभूतित्वमसत्त्वप्रयुक्तम् , नाननुभाव्यत्वप्रयुक्तम् -इतिचेत् एवं तर्हि घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्, नानुभाव्यत्वमित्यास्थीयताम् । अनुभूतेरनुभाव्यत्वे अज्ञानाविरोधित्वमपि तस्याः घटादेरिव प्रसज्यत इति चेत् । अननुभाव्यत्वेऽपि गगनकुसुमादेरिवाज्ञानाविरोधित्वमपि प्रसज्यत एव। अतोऽनुभाव्यत्वेऽननुभूतित्वमित्युपहास्यम् ॥ ___ यत्तु-संविदरस्वतस्सिद्धायाः प्रागभावाद्यभावादुत्पत्तिनिरस्यते, तदन्धस्य जात्यन्धेन यष्टिः प्रदीयते । प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम् ; अनुभूत्यैव ग्रहणात् । कथमनुभूतिस्सती तदानीमेव खाभावं विरुद्धमवगमयतीति चेत् । न ह्यनुभूतिस्वसमकालवर्तिनमेव विषयीकरोतीत्यस्ति नियमः, अतीतानागतयोरविषयत्वप्रसङ्गात् ॥ __ अथ मन्यसे - अनुभूतिप्रागभावादेस्सिद्ध्यतस्तत्समकालभाव - नियमोऽस्तीतिः किं त्वया कचिदेवं दृष्टम् ?, येन नियमं ब्रवीषि । हन्त तर्हि तत एव दर्शनात् प्रागभावादिस्सिद्ध इति न तदपह्नवः। तत्यागभावं च तत्समकालवर्तिनमनन्मत्तः को ब्रवीति । इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत्स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम् ; न सर्वेषां ज्ञानानां प्रमाणानां च ; स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोऽपि ग्रहणदर्शनात्।अत एव चप्रमाणस्य प्रमेयाविनाभावः १. तदभावनिह्नव: इति. पा. For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ शारीरकमीमांसाभाष्ये [अ. १. न हि प्रमाणस्य स्वसमकालवर्तिनाऽविनाभावोऽर्थसम्बन्धः अपि तु यद्देशकालादिसम्बन्धितया योऽर्थोऽवभासते तस्य तथाविधाकारमिथ्यात्वमत्यनीकता । अत इदमपि निरस्तं स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनात् इति ॥ अथोच्येत न तावत्संवित्प्रागभावः प्रत्यक्षावसेयः, अवर्तमानत्वात्। न च प्रमाणान्तरावसेयः, लिङ्गाद्यभावात् । न हि संवित्प्रागभावव्याप्तमिह लिङ्गमुपलभ्यते न चाऽगमस्तद्विषयो दृष्टचरः । अतस्तत्प्रागभावः प्रमाणाभावादेव न सेत्स्यति - इति; यद्येवं स्वतस्सिद्धत्वविभवं परित्यज्य २ प्रमाणाभावेऽवरूढश्चेत् ; योग्यानुपलब्ध्यैवाभावस्समर्थित इत्युपशाम्यतु भवान् ॥ किंच प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयतस्य न सर्वदा सत्तामवगमयदृश्यत इति घटादेः पूर्वोत्तरकालसत्ता न प्रतीयते । तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीतेः। घटादिविषयमेव संवेदनं स्वयं कालानवच्छिन्नं प्रतीतं चेत ;संवेदनविषयो घटादिरपि कालानवच्छिन्नः प्रतीयेतेति नित्यस्स्यात् । नित्यं चेत्संवेदनं स्वतस्सिद्धं नित्यमित्येव प्रतीयेत । न च तथा प्रतीयते ॥ - एवमनुमानादिसंविदोऽपि कालानवच्छिन्नाः प्रतीताश्चेत्; स्वविषयानपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालानवच्छिन्ना नित्यास्स्युः; ३संविदनुरूपत्वाद्विषयाणाम्। न च निर्विषया काचित्संविदस्ति; अनुपलब्धेः । विषयप्रकाशनतयैवोपलब्धेरेव हि संविदस्स्वयंप्रकाशता समर्थिता; संविदो विषयप्रकाशनतास्वभावविरहे सति स्वयंप्रकाशत्वासिद्धेः अनुभूतेरनुभवान्तराननुभाव्यत्वाच्च संविदस्तुच्छतैव स्यात् । न च स्वापमदमूर्च्छादिषु सर्वविषयशून्या केवलैव संवित्परिस्फुरतीति १. नानुपपत्तिरपि कस्यचिद्दृश्यते. इति. कुण्ड तिं दृश्यते ॥ २. प्रमाणभावे. इति. पा. ३. संविदनुरूपस्वरूपत्वादिति. पा. For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् ३३ वाच्यम्;योग्यानुपलब्धिपराहतत्वात्। तास्वपि दशास्वनुभूतिरनुभूता चेत्; तस्याः प्रबोधसमयेऽनुसंधानं स्यात् न च तदस्ति ॥ नवभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचरः । अतस्स्मरणाभावः कथमनुभवाभावं साधयेत् ? । उच्यते ; निखिलसंस्कार तिरस्कृतिकरदेहविगमादिप्रबलहेतुविरहेऽप्यस्मरणनियमो ऽनुभवाभावमेव साधयति, न केवलमस्मरणनियमादनुभवाभावः सुप्तोत्थितस्य 'इयन्तं कालं न किंचिदहमज्ञासिषम्' इति प्रत्यवमर्शेनैव सिद्धेः न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहंकारविगमाद्वेति शक्यते वक्तुम्, अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरणहेतुत्वाभावात्। तास्वपि दशास्वहमर्थोऽनुवर्तत इति च वक्ष्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir ननु स्वापादिदशास्वपि सविशेषोऽनुभवोऽस्तीति पूर्वमुक्तम् । सत्यमुक्तम् ; स त्वात्मानुभवः । स च सविशेष एवेति स्थापयिष्यते । इह तु सकलविषयविरहिणी निराश्रया च संविनिषिध्यते । केवलैव संविदात्मानुभव १ इति चेत् सा च साश्रयेति छुपपादयिष्यते । अतोऽनुभूतिस्सती स्वयं स्वप्रागभावं न साधयतीति प्रागभावासिद्धिर्न शक्यते वकुम् । अनुभूतेरनुभाव्यत्वसम्भवोपपादनेनान्यतोऽप्यसिद्धिर्निरस्ता । तस्मान्न प्रागभावाद्यसिद्ध्या संविदोऽनुत्पत्तिरुपपत्तिमती || यदस्या अनुत्पच्या विकारान्तरनिरसनम् ; तदप्यनुपपन्नम्, प्रागभावे व्यभिचारात् । तस्य हि जन्माभावेऽपि विनाशो दृश्यते । भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवति । तथाच भवदभिमता - विद्याऽनुत्पन्नैव विविधविकारास्पदं तत्त्वज्ञानोदयादन्तवती चेति तस्यामनैकान्त्यम् । तद्विकारास्सर्वे मिथ्याभूता इति चेत्; किं भवतः परमार्थभूतोऽप्यस्ति विकारः । येनैतद्विशेषणमर्थवद्भवति । न ह्यसावभ्युपगम्यते ॥ १. इति चेत् न; इति. पा. २. तत्त्वज्ञानादिति. पा. २ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ शारीरकमीमांसाभाष्ये [अ. १. ___ यदपि अनुभूतिरंजत्वात्स्वस्मिन्विभागं न सहते इति।तदपि नोपपद्यते, अजस्यैवाऽत्मनो देहेन्द्रियादिभ्यो विभक्तत्वादनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात् । १ स विभागो मिथ्यारूपइति चेत् ; जन्मप्रतिबद्धः परमार्थविभागः किं कचिदृष्टस्त्वया?। अविद्याया आत्मनः परमार्थतो विभागाभावे २वस्तुतो ह्यविचैव स्यादात्मा । अबाधितप्रतिपत्तिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदाच्छेदनभेदवत् ॥ यदपि-३नास्या दृशेदृशिरूपाया दृश्यः कश्चिदपि धर्मोऽस्ति दृश्यत्वादेव तेषां न दृशिधर्मत्वम् इति चातदपि स्वाभ्युपगतैः प्रमाणसिद्धैर्नित्यत्वस्वयंप्रकाशत्वादिधमरुभयमनैकान्तिकम् । न च ते संवेदनमात्रम्, स्वरूपभेदात् । स्वसत्तयवै स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु स्वसत्तयैव स्वाश्रयाय प्रकाशमानता। प्रकाशश्व चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् ॥ सर्वकालवर्तमानत्वं हि नित्यत्वम् । एकत्वमेकसंख्यावच्छेदइति । तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैरनैकान्त्यमपरिहार्यम् । संविदि तु स्वरूपातिरेकेण जडत्वादिप्रत्यनीकत्वमित्यभावरूपो भावरूपो वा धर्मो नाभ्युपेतश्चेत् । तत्तनिषेधोक्त्या किमपि नोक्तं भवेत् ॥ __अपिच संवित्सिध्यति वा न वा सिध्यति चेत् सधर्मता स्यात्। न चेत् तुच्छता, गगनकुसुमादिवत् । सिद्धिरेव संविदिति चेत् । कस्य के प्रतीति वक्तव्यम् । यदि न कस्य चित्कंचित्पात ; सा तर्हि न सिद्धिः। सिद्धिर्हि पुत्रत्वामिव कस्यचित्कंचित्पति भवति।आत्मन इति चेत्कोऽयमात्मा?; ननु संविदेवेत्युक्तम् । सत्यमुक्तम् दुरुक्तं तु तत् । तथाहि ; १. स चेति. पा. | ३. नास्या दृशिस्वरूपाया इति. पा. २. वस्तुतोऽविद्यैवेति. पा. । ४. दुरुक्तं तदिति. पा. For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् कस्यचित्पुरुषस्य किंचिदर्थजातं प्रति सिद्धिरूपा तत्संबन्धिनी सा संवित्स्वयं कथमिवाऽत्मभावमनुभवेत् ॥ एतदुक्तं भवति–अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषो 'घटमहं जानामीममर्थमवगच्छामि पटमहं संवेद्मि'इति सर्वेषामात्मसाक्षिकः प्रसिद्धः। एतत्स्वभावतया हि तस्यास्स्वयंप्रकाशता भवताऽप्युपपादिता । अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत्कर्तृत्वमपि दुर्घटमिति ॥ तथाहिः अस्य कर्तुस्स्थिरत्वं कर्तृधर्मस्य संवेदनाख्यस्य सुखदुःखादेरिवोत्पत्तिस्थितिनिरोधाश्च प्रत्यक्षमीक्ष्यन्ते । कर्तृस्थैर्य तावत् 'स एवायमर्थः पूर्व मयाऽनुभूतः इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । अहं जानामि, अहमज्ञासिषं, ज्ञातुरेव ममेदानीं ज्ञानं नष्टम्' इति च संविदुत्पत्त्यादयः प्रत्यक्षसिद्धा इति कुतस्तदैक्यम् । एवं क्षणभगिन्यास्संविद आत्मत्वाभ्युपगमे पूर्वेादृष्टमपरेयुः 'इदमहमदर्शम् इति प्रत्यभिज्ञा च न घटते ; अन्येनानुभूतस्य न ह्यन्येन प्रत्यभिज्ञानसंभवः॥ किश्च अनुभूतेरात्मत्वाभ्युपगमे तस्याः नित्यत्वेऽपि प्रतिसन्धानासम्भवस्तदवस्थः । प्रतिसन्धानं हि पूर्वापरकालस्थायिनमनुभवितारमुपस्थापयति नानुभूतिमात्रम् । अहमेवेदं पूर्वमप्यन्वभूवमिति । भवतोऽप्यनुभूतेन ह्यनुभवितृत्वमिष्टम् । अनुभूतिरनुभूतिमात्रमेव । संविनाम काचिनिराश्रया निर्विषया वाऽत्यन्तानुपलब्धेर्न संभवतीत्युक्तम् । ३उभयाभ्युपेता संविदेवाऽत्मेत्युपलब्धिपराहतम् । अनुभूतिमात्रमेव परमार्थ इति निष्कर्षकहेत्वाभासाश्च निराकृताः॥ ननु च–'अहं जानामि'इत्यस्मत्प्रत्यये योऽनिदमंशः प्रकाशैकरसश्चि१. प्रत्यक्ष इति. पा. ____३. उभयाभ्युपगतेति. पा. २. प्रतिसन्धानाभाव इति. पा. । ४. निष्कर्षे. इति. पा. For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ शारीरकमीमांसाभाष्ये [अ. १. पदार्थस्स आत्मा ।तस्मिन् तद्धलनि सिततया युष्मदर्थलक्षणोऽहं जानामांति सिध्यनहमर्थश्चिन्मात्रातिरेकी युष्मदर्थ एव । नैतदेवम्, 'अहं जानमि' इति धर्मधर्मितया प्रत्यक्षप्रतीतिविरोधादेव ।। किञ्चअहमर्थो न चेदात्मा प्रत्यक्त्वं नाऽत्मनो भवेत् । अहंबुद्ध्या परागर्थात् प्रत्यगर्थो हि भिद्यते ॥ निरस्ताखिलदुःखोऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्माप्तये यत्नः कस्यापि न भविष्यति ॥ स्वसम्बन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि च । स्वसम्बन्धवियोगे तु ज्ञप्तिरेव न सिद्ध्यति ॥ छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम् ।। १ 'विज्ञातारमरे' २'केन जानात्येवेति च श्रुतिः । ३'एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ' इति च स्मृतिः॥ ४'नाऽत्मा श्रुते'रित्यारभ्य मूत्रकारोऽपि वक्ष्यति । ५'ज्ञोऽतएवे'त्यतो नाऽत्मा ज्ञप्तिमात्रमिति स्थितम् ॥ अहं प्रत्ययसिद्धो ह्यस्मदर्थः; युष्मत्प्रत्ययविषयो युष्मदर्थः। तत्राह जानामीति सिद्धो ज्ञाता युष्मदर्थइति वचनं जननी मे वन्ध्यतिवव्याहतार्थ च । नचासौ ज्ञाताऽहमर्थोऽन्याधीनप्रकाशः,स्वयंप्रकाशत्वात् । चैतन्यस्वभावता हि स्वयंप्रकाशता । यः प्रकाशस्वभावः; सोऽनन्याधीनप्र १, बु. ४. अ. ४. ब्रा. १४. वा. ४. २. शारी अ. ३. पा. १८. सू. ५. २. शारी अ. ३. पा. १९. सू. २. ३. गी. १३. अ. १. श्लो. For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. काशः, दीपवत् । नहि दीपादेस्स्वप्रभावलनि सितत्वेनाप्रकाशत्वमन्याधीनप्रकाशत्वं च । किं तर्हि ११दीपस्वयंप्रकाशस्वभावस्स्वयमेव प्रकाशते; अन्यानपि प्रकाशयति प्रभया॥ ___ एतदुक्तं भवति यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रपेणावतिष्ठते। यद्यपि प्रभा प्रभावव्यगुणभूता। तथाऽपि तेजोद्रव्यमेव,न शौक्लयादिवद्गुणः। स्वाश्रयादन्यत्रापि वर्तमानत्वाद्रपवत्त्वाच्च शक्लियादिवैधात्, प्रकाशवत्वाच्च तेजोद्रव्यमेव ; नार्थान्तरम् । प्रकाशवत्वं च स्वस्वरूपस्यान्येषां च प्रकाशकत्वात् । अस्यास्तु गुणत्वव्यवहारो नित्यतदाश्रयत्वतच्छेषत्वनिबन्धनः॥ न चाऽश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्युच्यन्ते, मणिधुमणिप्रभृतीनां विनाशप्रसङ्गात् ॥ दीपेऽप्यवयविप्रतिपत्तिः कदाचिदपि न स्यात् । नहि विशरणस्वभावावयवा दीपाश्चतुरङ्गलमात्र नियमेन पिण्डीभूता ऊर्ध्वमुद्गम्य ततः पश्चायुगपदेव तिर्यगृर्ध्वमधश्चैकरूपा विशीर्णाः प्रचरन्तीति शक्यं वक्तुम्॥ अतस्सप्रभाको एव दीपाः प्रतिक्षणमुत्पन्ना विनश्यन्तीति पुष्कलकारणक्रमोपनिपातात्तद्विनाशे विनाशाचावगम्यते । प्रभायास्स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्याग्रुपलब्धिव्यवस्थाप्यम् अग्न्यादीनामौष्ण्यादिवत् । एवमात्मा चिद्रप एव ३चैतन्यगुण इति । चिद्रपता हि स्वयंप्रकाशता॥ ___ तथाहि श्रुतयः---४" स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एवं" ५"विज्ञानघन एव" ६“अत्रायं पुरुषस्स्वयंज्योतिर्भवति" "न विज्ञा १. दीप: प्रकाशेत. पा. २. स्वप्रभयति, पा. ३. चैतन्यगुणक इति. पा. ४. बृ. ६. अ. ५. बा. १३. वा. ५. बृ. ४. अ. ४. ब्रा. १२. वा. ६. बृ. ६. अ. ३. बा. ९. वा. ७. नहि. इति. पा. For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. तुर्विज्ञातेर्विपरिलोपो विद्यते" १“अथ यो वेदेदं जिघ्राणीति स आत्मा" २"कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृयन्तज्योतिः पुरुषः"३"एष हि ४द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः" ५"विज्ञातारमरे केन विजानीयात्" ६" जानात्येवायं पुरुषः" ७"न पश्यो मृत्यु पश्यति न रोगं नोत दुःखताम्"८"स उत्तमः पुरुषः" ९"नोपजनं स्मरनिदं शरीरम्"१०"एवमेवास्य परिद्रष्टरिमाष्षोडशकलाः पुरुषायणाःपुरुषं प्राप्यास्तंगच्छन्ति" ११"तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः"-इत्याद्याः। वक्ष्यति च १२ "ज्ञोऽतएव"इति।। ___अतस्स्वयंप्रकाशोऽयमात्मा ज्ञातैव,न प्रकाशमात्रम् । प्रकाशत्वादेव कस्यचिदेव भवेत्प्रकाशः, दीपादिप्रकाशवत् । तस्मानाऽत्मा भवितुमर्हति संवित् । संविदनुभूतिज्ञानादिशब्दास्संबन्धिशब्दा इति च शब्दार्थविदः। नहि लोकवेदयोर्जानात्यादेरकर्मकस्याकर्तृकस्य च प्रयोगो दृष्टचरः॥ यच्चोक्तमजडत्वात्संविदेवाऽत्मेति तत्रेदं प्रष्टव्यम् , अजडत्वमिति किमभिप्रेतम् स्वसत्ताप्रयुक्तप्रकाशत्वमिति चेत् तथा सति दीपादिष्वनैकान्त्यम् । संविदतिरिक्तप्रकाशधर्मानभ्युपगमेनासिद्धिर्विरोधश्च । अव्यभिचरितप्रकाशसत्ताकत्वमपि सुखादिषु व्यभिचारान्निरस्तम् ।। याच्यत सुखादिरव्यभिचरितप्रकाशोऽप्यन्यस्मै प्रकाशमानतया घटादिवज्जडत्वेनानाऽत्मा इति।ज्ञानं वा किं स्वस्मै प्रकाशते? तदपि ह्यन्यस्यैवाहमर्थस्य ज्ञातुरवभासते, अहं सुखीतवज्जानाम्यहमिति। अतस्स्वस्मै प्रकाशमानत्वरूपमजडत्वं संविद्यसिद्धम् । तस्मात्स्वात्मानं प्रति स्वस १. बृ. ६. अ. ३. ब्रा. ३०. वा. २. छा. ८. प्र. १२. ख. ४, वा. ३. बृ. ६. अ. ३. ब्रा. ७. वा. ४. प्रश्न. उ. ४. प्रश्न. ९. वा. ५. द्रष्टा स्प्रष्टा, इति. पा. ६. ब. ४. अ. ४. ब्रा. १४. वा. ७. ८. छा. ७. प्र. २६.ख. २. वा. ९. ६. छा. ८. प्र. १२. ख. ३. वा. १०. प्रश्न, उ. ६. प्रश्न. ५. वा. ११. तै. आन. ४. अनु. १. वा. १२. शारी. २. अ. ३. पा. १९. सू. For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् तयैव सिध्यन्नजडोऽहमर्थ एवाऽत्मा। ज्ञानस्यापि प्रकाशता तत्संबन्धायत्ता।तत्कृतमेव हि ज्ञानस्य सुखादेरिव स्वाश्रयचेतनं प्रति प्रकटत्वमितरं पत्यप्रकटत्वं च । अतो न ज्ञप्तिमात्रमात्मा अपि तु ज्ञातैवाहमर्थः॥ __ अथ यदुक्तम् ---अनुभूतिः परमार्थतो निर्विषया निराश्रया च सती भ्रान्त्या ज्ञातृतयाऽवभासते,रजततयेव शुक्तिः,निरधिष्ठानभ्रमानुपपत्तेःइति।तदयुक्तम् तथा सत्यनुभवसामानाधिकरण्येनानुभविताऽहमर्थः प्रतीयेत, 'अनुभूतिरहम् इति पुरोवस्थितभास्वरद्रव्याकारतया रजतादिरिव । अत्र तु पृथगवभासमानैवेयमनुभूतिरर्थान्तरमहमर्थ विशिनाष्टि, दण्ड इव देवदत्तम्। तथाहि 'अनुभवाम्यहम् इति प्रतीतिः। तदेवमस्मदर्थमनुभूतिविशिष्ट प्रकाशयन्ननुभवाम्यहमिति प्रत्ययो दण्डमात्रे 'दण्डी देवदत्तः'इति प्रत्ययवद्विशेषणभूतानुभूतिमात्रावलम्बनः कथमिव प्रतिज्ञायेत ? ॥ ___ यदप्युक्तं- स्थूलोऽहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिथ्या-इति।तदयुक्तम् ; आत्मतया अभिमताया अनुभूतेरपि मिथ्यात्वं स्यात् , तद्वत एव प्रतीतेः। सकलेतरोपमर्दितत्त्वज्ञानाबाधितत्वेनानुभूतेन मिथ्यात्वमितिचेत् । हन्तैवं सति तदबाधादेव ज्ञातृत्वमपि न मिथ्या ॥ यदप्युक्तम् --अविक्रियस्याऽत्मनो ज्ञानक्रियाकर्तृत्वरूपं ज्ञातृत्वं न संभवति । अतो ज्ञातृत्वं विक्रियात्मकं जडं विकारास्पदाव्यक्तपरिणामाहकारग्रन्थिस्थमिति न ज्ञातृत्वमात्मनः; अपित्वन्तःकरणरूपस्याहङ्कारस्य । कर्तृत्वादिर्हि रूपादिवद्दश्यधर्मः कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाऽत्मनोऽभ्युपगम्यमाने देहस्येवानात्मत्वपराक्त्वजडत्वादिप्रसङ्गश्च इति नैतदुपपद्यते देहस्येवाचेतनत्वप्रकृतिपरिणामत्वदृश्यत्वपराक्त्वपरार्थत्वादियोगादन्तःकरणरूपस्याहङ्कारस्य, चेतनासाधारणस्वभावत्वाच ज्ञातृत्वस्य ॥ For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૪૦ www.kobatirth.org शारीरकमीमांसाभाष्ये एतदुक्तं भवति - यथा देहादिर्दृश्यत्वपराक्त्वादिहेतुभिस्तत्प्रत्यनीकद्रष्टृत्वप्रत्यक्त्वादेर्विविच्यते, एवमन्तःकरणरूपाहङ्कारोऽपि तव्यत्वादेव तैरेव हेतुभिस्तस्माद्विविच्यते-- इति ॥ अतो विरोधादेव न ज्ञातृत्व महङ्कारस्य, दृशित्ववत् । यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणोऽभ्युपगन्तव्यम् ॥ न च ज्ञातृत्वं विक्रियात्मकम् ; ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम् । ज्ञानं चास्य नित्यस्य स्वाभाविकधर्मत्वेन नित्यम् । नित्यत्वं चात्मनो । “नाऽत्मा श्रुतेः" इत्यादिषु वक्ष्यति । २" ज्ञोऽतएव " इत्यत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकमिति वक्ष्यति । अस्य ज्ञानस्वरूपस्यैव मणिप्रभृतीनां प्रभाश्रयत्वमिव ज्ञानाश्रयत्वमप्यविरुद्धमित्युक्तम् । स्वयमपरिच्छिन्नमेव ज्ञानं सङ्कोच विकासाई मित्युपपादयिष्यामः || या ३. जडस्वरूपस्याहङ्कारस्येति. पा. Acharya Shri Kailassagarsuri Gyanmandir 1 अतः क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्तत्कर्मानुगुणतरतमभावेन वर्तते । तच्चेन्द्रियद्वारेण व्यवस्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्योदयास्तमयव्यपदेशः प्रवर्तते । ज्ञानप्रसरे तु कर्तृत्वमस्त्येव । तच्च न स्वाभाविकम् अपि तु कर्मकृतमित्यविक्रियस्वरूप एवात्मा एवंरूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्वरूपस्यात्मन एवेति न कदाचिदपि जडस्याहङ्कारस्य ज्ञातृत्वसम्भवः ॥ [ अ. १. ३जडस्वरूपस्याप्यहङ्कारस्य चित्संनिधानेन तच्छायापच्या तत्सम्भव इति चेत्; केयं चिच्छायापत्तिः । किमहङ्कारच्छायापत्तिस्संविदः ? उत संविच्छायापत्तिरहङ्कारस्य ? || न तावत्संविदः, ४ संविदो ज्ञातृत्वानभ्युपगमात् । नाप्य ४. संविदि इति. पा. | For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १ . ] जिज्ञासाधिकरणम् - हङ्कारस्य, उक्तरीत्या 'तस्य जडस्य ज्ञातृत्वायोगात्, द्वयोरप्यचाक्षुषत्वाच्च; न चाक्षुषाणां छाया दृष्टा ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ—अग्निसंपर्कादयःपिण्डौष्ण्यवच्चित्संपर्काज्ज्ञातृत्वोपलब्धिःइति चेत्; नैतत् संविदि वस्तुतो ज्ञातृत्वानभ्युपगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वं तदुपलब्धिर्वा । अहंकारस्य त्वचेतनस्य ज्ञातृत्वासम्भवादेव सुतरां न तत्संपर्कात्संविदि ज्ञातृत्वं तदुपलब्धिर्वा || यदप्युक्तम् – उभयत्र न वस्तुतो ज्ञातृत्वमस्ति । अहङ्कारस्त्वनुभूतेरभिव्यञ्जकस्स्वात्मस्थामेवानुभूतिमभिव्यनक्ति, आदर्शादिवत् - इति । तदयुक्तम्; आत्मनस्स्वयंज्येतिषो जडस्वरूपाहङ्काराभिव्यङ्ग्यत्वायोगात् || तदुक्तं ४ " शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥” इति ॥ स्वयंप्रकाशानुभवाधीनसिद्धयो हि सर्वे पदार्थाः । तत्र तदायप्रकाशोऽचिदहङ्कारोऽनुदितानस्तमितस्वरूपप्रकाशमशेषार्थसि द्धिहेतुभूतमनुभवमभिव्यनक्तीत्यात्मविदः परिहसन्ति || किंच अहङ्कारानुभवयोस्स्वभावविरोधादनुभूतेरननुभूतित्वप्रसङ्गाच्च न व्यङ्कव्यङ्ग्यभावः । यथोक्तं ५" व्यङ्कव्यङ्गयत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः । व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटः ।। " इति ॥ नच रविकरनिकराणां स्वाभिव्यङ्ग्यकरतलाभिव्यङ्ग्यत्ववत्संविदभिव्यङ्गन्याहङ्गाराभिव्यङ्ग्यत्वं संविदस्साधीयः, तत्रापि रविकरनिकराणां करतलाभिव्यङ्ग्यत्वाभावात्, करतलप्रतिहतगतयो हि रश्मयो १. तस्य ज्ञातृत्वेति. पा. २. इति चेत् संविदि . इति. पा. 6 1 ३. वास्तबेति. पा. ४. ५, आत्मसिद्धौ. For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. बहुलास्स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्वाहुल्यमात्र हेतुत्वात्करतलस्य नाभिव्यञ्जकत्वम् ।। किंचास्य 'संवित्स्वरूपस्याऽत्मनोऽहंकार निर्वर्त्याभिव्यक्तिः किंरूपा न तावदुत्पत्तिः स्वतस्सिद्धतयाऽनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम्, तस्यानुभवान्तराननुभाव्यत्वात् । तत एव च न तदनुभवसाधनानुग्रहः ।। स हि द्विधा ज्ञेयस्येन्द्रियसंबन्धहेतुत्वेन वा यथा जातिनिजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन; बोद्धृगतकल्मपापनयनेन वा यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमादिना । यथोक्तं – ३" करणानामभूमित्वान्न तत्संबन्धहेतुता” इति ॥ किंच अनुभूतेरनुभाव्यत्वाभ्युपगमेऽप्यहमर्थेन न तदनुभवसाधनानुग्रहस्सुवचः; स ह्यनुभाव्यानुभवोत्पत्ति प्रतिबन्धनिरसनेन भवेत् । यथा रूपादिग्रहणोत्पत्तिनिरोधसंतमसनिरसनेन चक्षुषो दीपादिना । , Acharya Shri Kailassagarsuri Gyanmandir न चेह तथाविधं निरसनीयं सम्भाव्यते । न तावत्संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोध किंचिदप्यहंकारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेतुः न, अज्ञानस्याहंकारापनोद्यत्वानभ्युपगमात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् ।। न च संविदाश्रयत्वमज्ञानस्य सम्भवति ; ज्ञानसमानाश्रयत्वात्तत्समानविषयत्वाच्च ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति; यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन घटादेर्नाज्ञानाश्र - यत्वम् । तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् । संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽभ्युपगतायास्तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्तिः । ज्ञानं हि स्वविषय एवा१. संविद्रूपस्येति. पा. २. अहङ्कारादीति. पा. ३. आत्मसिद्धौ. ४. प्रतिबन्धकेति. पा. For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. કા ज्ञानं निवर्तयति, यथा रज्ज्वादौ । अतो न केनापि कदाचित्संविदा - यमज्ञानमुच्छिद्येत । अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुर्निरूपमित्युपरिष्टाद्वक्ष्यते । ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन तज्ज्ञानसाधनानुग्रहः । अतो न केनापि 'प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्तिः ॥ न च स्वाश्रयतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावःः प्रदीपादिष्वदर्शनात् यथावस्थित पदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च । तच्च स्वतः प्रामाण्यन्यायसिद्धम् ॥ न च दर्पणादिर्मुखादेरभिव्यञ्जकः, अपि तु चाक्षुषतेजःप्रतिफलनरूपदोषहेतुः । तद्देोषकृतश्च तत्त्रान्यथावभासः । अभिव्यञ्जकस्तत्वालोकादिरेव ॥ न चेह तथाहङ्कारण संविदि स्वप्रकाशायां तादृशदोषापादनं संभवति । व्यक्तेस्तु जातिराकार इति तदाश्रयतया प्रतीतिः न तु व्यक्तिव्यङ्ग्यत्वात् । अतोऽन्तःकरणभूताहङ्कारस्थतया संविदुपलब्धेर्वस्तुतो दोषतो वा न किंचिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा । तस्मात्स्वत एव ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा । न ज्ञप्तिमात्रम् । अहंभावविगमे तु ज्ञप्तेरपि न प्रत्यक्त्वसिद्धिरित्युक्तम् || तमोगुणाभिभवात्परागर्थानुभवाभावाच्चाहमर्थस्य विविक्तस्फुटयतिभासाभावेऽप्यार प्रबोधादहमित्येकाकारेणाऽत्मनस्स्फुरणात्सुषुप्तावपि नाभावविगमः । भवदभिमताया अनुभूतेरपि तथैव प्रथेति वक्तव्यम् ॥ न हि सुप्तोत्थितः कश्चिदहं भाववियुक्तार्थान्तरप्रत्यनीकाकारा ज्ञप्तिरहमज्ञानसाक्षितयारॆऽवतिष्ठत इत्येवंविधां स्वापसमकालामनुभूर्ति परामृशति । एवं हि सुप्तोत्थितस्य परामर्शस्सुखमहम स्वाप्तमिति ॥ १. प्रकारेणानुभूतेरिति. पा. २. प्रतिबोधेति. पा. ३. अवतिष्ठ इत्येवमिति, पा. For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ शारीरकमीमांसाभाष्ये [भ. १. अनेन प्रत्यवमर्शेन तदानीमप्यहमर्थस्यैवाऽत्मनस्सुखित्वं ज्ञातृत्वं च ज्ञायते ॥ न च वाच्यं यथेदानीं सुखं भवति तथा तदानीमखाप्समित्येषा प्रतिपत्तिरिति ; अतद्रपत्वात्प्रतिपत्तेः। न चाहमर्थस्याऽत्मनोऽस्थिरत्वेन तदानीमहमर्थस्य सुखित्वानुसंधानानुरुपत्तिः, यतस्सुषुप्तिदशायाः प्रागनुभूतं वस्तु सुप्तोत्थितो 'मयेदं कृतं मयेदमनुभूतमहमेतदवोचम् इति परामृशति । 'एतावन्तं कालं न किंचिदहमज्ञासिषम् इति च परामृशतीति चेत् । ततः किम् ? न किंचिदिति कृत्स्नप्रतिषेध इति चेत् ; न, 'नाहमवेदिषम्' इति वेदितुरहमर्थस्यैवानुवृत्तेः वेद्यविषयो हि स प्रतिषेधः। न किंचिदिति निषेधस्य कृत्स्नविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्धा स्यात् । सुषुप्तिसमये त्वनुसंधीयमानमहमर्थमात्मानं ज्ञातारमहमिति परामृश्य न किंचिदवेदिषमिति वेदने तस्य प्रतिषिध्यमाने तस्मिन् काले निषिध्यमानाया वित्तेस्सिद्धिमनुवर्तमानस्य ज्ञातुरहमर्थस्य चासिद्धिमनेनैव 'न किंचिदहमवेदिषम् इति परामर्शन साधयंस्तमिममर्थ देवानामेव साधयतु ॥ ___'मामप्यहं न ज्ञातवान्' इति अहमर्थस्यापि तदानीमननुसंधानं २प्रतीयत इति चेत् ; खानुभवखवचनयोर्विरोधमपि न जानन्ति भवन्तः। 'अहं मां न ज्ञातवान् 'इति ह्यनुभववचने । मामिति किं निषिध्यत इति चेत् ; साधु पृष्टं भवता । तदुच्यते, अहमर्थस्य ज्ञातुरनुवृत्तेः न खरूपं निषिध्यते ; अपि तु प्रबोधसमयेऽनुसंधीयमानस्याहमर्थस्य वर्णाश्रमादिविशिष्टता । अहं मां न ज्ञातवानित्युक्ते विषयो विवेचनीयः। जागरितावस्थानुसंहितजात्यादिविशिष्टोऽस्मदर्थों मामित्यंशस्य विषयः। खाप्ययावस्थापसिद्धाविशदस्वानुभवैकतानश्चाहमर्थोऽहमित्यंशस्य विष१. अनेनैवेति. पा. २. प्रतिषिध्यत इति. पा. For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . ४५ यः । अत्र सुप्तोऽहमीदृशोऽहमिति च मामपि न ज्ञातवानहमित्येव खल्वनुभवप्रकारः॥ किंच, सुषुप्तावात्माऽज्ञानसाक्षित्वेनाऽस्त इति हि भवदीया प्रक्रिया । साक्षित्वं च साक्षाज्ज्ञातृत्वमेव । न ह्यजानतस्साक्षित्वम् । ज्ञातैव हि लोकवेदयोस्साक्षीत व्यपदिश्यते ; न ज्ञानमात्रम् । स्मरति च भगवान् पाणिनिः१"साक्षादृष्टरि संज्ञायाम्" इति साक्षाज्ज्ञातर्येव साक्षिशब्दम् । स चायं साक्षी जानामीति प्रतीयमानोऽस्मदर्थ एवेति कुतस्तदानीमहमर्थो न प्रतीयेत । आत्मने स्वयमवभासमानोऽहमित्येवावभासत इति स्वापाद्यवस्थास्वप्यात्मा प्रकाशमानोऽहमित्येवावभासत इति सिद्धम् ॥ यत्तु मोक्षदशायामहर्थो नानुवर्तते इति ; तदपेशलम् । तथा सत्यात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । न चाहमर्थों धर्ममात्रम् ; येन तद्विगमेऽप्यविद्यानिवृत्ताविव स्वरूपमवतिष्ठेत । प्रत्युत खरूपमेवाहमर्थ आत्मनः। ज्ञानं तु तस्य धर्मः, 'अहं जानामि, ज्ञानं मे जातम्' इति चाहमर्थधर्मतया ज्ञानप्रतीतेरेव ॥ अपि च यः परमार्थतो भ्रान्त्या वाऽऽध्यात्मिकादिदुःखैर्दुःखितया ३स्वात्मानमनुसंधत्ते'अहं दुःखी'इति।सर्वमेतदःखजातमपुनर्भवमपोह्य'कथमहमनाकुलस्वस्थो भवेयम् 'इत्युत्पन्नमोक्षरागस्स एव तत्साधने प्रवर्तते। स साधनानुष्ठानेन यद्यहमेव न भविष्यामीत्यवगच्छेत् ; अपसेपेदेवासौ मोक्षकथाप्रस्तावात् । ततश्चाधिकारिविरहादेव सर्व मोक्षशास्त्रमप्रमाणं स्यात् । अहमुपलक्षितं प्रकाशमात्रमपवर्गेऽवतिष्ठत इति चेत् ; किमनेन? माय नष्टेऽपि किमपि प्रकाशमात्रमपवर्गेऽवतिष्ठत इति मत्वा नहि कश्चित् १. अष्टा. ५, अ. २. पा. ९१. सू. ४. प्रकाशमात्रमपवर्गेऽप्यवतिष्ठत. इति. पा. २. साक्षादृष्टर्येवेति. पा. ५. प्रकाशमात्रमवतिष्ठत इति. पा. ३, आत्मानमिति. पा. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाग्ये [अ. १. बुद्धिपूर्वकारी प्रयतते । अतोऽहमर्थस्यैव ज्ञातृतया सिद्ध्यतः प्रत्यगात्मत्वम् । स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । योयः स्वस्मै प्रकाशते, स सर्वोऽहमित्येव प्रकाशते, यथा तथावभासमानत्वेनोभयवादिसम्मतस्संसार्यात्मा । यः पुनरहमिति न चकास्ति ; नासौ स्वस्मै प्रकाशते, यथा घटादिः। स्वस्मै प्रकाशते चायं मुक्तात्मा; तस्मादहमित्येव प्रकाशते ॥ न चाहमिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्गः । मोक्षविरोधात् , अज्ञत्वाद्यहेतुत्वाच्चाहंप्रत्ययस्य । अज्ञानं नाम स्वरूपाज्ञानमन्यथाज्ञानं विपरीतज्ञानं वा । अहमित्येवाऽत्मनस्वरूपमिति स्वरूपज्ञानरूपोऽहंप्रत्ययो नाज्ञत्वमापादयति ; कुतस्संसारित्वम् । अपि तु तद्विरोधित्वान्नाशयत्येव ॥ ब्रह्मात्मभावापरोक्ष्यनिर्धतनिरवशेषाविद्यानामपि वामदेवादीनामहमित्येवात्मानुभवदर्शनाच्च । श्रूयते हि- २" तबैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" इति, ३" अहमेकः प्रथममासं वामि च भविष्यामि च"इत्यादि।सकलेतराज्ञानविरोधिनस्सच्छब्दप्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽप्येवमेव--४" हन्ताहमिमास्तिस्रो देवताः" ५"बहु स्यां प्रजायेय" ६" स ईक्षत लोकान्नु सृजा इति"; तथा७" यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः"८"अहमात्मा गुडाकेश" "न त्वेवाहं जातु नासम्" १०" अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" ११“अहं सर्वस्य प्रभवो १. स तरमादिति. पा. ७ गीता. १५. अ. १८. लो. २. बृ. ३. अ. ४. ब्रा. १०. वा. ८. गी. १०. अ. २०. श्लो. ३. अथर्वशिरोपनिषदि. ९. खण्डे. ९. गी. २. अ. १२. श्लो.. ४. छा. ६. प्र. ३. ख. २. वा. १०. गी ७. अ. ६. श्लो, ५. तै. आन. ६. अनु. २. वा. ११. गी. १०. अ. ८. श्लो. ६. ऐतरेय. १. अनु. १. ख. १. वा. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १] जिज्ञासाधिकरणम् . मत्तस्सर्व प्रवर्तते" १" तेषामहं समुद्धर्ता मृत्युसंसारसागरात्" २“अहं बीजप्रदः पिता" ३"वेदाहं समतीतानि" इत्यादिषु ॥ ___ यद्यहमित्येवात्मनः स्वरूपम् कथं तहकारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते? ५"महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च"इति । उच्यते, स्वरूपोपदेशेषु सर्वेष्वहमित्येवोपदेशात्तथैवाऽत्मस्वरूपप्रतिपत्तेश्चाहमित्येव प्रत्यगात्मनः स्वरूपम्।अव्यक्तपरिणामभेदस्याहंकारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते।स त्वनात्मनि देहेऽहंभावकरणहेतुत्वेन अहंकार इत्युच्यते। अस्य त्वहंकारशब्दस्य अभूततद्भावेऽर्थे च्चिप्रत्ययमुत्पाद्य व्युत्पत्तिद्रष्टव्या। अयमेव त्वहंकार उत्कृष्टजनावमानहेतुर्गापरनामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते। तस्माद्धाधकापेताऽहंबुद्धिस्साक्षादात्मगोचरैव। शरीरगोचरा त्वहंबुद्धिरविद्यैव। यथोक्तं भगवता पराशरेण-६५७ श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन।अनात्मन्यात्मबुद्धिर्या" इति।यदि ज्ञप्तिमात्रमेवाऽत्मा, तदाऽनात्मन्यात्माभिमाने शरीरे ज्ञप्तिमात्रप्रतिभासः स्यात् । न ज्ञातृत्वप्रतिभासः । तस्माज्ज्ञाताऽहमर्थ एवाऽऽत्मा । तदुक्तम्८"अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चाऽत्मा ज्ञाताऽहमिति भासते ॥” इति ॥ तथाच ९"देहेन्द्रियमनःप्राणधीभ्योन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥” इति ॥ अनन्यसाधनः-स्वप्रकाशः। व्यापी-अतिसूक्ष्मतया सर्वाचेतनान्त:प्रवेशनस्वभावः॥ १. गी. १२. अ. ७. श्लो. २. गी. १४. अ. ४. श्लो. ३. गी. ७. अ, २६. श्लो, ४. तर्हितस्याहकारस्येति. पा. ५. गी. १३. अ. ५. श्लो. ६. वि. पु. ६. अं. ७. अ. १०.११.श्लो. ७. तच्छ्रयतामविद्याया इति. पा. ८. ९, आत्मसिद्धौ. For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. यदुक्तं दोषमूलत्वेनान्यथासिद्धिसंभावनया सकलभेदावलम्बिप्रत्यक्षस्य शास्त्रबाध्यत्वम्-इति ॥ कोऽयं दोष इति वक्तव्यम्, यन्मूलतया प्रत्यक्षस्यान्यथासिद्धिः। अनादिभेदवासनैव हि दोष इति चेत् ; भेदवासनायास्तिमिरादिवद्यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम्? अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेत्, न, अन्योन्याश्रयणात् , शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासनाया दोषत्वनिश्चयः, भेदवासनाया दोषत्वनिश्चये सति शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चय इति। किंच, यदि भेदवासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम् । शास्त्रमपि तन्मूलत्वेन तथैव स्यात् ।। अथोच्येत---दोषमूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात्तत्प्रत्यक्षस्य बाधकम् -- इति।तन्नदोषमूलत्वे ज्ञाते सति परत्वमकिंचित्करम् । रज्जुसपज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचित् 'नायं सो मा भैषीः'इत्युक्तेऽपि भयानिवृत्तिदर्शनात् । शास्त्रस्य च दोषमूलत्वं श्रवणवेलायामेव ज्ञातम् । श्रवणावगतनिखिलभेदोपर्दिब्रह्मात्मैकत्वविज्ञानाभ्यासरूपत्वान्मननादेः॥ अपि च इदं शास्त्रम् । एतच्चासंभाव्यमानदोषम् । प्रत्यक्षं तु संभाव्यमानदोषमिति केनावगतं त्वयान तावत्स्वतस्सिद्धा निर्धूतनिखिलविशेषाऽनुभूतिरिममर्थमवगमयति । तस्यास्सर्वविषयविरक्तत्वात् , शास्त्रपक्षपातविरहाच्च । नाप्यन्द्रियिकं प्रत्यक्षम् , दोषमूलत्वेन विपरीतार्थत्वात् । तन्मूलत्वादेव नान्यान्यपि प्रमाणानि । अतस्वपक्षसाधनप्रमाणानभ्युपगमान्न स्वाभिमतार्थसिद्धिः॥ १. किमप्यन्येनेति. पा. For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् - ४९ ननु व्यावहारिकप्रमाणप्रमेयव्यवहारोऽस्माकमप्यस्त्येव ; कोऽयं व्यावहारिको नाम ? आपातप्रतीतिसिद्धो युक्तिभिर्निरूपितो न तथाऽवस्थित इति चेतुः किं तेन प्रयोजनम् ? प्रमाणतया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्याभावात्। अथोच्येत -- शास्त्रप्रत्यक्षयोः द्वयोरप्यविद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदातीयब्रह्मणः पश्चात्तनबाधादर्शनेन निर्विशेषानुभूतिमात्रं ब्रह्मैव परमार्थः - इति । तदयुक्तम्, अबाधितस्यापि दोषमूलस्यापारमार्थ्यनिश्चयात् ॥ एतदुक्तं भवति - - यथा सकलेतरकाचादिदोषरहित पुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजनस्याज्ञातस्वतिमिरस्य सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्टं जायते । न तत्र वाधकप्रत्ययो ऽस्तीति न तन्मिथ्या न भवतीति तद्विषयभूतं द्विचन्द्रत्वमपि मिथ्यैव । दोषो ह्ययथार्थज्ञानहेतुः । तथा ब्रह्मज्ञानमविद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा सह मिथ्यैव - इति । भवन्ति चात्र प्रयोगाः, विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिथ्या, ज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात् प्रपञ्चवदेव ॥ " न च वाच्यं - स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुभाववदविद्या मूलत्वेनासत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्धः - - इति, स्वाप्नज्ञानस्यासत्यत्वाभाaalna हि विषयाणामेव मिथ्यात्वम् ; तेषामेव हि बाधो दृश्यते ; न ज्ञानस्य न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचि - दपि प्रत्ययो जायते । दर्शनं तु विद्यते अर्था न सन्तीति हि बाधकप्रत्य - यः । मायाविनो मन्त्रौषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रीतेर्भयस्य च हेतु:; तत्रापि ज्ञानस्याबाधितत्वात् । विषयेन्द्रियादिदोषजन्यं रज्ज्वा१. द्वयोरविद्यामूलत्वेऽपनि पा २. परमार्थब्रह्म. पा. ३. विरुध्यते. पा. 7 For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ៖ शारीरकमीमांसाभाष्ये [अ. १. दौ सर्पादिविज्ञानं सत्यमेव भयादिहेतुः । सत्यैवादष्टेपि स्वात्मनि सर्पसन्निधानादष्टबुद्धिः, सत्यैव शङ्काविषबुद्धिर्मरणहेतुभूता । वस्तुभूत एव जलादौ मुखादिप्रतिभासो वस्तुभूतमुखगत विशेषनिश्चयहेतुः । एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारित्वाच्च सत्यत्वमवसीयते । हस्त्यादीनाम् अभावेऽपि कथं तद्धद्धयस्सत्या भवन्तीति चेतुः नैतत्, बुद्धीनां सालम्बनत्वमात्रनियमात् ॥ अर्थस्य प्रतिभासमानत्वमेव ह्यालम्बनत्वेऽपेक्षितम् प्रतिभासमानता चास्त्येव दोषवशात् । स तु बाधितोऽसत्य इत्यवसीयते । अबाधिता हि बुद्धिस्सत्यैवेत्युक्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धिः, रेखायास्सत्यत्वात् । ननु -- वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतुः । वर्णात्मता त्वसत्या | नैवम्, वर्णात्मताया असत्याया उपायत्वायोगात् । असतो निरुपाख्यस्य ह्युपायत्वं न दृष्टमनुपपन्नंच अथ तस्यां वर्णबुद्धेरुपायत्वम्; एवं तर्ह्यसत्यात्सत्यबुद्धिर्न स्याद्वद्धेस्सत्यत्वादेव | उपायोपेययोरेकत्वप्रसङ्गश्व, उभयोवर्णबुद्धित्वाविशेषात् । रेखाया अविद्यमानवर्णात्मनोपायत्वे चैकस्यामेव रेखायामविद्यमानसर्व वर्णात्मकत्वस्य सुलभत्वादेकरेखा दर्शनात्सर्ववर्णप्रतिपत्तिस्स्यात् । अथ पिण्डविशेषे देवदत्तादिशब्दसंकेतवच्चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसंकेतवशाद्रेखाविशेषो वर्णविशेषबुद्धिहेतुरिति । हन्त तर्हि सत्यादेव सत्यप्रतिपत्तिः, रेखायास्संकेतस्य च सत्यत्वात्, रेखागवयादपि सत्यगवयबुद्धिस्सादृश्यनिबन्धना, सादृश्यं च सत्यमेव ॥ न चैकरूपस्य शब्दस्य नादविशेषेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्तिः, नानानादाभिव्यक्तस्यैकस्यैव शब्दस्य तत्तन्नादाभिव्यजयस्वरूपेणार्थविशेषैस्सह संबन्धग्रहणवसादर्थभेदबुद्ध्युत्पत्तिहेतुत्वात् । १. अभावे कथं. पा. For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् शब्दस्यैकरूपत्वमपि न साधीयः, गकारादेोधकस्यैव श्रोतग्राह्यत्वेन शब्दत्वात् । अतोऽसत्याच्छास्त्रात्सत्यब्रह्मविषयप्रतिपत्तिदुरुपपादा ॥ ननु न शास्त्रस्य गगनकुसुमवदसत्यत्वम् ; प्रागद्वैतज्ञानात्सद्धद्धिबोध्यत्वात् । उत्पन्ने तत्त्वज्ञाने ह्यसत्यत्वं शास्त्रस्य । न तदा शास्त्रं निरस्तनिखिलभेदचिन्मात्रब्रह्मज्ञानोपायः । यदोपायस्तदा अस्त्येव शास्त्रं, आस्तीतिबुद्धेः। नैवम् ,असति शास्त्रे अस्ति शास्त्रमिति बुद्धर्मिथ्यात्वात्। ततः किम्? इदं ततः मिथ्याभूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन तद्विषयस्यापि ब्रह्मणो मिथ्यात्वम् ; यथा धूमबुद्ध्या गृहीतबाष्पजन्याग्निज्ञानस्य मिथ्यात्वेन तद्विषयस्याग्नेरपि मिथ्यात्वम् । पश्चात्तनबाधादर्शनश्वासिद्धम् शून्यमेव तत्त्वमितिवाक्येन तस्यापि बाधदर्शनात् । तत्तु भ्रान्तिमूलामिति चेत्, एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पाश्चात्त्यबाधादर्शनं तु तस्यैवेत्यलमप्रतिष्ठितकुतर्कपरिहसनेन । यदुक्तं वेदान्तवाक्यानि निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपराणि, " सदेव सोम्येदमग्र आसीत्" इत्येवमादीनि इति तदयुक्तं, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छब्दवाच्यस्य परस्य ब्रह्मणो जगदुपादानत्वम् , जगनिमित्तत्वम् , सर्वज्ञता, सर्वशक्तियोगः, सत्यसङ्कल्पत्वम् , सर्वान्तरत्वम् , सर्वाधारत्वम् , सर्वनियमनमित्याद्यनेककल्याणगुणविशिष्टताम् , कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य, एवंभूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपदेशाय प्रवृत्तत्वात्प्रकरणस्य । प्रपश्चितश्चायमों वेदार्थसंग्रहे । अत्राप्यारम्भणाधिकरणे निपुणतरमुपपादयिष्यते ॥ २॥ अथ परा यया तदक्षरम्" इत्यत्रापि प्राकृतान् हेयगुणान् प्रतिषिध्य नित्यत्वविभुत्वमुक्ष्मत्वसर्वगतत्वाव्ययत्वभूतयोनित्वसाझ्या १. सर्वाधारता. पा. For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [भ. १. दिकल्याणगुणयोगः परस्य ब्रह्मणः प्रतिपादितः॥ ___ " सत्यं ज्ञानमनन्तं ब्रह्म" इत्यत्रापि सामानाधिकरण्यस्यानेकविशेषणविशिष्टकार्थाभिधानव्युत्पत्त्या न निर्विशेषवस्तुसिद्धिः। प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तिलं सामानाधिकरण्यम् । तत्र सत्यज्ञानादिपदमुख्यार्थैर्गुणैस्तत्तद्गणविरोध्याकारप्रत्यनीकाकारैवैकस्मिन्नेवार्थे पदानां प्र वृत्तौ निमित्तभेदोऽवश्याश्रयणीयः । इयांस्तु विशेषः एकस्मिन् पक्षे पदानां मुख्यार्थता ; अपरस्मिंश्च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनीकता वस्तुस्वरूपमेव ; एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात् । तथा सति सामानाधिकरण्यासिद्धिश्च, एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात् । न च एकस्यैवार्थस्य विशेषणभेदेन विशिष्टताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि ; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टताप्रतिपादनपरत्वासामानाधिकरण्यस्य, २"भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्" इति हि शाब्दिकाः॥ यदुक्तम्, एकमेवाद्वितीयमित्यत्राद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहते; अतस्सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानामद्वितीयवस्तुप्रतिपादनपरत्वमभ्युपगमनीयम् कारणतयोपलक्षितस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते “सत्यं ज्ञानमनन्तं ब्रह्म"इति । अतो लिलक्षयिषितं ब्रह्म निर्गुणमेवः अन्यथा ३"निर्गुणं" ४"निरञ्जनम्" इत्यादिभिर्विरोधश्च इति तदनुपपन्न, जगदुपादानस्य ब्रह्मणस्स्वव्यतिरिक्ताधिष्ठात्रन्तरनिवारणेन विचित्रशक्तियोगपतिपादनपरत्वादद्वितीयपदस्य । तथैव विचित्रशक्तियोगमेवावगमयति- ५॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादि । अविशेषेणाद्वितीयमित्युक्ते निमित्ता१. वृत्तित्वं हि. २. कैयटे वृद्ध्याह्निके, । ४. श्वे. ६. अ. १९-वा. ३. मन्त्रिकोपनिषत् . । ५. छा. ६-प्र. २-ख. ३-वा. For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. न्तरमात्रनिषेधः कथं ज्ञायतइति चेत् ; सिमृक्षोर्ब्रह्मण उपादानकारणत्वं “सदेव सोम्येदमग्रआसादेकमेव" इति प्रतिपादितम् । कार्योत्पत्तिस्वाभाव्येन बुद्धिस्थ निमित्तान्तरमिति तदेवाद्वितीयपदेन निषिद्ध्यत इत्यवगम्यते । सर्वनिषेधे हि स्वाभ्युपगतास्सिषाधयिषिता नित्यत्वादयश्च निषिद्धास्स्युः । सर्वशाखाप्रत्ययन्यायश्चात्र भवतो विपरीतफलः, सर्वशाखा कारणान्वयिनां सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात् । अतः कारणवाक्यस्वभावादपि “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते ॥ न च निर्गुणवाक्यविरोधः, प्राकृतहेयगुणविषयत्वात्तेषां “निगुणं " " निरञ्जनं " "निष्कलं निष्क्रिय शान्तम्" इत्यादीनाम् । ज्ञानमात्रखरूपवादिन्योऽपि श्रुतयः ब्रह्मणो ज्ञानस्वरूपतामभिदधति ; न तावता निर्विशेषज्ञानमात्रमेव तत्त्वम् , ज्ञातुरेव ज्ञानस्वरूपत्वात् । ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिद्यमणिदीपादिवद्यक्तमेवेत्युक्तम् । ज्ञातृत्वमेव हि सर्वाश्रुतयो वदन्ति–१“यस्सर्वज्ञस्सर्ववित " "तदैक्षत" २" सेयं देवतैक्षत" ३“स ईक्षत लोकान्नु सृजा इति" ४"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् " ५" ज्ञाज्ञौद्वावजावीशनीशौ" ६" तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पति पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीडयम्" ७"न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "एष आ १. मुण्ड. १-मु. १-ख, ९-वा. २. छा. ६-प्र. ३-ख. २-वा. ३. ऐतरे. १-ख. १-वा. ४. कठ. २-अ. ५-वल्ली. १३-या. ५. श्वे. १-अ. ९-वा. ६. श्वे. ६-अ. ७.वा. ७. श्वे. ६-अ. ८-वा. । ८. छा. ८-प्र. १-ख. ५-वा. . For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [भ. १. स्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इत्याद्याश्श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणस्वाभाविकान्वदन्ति समस्तहेयरहिततां चानिर्गुणवाक्यानां सगुणवाक्यानां च विषयमपहतपाप्मेत्यायपिपासइत्यन्तेन हेयगुणान् प्रतिषिद्ध्य "सत्यकामस्सत्यसङ्कल्पः" इति ब्रह्मणः कल्याणगुणाविदधतीयं श्रुतिरेव विविनक्तीति सगुणनिर्गुणवाक्ययोर्विरोधाभावादन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयम् ॥ ___१"भीषाऽस्माद्वातः पवते" इत्यादिना ब्रह्मगुणानारभ्य २"ते ये शतम्" इत्यनुक्रमेण क्षेत्रज्ञानन्दातिशयमुक्त्वा ३ " यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् इति ब्रह्मणः कल्याणगुणानन्त्यमत्यादरेण वदतीयं श्रुतिः ॥ ___४"सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"इति ब्रह्मवेदनफलमवगमयद्वाक्यं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीतिविपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते । काम्यन्त इति कामाः-कल्याणगुणाःब्रह्मणा सह तद्गणान् सर्वानश्नुत इत्यर्थः।दहरविद्यायां ५"तस्मिन्यदन्तस्तदन्वेष्टव्यम्"इतिवद्गणप्राधान्यं वक्तुं सहशब्दः । फलोपासनयोः प्रकारक्यं, ६“यथाक्रतुरास्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति श्रुत्यैव सिद्धम् ॥ ७"यस्यामतं तस्य मतम् , अविज्ञातं विजानताम्" इति ब्रह्मणो ज्ञानाविषयत्वमुक्तं चेत् ; "ब्रह्मविदामोति परम्" ९"ब्रह्म वेद ब्रह्मैव १-२. तै. आन. ८-अनु. १-वा. ६. छा. ३-प्र. १४-ख. १-वा. ३. तै-आन. ९. अनु. १-वा. ७. केनोप. २-ख. ३-वा. ४. तै. आन. १. अनु. २-वा. ८. तै-आन. १-अनु १-वा. ५. छा. ८-प्र. १-ख. १-वा. ९. मुण्ड. ३-मु. २-ख. ९-वा. For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . भवति"इति ज्ञानान्मोक्षोपदेशो न स्यात्। १“असन्नेव स भवति। असद्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्तां च वदति। अतो ब्रह्मविषयवेदनमेवारपवर्गोपायं सर्वाश्श्रुतयो विदधति । ज्ञानं चोपासनात्मकम्।उपास्यं च ब्रह्म सगुणमित्युक्तम् । ३“यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह"इति ब्रह्मणोऽनन्तस्यापरिच्छिन्नगुणस्य वाङ्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्मेतावदिति ब्रह्मपरिच्छेदज्ञानवतां ब्रह्माविज्ञातममतमित्युक्तम् , अपरिच्छिन्नत्वाब्रह्मणः । अन्यथा “ यस्यामतं तस्य मतम् " "विज्ञातमविजानताम्"इति मतत्वविज्ञातत्ववचनं तत्रैव विरुध्यते ॥ यत्तु-५"न दृष्टेष्टारं—न मतेमन्तारम्" इति श्रुतिदृष्टेमतेर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधति इति तदागन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा न तथाऽऽत्मानं पश्येः, न मन्वीथाः अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्यरित्यभिदधातीति परिहृतम् । अथवा दृष्टेन॒ष्टारं मतेमन्तारं जीवात्मानं प्रतिषिध्य सर्वभूतान्तरात्मानं परमात्मानमेवोपास्स्वेति वाक्यार्थः; अन्यथा ६"विज्ञातारमरे केन विजानीयात्" इत्यादिज्ञातृत्वश्रुतिविरोधश्च ॥ "आनन्दो ब्रह्म"इति आनन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तं; तज्ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते। ८"विज्ञानमानन्दं ब्रह्म"इत्यानन्दरूपमेव ज्ञानं ब्रह्मेत्यर्थः । अत एव भवतामेकरसता । अस्य ज्ञानस्वरूपस्यैव १. तै. आन. ६-अनु. १-वा. ५. बृ. ५-अ. ४-ब्रा. २-वा. २. अपवर्गाय सर्वा इति-पा. ६. बृ. ४-अ. ४-ब्रा. १४-वा. ३. ते-आन. ९-अनु. १-वा. ७. तै-भृगु. ६-अनु. १-वा. ४. अपरिमितगुणस्य. पा. ८. बृ. ५-अ. ९-ग्रा. २८-वा. For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ शारीरकमीमांसाभाष्ये [अ. १. ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम् । तद्वदेव १" स एको ब्रह्मण आनन्द:"२"आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशाच नाऽनन्दमात्रं ब्रह्म ; अपि त्वानन्दिः । ज्ञातृत्वमेव ह्यानन्दित्वम् ॥ ____ यदिदमुक्तम्-३" यत्र हि द्वैतमिव भवति" ४" नेह नानास्ति किश्चन । मृत्योस्स मृत्युमामोति य इह नानेव पश्यति" ५" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् " इति भेदनिषेधो बहुधा दृश्यत इति ; तत्कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् ,तत्सत्यनीकनानात्वं प्रतिषिद्धयते।न पुनः "बहुस्यां प्रजायेय" इति बहुभवनसंकल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत इति परिहृतम् । नानात्वनिषेधादियमपरमार्थविषयेति चेत् ; न, प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोहं ब्रह्मणः प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम् ॥ "यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते।अथ तस्य भयं भवति" इति ब्रह्मणि नानात्वं पश्यतो भयप्राप्तिरिति यदुक्तम् । तदसत्, ७"सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत" इति तन्नानात्वानुसन्धानस्य शान्तिहेतुत्वोपदेशात् । तथा हि सर्वस्य जगतस्तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसंधानेनात्र शान्तिर्विधीयते । अतो यथावस्थितदेवतिर्यमनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंधानस्य शान्तिहेतुतया अभयप्राप्तिहेतुत्वेन न भयहेतुत्वप्रसङ्गः । एवं तर्हि "अथ तस्य भयं भवति"इति किमुच्यते इदमुच्यते," यदा ह्येवैष एतस्मिन्बहश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो १. तै-आन. ८-अनु. ४-वा. ५. बृ. ४.अ. ४-ब्रा. १४-वा. . ७-अनु. २.वा. ७. छा. ३-प्र. १४-ख. १. वा, ८. ते-आन. ७-अनु. २-वा. २. तै-आन. ९-अनु. १-वा. ३. वृ. ४-अ. ४-ब्रा. १४ वा ४. यू.६-अ. ४-प्रा.१९-वा. For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम्. भवति" इत्यभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठाऽभिहिता ; तस्याविच्छेदे भयं भवतीति । यथोक्तं महर्षिभिः Acharya Shri Kailassagarsuri Gyanmandir १" यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । साहानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥ " इत्यादि । ब्रह्मणि प्रतिष्ठाया अन्तरमवकाशो विच्छेद एव ॥ १. गारुड - पु पूर्वखं, २२२-२२. २. शारी. ३. अ. ३. पा. ११. सू. ३. ब्रह्मेति वक्ष्यति पा. ४. शारी. ३. अ. ३. पा. ३. सू. ५. इति पारमार्थिकत्व. पा. 8 यदुक्तम् २ "न स्थानतोऽपि " इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति; तन्न, सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यति । ४" मायामात्रं T तु" इति च स्वामानामप्यर्थानां जागरितावस्थानुभूतपदार्थवैधम्र्येण मायामात्रत्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिकत्वमेव वक्ष्यति || स्मृतिपुराणयोरपि निर्विशेषज्ञानमात्रमेव परमार्थोऽन्यदपारमा र्थिकमिति प्रतीयत इति यदभिहितम् । तदसत् - "" ६" यो मामजमनादि च वेत्ति लोकमहेश्वरम् । ७७ मत् स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत् स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।। " ८" अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ९" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ " " ५७ ६. गी. १०. अ. ३. लो. ७. गी. ९, अ. ४, ५. श्री. ८. नी. ७. अ. ६, ७, श्लो. ९. नी. १०. अ. ४२. श्री. For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. शारीरकमीमांसाभाप्ये १५ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥" २" स सर्वभूतप्रकृति विकारान् गुणादिदोषांश्च मुनेव्यतीतः। अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भवनान्तराले ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धत भूतसर्गः। इच्छागृहीताभिमतोरुदेहस्संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः। परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरस्सर्वहक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः॥ संझायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाऽप्यधिगम्यते वा तन ज्ञानमज्ञानमतोऽन्यदुक्तम् ।।" ४"शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ॥ संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः। नेता गमयिता स्रष्टा गकारार्थस्तथा मुने । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भगइतीरणा ॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । १. नी. १५. अ. १७, १८. श्लो. ३. भूतवर्ग इति च पा. २. विष्णु. पु. ६, अं. ५. अ. ८३, ८४, ४. विष्णु. पु. ६. अं, ५, अ. ७२, ७३ ८५, ८६, ८७. | ७४, ७५. लो. For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org जिज्ञासाधिकरणम् . स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ।। " १"ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। " २" एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण धन्यत्र ह्यपचारतः ।। " ३" समस्तारशक्तयचैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥" ४" एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥” ५" परः पराणां परमः परमात्माऽऽत्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जित शक्यते वक्तुं यस्सदाऽस्तीति केवलम् ॥ सर्वत्रासौ समस्तं च वसत्यत्वेति वै यतः । ततस्स वासुदेवेति विद्भिः परिपठ्यते ।। १. विष्णु. पु. ६. अं. ५. अ, ७९. श्रो. २. विष्णु. पु. ६. अं ५. अ. ७६,७७, लो. ३. विष्णु. पु. ६. अं. ७, अ. ७०, ७१, ७२. श्रो. Acharya Shri Kailassagarsuri Gyanmandir ४. विष्णु. पु. ५. विष्णु, पु. १२. लो, For Private And Personal Use Only ५९ १. अं, २२. अ. ५३. लो. १. अं. २. अ. १०, ११, Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसामाध्ये [भ.१. १ तद्ब्रह्म परमं नित्यमजरमक्षरमव्ययं । एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥ तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥" ३. प्रकृतिया मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः। विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥" ४"द्वे रूपे ब्रह्मणस्तस्य मूत चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते । अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेज्योत्स्ना विस्तारिणी यथा॥ परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत् ॥" ५"विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा। अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते॥ यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा। संसारतापानखिलानवाप्नोत्यतिसन्ततान् । तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता। सर्वभूतेषु भूपाल तारतम्येन वर्तते॥" ६"प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया। विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ १. विष्णु.पु. १. अं. २. अ. १३,१४.श्लो ५७. श्लो. २, अक्षय. पा, ५. विष्णु. पु. ६. अं ७. अ. ६१, ६२, ३. विष्णु, पु. ६. अं. ४. अ, ३९,४०.श्लो. ६३. श्लो. ४. विष्णु. पु. १. अं २२. अ. ५५, ५६, ६. विष्णु. पु. २. अं ७. अ. २९. को. For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. १तयोस्सैव पृथग्भावकारणं संश्रयस्य च ॥ यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिस्साऽपि तथा विष्णोः प्रधानपुरुषात्मनः॥" २"तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥" । इत्यादिना परं ब्रह्म स्वभावत एव निरस्तनिखिलदोषगन्धं समस्तकल्याणगुणात्मकं जगदुत्पत्तिस्थितिसंहारान्तःप्रवेशनियमनादिलीलं प्रतिपाद्य कृत्स्नस्य चिदचिद्वस्तुनस्सर्वावस्थावस्थितस्य, पारमार्थिकस्यैव, परस्य ब्रह्मणश्शरीरतया रूपत्वम् , शरीररूपतन्वंशशक्तिविभूत्यादिशब्दैस्तत्तच्छब्दसामानाधिकरण्येन चाभिधायतद्विभूतिभूतस्य चिद्वस्तुनस्वरूपेणावस्थितिमचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थितिं चोक्तवा, क्षेत्रज्ञावस्थायां पुण्यपापात्मककर्मरूपाविद्यावेष्टितत्वेन स्वाभाविकज्ञानरूपत्वाननुसन्धानमचिद्रपार्थाकारतयाऽनुसन्धानं च प्रतिपादितमिति परं ब्रह्म सविशेष तद्विभूतिभूतं जगदपि पारमार्थिकमेवेति ज्ञायते ॥ "प्रत्यस्तमितभेदम्" इत्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेषसंसृष्टस्याप्यात्मनस्वरूपं तद्गतभेदरहितत्वेन तद्भेदवाचिदेवादिशब्दागोचर ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुङ्मनसो न गोचरइत्युच्यतइति । अनेन न प्रपञ्चापलापः। कथमिदमवगम्यत इति चेत् । तदुच्यते अस्मिन् प्रकरणे संसारैकभेषजतया योगमभिधाय योगावयवान् प्रत्याहारपर्यन्तां धोक्त्वा, धारणासिद्ध्यर्थ शुभाश्रयं वक्तुं परस्य ब्रह्मणो विष्णोश्शक्तिशब्दाभिधेयं रूपद्वयं मूर्तामूर्तविभागेन प्रतिपाद्य, तृतीयशक्तिरूपकर्माख्याविद्यावेष्टितम् अचिद्विशिष्ट क्षेत्रमै मूर्ताख्यविभागं भावनात्रयान्वयादशुभमित्युक्त्वा, द्वितीयस्य कर्माख्याविद्याविरहिणोऽचिद्वियुक्तस्य १. विष्णु. पु. २. अं. ७.अ. ३०,३१.श्लो. ३. अचिद्रूपतदर्था. पा. २. विष्णु, पु. १. अं. २२. अ. ६०. लो For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६२ [अ. १. ज्ञानैकाकारस्यामूर्ताख्यविभागस्य निष्पन्नयोगिध्येयतया योगयुमनसो - नालम्बनतया स्वतश्शुद्धिविरहाच्च शुभाश्रयत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्रज्ञाख्यमूर्त च परशक्तिरूपस्यात्मनः क्षेत्र - ज्ञतापत्तिहेतुभूततृतीयशक्त्याख्यकर्मरूपाविद्या चेत्येतच्छक्तित्रयाश्रयो भगवदसाधारण 'मादित्यवर्णमि" त्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय - त्युक्तम्। अत्र परिशुद्धात्मस्वरूपस्य शुभाश्रयतानर्हतां वक्तुं " प्रत्यस्तमितभेदं यत्" इत्युच्यते । तथाहि १" न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ॥ द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् ।। समस्तारशक्तयचैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। " शारीरकमीमांसाभाष्ये Acharya Shri Kailassagarsuri Gyanmandir इति च वदति । तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वर्तिनामवेद्यावेष्टितत्वेन शुभाश्रयतानर्हतामुक्त्वा, बद्धानामेव पश्चाद्योगेन उद्भूतबोधानां स्वस्वरूपापन्नानां च स्वतश्शुद्धिविरहाद्भगवता शौनकेन शुभाश्रयता निषिद्धा- २" आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः || पश्चादुद्भुतबोधाश्च ध्याने नैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः । तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् ॥ " - ". १. विष्णु. पु. ६. अं७. अ. ५५,६९,७०.लो. | अ. २३, २४, २५, २६.लो. २, भविग्यत्पुराणान्तर्गतश्रीविष्णुधमें. १०४. ३. कर्मजनिताः इत्यपि. पा. For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . इत्यादिना परस्य ब्रह्मणो विष्णोस्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम् । अतोऽत्र न भेदापलापः प्रतीयते ॥ "ज्ञानस्वरूपम्" इत्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रतिपाद्यते,ज्ञानस्वरूपस्याऽत्मनो देवमनुष्याद्यर्थाकारणावभासो भ्रान्तिरित्येतावन्मात्रवचनात् । न हि शुक्तिकाया रजततयाऽवभासो भ्रान्तिरित्युक्ते जगति कृत्स्नं रजतजातम्मिथ्या भवति । जगहह्मणोस्सामानाधिकरण्येनैक्यप्रतीतेः, ब्रह्मणो ज्ञानस्वरूपस्यार्थाकारता भ्रान्तिरित्युक्ते सत्यर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत् । तदसत् । अस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोनिरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्य महाविभूतेः प्रतिपन्नतया तस्य भ्रान्तिदर्शनासम्भवात् । सामानाधिकरण्येनैक्यप्रतिपादनं च बाधासहविरुद्धं चेत्यनन्तरमेवोपपादयिष्यते । अतोऽयमपि श्लोको नार्थस्वरूपस्य बाधकः॥ तथाहि- १“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म"इति जगजन्मादिकारणं ब्रह्मेत्यवसिते सति २" इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥" . इति शास्त्रेणार्थस्य इतिहासपुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते । उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृत वेदतत्त्वार्थानां वाक्यैस्स्वावगतवेदवाक्यार्थव्यक्तीकरणमासकल३ शाखा१. तै. उ. भृगुवल्ल्याम्. १. अनु. ३. शाखानुगतस्य. पा. २. भार - आदिप, १-२७३. For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. गतस्य वाक्यार्थस्याल्पभागश्रवणाद्दरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेव ।। तत्र पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवतः पराशरात्स्वावगतवेदार्थोपबृंहणमिच्छन्मैत्रेयः परिपप्रच्छ— १“सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भविष्यति ॥ यन्मयं च जगह्मन् यतश्चैतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्रच ॥” इत्यादिना ॥ अत्र ब्रह्मस्वरूपविशेषतद्विभूतिभेदप्रकारतदाराधन स्वरूपफलविशेषाश्च पृष्टाः । ब्रह्मस्वरूपविशेषप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयोः पृष्टत्वाद्यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत्किमात्मकमिति पृष्टम् । तस्य चोत्तरं जगच स इति । इदं च तादात्म्यमन्तर्यामिरूपेणऽत्मतया व्याप्तिकृतम् । न तु व्याप्यव्यापकायोर्वस्त्वैक्यकृतम् । यन्मयमिति प्रश्नस्योत्तरत्वाजगच्च स इति सामानाधिकरण्यस्य यन्ययमिति मयडन न विकारार्थः, पृथक् प्रश्नवैयर्थ्यात् । नापि प्राणमयादिवत्स्वार्थिकः, जगच्च स इत्युत्तरानुपपत्तेः । तदा हि विष्णुरेवेत्युत्तरमभविष्यत् । अतः प्राचुर्यार्थ एव । २ "तत्प्रकृतवचने मयद" इति मयट् । कृत्स्नं च जगत्तच्छरीरतया तत्पचुरमेव । तस्माद्यन्मयमित्यस्य प्रतिवचनं जगच्चस इति सामानाधिकरण्यं जगद्ब्रह्मणोश्शरीरात्मभावनिबन्धनमिति निश्चीयते । अन्यथा निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने सर्वाण्येतानि प्रश्नपतिवचनानि न संगच्छन्ते । तद्विवरणरूपं कृत्स्नं च शास्त्रं न संगच्छते । तथाहि सति प्रपञ्चभ्रमस्य किमधिष्ठानमित्येवं रूपस्यैकस्य प्रश्नस्य निर्विशेषज्ञानमात्रमित्येवंरूपमेकमेवोत्तरं स्यात् । जग१. विष्णु. पु. १. अं. १. अ. ४, ५. श्रो. / २. अष्टा. ५. अ. ४. पा. २१. सू. For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ पा. १.] जिशासाधिकरणम्. ब्रह्मणोरेकद्रव्यत्वपरे च सामानाधिकरण्ये सत्यसङ्कल्पत्वादिकल्याणगुणैकतानता निखिलहेयप्रत्यनीकता च बाध्येत । सर्वाशुभास्पदं च ब्रह्म भवेत् । आत्मशरीरभाव एवेदं सामानाधिकरण्यं मुख्यवृत्तमिति स्थाप्यते ॥ अतो१ "विष्णोस्सकाशादुद्भतं जगत्तवैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः॥" इति संग्रहेणोक्तमर्थ “परः पराणाम्" इत्यारभ्य विस्तरेण वक्तुं परब्रह्मभूतं भगवन्तं विष्णुं स्खेनैव स्वरूपेणावस्थितम् "अविकाराय" इति श्लोकेन प्रथमं प्रणम्य तमेव हिरण्यगर्भस्वावतारशङ्कररूपत्रिमूर्तिप्रधानकालक्षेत्रज्ञसमष्टिव्यष्टिरूपेणावस्थितं च नमस्करोति। तत्र "ज्ञानस्वरूपम्" इत्ययं श्लोकः क्षेत्रज्ञव्यष्टयात्मनाऽवस्थितस्य परमात्मनस्वभावमाह । तस्मान्नान निर्विशेषवस्तुमतीतिः ॥ यदि निर्विशेषज्ञानरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रम् तर्हि२" निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते॥" इति चोद्यम्, ३"शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता॥" इति परिहारश्च न घटते । तथाहि सति-निर्गुणस्य ब्रह्मणः कथं सगोंदिकर्तृत्वम् ? न ब्रह्मणः पारमार्थिकस्सर्गः अपि तु भ्रान्तिपरि१. वि. पु. १-अं, १-अ. ३१-लो. २. ३. वि. पु. १-अं. ३-अ. १; २. श्लो. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरकमीमांसाभाष्ये [अ. १. कल्पितः इति चोद्यपरिहारौ स्याताम् । उत्पत्त्यादिकार्य सत्त्वादिगुणयुक्तापरिपूर्णकर्मवश्येषु दृष्टमिति सत्त्वादिगुणरहितस्य परिपूर्णस्याकर्मवश्यस्य कर्मसम्बन्धानहस्य कथं सर्गादिकर्तृत्वमभ्युपगम्यत इति चोद्यम् । दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्यैव जलादिविसजातीयस्याग्न्यादेरौष्ण्यादिशक्तियोगवत्सर्वशक्तियोगो न विरुध्यत इति परिहारः॥ "परमार्थस्त्वमेवैकः" इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति । अपि तु कृत्स्नस्य तदात्मकतया तव्यतिरेकेणावस्थितस्यापारमार्थ्यम् । तदेवोपपादयति-१"तवैष महिमा येन व्याप्तमेतच्चराचरम्" इति । येन त्वयेदं चराचरं व्याप्तम् ; अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति । अतस्सर्वात्मतया त्वमेवैकः परमार्थः । अत इदमुच्यतेतवैष महिमा, या सर्वव्याप्तिः—इति । अन्यथा तवैषा भ्रान्तिरिति वक्तव्यम्। जगतः पते त्वमित्यादीनां पदानां लक्षणा च स्यात्। लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च ॥ यतः कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम् । तस्मात्त्वदात्मकत्वानुभवसाधनयोगविरहिण एतत्केवलदेवमनुष्यादिरूपमिति भ्रान्तिज्ञानेन पश्यन्तीत्याह " यदेतद्दश्यते " इति ॥ न केवलं वस्तुतस्त्वदात्मकं जगद्देवमनुष्याद्यात्मकमिति दर्शनमेव भ्रमः; ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रमइत्याह "ज्ञानस्वरूपमखिलम्" इति ॥ ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदस्सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्यपरिशुद्धमनसश्च । ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगच्छरीरातिरिक्तज्ञानस्वरूपात्मकं त्वच्छरीरं १. वि. पु. १-अं. ४-अ. ३८-लो. For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . च पश्यन्तीत्याह "ये तु ज्ञानविदः" इति।अन्यथा श्लोकानां पौनरुक्त्यम्, पदानां लक्षणा, अर्थविरोधः, प्रकरणविरोधः, शास्त्रताप्तर्यविरोधश्च ॥ "तस्यात्मपरदेहेषु सतोऽप्येकमयम्" इत्यत्र सर्वेष्वात्मसु ज्ञानैकाकारतया समानेषु सत्सु देवमनुष्यादिप्रकृतिपरिणामविशेषरूपपिण्डसंसगंकृतमात्मसु देवाद्याकारेण द्वैतदर्शनमतथ्यमित्युच्यते । पिण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते । देवमनुष्यादिविविधविचित्रपिष्डेषु वर्तमानं सर्वयात्मवस्तु सममित्यर्थः। यथोक्तं भगवता "शुनि चैव श्वपाके च पण्डितास्समदर्शिनः"२ "निर्दोषं हि समं ब्रह्म" इत्यादिषु; "तस्यात्मपरदेहेषु सतोऽपि" इति देहातिरिक्त वस्तुनि स्वपरविभागस्योक्तत्वात् ।। "यद्यन्योऽस्ति परः कोऽपि" इत्यत्रापि नात्मैक्यं प्रतीयते; यदि मत्तः परः कोऽप्यन्य इत्येकस्मिन्नर्थे परशब्दान्यशब्दयोः प्रयोगायोगात् तत्र परशब्दस्वव्यतिरिक्तात्मवचनः। अन्यशब्दस्तस्यापि ज्ञानैकाकारस्वादन्याकारत्वप्रतिषेधार्थः। एतदुक्तं भवति याद मव्यतिरिक्तः कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारोऽस्ति,तदाऽहमेवमाकारः अयंचान्यादृशाकार इति शक्यते व्यपदेष्टुम् । नचैवमस्तिः सर्वेषां ज्ञानकाकारत्वेन समानत्वादेवेति ॥ "वेणुरन्ध्रविभेदेन" इत्यत्राप्याकारवैषम्यमात्मनां न स्वरूपकृतम्। अपितु देवादिपिण्डप्रवेशकृतमित्युपदिश्यते नात्मैक्यम् । दृष्टान्ते चानेकरन्ध्रवर्तिनां वाय्वंशानां न स्वरूपैक्यम् ; अपित्वाकारसाम्यमेव ।तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसंज्ञाभेदः। एवमात्मनां देवादिसंज्ञाभेदः। यथा तैजसाप्यपार्थिवद्रव्यांशभूतानां पदा१. पी. ५. अ. १८-श्लो. २ गी. ५. अ. १९-श्लो. For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६८ शारीरकमीमांसाभाष्ये [अ. १. र्थानां तत्तद्दव्यत्वेनैक्यमेव न स्वरूपैक्यम् । तथा वायवीयानामंशानामपि Acharya Shri Kailassagarsuri Gyanmandir स्वरूपभेदोऽवर्जनीयः ॥ “सोऽहं स च त्वम्" इति सर्वात्मनां पूर्वोक्तं ज्ञानाकारत्वं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं त्वमित्यादीनामर्थानां ज्ञानमेवा कार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोहं परित्यजेत्याह । अन्यथा देहातिरिक्तात्मोपदेश्य स्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । अहं त्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्मस्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न संगच्छते। सोऽपि यथोपदेशमकरोदित्याह “ तत्याज भेदं परमार्थदृष्टिः" इति । कुतश्चैष निर्णय इति चेत् देहात्मविवेकविषयत्वादुपदेशस्य । तच्च १" पिण्डः पृथग्यतः पुंसश्शिर:पाण्यादिलक्षणः " इतिप्रक्रमात् ॥ “ विभेदजनके ज्ञाने" इति च नात्मस्वरूपैक्यपरम् । नापि जीवपरयोः । आत्मस्वरूपैक्यमुक्तरीत्या निषिद्धम् । जीवपरयोरपि स्वरूपैक्यं देहात्मनोरिव न संभवति । तथाच श्रुतिः २ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति "३" ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः।।" ४" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" इत्याद्याः । अस्मिन्नपि शास्त्रे ५" स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीतः। अतीतसर्वावरणोऽखिलात्मा तेनाऽस्तृतं यद्भवनान्तराले” ६" समस्त कल्याणगुणा १. वि. पु. २- अं. १३. अ. ८९ -लो. २. मु. ३. मु. १. ख. १ वा. ३. कठ. ३. वल्लयां. १ - वा. ४. यजुरारण्यके. ३ - प्रश्ने. २०-पं. ५. ६, वि. पु. ६ - अं. ५ - अ. ८३, ८४ लो. For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ पा. १.] जिज्ञासाधिकरणम्. त्मकोऽसौं" १“परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे" २" अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा" इति भेदव्यपदेशात् , ३"उभयेऽपि हि भेदेनैनमधीयते" ४ भेदव्यपदेशाच्चान्यः"५“अधिकं तु भेदनिर्देशात्" इत्यादिसूत्रेषु च६“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति"७"प्राज्ञेनात्माना संपरिष्वक्तः" ८"प्राज्ञेनाऽत्मनाऽन्वारूढः" इत्यादिभिरुभयोरन्योन्यप्रत्यनीकाकारेण स्वरूपनिर्णयात् । नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसंभवः अविद्याश्रयत्वयोग्यस्य तदनहत्वासंभवात् । यथोक्तम् ९"परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्दव्यं हि नैति तद्दव्यतां यतः।।" इति ॥ मुक्तस्य तु तद्धमतापत्तिरेवेति भगवद्गीतामूक्तम् १० "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागाताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥” इति । इहापि ११“आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्थमात्मनश्शक्त्या लोहमाकर्षको यथा॥” इति ॥ आत्मभावम् - आत्मनस्वभावम् । नह्याकर्षकवरूपापत्तिराकष्यमाणस्य । वक्ष्यति च १२"जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च" १३"भोगमात्रसाम्यलिङ्गाच" १४"मुक्तोपमृप्यव्यपदेशाच्च" इति । वृत्ति १. वि. पु. ६-अं. ५-अ. ८५-श्लो. ८, बृ. ६-अ, ३-आ.३५-वा. २. वि. पु. ६-अं. ७-अ. ६१; ६२-श्रो. ९, वि. पु. २-अं, १४-अ. २७-श्लो. ३. शारी. १-अ, २-पा, २१-सू . १०. गी. १४.अ. २-श्लो. ४. शारी, १-अ. १-पा. २२-सू. ११. वि. पु. ६-अं, ७-अ, ३०-श्लो. ५. शारी. २-अ, १-पा. २२-सू, १२. शारी. ४-अ, ४-पा. १७-सू. ६. बृ ५-अ, ७-बा. २२. आत्मशब्दघ- १३. शारी, ४-अ, ४-पा. २१-सू. टितपाठो माध्यन्दिनशाखास्थ:. १४. शारी. १-अ. ३-पा. २-सू. ७.० ६-अ, ३-ब्रा. २१-वा, For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १. बोधायनवृत्ति:. २. द्रमिडभाष्यकार वाक्यम्. ७० शारीरकमीमांसाभाष्ये [अ. १. रपि १" जगद्व्यापारवर्ज समानो ज्योतिषा " इति । द्रमिडभाष्यकारश्च २" देवता सायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्यात् " इत्याह । श्रुतयश्च ३" य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति " ४ “ ब्रह्मविदाप्नोति परम् " ५" सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता " ६" एतमानन्दमयमात्मानमुपसंक्रम्य । इमान् लोकान् कामानी कामरूप्यनुसंचरन् " " स तत्र पर्येति " " रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति " ९ " यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् " १०" तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इत्याद्याः ॥ परविद्यासु सर्वासु सगुणमेव ब्रह्मोपास्यम् । फलं चैकरूपमेव । अतो विद्याविकल्पइति सूत्रकारणैव- ११" आनन्दादयः प्रधानस्य " १२ “विकल्पोऽविशिष्टफलत्वात्" इत्यादिषूक्तम्। वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्वोक्तः- १३ युक्तं तद्गुणकोपासनात्" इति । भाष्यकृता व्याख्यातं च १ ४ " यद्यपि सच्चित्तः" इत्यादिना । १५" ब्रह्म वेद ब्रह्मैव भवति" इत्यत्रापि १६" नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति - दिव्यम्” १७ “निरञ्जनः परमं साम्यमुपैति " १८" परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " इत्यादिभिरैकार्थ्यात् प्राकृतनामरूपाभ्यां विनिर्मु ३. छा. ८- प्र. १ - ख. ६ ४. ५. तै, आन. १ - अनु. १, २ . तै. ६. भृगु. १०- अनु. ५. ७. छा. ८- प्र. १२ ख. ३. ८. तै. आ. ७. अनु, १. www.kobatirth.org ९. मु. ३ मु. २ ख. ८. १० मु. ३- मु. १-ख. ३. Acharya Shri Kailassagarsuri Gyanmandir ११. शारी, ३-अ, ३-पा, ११- मु. १२. शारी. ३-अ, ३-पा, ७५. सृ. १३. वाक्यम् . १४. द्रमिडभाष्यकारीयम् . १५. मु. ३- मु. २ ख. ९. १६. मु. ३- मु. For Private And Personal Use Only २ ख. ८. १७. मु. ३- मु. १८. छा. ८. प्र. १२. ख- २ १ - ख. ३. Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् ७१ क्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकार तोच्यते । प्रकारैक्ये चतव्यवहारो मुख्य एव ; यथा सेयं गौरिति ॥ अत्रापि Acharya Shri Kailassagarsuri Gyanmandir १" विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ।। " इति ॥ परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेषभावनः कर्मभावनाब्रह्मभावनोभयभावनेति भावनात्त्रयरहितः । प्रापणीय इत्यभिधाय२" क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज । निष्पाद्य मुक्तिकार्ये हि कृतकृत्यं निवर्तयेत् ।। " इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणाशेषभावनात्मस्वरूपप्राप्तया कृतकृत्यत्वेन निवृत्तिवचनाद्यावत्सिद्ध्यनुष्ठेयमित्युक्त्वा " ३" तद्भावभावमापन्नस्तदाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ इति मुक्तस्य स्वरूपमाह । तद्भावः - ब्रह्मणो भावः स्वभावः । न तु स्वरूपैक्यम्, तद्भावभावमापन्नइति द्वितीयभावशब्दानन्वयात् पूर्वोक्तार्थविरोधाच। यह्मणः प्रक्षीणाशेषभावनत्वं तदापत्तिस्तद्भावभावापत्तिः । दैवमापन्नस्तदाऽसौ परमात्मना अभेदी भवति भेदरहितो भवति । ज्ञानैकाकारतया ४ परमात्मनैकप्रकारस्यास्य तस्माद्भेदो देवादिरूपः । तदन्वयोsस्य कर्मरूपाज्ञानमूलः । न स्वरूपकृतः । स तु देवादिभेदः परब्रह्मध्यानेन मूलभूताज्ञानरूपे कर्मिणि विनष्टे हेत्वभावान्निवर्तत इत्यभेदी भवति । यथोक्तम् ५‘“६एकस्वरूपभेदस्तु बाह्यकर्मकृतिप्रजः । १. २. ३. वि. पु. ६. अं. ७-अ. ९३.;४. परमात्मनैकस्वभावस्य. पा. ९४.९५. ५. वि. पु. २. अं. १४. अ. ३३. लो. ६. एकत्वं रूपेति. पा. For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७२ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः ।। " इति ॥ एतदेव विवृणोति “ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति " इति । विभेदः - विविधो भेदः - देवर्तिमनुष्य स्थावरात्मकः। यथोक्तं शौनकेनापि - १ " चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः" इति । आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेतुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मण आत्मनो देवादिरूपभेदं कः करिष्यतीत्यर्थः । “अविद्या कर्मसंज्ञाऽन्या" इति ह्यत्रैवोक्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir " क्षेत्रज्ञं चापि मां विद्धि" इत्यादिनाऽन्तर्यामिरूपेण सर्वस्याs - त्मतयैक्याभिधानम् । अन्यथा - “ क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः " इत्यादिभिर्विरोधः । अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम् - २ " ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति " ३" सर्वस्य चाहं हृदि सन्निविष्टः " इति च । " अहमात्मा गुडाकेश सर्वभूताशयस्थितः" इति च तदेवोच्यते । भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतस्सर्वेषामयमात्मा तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते " न तदस्ति विना यत्स्यात् " इति भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते " ४ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजशसंभवम् " ॥ १. विष्णुधर्मे. १००. अ. २१. २. गी. १८ - अ.. ६१. - श्लो. ५" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥” इति ॥ अतरशास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति । नाप्यर्थजातस्य भ्रान्तत्वप्रतिपादनम् । नापि चिदचिदीश्वराणां स्वरूपभेदनिषेधः ॥ ३. गी. १५. १५. लो. ४. ५. गी. १० - अ ४१, ४२- लो. For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . यदप्युच्यते निर्विशेषे स्वयंप्रकाशे वस्तुनि दोषपरिकल्पित मीशेशितव्याघनन्तविकल्पं सर्व जगत् । दोषश्च स्वरूपतिरोधानविविधवि. चित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । सा चावश्याभ्युपगमनीया; २" अनृतेन हि प्रत्यूढाः" इत्यादिभिः श्रुतिभिः ब्रह्मणस्तत्त्वमस्यादिवाक्यसामानाधिकरण्यावगतजीवैक्यानुपपत्त्या च । सा तु न सती, भ्रान्तिबाधयोरयोगात् । नाप्यसती, ख्यातिबाधयोश्चायोगात् । अतः कोटिद्वयविनिर्मुक्तेयमविद्येति तत्त्वविदः इति । तदयुक्तम् । सा हि किमाश्रित्य भ्रमं जनयति ? । न तावज्जीवमाश्रित्य , अविद्यापरिकल्पितत्वाज्जीवभावस्य । नापि ब्रह्माश्रित्य ; तस्य स्वयंप्रकाशज्ञानस्वरूपत्वेनाविद्याविरोधित्वात् । सा हि ज्ञानबाध्याऽभिमता ॥ ३" ज्ञानरूपं परं ब्रह्म तनिवर्त्य मृषात्मकम् । अज्ञानं चेत्तिरस्कुर्यात्कः प्रभुस्तन्निवर्तने । ज्ञानं ब्रह्मेति चेत् ज्ञानमज्ञानस्य निवर्तकम् । ब्रह्मवत्तत्प्रकाशत्वात्तदपि ह्यनिवर्तकम् ।। ज्ञानं ब्रह्मेति विज्ञानमस्ति चेत्स्यात्प्रमेयता । ब्रह्मणोऽननुभूतित्वं त्वदुक्तयैव प्रसज्यते ॥" ज्ञानस्वरूपं ब्रह्मेति ज्ञानं तस्या अविद्याया बाधकम् , न स्वरूपभूतं ज्ञानमिति चेन्न, उभयोरपि ब्रह्मस्वरूपप्रकाशत्वे सत्यन्यतरस्याविद्याविरोधित्वमन्यतरस्य नेति विशेषानवगमात् ॥ एतदुक्तं भवति–ज्ञानस्वरूपं ब्रह्मेत्यनेन ज्ञानेन ब्रह्मणि यस्स्वभावोऽवगम्यते । स ब्रह्मणस्स्वयंप्रकाशत्वेन स्वयमेव प्रकाशत इत्यविद्याविरोधित्वे न कश्चिद्विशेषस्स्वरूपतद्विषयज्ञानयोः-इति।किं च-अनुभवस्वरू१. ईश्वरेशितव्येति. पा. २. छा. ८. प्र. ३. ख. २. ३. इमे श्लोका नाथमुनिसूक्तयः. ४. प्रभुस्तन्निवर्तकः इति पा. JO For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ शारीरकमीमांसाभाष्ये [अ. १. पस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तद्विषयं ज्ञानमस्ति । अतो ज्ञानमज्ञानविरोधि चेत्स्वयमेव विरोधि भवतीति नास्या ब्रह्माश्रयत्वसंभवः। शुक्तयादयस्तु स्वयाथात्म्यप्रकाशे स्वयमसमर्थास्स्वाज्ञानाविरोधिनस्तनिवर्तने च ज्ञानान्तरमपेक्षन्ते । ब्रह्म तु स्वानुभवसिद्धस्वयाथात्म्यमिति स्वाज्ञानविरोध्येव । तत एव निवर्तकान्तरं च नापेक्षते । अथोच्येत ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञानमज्ञानविरोधि इति।नः इदं ब्रह्मव्यतिरिक्तमिथ्यात्वज्ञानं किं ब्रह्मयाथात्म्याज्ञानविरोधि? उत प्रपञ्चसत्यत्वरूपाज्ञानविरोधीति विवेचनीयम् । न तावत् ब्रह्मयाथात्म्याज्ञान. विरोधि, अतद्विषयत्वात् । ज्ञानाज्ञानयोरेकविषयत्वेन हि विरोधः। प्रपश्वमिथ्यात्वज्ञानं तत्सत्यत्वरूपाज्ञानेन विरुध्यते । तेन प्रपश्चसत्यत्वरूपाज्ञानमेव बाधितमिति ब्रह्मस्वरूपाज्ञानं तिष्ठत्येव । ब्रह्मस्वरूपाज्ञानं नाम तस्य सद्वितीयत्वमेव । तत्तु तद्व्यतिरिक्तस्य मिथ्यात्वज्ञानेन निवृत्तम् । स्वरूपं तु स्वानुभवसिद्धमिति चेन; ब्रह्मणोऽद्वितीयत्वं स्वरूपं स्वानुभवसिद्धमिति तद्विरोधि सद्वितीयत्वरूपाज्ञानं तद्धाधश्च न स्याताम् । अद्वितीयत्वं धर्म इति चेन्न ; अनुभवस्वरूपस्य ब्रह्मणोऽनुभाव्यधर्मविरहस्य भवतैव प्रतिपादितत्वात् । अतो ज्ञानस्वरूपस्य ब्रह्मणो विरोधादेव नाज्ञानाश्रयत्वम् ॥ किंच—अविद्यया प्रकाशैकस्वरूपं ब्रह्म तिरोहितमिति वदता स्वरूपनाश एवोक्तस्स्यात् । प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधानं प्रकाशनाश एव ॥ अपि च-निर्विषया निराश्रया स्वप्रकाशेयमनुभूति स्स्वाश्रयदोषवशादनन्ताश्रयमनन्तविषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोषः १. ज्ञानरूपस्य इति पा. For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. ७५ परमार्थभूतः ? उता परमार्थभूत इति विवेचनीयम् । न तावत्परमार्थः, अनभ्युपगमात् । नाप्यपरमार्थः, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन वा दृशित्वेन वाऽभ्युपगमनीयः । न तावदृशि:, हरिस्वरूपभेदानभ्युपगमात्ः भ्रमाधिष्ठानभूतायास्तु साक्षादृशेर्माध्यामिक पक्षप्रसङ्गेनापारमार्थ्यानभ्युपगमाच्च । द्रष्टृदृश्ययोस्तदवच्छिन्नाया दृशेश्व काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात् । अथैतत्परिजिहीर्षया परमार्थसत्यनुभूतिरेव ब्रह्मरूपा दोष इति चेत्; ब्रह्मैव चेद्दोषः : प्रपञ्चदर्शनस्यैव तन्मूलं स्यात् । किं प्रपञ्चतुल्याविद्यान्तरपरिकल्पनेन ? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश्च स्यात् । अतो यावद्ब्रह्मव्यतिरिक्तपारमार्थिकदोषानभ्युपगमः न तावद्भान्तिरुपपादिता भवति ।। अनिर्वचनीयत्वं च किमभिप्रेतम् । सदसद्विलक्षणत्वमिति चेत् ; तथाविधस्य वस्तुनः प्रमाणशून्यत्वेन अनिर्वचनीयतैव स्यात् । एतदुक्तं भवति — सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम् । सर्वा च प्रतीतिस्सदसदाकारा सदसदाकारायास्तु प्रतीतेस्सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्व सर्वप्रतीतेर्विषयस्स्यात् — इति ।। अथ स्यात् — वस्तुस्वरूपतिरोधानकरमान्तरबाह्यरूपविविधाध्यासोपादानं सदसदनिर्वचनीयमविद्याज्ञानादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवर्त्य ज्ञानप्रागभावातिरेकेण भावरूपमेव किं चिद्वस्तु प्रत्यक्षानुमानाभ्यां प्रतीयते । तदुपहितब्रह्मोपादानचाविकारे स्वप्रकाशचिन्मात्र वपुषि तेनैव तिरोहितस्वरूपे प्रत्यगात्मन्यहङ्कारज्ञानज्ञेयविभागरूपोऽध्यासः । तस्यैवावस्थाविशेषेणाध्यासरूपे जगति ज्ञानबाध्यसर्परजतादिवस्तुतत्तज्ज्ञानरूपाध्यासोऽपि जायते । कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिध्याभूतस्यार्थस्य मिथ्याभूतमेव कारणं भवितुमर्हतीति हेतुबलादवगम्य १. पक्षसम्भवेनोत. पा. For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ शारीरकमीमांसाभाष्ये ते।कारणाज्ञानविषयं प्रत्यक्षं तावत् "अहमज्ञो मामन्यं च न जानामि"इत्यपरोक्षावभासः। अयं तु न ज्ञानप्रागभावविषयः सहिषष्ठप्रमाणगोचरः अयन्तु अहं सुखीतिवदपरोक्षः।अभावस्य प्रत्यक्षत्वाभ्युपगमेऽप्ययमनुभवो नात्मज्ञानाभावविषयः; अनुभववेलायामपि ज्ञानस्य विद्यमानत्वात् । अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तेश्च ॥ एतदुक्तं भवति ---- अहमज्ञ इत्यस्मिन्ननुभवे अहमित्यात्मनोऽभावधर्मितया ज्ञानस्य च प्रतियोगितयाऽवगतिरस्ति वा, न वा । अस्ति चेद्विरोधादेव न ज्ञानानुभवसम्भवः । नो चेद्धर्मिप्रतियोगिज्ञानसव्यपेक्षो ज्ञानाभावानुभवस्सुतरां न संभवति । ज्ञानामावस्यानुमेयत्वे अभावाख्यप्रमाणविषयत्वे चेयमनुपपत्तिस्समाना । अस्याज्ञानस्य भावरूपत्वे धर्मिप्रतियोगिज्ञानसद्भावेऽपि विरोधाभावादयमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्यः इतिीननु च-भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यते । मैवम्—साक्षिचैतन्यं न वस्तुयाथात्म्यविषयम् , अपि तु अज्ञानविषयम् । अन्यथा मिथ्यार्थावभासानुपपत्तेः । न ह्यज्ञानविषयेण ज्ञानेनाज्ञानं निवर्त्यत इति न विरोधः । ननु चेदं भावरूपमप्यज्ञानं विषयविशेषव्यावृत्तमेव साक्षिचैतन्यस्य विषयो भवति । स विषयः प्रमाणानधीनसिद्धिरिति कथमिव साक्षिचैतन्येनास्मदर्थव्यावृत्तमज्ञानं विषयीक्रियते । नैष दोषः; सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम् । तत्र जडत्वेन ज्ञाततया सिध्यत एवं प्रमाणव्यवधानापेक्षा । अजडस्य तु प्रत्यग्वस्तुनस्स्वयं सिध्यतो न प्रमाणव्यवधानापेक्षेति'सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते।तस्मान्यायोपहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते । तदिदं भावरूपमज्ञानम १. सदैवाशानव्यावर्तकत्वेनेति पा. For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१.] जिज्ञासाधिकरणम् . नुमानेनापि सिध्यति-विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् । अप्रकाशितार्थप्रकाशकत्वात् ; अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत्-इति ॥ आलोकाभावमात्रं वा रूपदर्शनाभावमा वा तमो न द्रव्यान्रतम् , तत्कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत् : उच्यते -बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोपलब्धेद्रव्यान्तरमेव तम इति निरवद्यम्-इति ॥ अत्रोच्यते-"अहमज्ञो मामन्यं च न जानामि"इत्यत्रोपपत्तिसहितेन केवलेन च प्रत्यक्षेण न भावरूपमज्ञानं प्रतीयते। यस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्तः; स हि भावरूपाज्ञानेऽपि तुल्यः । विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो वा, अप्रतिपन्नो वा। प्रतिपन्नश्चेत तत्स्वरूपज्ञाननिवर्त्य तदज्ञानं तस्मिन् प्रतिपन्ने कथमिव तिष्ठति । अप्रतिपन्नश्चेद्वयावर्तकाश्रयविषयज्ञानशून्यमज्ञानं कथमनुभूयेत।। अथ-विशदस्वरूपावभासोऽज्ञानविरोधी; अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोधः इति । हन्त तर्हि ज्ञानप्रागभावोऽपि विशदखरूपविषयः । आश्रयप्रतियोगिज्ञानं तु अविशदखरूपविषयमिति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् । भावरूपस्याज्ञानस्यापि ह्यज्ञानमिति सिध्यतः प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव । तथा हि अज्ञानमिति ज्ञानाभावस्तदन्यस्तद्विरोधी वा । त्रयाणामपि तत्स्वरूपज्ञानापेक्षाऽवश्याश्रयणीया । यद्यपि तमस्वरूपप्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथाऽपि प्रकाशविरोधीत्यनेनाकारेण प्रतिपत्तौ प्रकाशप्रतिपत्यपेक्षाऽस्त्येव । भवदभिमताज्ञानं न कदाचित्स्वरूपेण सिध्यति अपित्वज्ञानमित्येव । तथा सति ज्ञानाभाववत्तदपेक्षत्वं १. द्रव्यमिति. पा. For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. समानम् । ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते । प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव "अहमज्ञो मामन्यं च न जानामि" इत्यनुभूयत इत्यभ्युपगन्तव्यम् । नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्व न संभवतिः स्वानुभवस्वरूपत्वात् । स्वानुभवस्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत्, किमिदं तिरोहितस्वरूपत्वम् । अप्रकाशितस्वरूपत्वमिति चेत्, स्वानुभवस्वरूपस्य कथमप्रकाशितस्वरूपत्वम् । स्वानुभवस्वरूपस्याप्यन्यतोऽप्रकाशित स्वरूपत्वमापद्यतइति चेत्, एवं तर्हि प्रकाशाख्यधानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वादन्यतस्स्वरूपनाश एव स्यादिति पूर्वमेवोक्तम् ॥ किंच- ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति । ब्रह्म तिरस्कृत्य स्वयं तदनुभवविषयो भवतीत्यन्योन्याश्रयणम् ॥ ___ अनुभूतमेव तिरस्करोतीति चेत्, यद्यतिरोहितस्वरूपमेव ब्रह्माज्ञानमनुभवति तदा तिरोधानकल्पना निष्पयोजना स्यात् अज्ञानस्वरूपकल्पना च । ब्रह्मणोऽज्ञानदर्शनवत् अज्ञानकार्यतयाऽभिमतप्रपञ्चदर्शनस्यापि सम्भवात्।किंच--ब्रह्मणोऽज्ञानानुभवः किं स्वतोऽन्यतो वा स्वतश्वेदज्ञानानुभवस्य स्वरूपप्रयुक्तत्वेनानिर्मोक्षस्स्यात् । अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन मिथ्यारजतबाधकज्ञानेन रजतानुभवस्या. पि निवृत्तिवन्निवर्तकज्ञानेनाज्ञानानुभूतिरूपब्रह्मस्वरूपनिवृत्तिर्वा। अन्यतचेतः किं तदन्यत्? अज्ञानान्तरमिति चेत् अनवस्था स्यात्। ब्रह्म तिरस्कृत्यैव स्वयमनुभव विषयो भवतीति चेत् ; तथा सतीदमज्ञानं काचादिवत् स्वसत्तया ब्रह्म तिरस्करोतीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात् ॥ १. खरूपत्वमुपपद्यत इति पा. For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् · अथेदमज्ञानं स्वयमनादि, ब्रह्मणस्स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति । अतो नानवस्थादयो दोषा इति नैतत्; स्वानुभवस्वरूपस्यब्रह्मणस्स्वरूपतिरस्कृतिमन्तेरणसाक्षित्वापादनायोगात् । हेत्वन्तरेण तिरस्कृतमिति चेतुः तर्ह्यस्यानादित्वमपास्तम् । अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणस्वानुभवैकतानता च न स्यात् ॥ अपि च - अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किंचिदपि प्रकाशते ? उत किंचित्प्रकाशते ? पूर्वस्मिन् कल्पे प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता । उत्तरस्मिन् कल्पे सच्चिदानन्दैकरसे ब्रह्मणि कोsयमंशस्तिरस्क्रियतेः को वा प्रकाशते ? निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासम्भवेन तिरस्कार: प्रकाशच युगपन्न संगच्छेते । अथ सच्चिदान्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिवलक्ष्यत इति प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किंरूपा । एतदुक्तं भवतियस्सांशस्सविशेषः प्रकाशविषयः तस्य सकलावभासो विशदावभासः । कतिपयविशेषरहितावभासश्चाविशदावभासः। तत्र य आकारोऽप्रतिपन्नस्तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशयं न विद्यते । यश्चांशः प्रतिपन्न - स्तस्मिन्नंशे तद्विषयप्रकाशो विशद एव । अतस्सर्वत्र प्रकाशांशे अवैशद्यं Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ७९ संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतीतिरेवावैशद्यम् । तस्मादविषये निर्विशेषे प्रकाशमाते ब्रह्मणि स्वरूपे प्रकाशमाने तद्गतकतिपय विशेषाप्रतीतिरूपावैशद्यं नामाज्ञानकार्य न संभवति ।। अपिच - इदमविद्याकार्यमवैशद्यं तवज्ञानोदयान्निवर्तते न वा १ अनिवृत्तावपवर्गाभावः । निवृत्तौ च वस्तु किं रूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत् ; तद्विशदस्वरूपं प्रागस्ति ; न वा ? अस्ति चे१. प्रकाशमाने कतिपयविशेषेति. पा. २. संभवतीति पा. Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० शारीरकमीमांसाभाष्ये [अ. १. दविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम् | नो चेन्मोक्षस्य कार्यतया Acharya Shri Kailassagarsuri Gyanmandir अनित्यता स्यात् ॥ अस्याज्ञानस्याश्रयानि रूपाणादेवासंभवः पूर्वमेवोक्तिः । अपि च - अपरमार्थदोष मूलभ्रमवादिना निरधिष्ठानभ्रमासंभवोऽपि दुरुपपादः भ्रमहेतुभूत दोषदोषाश्रयत्ववदधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । ततश्च सर्वशून्यत्वमेव स्यात् ॥ यदुक्तमनुमानेनापि भावरूपमज्ञानं सिध्यतीति ; तदयुक्तम् ; अनुमानासंभवात् । ननूक्तमनुमानम् । सत्यमुक्तम् । दुरुक्तं तु तत् ; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धत्वाद्धेतोः । तत्त्राज्ञानान्तरासाधने हेतोरनैकान्त्यम् । साधने च तदज्ञानमज्ञानसाक्षित्वं निवारयति । ततश्चाज्ञानकल्पना निष्फला स्यात्, दृष्टान्तश्च साधनविकलः ; दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात् । सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम् । सत्यपि दीपे ज्ञानेन विना विषयप्रकाशाभावात् । इन्द्रियाणामपि ज्ञानोत्पत्तिहेतुत्वमेव न प्रकाशकत्वम् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेणोपकारकत्वमात्रमेव । प्रकाशकज्ञानोत्पत्तौ व्याप्रियमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्वव्यवहारः । नास्माभिर्ज्ञानतुल्यप्रकाशकत्वाभ्युपगमेन दीपप्रभा निदर्शिता । अपि तु ज्ञानस्यैव स्वविषयावरणनिरसनपूर्वकप्रकाशकत्वमङ्गीकृत्येति चेन्नः न हि विरोधिनिरसनमात्रं प्रकाशकत्वम् ; अपि त्वर्थपरिच्छेदः । व्यवहारयोग्य तापादानमिति यावत् । तत्तु ज्ञानस्यैव । यद्युपकारकाणामप्यप्रकाशितार्थप्रकाशकत्वमङ्गीकृतम् । तहींन्द्रियाणामुपकारकतत्वेनाप्रकाशितार्थप्रकाशकत्वमङ्गीकरणीयम् । तथा सति तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावाद्धेतोरनैकान्त्यमित्यलमनेन ॥ प्रतिप्रयोगाश्व विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम् ; For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. अज्ञानत्वात् । शुक्तिकाद्यज्ञानवत् । ज्ञानाश्रयं हि तत् । विवादाध्यासितमज्ञानं न १ज्ञानमात्रब्रह्मावरणम् , अज्ञानत्वात् , शुक्तिकाद्यज्ञानवत् । विषयावरणं हि तत् । विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्यम्; ज्ञानविषयानावरणत्वात् ; यत् ज्ञाननिवर्त्यमज्ञानं तत् ज्ञानविषयावरणम् । यथा शुक्तिकाद्यज्ञानम् । ब्रह्म नाज्ञानास्पदम् । ज्ञातृत्वविरहात्; घटादिवत् । ब्रह्म नाज्ञानावरणम् । ज्ञानाविषयत्वात् । यदज्ञानावरणं तज्ज्ञानविषयभूतम् ; यथा शुक्तिकादि। ब्रह्म न ज्ञाननिवांज्ञानम् ; ज्ञानाविषयत्वात् । यत् ज्ञाननिवर्त्याज्ञानम् तज्ज्ञानविषयभूतम् ; यथा शुक्तिकादि । विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावातिरिक्ताज्ञानपूर्वकं न भवति ; प्रमाणज्ञानत्वात् ; भवदभिमताज्ञानसाधनप्रमाणज्ञानवत् ॥ ज्ञानं न वस्तुनो विनाशकम् । शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वात् । यद्वस्तुनो विनाशकं तच्छक्तिविशेषोपबृंहितं ज्ञानमज्ञानं च दृष्टम्; यथेश्वरयोगिप्रभृतिज्ञानम् । यथा च मुद्रादि । भावरूपमज्ञानं न ज्ञानविनाश्यम् ; भावरूपत्वात् , घटादिवदिति । अथोच्येत-बाधकज्ञानेन पूर्वज्ञानोत्पन्नानां भयादीनां विनाशो दृश्यते इति । नैवम्न हि ज्ञानेन तेषां विनाशः; क्षणिकत्वेन तेषां स्वयमेव विनाशात् । कारणनिवृत्त्या च पश्चादनुत्पत्तेः । क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसनिधान एवोपलब्धेः, अन्यथाऽनुपलब्धेश्वावगम्यते । अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसंततावविशेषेण सर्वेषां ज्ञानानां भयाद्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच ॥ स्वपागभावव्यतिरिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषणोपादानेन प्रयोगकुशलता चाऽविष्कृता । अतोऽनुमानेनापि न भावरूपाज्ञानसिद्धिः। श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते। मिथ्यार्थस्य हि मिथ्यैवोपादानं भवितुमर्हतीत्येतदपि २"न विलक्षणत्वात्" इत्य १. ज्ञानावरणम्. पा. । २. शारी. २-अ. १-पा. ४.सू. II For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [भ. १. करणन्यायेन परिहियते । अतोऽनिर्वचनीयाज्ञानविषया न काचिदपि प्रतीतिरस्ति । प्रतीतिभ्रान्तिबाधैरपि न तथाऽभ्युपगमनीयम् । प्रतीयमानमेव हि प्रतीतिभ्रान्तिबाधविषयः। आभिः प्रतीतिभिः प्रतीत्यन्तरेण चानुपलब्धमासां विषय इति न युज्यते कल्पयितुम् ॥ शुक्त्यादिषु रजतादिप्रतीतेः, प्रतीतिकालेऽपि तन्नास्तीति बाधेन चान्यस्यान्यथाभानायोगाच्च सदसदनिर्वचनीयमपूर्वमेवेदं रजतं दोषवशात् प्रतीयतइति कल्पनीयमिति चेन्न । तत्कल्पनायामप्यन्यस्यान्यथाभानस्यावर्जनीयत्वात् अन्यथाभानाभ्युपगमादेव ख्यातिप्रवृत्तिबाधभ्रमत्वानामुपपत्तेरत्यन्तापरिदृष्टाकारणकवस्तुकल्पनायोगात् । कल्प्यमानं हीदमनिर्वचनीयम् , न तावदनिर्वचनीयमिति प्रतीयते ; अपितु परमार्थरजतमित्येव । अनिर्वचनीयमित्येव प्रतीतं चेत्, भ्रान्तिबाधयोः प्रवृत्तेरप्यसंभवः । अतोऽन्यस्यान्यथाभानविरहे प्रतीतिप्रवृत्तिबाधभ्रमत्वानामनुपपत्तेस्तस्यापरिहार्यत्वाच्च, शुक्त्यादिरेव रजताद्याकारणावभासत इति भवताऽभ्युपगन्तव्यम् ॥ ख्यात्यन्तरवादिनां च सुदूरमपि गत्वाऽन्यथावभासोऽवश्याश्रयणीयः-असत्ख्यातिपक्षे सदात्मना ; आत्मख्यातिपक्षेऽर्थात्मना ; अख्यातिपक्षेऽपि अन्यविशेषणमन्यविशेषणत्वेन ; ज्ञानद्वयमेकत्वेन च; विषयासद्भावपक्षेऽपि विद्यमानत्वेन ॥ किंच-अनिर्वचनीयमपूर्वरजतमत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यम् न तावत्तत्यतीतिः, तस्यास्तद्विषयत्वेन तदुत्पत्तेः प्रागात्मलाभायोगात् । निर्विषया जाता तदुत्पाद्य तदेव विषयीकरोतीति महतामिदमुपपादनम् । अथेन्द्रियादिगतो दोषः, तन्न; तस्य पुरुषाश्रयत्वेनार्थगतकार्यस्योत्पादकत्वायोगात् । नापीन्द्रियाणि, तेषां ज्ञानकारणत्वात् । नापि दुष्टानीन्द्रियाणि, तेषामपि स्वकार्यभूते ज्ञान एव हि १. पक्षे चार्था पा. For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् ८३ विशेषकरत्त्रम् | अनादिमिथ्याज्ञानोपादानत्वं तु पूर्वमेव निरस्तम् ॥ किंच - अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां कथमिव विषयीक्रियते, न घटादिबुद्धिशब्दाभ्याम् । रजतादिसादृश्यादिति चेत् तर्हि तत्सदृशमित्येव प्रतीतिशब्दौ स्याताम् । रजतादिजातियोगादिति चेत ; सा किं परमार्थभूता; अपरमार्थभूता वा ; न तावत्परमार्थभूता, तस्या अपरमार्थान्वयायोगात् । नाप्यपरमार्थभूता, परमार्थान्वयायोगात्। अपरमार्थे परमार्थबुद्धिशब्दयोर्निर्वाहकत्वायोगाच्चेत्यलमपरिणतकुतर्कनिरसनेन ॥ --- Acharya Shri Kailassagarsuri Gyanmandir अथवा १यथार्थ सर्वविज्ञानमिति वेदविदां मतम् । श्रुतिस्मृतिभ्यस्सर्वस्य सर्वात्मत्वप्रतीतितः ॥ २ “बहुस्या" मितिसंकल्प पूर्वसृष्ट्याद्युपक्रमे । ३ “तासां लिट्टतमेकैका " मितिश्रुत्यैव चोदितम् || त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । यदग्नेरोहितं रूपं तेजसस्तदपामपि ॥ शुक्लं कृष्णं पृथिव्याचेत्यग्नावेव त्रिरूपता । श्रुत्यैव दर्शिता तस्मात्सर्वे सर्वत्र संगताः ॥ पुराणे चैवमेवोक्तं वैष्णवे सृष्टयुपक्रमे ॥ ४ " नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजास्स्रष्टमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्ड " मित्यादिना ततः ॥ सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत् । १. 'यथार्थं सर्वविज्ञानम्' इत्यारभ्य ' व्यवहार - २. छा. उप. ६ प्र. २ - ख. ३ वा. ३.छा.उप.६-प्र. व्यवस्थिति:' इत्येतत्पर्यन्तं भाष्यकारीया: श्लोकाः ३ - ख. ३ वा. ४.वि.पु. १ - अं. २- अ. ५२, ५३, ५४ For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभान्ये १" त्र्यात्मकत्वात्तु भूयस्त्वा" दिति तेनाभिधाभिदा ।। सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादितिन्यायविदो विदुः ।। भावे च नीवारग्रहणं व्रीहिभावतः । तदेव सदृशं तस्य यत्तद्दव्यैकदेशभाक् ॥ शुक्त्यादै रजतादेश्व भावः श्रुत्यैव बोधितः । रूप्यशुक्तयादि निर्देशभेदो भूयस्त्वहेतुकः ॥ रूप्यादिसदृशश्चायं शुत्यादिरुपलभ्यते । अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः || कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त यंशवर्जितः । रजतांश गृहीतोऽतो रजतार्थी प्रवर्तते ।। दोषहानौ तु शुक्यंशे गृहीते तन्निवर्तते । अतो यथार्थ रूप्यादिविज्ञानं शुक्तिकादिषु || बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्ववैकल्यसाकल्यग्रहरूपतः ॥ नातो मिध्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥ स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्याः तत्तत्कालावसानाः तथाभूताचार्थास्सृज्यन्ते । तथा हि श्रुतिः स्वविषया ६" न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान्पथस्सृजते । न तत्राऽनन्दा मुदः प्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदस्सृजते । न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्यो भवन्ति । १. शारी, ३. अ. १.पा. २. सू. २.दित्ये तेना.पा. ५. निर्देभ्यो. पा. ३. श्रुतिदर्शितम्, पा. ४. यद्यद्दव्येति. पा. [अ. १. For Private And Personal Use Only ६. बु. उप, ६. अ. ३. बा. १०.७. वेशान्ताः . पा. Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आ. १.] जिज्ञासाधिकरणम्. ८५ अथ वेशन्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते । स हि कर्ता " इति । यद्यपि सकले तर पुरुषानुभाव्यतया तदानीं न भवन्ति । तथाऽपि तत्तत्पुरुषमात्रानुभाव्यतया तथाविधानर्थानीश्वरस्सृजति । स हि कर्ता । तस्य सत्यसङ्कल्पस्याऽश्वर्यशक्तेस्तथाविधं कर्तृत्वं सम्भवतीत्यर्थः । १" य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिलोकाश्रितास्सर्वे तदु नात्येति कश्चन " इति च । मूत्रकारोऽपि २" सन्ध्ये सृष्टिराह हि " ३" निर्मातारं चैके पुत्रादयश्च" इति सूत्रद्वयेन स्वामेष्वर्थेषु जीवस्य स्रष्टृत्वमाशङ्कय ४" मायामात्रं तु कात्स्न्यैनानभिव्यक्तस्वरूपत्वात् " इत्यादिना - न जीवस्य सङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते । जीवस्य स्वाभाविकसत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशायामनभिव्यक्तस्वरूपत्वात् ईश्वरस्यैव तत्तत्पुरुषमात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम् । “ तस्मिल्लकास्थितास्सर्वे तदु नात्येति कश्चन " इति परमात्मैव तत्र स्रष्टेत्यवगम्य ते इति परिहरति । अपवरकातिषु शयानस्य स्वमदृशः स्वदेहेनैव देशान्तरगमनराज्याभिषेकाशिरश्छेदादयश्च पुण्यपापफलभूताश्शयानदेहसरूपसंस्थानदेहान्तरसृष्टयोपपद्यन्ते ॥ पीतशङ्खादौ तु नयनवर्तिपित्तद्रव्यसंभिन्ना नायनरश्मयश्शङ्खादिभिस्संयुज्यन्ते । तत्र पित्तगतपीतिमाभिभूतश्शङ्खगतशुक्तिमा न गृह्यते । अतस्सुवर्णानुलिप्तशङ्खवत् पीतश्शङ्ख इति प्रतीयते । पित्तद्रव्यं तद्गतपीतिमा चातिसौक्ष्म्यात्पार्श्वस्थैर्न गृह्यते । पित्तोपहतेन तु स्वनयननिष्क्रान्ततया - ऽतिसामीप्यात् सूक्ष्ममपि गृह्यते । तद्गुहणजनितसंस्कारसचिवनायनरश्मिभिर्दूरस्थमपि गृह्यते ॥ जपाकुसुमसमीपवर्तिस्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते । जपाकुसुमप्रभा विततापि स्वच्छद्रव्य ५ संयुक्ततया स्फुटतरमुपल१. कठ. २-अ, ५ वल्ली. ८. २-३-४. शारी. ३ अ. २- पा. १-२-३. सू. ५. संयुक्ता. पा. For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. भ्यत इत्युपलब्धिव्यवस्थाप्यमिदम् । मरीचिकाजलज्ञानेऽपि तेजःपृथिव्योरप्यम्बुनो विद्यमानत्वादिन्द्रियदोषेण तेजःपृथिव्योरग्रहणाददृष्टवशाचाम्बुनो ग्रहणाद्यथार्थत्वम् । अलातचक्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगादन्तरालाग्रहणात्तथा प्रतीतिरुपपद्यते । चक्रप्रतीतावप्यन्तरालाग्रहणपूर्वकतत्तदेशसंयुक्ततत्तद्वस्तुग्रहणमेव । कचिदन्तरालाभावादन्तरालाग्रहणम् , कचिच्छे यादग्रहणमिति विशेषः। अतस्तदपि यथार्थम् । दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो हि नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादि गृह्णन्तिातत्रापि अतिशैघ्यादन्तरालाग्रहणात्तथा प्रातिः ॥ दिड्योहेऽपि दिगन्तरस्यास्यां दिशि विद्यमानत्वाददृष्टवशेनैतदिगंशवियुक्तो दिगन्तरांशो गृह्यते । अतो दिगन्तरप्रतीतियथार्थव । द्विचन्द्रज्ञानादावपि अङ्गल्यवष्टम्भतिमिरादिभिर्नायनतेजोगतिभेदेन सामग्रीभेदात्सामग्रीद्वयमन्योन्यनिरपेक्षं चन्द्रग्रहणद्वयहेतुर्भवति । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु किञ्चिद्वक्रगतिश्चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं वदेशवियुक्तं गृह्णाति । अतस्सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारभेदादेकत्वग्रहणाभावाच्च द्वौ चन्द्राविति भवति प्रतीतिविशेषः । देशान्तरस्य तद्विशेषणत्वं देशान्तरस्य च अगृहीतवदेशचन्द्रस्य च निरन्तरग्रहणेन भवति।तत्र सामग्रीद्वित्वं पारमार्थिकम् । तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकम् । तत्र विशेषणद्वयविशिष्टचन्द्रग्रहणद्वयस्यैक एव चन्द्रो ग्राह्य इति ग्रहणे प्रत्यभिज्ञानवत् केवलचक्षुषस्सामर्थ्याभावाचाक्षुषज्ञानं तथैवावतिष्ठते । द्वयोश्चक्षुषोरेकसामग्रथन्तर्भावेपि तिमिरादिदोषभिन्नं चाक्षुषं तेजस्सामग्रीद्वयं भवतीति कार्यकल्प्यम् । अपगते तु दोषे स्वदेशविशिष्टस्य चन्द्रस्यैकग्रहणवेद्यत्वा For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१.] जिज्ञासाधिकरणम् . देकश्चन्द्र इति भवति प्रत्ययः । दोषकृतं तु सामग्रीद्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम् ॥ __अतस्सर्व विज्ञानजातं यथार्थमिति सिद्धम् । ख्यात्यन्तराणां दूषणानि तैस्तैर्वादिभिरेव प्रपश्चितानीति न तत्र यत्नः क्रियते । अथवा किमनेन बहुनोपपादनप्रकारेण । प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति। किं नोपपद्यते । भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्यपापानुगुणं तभोग्यत्वायाखिलं जगत्सृजता सुखदुःखोपेक्षाफलानुभवानुभाव्याः पदास्सिर्वसाधारणानुभवविषयाः, केचन तत्तत्पुरुषमात्रानुभवविषयास्तत्तत्कालावसानास्तथातथाऽनुभाव्यास्सृज्यन्ते । तत्र बाध्यबाधकभावस्सर्वानुभवविषयतया तद्रहिततया चोपपद्यत इति सर्व समञ्जसम् ।। यत्पुनस्सदसदनिर्वचनीयमज्ञानं श्रुतिसिद्धमिति तदसत् १"अनृतेन हि प्रत्यूढाः" इत्यादिष्वनृतशब्दस्यानिर्वचचीयानभिधायित्वात्।ऋतेतरविषयो ह्यनृतशब्दः। ऋतमिति कर्मवाचि।२"ऋतं पिबन्तौ"इतिवचनात्। ऋतं-कर्मफलाभिसंधिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । ३अत्र तद्वयतिरिक्तं सांसारिकफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि ४"एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः" इति वचनात् ॥ ५"नासदासीनो सदासीत्"इत्यत्रापि सदसच्छब्दी चिदचियष्टिविषयौ । उत्पत्तिवेलायां सत्त्यच्छब्दाभिहितयोश्चिदचिद्वयष्टिभूतयोर्वस्तुनोरप्ययकाले अचित्समष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलयप्रतिपादनपरत्वादस्य वाक्यस्य । नात्र कस्य चित्सदसदनिर्वचनीयतोच्यते; सदसतोः कालविशेषे असद्भावमात्रवचनात् । अत्र तमश्शब्दाभिहित१. छा. ८. प्र. ३. ख. २. ३. अतस्त.पा. ४. छा. ८. प्र. ३. ख. १. २. कठ. १-अ. ३-वल्ली. १-वा. ५.यजु. २-अष्टकं. ८-प्र. ९-अनु. For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाज्ये [भ. १. स्याचित्समष्टित्वं श्रुत्यन्तरादवगम्यते-१"अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते" इति । सत्यम्-तमश्शब्देनाचित्समष्टिरूपायाः प्रकृतेससूक्ष्मावस्थोच्यते। तस्यास्तु २ "मायां तु प्रकृति विद्यात्"इति मायाशब्देनाभिधानादनिर्वचनीयत्वमिति चेत्, नैतदेवम्-मायाशब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति । मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्वचनीयवाचित्वमिति चेत् । तदपि नास्ति ; न हि सर्वत्र मायाशब्दो मिथ्याविषयः; आसुरराक्षसास्त्रादिषु सत्येष्वेव मायाशब्दप्रयोगात् । यथो ३" तेन मायासहस्रं तच्छम्बरस्याऽशुगामिना । बालस्य रक्षता देह ध्मैकैकश्येन मूदितम् ॥” इति ॥ अतो मायाशब्दो विचित्रार्थसर्गकराभिधायी । प्रकृतेश्च मायाशब्दाभिधानं विचित्रार्थसर्गकरत्वादेव । ५" अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः" इति मायाशब्दवाच्यायाः प्रकृतेविचित्रार्थसर्गकरत्वं दर्शयति । परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते नाज्ञत्वेन। जीवस्यैव हि मायया निरोधश्श्रूयते । "तस्मिंश्चान्यो मायया सन्निरुद्धः" इति, ६“अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" इति च। ७'इन्द्रो मायाभिः पुरुरूप ईयते" इत्यत्रापि विचित्राश्शक्तयोऽभिधीयन्ते । अत एव हि "भूरि त्वष्टेव राजति" इत्युच्यते । न हि मिथ्याभिभूतः कश्चिद्विराजते । ९"मम माया दुरत्यया" इत्यत्रापि गुणमयीति वचनात्सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिस्सदसदनिर्वचनीयाज्ञानप्रतिपादनम् ॥ १. सुबाल, २. ख, । ६. माण्डूक्योपनिषत्. २-ख. २१. २. श्वेताश्वतर-४. अ. १०. ७. बृहदारण्यक. ४-अ. ६-प्रा. १९. ३. विष्णु. पु. १. अं. १९.अ. २० श्लो, ४. मेकैकञ्च निषू.पा.५.श्वेताश्वतर.४-अ.९. ९. गीता. ७-अ, १४-मो. For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . ___ नाप्यैक्योपदेशानुपपत्या; नहि १“तत्त्वमसि"इति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजगत्सर्गस्थितिविनाशहेतुभूते तच्छब्दावगते प्रकृते ब्रह्मणि विरुद्धाज्ञानपरिकल्पनाहेतुभूता काचिदप्यनुपपत्तिदृश्यते । ऐक्योपदेशस्तु 'त्वं' शब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतरः। २“अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि"इति सर्वस्य वस्तुनः परमात्मपर्यन्तस्यैव हि नामरूपभाक्त्वमुक्तम्। अतो न ब्रह्माज्ञानपरिकल्पनम् ॥ इतिहासपुराणयोरपि न ब्रह्माज्ञानवादः कचिदपि दृश्यते। ननु३ "ज्योतींषि विष्णुः" इति ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञाय ४"ज्ञानस्वरूपो भगवान्यतोऽसौ"इति शैलाब्धिधरादिभेदभिन्नस्य जगतो ज्ञानकखरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय ५“यदा तु शुद्धं निजरूपि" इति ज्ञानस्वरूपस्यैव ब्रह्मणः स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभावदर्शनेनाज्ञानविजृम्भितत्वमेव स्थिरीकृत्य ६"वस्त्वस्ति किं" ७"मही घटत्वम्"इति श्लोकद्वयन जगदुपलब्धिप्रकारेणापि वस्तुभेदानामसत्यत्वमुपपाद्य "तस्मान विज्ञानमृते" इति प्रतिज्ञातं ब्रह्मव्यतिरिक्तस्यासत्यत्वमुपसंहृत्य ९"विज्ञानमेकम्" इति ज्ञानस्वरूपे ब्रह्मणि भेददर्शननिमित्ताज्ञानमूलं निजकर्मैवेति स्फुटीकृत्य १०" ज्ञानं विशुद्धम्" इति ज्ञानस्वरूपस्य ब्रह्मणः स्वरूपं विशोध्य ११“सद्भाव एवं भवतो मयोक्तः" इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वं नान्यस्य ; अन्यस्य चासत्यत्वमेवः तस्य भुवनादेस्सत्यत्वं व्यावहारिकमिति तत्त्वं तवोपदिष्टमिति घुपदेशो दृश्यते ॥ नैतदेवम् । अत्र भुवनकोशस्य विस्तीर्ण स्वरूपमुक्त्वा, पूर्वमनुक्तं रूपान्तरं संक्षेपतः १२"श्रूयताम्" इत्यारभ्याभिधीयते । चिदचिन्मिश्रे १. छा, ६. प्र. ८. ख. ७. वा. ४०, ४१. ४२. ४३. ४४. ४५. २. छा. ६. प्र. ३. ख. २. वा. * "एषः' इतिपा. ' एषो भवतः' इतिपाटे ३. ४. ५. ६. ७. ८. ९. १०, ११. स्वार्षत्वात् सुपोलोपाभाव:. इति विष्णुचित्तीये. वि. पु. भ. २.अ. १२.लो. ३७. ३८.३९, १२, वि, पु. अं २, अ १२, लो. ३६. 12 For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तथाहि [अ. १. जगति चिदशो वाङ्मनसगोचर स्वसंवेद्यस्वरूपभेदो ज्ञानैकाकारतया अस्पृष्टप्राकृतभेदोऽविनाशित्वेनास्तिशब्दवाच्यः । अचिदशस्तु चिर्देशकनिमित्तपरिणामभेदो विनाशीति नास्तिशब्दाभिधेयः । उभयं तु परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूपं संक्षेपेणात्राभिहितम् ।। शारीरकमीमांसाभाष्ये 244 यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्धता पर्वताब्ध्यादिसंयुता ॥ " Acharya Shri Kailassagarsuri Gyanmandir इत्यम्बुनो विष्णोश्शरीरत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णोः कायः, तस्य च विष्णुरात्मतेि सकलश्रुतिगततादात्म्योपदेशोपबृंहणरूपस्य सामानाधिकरण्यस्य " ज्योतींषि विष्णुः " इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभावएव निबन्धनमित्याहुः । अस्मिन् शास्त्रे पूर्वमध्ये - तदसकृदुक्तम् २" तानि सर्वाणि तद्वपुः ३" तत्सर्वं वै हरेस्तनुः " ४" स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः" इति। तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते "ज्योतींषि विष्णुः" इति । अत्रास्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् । इदमस्त्यात्मकम् इदं नास्त्यात्मकम्, अस्यच नास्त्यात्मकत्वे हेतुरयमित्याह – “ज्ञानस्वरूपो भगवान्यतोऽसौ " इति। अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपम्। न देवमनुष्यादिवस्तुरूपम् | यत एवम् तत एवाचिद्रपदेवमनुष्यशैलाब्धिधरादयश्च तद्विज्ञानविजृम्भिताः ; तस्य ज्ञानैकाकारस्य सतो देवाद्याकारेण स्वात्मवैविध्यानुसंधानमूलाः देवाद्याकारानुसंधानमूलकर्ममूला इत्यर्थः। यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदं, ततस्तन्नास्तिशब्दाभिधेयम्, इतरदस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति । तदेव वि " " ४. वि. पु. अं १. अ. २. श्रो, ६९. १. वि. पु. अं. २. अ. १२. लो. ३७. २. ३. वि. पु. १. अ २२, को.८६.३८. " For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . वृणोति"-यदा तु शुद्धं निजरूपि"इति।यदैतत् ज्ञानैकाकारमात्मवस्तु देवाद्याकारण स्वात्मनि वैविध्यानुसन्धानमूलसर्वकर्मक्षयानिर्दोष परिशुद्धं निजरूपि भवति,तदा देवाद्याकारेणैकीकृत्यात्मकल्पनामूलकर्मफलभूतास्तद्भोगार्था वस्तुषु वस्तुभेदा न भवन्ति। ये देवादिषु वस्तुष्वात्मतयाभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादिवस्तुभेदाः ; ते तन्मूलभूतकर्मसु विनष्टेषु न भवन्तीत्यचिद्वस्तुनः कादाचित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वम् , इतरस्य सर्वदा निजसिद्धज्ञानेकाकारत्वेन अस्तिशब्दाभिधेयत्वमित्यर्थः । प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमेवेत्याह- "वस्त्वस्ति किम्" इति। अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततकरूपः पदार्थः, तस्य कदाचिदपि नास्तिबुद्धयनहत्वात् । अचिद्वस्तु किंचित् कचिदपि तथाभूतं न दृष्टचरम् । ततः किमित्यत्राह- १“यच्चान्यथात्वम्" इति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति; तदुत्तरोत्तरावस्थाप्राप्तया पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधानमस्ति । अतस्सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव । तथा छुपलभ्यत इ. त्याह-“मही घटत्वम्" इति।स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैस्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते- अनुभूयत इत्यर्थः। एवं सति किमप्यचिद्वस्त्वस्तिशब्दार्हमादिमध्यपर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः । यस्मादेवम् , तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित्कचित् केवलास्तिशब्दवाच्यं न भवतीत्याह- "तस्मान्न विज्ञानमृते" इति। आत्मा तु सर्वत्र ज्ञानकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूतस्वकृतविविधकर्ममूलदेवादिभेदभिन्नात्मबुद्धिभिस्तेनतेन रूपेण बहुधाऽनु१ वि-पु. २-१२-४१. For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. वि. पु. २- १२-४५. २. वि पु. २ १२-४७. ९२ शारीरकमीमांसाभाष्ये [अ. १. संहितइति तद्भेदानुसंधानं नात्मस्वरूपप्रयुक्तमित्याह – 'विज्ञानमेकम् ' इति । आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम् । ततश्च तत्प्रयुक्तशोकमोह लोभाद्यशेषहेयगुणासङ्गि, उपचयापचयानर्हतयैकम्, तत एव सदैकरूपम् । तच्च वासुदेवशरीरमिति तदात्मकम्, अतदात्मकस्य कस्यचिदप्यभावादित्याह - "ज्ञानं विशुद्धम् " इति । चिदंशस्सदैकरूपतया सर्वदाऽस्तिशब्दवाच्यः । अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भइति सर्वदा नास्तिशब्दाभिधेयः । एवंरूपचिदचिदात्मकं जगद्वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह - " सद्भाव एवम् " इति। अत्र 'सत्यम्, असत्यम्' इति “यदस्ति यन्नास्ति" इति प्रक्रान्तस्योपसंहारः । एतत् ज्ञानैकाकारतया समम् अशब्दगोचरस्वरूपभेदमेवाचिन्मिश्रं भुवनाश्रितं देवमनुष्यादिरूपेण सम्यग्व्यवहारार्हभेदं यद्वर्तते तत्र हेतु: कमैवेत्युक्तमित्याह- १ " एतत्तु यत्" इति। तदेव विवृणोति - २" यज्ञः पशुः " इति । जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाययतनमित्याह- २" यच्चैतत्" इति।। अत्र निर्विशेषे परे ब्रह्मणि तदाश्रये सदसदनिर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे वाऽनुगुणं किञ्चिदपि पदं न दृश्यते । अस्तिनास्तिशब्दाभिधेयं चिदचिदात्मकं कृत्स्नं जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णोः कायत्वेन तदात्मकम् । ज्ञानैकाकारस्यात्मनो देवादिविविधाकारानुभवेऽचित्परिणामे च हेतुर्वस्तुयाथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कर्मैवेति प्रतिपादनात् अस्तिनास्तिसत्यासत्यशब्दानां च सदसदनिर्वचनीयवस्त्वभिधानासामर्थ्याच्च नास्त्यसत्यशब्दावस्तिसत्यशब्धविरोधिनौ । अतश्च ताभ्यामसत्त्वं हि प्रतीयते ; नानिर्वचनीयत्वम् । अत्र चाचिद्वस्तुनि नास्त्यसत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौः अपि तु विनाशित्वपरौ । “ वस्त्वस्ति किम्" "मही घटत्वम्" Acharya Shri Kailassagarsuri Gyanmandir ३. वि.पु. २ १२.४६. ४. त्वे चानुगु. पा. For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् . इत्यत्रापि विनाशित्वमेव ह्युपपादितम् ; न निष्प्रमाणकत्वं, ज्ञानबाध्यत्वं वा; एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणामविशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात् । तुच्छत्वं हि प्रमाणसंबन्धानईत्वम् । बाधोऽपि यद्देशकालादिसंबन्धितया यदस्तीत्युपलब्धम् ; तस्य तद्देशकालादिसम्बन्धितया नास्तीत्युपलब्धिः न तु कालान्तरे अनुभूतस्य कालान्तरे परिणामादिना नास्तीत्युपलब्धिः, कालभेदेन विरोधाभावात् । अतो न मिथ्यात्वम् ॥ एतदुक्तं भवति - ज्ञानस्वरूपमात्मवस्तु आदिमध्यपर्यन्तहीनं सततैकस्वरूपमिति स्वत एव सदाऽस्तिशब्दवाच्यम् । अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुणपरिणामि विनाशीति सर्वदा नास्त्यर्थगर्भमिति नास्त्यसत्यशब्दाभिधेयम् इति ॥ यथोक्तम् "" १" यत्तु कालान्तरेणापि नान्यसंज्ञामुपति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ २" अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु ३ नास्ति न संदेहो नाशिद्रव्योपपादितम् ।। " इति ।। देशकालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिबोध्यत्वमपरमार्थ इत्युक्तम् । आत्मन एव केवलास्तिबुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम् । श्रोतुश्च मैत्रेयस्य ४" विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थश्च मे प्रोक्तो यथाज्ञानं प्रधानतः ॥ " Acharya Shri Kailassagarsuri Gyanmandir " इत्यनुभाषणाच्च, " ज्योतींषि विष्णुः " इत्यादिसामानाधिकरयस्यात्मशरीरभाव एव निबन्धनम् । चिदचिद्वस्तुनो चास्तिनास्तिशदप्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभाविकरूपत्वेन प्राधान्यम् ; १. वि. पु. अं. २. अ. १३. लो. १००. २. वि. पु. अं. २, अ. १४. लो. २४. ३. नाशि. पा. २. श्लो. २. For Private And Personal Use Only ४. वि. पु. अं २. अ. ५. इत्याद्यनु पा. Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. अचिद्वस्तुनश्च तत्कर्मनिमित्तपरिणामित्वेनाप्राधान्यमिति प्रतीयते ॥ यदुक्तं-निर्विशेषब्रह्मविज्ञानादेवाविद्यानिवृत्तिं वदन्ति श्रुतयःइति । तदसत्, १" वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय" २" सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" ३" न तस्येशे कश्चन तस्य नाम महद्यशः" ४" य एनं विदुरमृतास्ते भवन्ति " इत्याद्यनेकवाक्यविरोधात्। ब्रह्मणस्सविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्ष वदन्ति।शोधकवाक्यान्यपि सविशेषमेव ब्रह्म प्रतिपादयन्तीत्युक्तम्।। ___तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निर्विशेषवस्त्वैक्यपरम्, तत्वंपदयोस्सविशेषब्रह्माभिधायित्वात् । तत्पदं हि सर्वज्ञं सत्यसङ्कल्प जगत्कारणं ब्रह्म ५परामृशति-तदैवत बहु स्याम्" इत्यादिषु तस्यैव प्रकृतत्वात् । तत्समानाधिकरणं त्वंपदं च अचिद्विशिष्टजीवशरीरकं ब्रह्म प्रतिपादयति,प्रकारद्वयावस्थितैकवस्तुपरत्वात्सामानाधिकरण्यस्य प्रकारद्वयपरित्यागे प्रवृत्तिनिमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात् ; द्वयोः पदयोर्लक्षणा च । 'सोऽयं देवदत्तः' इत्यत्रापि न लक्षणा, भूतवर्तमानकालसंवन्धितयैक्यप्रतीत्यविरोधात् । देशभेदविरोधश्च कालभेदेन परिहतः । “ तदैक्षत बहु स्याम्" इत्युपक्रमविरोधश्च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च न घटते । ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्तकल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्तापुरुषार्थाश्रयत्वं च भवति । बाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः ॥ इयोस्तु विशेषः नेदं रजतमितिवदप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम् ; तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च। १. तैत्तिरीयारण्यके. ब्रह्ममेघे. पुरुषसूक्तम्. नारायणानुवाके. १. अनु. ८. ९. १०. ३. १२. १३. महानाराणोपनिषदिच. ४. अ. ५. प्रतिपादयति. पा. २. ३. ४. तैत्तिरीयारण्यके. ६, प्रश्ने. For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिज्ञासाधिकरणम्. पा. १.] ९५ अधिष्ठानं तु प्राक्तिरोहितमतिरोहितस्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न, प्रागधिष्ठानाप्रकाशे तदाश्रयभ्रमबाधयोरसंभवात् । भ्रमाश्रयमधिष्ठान - मतिरोहितमिति चेत् ; तदेवाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरां न तदाश्रयभ्रमबाधौ । अतोऽधिष्ठानातिरेकि पारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिवाधौ दुरुपपादौ । अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्येव व्याधत्वभ्रमः । राजत्वोपदेशेन च तन्निवृत्तिर्भवति ; नाधिष्ठानमात्रोपदेशेन ; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात् ; भ्रमानुपमर्दित्वाच्च ॥ 1 जीवशरीरक जगत्कारणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम् । प्रकारद्व यविशिष्टकवस्तुप्रतिपादनेन सामानाधिकरण्यं च सिद्धम् । निरस्त - निखिलदोषस्य समस्त कल्याणगुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यमपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च सूक्ष्मचिदचिद्वस्तुशरीरस्यैव ब्रह्मणस्स्थूलचिदचिद्वस्तुशरीरत्वेन कार्यत्वात् २" तमीश्वराणां परमं महेश्वरम्" ३" पराऽस्य शक्तिर्विविधैव श्रूयते " ४" अपहतपाप्मा. · सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुत्यन्तरविरोधश्च ॥ ; “ तत्त्वमसि " इत्यत्रोद्देश्योपादेयविभागः कथमिति चेत् ; नात्र किञ्चदुद्दिश्य किमपि विधीयते ; ५" ऐतदात्म्यमिदं सर्वम्" इत्यनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रमर्थवत् । इदं सर्वमिति सजीवं जगन्निर्दिश्य ऐतदात्म्यमिति तस्यैष आत्मेति तत्र प्रतिपादितम् । तत्र च हेतुरुक्त:६" सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः" इति; ७" सर्व खल्विदं ब्रह्म तज्जलानितिशान्तः " इतिवत् ॥ १. इतिचेन्न अधिष्ठानाप्रकाशे. पा. २. ३. वे ६. अ. ७. ८. वा. ४. छा. ८, प्र. १. ख. ६. वा. Acharya Shri Kailassagarsuri Gyanmandir ५. ६. छा. ६. प्र. ८. ख. ७. ४. वा. ७. छा. ३, प्र. १४. ख. १. वा. For Private And Personal Use Only "" Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्वयतिरिक्तस्य चिदचिद्वस्तुनथ शरीरात्मभावमेव तादात्म्यं वदन्ति - १" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" २" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त अत्माऽन्तर्याम्यमृतः " ३" य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः " ४" यः पृथिवीमन्तरे संचरन् ” इत्यारभ्य ५" यस्य मृत्युश्शरीरम् । यं मृत्युर्न वेद । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " ६ “तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य । सच्च त्यच्चाभवत्" इत्यादीनि । अत्रापि - ७" अto जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति ब्रह्मात्मकजी - वानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम् । " तदनुमविश्य | सच्च त्यच्चाभवत्" इत्यनेनैकार्थ्याज्जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्यवगम्यते । अतश्रिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्मतादात्म्यमात्मशरीरभावादेवेत्यवगम्यते। तस्मात् ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीरत्वेनैव वस्तुत्वात्तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति । अतस्सर्वशब्दानां लोकव्युत्पत्त्यवगत तत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धमिति “ऐतदात्म्यमिदं सर्वम्” इति प्रतिज्ञातार्थस्य " तत्त्वमसि " इति सामानाधिकरण्येन विशेष उपसंहारः ॥ Acharya Shri Kailassagarsuri Gyanmandir अतो निर्विशेषवस्त्वैक्यवादिनो भेदाभेदवादिनः केवलभेदवा दिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशास्सर्वे परित्यक्तास्स्युः । एकस्मिन्वस्तुनि कस्य तादात्म्यमुपदिश्यते । तस्यैवेति १. आरण्यके, ३. प्रश्न. ११. अनु. २०. पं. २. बृ. ५. अ. ७. बा. ३. ३. बृ. ५. अ, ७. बा. २२. विज्ञानस्थान माध्यन्दिनपाठ: ४. ५. सुबालोपनिपदि. ७. ख. ६. तै. आन. ६. अनु. २. ७. छा. ६. प्र. ३.ख. २. For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१. जिहासाधिकरणम् . चेत् तत्स्ववाक्येनैवावगतमिति न तादात्म्योपदेशावसेयमस्ति किंचित्। कल्पितभेदनिरसनमिति चेत्, तत्तु न सामानाधिकरण्यतादात्म्योपदेशावसेयमित्युक्तम् । सामानाधिकरण्यं तु ब्रह्मणि प्रकारद्वयप्रतिपादनेन विरोधमेवाऽवहेत्। भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात्तत्प्रयुक्ता जीवगता दोषा ब्रह्मण्येव प्रादुःप्युरिति निरस्तनिखिलदोषकल्याणगुणात्मकब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्तास्स्युः । स्वाभाविकभेदाभेदवादेऽपि ब्रह्मणस्वत एव जीवभावाभ्युपगमात् गुणवदोषाश्च स्वाभाविका भवेयुरिति निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध एव । केवलभेदवादिनां चात्यन्तभिन्नयोः केनापि प्रकारेणैक्यासंभवादेव ब्रह्मात्मभावोपदेशा न संभवन्तीति सर्ववेदान्तपरित्यागस्स्यात् ॥ निखिलोपनिषत्यसिद्धं कृत्स्नस्य ब्रह्मशरीरभावमातिष्ठमानैः कुस्त्रस्य ब्रह्मात्मभावोपदेशास्सर्वे सम्यगुपपादिता भवन्ति । जातिगुणयोरिव द्रव्याणामपि शरीरभावेन रविशेषणत्वेन गौरवो मनुष्यो देवो जातः पुरुषः कर्मभिः' इति सामानाधिकरण्यं लोकवेदयोर्मुख्यमेव दृष्टचरम् । जातिगुणयोरपि द्रव्यप्रकारत्वमेव 'खण्डो गौः' 'शुक्ल: पटः' इति सामानाधिकरण्यनिबन्धनम् । मनुष्यत्वादिविशिष्टपिण्डानामप्यात्मनः प्रकारतयैव पदार्थत्वात् 'मनुष्यः पुरुषष्षण्डो योषिदात्मा जातः' इति सामानाधिकरण्यं सर्वत्रानुगतमिति प्रकारत्वमेव सामानाधिकरण्यनिबन्धनम् , न परस्परव्यात्ता जात्यादयः । स्वनिष्ठानामेव हि द्रव्याणां कदाचित् कचिद्दयविशेषणत्वे मत्वर्थीयप्रत्ययो दृष्टः, 'दण्डी कुण्डली' इति ; न पृथक प्रतिपत्तिस्थित्यनर्हाणां द्रव्याणाम्। तेषां विशेषणत्वं सामानाधिकरण्यावसेयमेव ॥ यदि 'गौरवो मनुष्यो देवः पुरुषो योषित् षण्ड आत्मा कर्मभिर्जातः' इत्यत्र 'खण्डो मुण्डो गौः' 'शुक्लः पट:' 'कृष्णः पटः' इति १. तत्स्ववाक्येनाव. पा. २. विशेषणत्वे, पा. 13 For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते; तहि जातिव्यक्त्योरिव प्रकारप्रकारिणोश्शरीरात्मनोरपि नियमेन सह प्रतिपत्तिस्स्यात् । न चैवं दृश्यते। नहि नियमेन गोत्वादिवदात्माश्रयतयैवाऽत्मना सह मनुब्यादिशरीरं पश्यन्ति । अतो 'मनुष्य आत्मा' इति सामानाधिकरण्यं लाक्षणिकमेव। नैतदेवम् मनुष्यादिशरीराणामप्यात्मैकाश्रयत्वम्, तदेकप्रयोजनत्वम् , तत्पकारत्वं च जात्यादितुल्यम्। आत्मैकाश्रयत्वमात्मविश्लेषे शरिविनाशादवगम्यते । आत्मैकप्रयोजनत्वं च तत्कर्मफलभोगार्थतयैव सद्भावात् । तत्पकारत्वमपि 'देवो मनुष्यः' इत्यात्मविशेषणतयैव प्रतीतेः । एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतुः। एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे 'दण्डी, कुण्डली' इति मत्वर्थीयप्रत्ययः। देवमनुष्यादिपिण्डानामात्मैकाश्रयत्वतदेकप्रयोजनत्वतत्पकारत्वस्वभावात् 'देवो मनुष्य आत्मा' इति लोकवेदयोस्सामानाधिकरण्येन व्यवहारः । जातिव्यक्त्योर्नियमेन सह प्रतीतिरुभयोश्चाक्षुषत्वात् । आत्मनस्त्वचाक्षुषत्वाच्चक्षुषा शरीरग्रहणवेलायामात्मा न गृह्यते । पृथग्रहणयोग्यस्य प्रकारतैकवरूपत्वं दुर्घटमिति मा वोचः; जात्यादिवत्तदेकाश्रयत्वतदेकप्रयोजनत्वतद्विशेषणत्वैश्शरीरस्यापि तत्प्रकारतकस्वभावत्वावगमात्।सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वनिबन्धन इत्युक्तम् । यथा चक्षुषा पृथिव्यादेगन्धरसादिसंबन्धित्वं स्वाभाविकमपि न गृह्यते । एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकारतकस्वभावमपि न तथा गृह्यते ; आत्मग्रहणे चक्षुषस्सामर्थ्याभावात् । नैतावता शरीरस्य तत्पकारत्वस्वभावविरहः । तत्पकारतैकखभावत्वमेव सामानधिकरण्यनिबन्धनम् । आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दस्सहैव प्रकारतया प्रतिपादयति॥ ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य । नैवम् ; आत्मप्रकारभूतस्यैव शरीरस्य For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१] जिज्ञासाधिकरणम् . पदार्थविवेकप्रदर्शनाय निरूपणानिष्कर्षकशब्दोऽयम् ; यथा 'गोत्वं शुक्लत्वमाकृतिर्गुणः' इत्यादिशब्दाः॥ ____ अतो गवादिशब्दवदेवमनुष्यादिशब्दा आत्मपर्यन्ताः। एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मशरीरतया तत्पकारत्वात् जीवात्मवाचिनश्शब्दाः परमात्मपर्यन्ताः । अतः परस्य ब्रह्मणः प्रकारतयैव चिदचिद्वस्तुनः पदार्थत्वमिति तत्सामानाधिकरण्येन प्रयोगः। अयमों वेदार्थसङ्गहे समर्थितः । इदमेव शरीरात्मभावलक्षणं तादात्म्यम् १"आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति वक्ष्यतिः २" आत्मेत्येव तु गृह्णीयात्" इति च वाक्यकारः॥ अत्रेदं तत्त्वम्-अचिद्वस्तुनः चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च खरूपविवेकमाहुः काश्चन श्रुतयः३" अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सनिरुद्धः"४ "मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्"५"क्षरं प्रधानममृताक्षरं हरःक्षरात्मानावीशते देव एकः";अमृताक्षरं हर इति भोक्ता निर्दिश्यते,प्रधानमात्मनो भोग्यत्वेन हरतीति हरः।६ “स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः""प्रधानक्षेत्रज्ञपतिगुणेशः""पतिं विश्वस्याऽत्मश्वरं शाश्वतं शिवमच्युतम्" ९ 'ज्ञाज्ञौ द्वावजावीशनीशौ" १०"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्"११"भोक्ता भोग्यं प्रेरितारं च मत्वा" १२ "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" १. शारी. ४. अ. १. पा. ३. सू. ८. ते नारायणे. ११. अनु. ३. वा. २. वृत्ति:. ९. श्वे. १. अ, ९. ३. ४. श्वे. ४. अ. ९-१०. १०. कठ. ५. वल्ली, १३. ५. श्वे. १. अ, १०, ११. श्वे. १. अ. १२. ६. श्वे. ६. अ. ९. १२. मु. ३, मु. १. ख. १. ७. श्वे. ६. अ. १६. For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०० शारीरकमीमांसाभाष्ये [ अ. १. १" पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" २ “अजामेकां लोहित शुक्लकृष्णां बहीं प्रजां जनयन्तीं सरूपाम् । अजो होको जुषमाitsशेते जहात्येनां भुक्तभोगामजोऽन्यः " ३" समाने वृक्षे पुरुषो निमग्नोsनीशया शोचति मुह्यमानः जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इत्याद्याः ॥ स्मृतावपि - www.kobatirth.org १. श्वे. १. अ. ६. तै. २. ४" अहङ्कारइतीयं मे भिन्ना प्रकृतिरष्टधा ।। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ " ५ " सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशाद ।। " ६" मयाऽध्यक्षेण प्रकृतिस्तूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ।। " ७" प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । " " मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् | सम्भवस्सर्वभूतानां ततो भवति भारत ।। " इति ॥ जगद्योनिभूतं महत् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत् ; तस्मिंश्चेतनाख्यं गर्भं यत्संयोजयामि, ततो मत्कृताच्चिदचित्संसर्गाद्देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां सम्भवो भवतीत्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir ६. प्र. नारायणे. १०. अनु. ५. ३. वे. ४, अ. ७. ४. नी. ७. अ. ४, ५. श्रो. ५. मी. ९. अ. ७, ८. श्री. ६. मी. ९. अ. १०. लो. ७. गी. १३. अ. १९. लो. ८. गी. १४. अ. ३. श्रो. For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१.] जिज्ञासाधिकरणम् . एवं भोक्तभोग्यरूपेणावस्थितयोस्सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथस्थितिं परमपुरुषस्य चात्मत्वमाहुः काश्चन श्रुतयः-१“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य २“य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न देव यस्याऽत्मा शरीरंय आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति। तथा-३"यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य ४“ योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः"; अन मृत्युशब्देन तमश्शब्दवाच्य सूक्ष्मावस्थमचिद्वस्त्वभिधीयते ; अस्यामेवोपनिषदि-५" अव्यक्तमक्षरे ६लीयते । अक्षरं तमसि लीयते" इति वचनात् । ८"अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा" इति च ॥ ___ एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्पकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीममर्थ ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहुः-९"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोसृजत"इत्यारभ्य १० "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः। ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्वमसि श्वेतकेतो"इति । तथा १. वृ. ५. अ. ७, बा. ३. । ६. ७, विलीयते पा. २. वृ. ५. अ. ७. प्रा. विज्ञानस्थाने मा. ८. यजुरारण्यके, ३. प्रश्न. चित्ति. ११. ध्यन्दिनपाठ:. २२. अनु. २१. पं. ३. ४. सुबाल. ७. ख. । ९. छा.६. प्र. २. ख. १. ५. सुवाल. २. ख. १०, छा, १.प्र. ८. ख. ६. For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ शारीरकमीमांसाभाष्ये [अ. १. १" सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत " इत्यारभ्य २" सत्यं चानृतं च सत्यमभवत् " इत्याद्याः ॥ ' अत्रापि श्रुत्यन्तरसिद्धश्विदचितोः परमपुरुषस्य च स्वरूपविवेकस्स्मारितः -- ३" हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति – “ तत्सृष्ट्वा । तदेवानुमाविशत् । तदनुप्रविश्य । सच्चत्यच्चाभवत् विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्" इति च । “ अनेन जीवेनाऽत्मनाऽनुप्रविश्य " इति जीवस्य ब्रह्मात्मकत्वं, " तदनुप्रविश्य सच्च त्यच्चाभवत् " " विज्ञानं चाविज्ञानं च " इत्यनेनैकार्थ्यात् आत्मशरीरभावनिबन्धनमिति विज्ञायते । एवंभूतमेव नामरूपव्याकरणं ४" तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत" इत्यत्राप्युक्तम् । अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं समीहितमुपपन्नतरम् । " अहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवता" इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाश्शब्दाः ५ अचिद्विशिष्टजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनश्शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्मकारं ब्रह्मैव कार्य कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्मैव कारणमिति ॥ ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽ १, २, तै. आन. ६. अनु, २-३. ३. छा. ६. प्र. ३. ख, २, ४. बृ. ३, अ. ४. ब्रा. ७.. ५. अचिज्जीवविशिष्ट. पा. For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ पा. १] जिज्ञासाधिकरणम् . पि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वर्णसङ्करः; तथा चिदचिदीश्वरसंघातोपादानत्वेऽपि जगतः कार्यावस्थायामपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः। तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च । इह तु चिदचितोस्सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्पकारः परमपुरुषस्सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुन आत्मतयाऽवस्थानाकार्यत्वमप्युपपन्नतरम् । अवस्थान्तरापत्तिरेव हि कार्यता ॥ निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणासम्बन्धादुपपद्यन्ते। १" अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" इति हेयगुणान् प्रतिषिध्य “सत्यकामस्सत्यसङ्कल्पः" इति कल्याणगुणान्विदधती इयं श्रुतिरेवान्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति ॥ ज्ञानस्वरूपं ब्रह्मेतिवादश्च सर्वज्ञस्य सर्वशक्तनिखिलहेयप्रत्यनीककल्याणगुणाकरस्य ब्रह्मणस्वरूपं ज्ञानैकनिरूपणीयं २ स्वयंप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः।३“यस्सर्वज्ञस्सर्ववित्" ४ “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" ५"विज्ञातारमरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वमावेदयन्ति; ६"सत्यं ज्ञानम्" इत्यादिकाश्च ज्ञानकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् ।। १. छा. ८. प्र. १, ख. ५. ४. श्वे. ६. अ. ८. ५.बृ. ६. अ. ५. बा. १५. ६. ते. आन. १. अनु. १. २. स्वप्रकाश. पा. ३, मु. १. ख. १. ९. For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ शारीरकमीमांसाभाष्ये [... १“सोऽकामयत बहु स्याम्" २ "तदैक्षत बहु स्याम्"३"तन्नामरूपाभ्यां व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्पत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति तत्पतिषिध्यते---४" मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति" ५"नेह नानाऽस्ति किञ्चन" ६" यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्तत्केन कं विजानीयात्" इत्यादिना। न पुनः “बहु स्याम् प्रजायेय" इत्यादिश्रुतिसिद्धं खसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । “यत्र त्वस्य सर्वमात्मैवाभूत" ७ इत्यादिनिषेधवाक्यादौ च तत्स्थापितम् "सर्व तं परादाद्योऽन्यत्राऽत्मनस्सर्व वेद" ९ "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः" इत्यादिना ॥ एवं चिदचिदीश्वराणां स्वभावभेदं स्वरूपभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं च वदन्तीनां सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानहसूक्ष्मदशापत्ति कार्यदशायां च तदर्हस्थूलदशापत्ति वदन्तीभिश्श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्यौपाधिकब्रह्मभेदवादस्यान्यस्याप्यपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथश्चिदप्यवकाशो दृश्यते । चिदचिदीश्वराणां पृथक्स्वभावतया तत्तच्छ्रुतिसिद्धानां शरीरात्मभावेन प्रकारपकारितया श्रुतिभिरेव प्रतिपन्नानां श्रुत्यन्तरेण कार्यकारणभावप्रतिपादनं कार्यकारणयोरैक्यप्रतिपादनं च १.ते. आ. ६. अनु. २. २. छा. ६. प्र. २. ख. ३. ३. वृ. ३. अ. ४. ब्रा. ७. ४. ५. कठ. ४. वल्ली. १०.११. ६. पृ. ४. अ. ४. ब्रा. १४ ७. इतिनि. पा. ८. बृ. ४. अ. ४. ब्रा. ६. ९. सुबाल.२.ख.१.४-४-१०,६-५-११. For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ पा १.] जिज्ञासाधिकरणम्. ह्यविरुद्धम् । यथा-आग्नेयादीन् षड्यागानुत्पत्तिवाक्यैः पृथगुत्पन्नान् १समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्नान् २“दर्शपूर्णमासाभ्याम्"इत्यधिकारवाक्यं कामिनः कर्तव्यतया विदधाति तथा चिदचिदीश्वरान्विविक्तस्वरूपखभावान् ३"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" ४"पति विश्वस्याऽत्मेश्वरम्" ५"आत्मा नारायणः परः" इत्यादिवाक्यैः पृथक् प्रतिपाद्य ६“यस्य पृथिवी शरीरम्" ७"यस्याऽत्मा शरीरम्" "यस्याव्यक्तं शरीरम् । यस्याक्षरं शरीरम् । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादिभिर्वाक्यैश्चिदचितोस्सर्वावस्थावस्थितयोः परमात्मशरीरतां परमात्मनस्तदात्मतां च प्रतिपाद्य शरीरभूतपरमात्माभिधायिभिस्सद्ब्रह्मात्मादिशब्दैः कारणावस्था कार्यावस्थश्च परमात्मैक एवेति पृथक्प्रतिपन्नं वस्तुत्रितयं ९ “सदेव सोम्येदमग्र आसीत्"१०"ऐतदात्म्यमिदं सर्वम्"११"सर्व खल्विदं ब्रह्म" इत्यादिवाक्यं प्रतिपादयति। चिदचिद्वस्तुशरीरिणः परमात्मनः परमात्मशब्देनाभिधाने हि नास्ति विरोधः । यथा मनुष्यपिण्डशरीरकस्याऽत्मविशेषस्य अयमात्मा सुखी' इत्यात्मशब्देनाभिधान इत्यलमतिविस्तरेण॥ यत्पुनरिदमुक्तम्-ब्रह्मात्मैकत्वविज्ञानेनैवाविद्यानिवृत्तियुक्ताइति, तदयुक्तम् , बन्धस्य पारमार्थिकत्वेन ज्ञाननिवर्त्यत्वाभावात् पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्तसुखदुःखानुभवरूपस्य बन्धस्य मिथ्यात्वं कथमिव शक्यते वक्तुम् । एवंरूपबन्धनिवृत्तिर्भक्तिरूपापनोपासनप्रीतपरमपुरुषप्रसादलभ्येति पूर्वमेवोक्तम् । भवदभिमत१. समुदायानुवादवाक्य. पा. ७ यू. ५.अ. ८. ब्रा-विज्ञानस्थाने माध्य२. कात्यायनश्रौतसू . ४-२-४७. ८, सुबाल, ७. ख, [न्दिनपाठः. २२. ३. श्वे. १. अ. १०. ९, छा. ६. प्र-२-ख-१. ४, ५. ते. नारायणे. ११. अनु.३. ४. वा. १०.छा, ६.प्र. ८. ख.७. ६. बु. ५. अ. ७. बा. ३. ११. छा. ३. प्र-१४-ख. १. 14 For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०६ शारीरकमीमांसाभाष्ये [अ. १. स्यैक्यज्ञानस्य यथावस्थितवस्तुविपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति - १ " मिथ्यैतदन्यद्दव्यं हि नैति तद्दव्यतां यतः " इतिशास्त्रात् । २" उत्तमः पुरुषस्त्वन्यः " ३" पृथगात्मानं प्रेरितारं च मत्वा " इति जीवात्मविसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलक्षणमोक्षसाधनमित्युपदेशाच्च ॥ Acharya Shri Kailassagarsuri Gyanmandir अपिच भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात्तस्य निवर्तकान्तरं मृग्यम् । निवर्तकज्ञानमिदं स्वविरोधि सर्व भेदजातं ५ - वर्त्य क्षणिकत्वात्स्वयमेव धनश्यतीतिचेन्न ; तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाश तत्कल्पनाकल्पकरूपाविद्याया निवर्तकान्तरमन्वेषणीयम् । तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्; तथा सति निवर्तकज्ञानोत्पत्तिरेव न स्यात्, तद्विनाशे तिष्ठति तदुत्पत्यसम्भवात् ॥ अपिच चिन्मातब्रह्मव्यतिरिक्तकृत्स्त्रनिषेधविषयज्ञानस्य कोऽयं ज्ञाता ? अध्यासरूप इति चेत्, न तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्म स्वरूपमिति चेत् ; ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् ; उताध्यस्तम् । अध्यस्तं चेत्, अयमध्यासस्तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठत्येव । निवर्तकज्ञानान्तराभ्युपगमे तस्यापि त्रिरूपत्वात् ज्ञालपेक्षयाऽनवस्था स्यात् । ब्रह्मखरूपस्यैव ज्ञातृत्वेऽस्मदीय एव पक्षः परिगृहीतस्स्यात् । निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतमिति वचनं 'भूतल - व्यतिरिक्तं कृत्स्नं देवदत्तेन च्छिन्नम्' इत्यस्यामेवच्छेदनक्रियायामस्य च्छेत्तुरस्याश्छेदनक्रियायाश्च च्छेद्यानुप्रवेशवचनवदुपहास्यम् । अध्य ४. भवदभिमतस्य निवर्तकज्ञानस्यापि - पा. १. वि. पु. २- अं. १४. अ. २७ - श्लो. २.गी. १५- अ. १७ - लो. ३. श्वे. १-अ ६. ६. विनश्यती. पा. ५. विनिवर्त्य. पा. ७. स्वरूपेमेवेति. पा. For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. १०७ स्तो ज्ञाता स्वनाशहेतुभूतनिवर्तकज्ञाने स्वयं कर्ता च न भवति, स्वनाशस्या पुरुषार्थत्वात् । तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमे भेददर्शनतन्मूलाविद्यादीनां कल्पनमेव न स्यात् । इत्यलमनेन दिष्टहतमुद्गराभिघातेन ॥ तस्मादनादिकर्मप्रवाहरूपाज्ञानमूलत्वाद्बन्धस्य तन्निबर्हणमुक्तलक्षणज्ञानादेव । तदुत्पत्तिश्चाहर हर नुष्ठीयमानपरमपुरुषाराधनवेषात्मयाथात्म्यबुद्धिविशेषसंस्कृतवर्णाश्रमोचितकर्मलभ्या । तत्र केवलकर्मणामल्पास्थिरफलत्वम्, अनभिसंहितफलपरमपुरुषाराधनवेषाणां कर्मणाम् उपासनात्मकज्ञानोत्पत्तिद्वारेण ब्रह्मयाथात्म्यानुभवरूपानन्तस्थिरफलत्वं च कर्मस्वरूपज्ञानादृते न ज्ञायते । केवलाकारपरित्यागपूर्वकयथोक्तस्वरूपकर्मोपादानं च न सम्भवतीति कर्मविचारानन्तरं तत एव हेतोः ब्रह्मविचारः कर्तव्य इति 'अथातः' इत्युक्तम् ॥ [अथ सूत्रकाराभिमतसूत्रार्थयोजनारम्भः] तत्र पूर्वपक्षवादी मन्यते - वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासम्भवात्, व्यवहारस्य च कार्यबुद्धिपरत्वेन कार्यार्थएव शब्दस्य प्रामाण्यमिति कार्यरूपएव वेदार्थः । अतो न वेदान्ताः परिनिष्पन्ने परे ब्रह्मणि प्रमाणभावमनुभवितुमर्हन्ति । न च पुत्रजन्मादिसिद्धवस्तुविषयवाक्येषु हर्ष हेतूनां कालत्रयवर्तिनामर्थानामानन्त्यात् 'सुलग्न सुखप्रसवादिहर्षहेत्वर्थान्तरोपनिपातसम्भावनया च प्रियार्थप्रतिपत्तिनिमित्तमुखविकासादिलिङ्गेनार्थविशेषबुद्धिहेतुत्वनिश्चयः ; नापि व्युत्पन्नेतरपदविभत्यर्थस्य पदान्तरार्थ र निश्चयेन प्रकृत्यर्थनिश्चयेन वा शब्दस्य सिद्धवस्तुन्यभिधानशक्तिनिश्चयः; ज्ञातकार्याभिधायिपदसमुदायस्य तदंशविशेषनिश्चयरूपत्वात्तस्य । न च सर्पाद्भीतस्य 'नायं सर्पो रज्जुरेषा' इति शब्दश्रवणसमनन्तरं भयनिवृत्तिदर्शनेन सर्पाभावबुद्धिहेतुत्वनिश्चयः; अत्रापि १. सुलग्नजन्मसुखप्रसवादि .पा. २. निश्चयेन वा पा. For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ शारीरकमीमांसाभाष्ये [अ. १. निश्चेष्टं निर्विशेषमचेतनमिदं वस्त्वित्याद्यर्थबोधेषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात् । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेन शब्दस्य प्रवर्तकार्थावबोधित्वमुपगतमिति सर्वपदानां कार्यपरत्वेन सर्वैः पदैः कार्यस्यैव विशिष्टस्य प्रतिपादनानान्यान्वितस्वार्थमाते पदशक्तिनिश्चयः। इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतुः, न स्वरूपेण, अतीतानागतवर्तमानेष्टोपायबुद्धिषु प्रवृत्त्यनुपलब्धेः। 'इष्टोपायो हि मत्प्रयत्नादृते न सिध्यति । अतो मत्कृतिसाध्यः, इतिबुद्धिर्यावन्न जायते तावन्न प्रवर्तते । अतः कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात्परिनिष्पन्नरूपब्रह्मप्राप्तिलक्षणानन्तस्थिरफलाप्रतिपत्तेः २“अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति" इत्यादिभिः कर्मणामेव स्थिरफलत्वप्रतिपादनाच्च कर्मफलाल्पास्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्तः इति ॥ अनाभिधीयते --- निखिललोकविदितशब्दार्थसम्बन्धावधारणप्रकारमपनुद्य सर्वशब्दानामलौकिकैकार्थावबोधित्वावधारणं प्रामाणिका न बहुमन्वते । एवं किल बालाश्शब्दार्थसंबन्धमवधारयन्ति—मातापितप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसादींश्च 'एनमवेहि इमं चावधारय'इत्यभिप्रायेण ४अङ्गल्या निर्दिश्यनिर्दिश्य तैस्तैश्शब्दैस्तेषुतेष्वर्थेषु बहुशशिक्षिताश्शनैश्शनैस्तैस्तैरेव शब्दैस्तेषुतेष्वर्थेषु स्वात्मनां बुद्ध्यत्पत्तिं दृष्ट्वा शब्दार्थयोस्संबन्धान्तरादर्शनात्संकेतयितृपुरुषाज्ञानाच तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नेतरशब्देषु 'अस्य शब्दस्यायमर्थः' इति पूर्वद्धैश्शिक्षितास्सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयु१. त्वमवगत. पा. ३. शब्दानामलौकिकार्था. पा. २. आपस्तम्बश्रौतसू. २. प्रश्न. १.खं, १.स. ४. अङ्गल्यादिभिनिर्दिश्य ते. पा. For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम्. ञ्जते । प्रकारान्तरेणापि शब्दार्थसबन्धावधारणं सुशकम् - केनचित्पुरुषेण हस्तचेष्टादिना 'पिता ते सुखमास्ते' इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः 'पिता ते सुखमास्ते' इति शब्दं प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुर्मूकवचेष्टाविशेषज्ञस्तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतस्तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा 'अयं शब्दस्तदर्थबुद्धिहेतुः ' इति निश्चिनोति इति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः। अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म, तदुपासनं चापरिमितफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचारः कर्तव्यः ॥ कार्यार्थत्वेऽपि वेदस्य ब्रह्मविचारः कर्तव्य एव । कथम् ; "आत्मा वा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " २ " सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः " ३" विज्ञाय प्रज्ञां कुर्वीत " ४ " दहरोऽस्मिन्नन्तर आका - शस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् " ५" तत्त्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्" इत्यादिभिः प्रतिपन्नोपासनविषयकार्याधिकृतफलत्वेन ६" ब्रह्मविदाप्नोति परम्" इत्यादिभिर्बह्मप्राप्तिश्रूयतइति ब्रह्मस्वरूपतद्विशेषणानां दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवत्, रात्रिसत्रप्रतिष्ठादिवत्, अपगोरणशतयातना साध्यसाधनभाववच्च, कार्योपयोगितयैव सिद्धेः ॥ 'गामानय' इत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः ; भवदभिमतकार्यस्य दुर्निरूपत्वात् । कृतिभावभावि कृत्युद्देश्यं हि भवतः कार्यम् । कृत्युद्देश्यत्वं च कृतिकर्मत्वम् । कृतिकर्मत्वंच कृत्या प्राप्तुमिष्टतमत्वम् । इष्टतमं च सुखं वर्तमानदुःखस्य तन्निवृत्तिर्वा । तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नादृते यदि तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्र १. बृ ४. अ. ४. बा. ५; ६. अ. ५ बा.६. २. छा-८. प्र. ७. ख. १. ३. ब. १-अ ४ - प्रा. २१. Acharya Shri Kailassagarsuri Gyanmandir ४ छा. ८. प्र. १ - ख. १. ५. तै- नारायणे. १० - अनु. २३. ६. ते आन १ भ. १० For Private And Personal Use Only १०९ Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० शारीरकमीमांसाभाष्ये [अ.१ वर्तते पुरुषइति न कचिदपीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कुत्युद्देश्यत्वं नाम किश्चिदप्युपलभ्यते । इच्छाविषयस्य प्रेरकत्वं च प्रयनाधीनसिद्धित्वमेव, ततएव प्रवृत्तेः। न च पुरुषानुकूलत्वं कृत्युद्देश्यत्वम्, यतस्सुखमेव पुरुषानुकूलम् । न च दुःखनिवृत्तेः पुरुषानुकूलत्वम् । पुरुपानुकूलं सुखं तत्प्रतिकूलं दुःखम्' इति हि सुखदुःखयोस्स्वरूपविवेकः । दुःखस्य प्रतिकूलतया तन्नित्तिरिष्टा भवति ; नानुकूलतया । अनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिर्हि दुःखनिवृत्तिः। अतस्सुखव्यतिरिक्तस्य क्रियादेरनुकूलत्वं न संभवति । न सुखार्थतया तस्याप्यनुकूलत्वम्, दुःखात्मकत्वात्तस्य । सुखार्थतयाऽपि तदुपादानेच्छामात्रमेव भवति । न च कृति प्रति शेषित्वं कृत्युद्देश्यत्वम् , भवत्पक्षे शेषित्वस्यानिरूपणात् । न च परोद्देशप्रवृत्तकृतिव्याप्यहत्वं शेषत्वमिति तत्पतिसम्बन्धी शेषीत्यवगम्यते, तथा सति कृतेरशेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभावात् । न च परोदेशप्रवृत्यर्हतायाश्शेषत्वेन परश्शेषी, उद्देश्यत्वस्यैव निरूप्यमाणत्वात्, प्रधानस्यापि भृत्योदेशप्रवृत्त्यर्हत्वदर्शनाच । प्रधानस्तु भृत्यपोषणेऽपि स्वोदेशेन प्रवर्तत इति चेन्न, भृत्योऽपि हि प्रधानपोषणे स्वोद्देशेनैव प्रवर्तते । कार्यस्वरूपस्यैवानिरूपणात् 'कायतिसम्बन्धी शेषः, तत्पतिसम्बन्धी शेषी' इत्यप्यसङ्गतम् ॥ नापि कृतिप्रयोजनत्वं कृत्युद्देश्यत्वम् । पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषयः । तस्मादिष्टत्वातिरेकिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्य दुर्निरूपमेव ।। नियोगस्यापि साक्षादिषिविषयभूतसुखदुःखनिवृत्तिभ्यामन्यत्वातत्साधनतयैवेष्टत्वं कृतिसाध्यत्वं च । अत एव हि तस्य क्रियातिरिक्तता अन्यथा क्रियैव कार्य स्यात; स्वर्गकामपदसमभिव्याहारानुगुण्येन लि For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिज्ञासाधिकरणम्. Acharya Shri Kailassagarsuri Gyanmandir पा. १.] १११ l ङादिवाच्यं कार्य स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्युत्पत्तिः । अतः प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणायापूर्वमेव पश्चात्स्वर्गसाधनं भवतीत्युपहास्यम्, स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात् ; सुखदुःखनिवृत्तितत्साधनेभ्यो ऽन्यस्थानन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च । अपिच - किमिदं नियोगस्य प्रयोजनत्वम्, सुखवन्नियोगस्याप्यनुकूलत्वमेवेति चेत्, किं नियोगस्सुखम् ; सुखमेव ह्यनुकूलम् । सुखविशेषवन्नियोगापरपर्यायं विलक्षणं मुखान्तरमितिचेत्; किं तत्र प्रमाणमिति वक्तव्यम् । स्वानुभवश्चेत्, नः विषयविशेषानुभव सुखवन्नियोगानुभवसुखमिदमिति भवताऽपि नानुभूयते । शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात् पश्चात भोक्ष्यत इति चेत्; किं तन्नियोगस्य पुरुषार्थत्ववाचि शास्त्रम् । न तावल्लौकिकं वाक्यम् ; तस्य दुःखात्मकक्रियाविषयत्वात् तेन सुखादिसाधनतयैव कृतिसाध्यतामा - त्रप्रतिपादनात् । नापि वैदिकम् तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात् । नापि नित्यनैमित्तिकशास्त्रम्; तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकमित्युक्तरीत्या तेनापि सुखादिसाधनका - र्याभिधानमवर्जनीयम् । नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानान्नाद्यरोगतादिव्यतिरेकेण नियोगरूपसुखानुभवानुपलब्धेश्च नियोगस्सुखमित्यत्र न किंचन प्रमाणमुपलभामहे । अर्थवादादिष्वपि स्वर्गादिसुखप्रकारकीर्तनवन्नियोगरूप सुखमकारकीर्तनं भवतापि न दृष्टचरम् ॥ For Private And Personal Use Only - अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते। धात्वर्थस्य च यागादेरनयादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात्परमपु Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ शारीरकमीमांसाभाष्ये [अ. १. रुषात्फलसिद्धिश्चेति १" फलमत उपपत्तेः" इत्यत्र प्रतिपादयिष्यते । अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मणः क्षयिफलत्वोपदेशादक्षयफलश्रवणं २" वायुश्चात्नरिक्षं चैतदमृतम् " इत्यादिवदापेक्षिकं मन्तव्यम् ॥ अतः केवलानां कर्मणामल्पास्थिरफलत्वात्, ब्रह्मज्ञानस्य चान न्तस्थिरफलत्वात्तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् || इति श्रीभाष्ये जिज्ञासाधिकरणम् ॥ १ ॥ श्रीमते रामानुजाय नम: अथ वेदान्तसारः. Acharya Shri Kailassagarsuri Gyanmandir समस्तचिदचिद्वस्तुशरीरायाखिलात्मने । श्रीमते निर्मलानन्दोदन्वते विष्णवे नमः ॥ परमपुरुषप्रसादात् वेदान्तसार उद्धियते अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अत्रायमथशब्दः, आनन्तर्ये वर्तते; अतश्शब्दशिरस्कत्वात् । ३ अतश्शब्दश्च पूर्ववृत्तस्य हेतुभावे । पूर्ववृत्तञ्च कर्मज्ञानमिति विज्ञायते । आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वात्, अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वात्, वेदानां कर्मविचारः प्रथमं कार्य इति ४" अथातो धर्मजिज्ञासा" इत्युतम् । कर्मणाञ्च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः, १. शारी. सु. ३-२-३७, २. यू. उप. ४. अ. ३. बा. ३. वा. | ३. अतरशब्द: पूर्व. पा. ४. पूर्वमीमांसासू. १-१-१. For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . १ "प्रभुत्वादाविज्यम्" २इत्यन्तेन सूत्रकलापेन सङ्कर्षणेन कृतः। एवं वेदस्यार्थ३परत्वे कर्मणाञ्च तदर्थत्वे तेषाञ्च केवलानां त्रिवर्गफलत्वे निश्चिते सति,वेदैकदेशभूतवेदान्तभागे केवलकर्मणामल्पास्थिरफलत्वं ब्रह्मज्ञानस्य च अनन्तस्थिरफलत्वमापाततो दृष्ट्वा, अनन्तरं मुमुक्षोरवधारितपरिनिष्पन्नवस्तुबोधजननशब्दशक्तेः पुरुषस्य ब्रह्मबुभुत्सा जायते इति “अथातो ब्रह्मजिज्ञासा" इति कर्मविचारानन्तरं ततएव हेतोः ब्रह्मविचारः कर्तव्य४इत्युक्तं भवति। तदिदमाह श्रुतिः ५“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन,तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् , समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठं, तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय, येनाक्षरं पुरुषं वेदसत्यम् , प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति । ब्राह्मणः - वेदाभ्यासरतः, ६कर्मचितान् - कर्मणा सम्पादितान् , लोकान् - आराध्यक्षयिष्णुत्वेन क्षयस्वभावान् , कर्ममीमांसया परीक्ष्य, अकृतः - नित्यः परमपुरुषः, कृतेन - कर्मणा, न सम्पाद्यइति, यो निर्वेदमायात् , सः, तद्विज्ञानार्थ, गुरुमेवाभिगच्छेत् , समित्पाणिः, श्रोत्रियं - वेदान्तवेदिनम् , ब्रह्मनिष्टम् - साक्षात्कृतपरमपुरुषस्वरूपम् , सः - गुरुः, सम्यगुपसन्नाय तस्मै, येन - विद्याविशेषण, अक्षरम् , सत्यम् , परमपुरुषम् , विद्यात् , तां ब्रह्मविद्याम् , प्रोवाचप्रबेयादित्यर्थः; "स गुरुमेवाभिगच्छेत् , तस्मै स विद्वान् , प्रोवाच" इत्यन्वयात् अप्राप्तत्वाञ्च, विधावपि लिटो विधानात् ७“छन्दसि लुङ्ललिटः" इति ॥ इति वेदान्तसारे जिज्ञासाधिकरणम् ॥ १॥ श्रीमते रामानुजाय नम:. अथ वेदान्तदीपः. श्रियःकान्तोऽनन्तो वरगुणगणकास्पदवपुः हताशेषावद्यः परमखपदो वाङ्मनसयोः । १. पूर्वमीमांसायां. १२-४. ५. मु. १. २. १२, १३. २. इत्यन्तसूत्र. पा, ३. वत्त्वे. पा. ६. कर्मणा सम्पादितान् लोकान् आराध्य४. कर्तव्य इत्युक्तम् । तदिद. पा, क्षयि. पा. ७. अष्टाध्या. ३-४-६. 15 For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ वेदान्तदीपे [अ. १. अभूमिभूमिर्यो नतजनदृशामादिपुरुषो मनस्तत्पादाब्जे परिचरण सक्तं भवतु मे ॥ प्रणम्य शिरसाऽऽचार्यास्तदादिष्टेन वर्त्मना। ब्रह्मसूत्रपदान्तस्स्थवेदान्तार्थः प्रकाश्यते ॥ अत्रेयमेव हि वेदविदा प्रक्रिया-अचिद्वस्तुनः स्वरूपतः स्वभावतश्चात्यन्तविलक्षणः तदात्मभूतः चेतनः प्रत्यगात्मा। तस्माद्बद्धान्मुक्तान्नित्याञ्च निखिलहेयप्रत्यनीकतया, कल्याणगुणैकतानतया च, सर्वावस्थचिदचियापकतया, धारकतया, नियन्तृतया, शेषितया च अत्यन्तविलक्षणः परमात्मा । यथोक्तं भगवता-१" द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति। श्रुतिश्व-२"प्रधानक्षेत्रक्षपतिगुणेशः" ३"पतिं विश्वस्याऽत्मेश्वरम्"४'अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः” इत्यादिका । कूटस्थः - मुक्तस्वरूपम् , ५“ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्" इत्यादिव्यपदेशात् । सूत्रकारश्चैवमेव वदति-६"नेतरोऽनुपपत्तेः""भेदव्यपदेशात्"८"अनुपपत्तेस्तु न शारीरः" ९"कर्मकर्तृव्यपदेशाच"१०"शब्दविशेषात्” ११“सम्भोगप्राप्तिरितिचेन्न वैशेष्यात्"१२ "न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च"१३ "उभयेऽपि हि भेदेनैनमधीयते"१४“विशेषणभेदव्यपदेशाभ्यां च नेतरौ"१५"मुक्तोपसृप्यव्यपदेशाच"१६"स्थित्यदनाभ्यां च"१७"इतरपरामर्शात्स इतिचेन्नासम्भवात्" * युक्तम् . पा. १. गी. १५. अ. १६. १७, १८-श्लो. २.श्वे.६-१६, ३.तै-नारायणीये.१६- अनु. ४. तै नारायणाये. ११.अनु. ५. गी. १२. अ. ३-श्लो. ६. शारी. १-१-१७. ७. शारी १-३-४. ८. शारी.१-२-३. ९. शारी. १-२. ४. १०. शारी. १-२. ५. ११. शारी, १-२ ८. १२, शारी १-२. २०. १३. शारी, १-२-२१. १४. शारी. १-२.२३. १५. शारी. १-३-२. १६. शारी. १-३-६. १७, शारी. १.३.१७. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * १. शारी. १-३-१८. २. शारी. १-३-४३. ३. शारी. १-३-४४. ४. शारी. २-१-२२. ५. शारी, ३-४-८. पा-१.] जिज्ञासाधिकरणम् "" १" उत्तराश्चेदाविर्भूतस्वरूपस्तु " २" सुषुप्त्युत्कान्त्योर्भेदेन" ३" पत्यादिशब्दे भ्यः " ४" अधिकं तु भेदनिर्देशात् " ५" अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ६" जगद्वयापारवर्ज प्रकरणादसन्निहितत्वाश्च " ७" भोगमात्रसाम्यलिङ्गाच्च ” इत्यादिभिः । नचाविद्याकृतमुपाधिकृतं वा भेदमाश्रित्यैते निर्देशाः, " इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च " ९" तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " १०" मुकेोपसृत्यव्यपदेशाच्च " " उत्तराच्चेदाविर्भूतस्वरूपस्तु” ११" सम्पद्याविर्भावस्स्वेनशब्दात् " +" जगद्व्यापारवर्ज प्रकरणादसनिहितत्वाच " +" भोगमात्रसाम्यलिङ्गाच्च " इति सर्वाविद्योपाधिविनिर्मुकमधिकृत्यैव भेदोपपादनात् । श्रुतिस्मृतिसूत्रेषु सर्वत्र भेदे निर्दिष्टे चिदचिदीश्वरस्वरूपभेदः स्वाभाविको विवक्षितइति निश्चीयते । १२" सर्वे खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत " १३" वाचाऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् " १४" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत” १५" सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः” १६" ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" १७" क्षेत्रक्षं चापि मां विद्धि” १८" तदनन्यत्वमारम्भणशब्दादिभ्यः" इति परस्य ब्रह्मणः कारणत्वम् कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य कार्यत्वम्, कारणात्कार्यस्यानन्यत्वं चोच्यमानमेवमेवोपपद्यते। सर्वावस्थस्य चिचिद्वस्तुनः परमात्मशरीरत्वम्, परमात्मनश्चाऽत्मत्वम्, १९" यः पृथिव्यां तिष्टन्... यस्य पृथिवी १६. शारी. ४-४-१७. +७. शारी. ४-४-२१. ८. गी. १४-२. www.kobatirth.org ९. मु. ३-१-३. १०. शारी. १-३-२. Acharya Shri Kailassagarsuri Gyanmandir ११. शारी. ४-४-१, १२. हा. ३-१४- १. १३. छा. ६-१-४. १४. छा. ६-२-१, ३. १५. छा. ६-८-६. १६. हा. ६-८-७. १७. गी. १३-२. १८. शारी. २-१-१५. १९. बृ. ५-७ ३. For Private And Personal Use Only ११५ Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धेदान्तदीपे [अ.१. शरीरम्"१“य आत्मनि तिष्ठन्...यस्याऽत्मा शरीरं...य आत्मानमन्तरो यमयति"२" यस्याव्यक्तं शरीरं-यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् ,एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" ३"अन्तः प्रविष्टश्शास्ताजनानां सर्वात्मा" इत्यादिश्रुत्यैवोपदिष्टमिति सूक्ष्मचिदचिद्वस्तुशरीरः परमास्मा कारणम् , स एव परमात्मा स्थूलचिदचिद्वस्तुशरीरः कार्यमिति कारणावस्थायां कार्यावस्थायां च चिदचिद्वस्तुशरीरकतया तत्प्रकारः परमात्मैव सर्वशब्दवाच्य इति परमात्मशब्देन सर्वशब्दसामानाधिकरण्यं मुख्यमेवोपपन्नतरम् । ४"अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" ५" तत्सृष्टा । तदेवानुप्राविशत् । तदनुप्रविश्यासच त्यञ्चाभवत् "६इत्यादिश्रुतिरेवेममर्थमुपपादयति । सर्वमात्मतयाऽनुप्रविश्य तच्छरीरत्वेन सर्वप्रकारतया स एव सर्वशब्दवाच्यो भवतीत्यर्थः। ७ "बहु स्याम्" इति बहुभवनसङ्कल्पोऽपि नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुशरीरकतयैकधाऽवस्थितस्य विभक्तनामरूप चिदचिच्छरीरकतया बहुप्रकारताविषय इति (वेदवित्प्रक्रिया)॥ ये पुनः-निर्विशेषकूटस्थस्वप्रकाशनित्यचैतन्यमानं ब्रह्म ज्ञातव्यतयोक्तम्इति वदन्तिातेषां ९ "जन्माद्यस्य यतः" १० "शास्त्रयोनित्वात्" ११“तत्तु समन्वयात्” १२ "ईक्षते शब्दम्" इत्यादेः, १३ "जगद्यापारवर्ज प्रकरणादसन्निहितत्वाञ्च"१४"भोगमात्रसाम्यलिङ्गाच्च"१५"अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इत्यन्तस्य सूत्रगणस्य च ब्रह्मणो जगत्कारणत्वबहुभवनसङ्कल्परूपेक्षणाद्यनन्तविशेषप्रतिपादनपरत्वात्सर्व सूत्रजातम् ,सूत्रकारोदाहृताः-१६"यतो वा इमानि भूतानि जायन्ते" १७"तदैक्षत बहु स्यां प्रजायेयेति" इत्याद्यास्सर्वश्रुतयश्च न सङ्गच्छन्ते।अथोच्येत-१८"येनाश्रुतं श्रुतम्"इत्येकविज्ञानेन सर्वविज्ञानं प्रति१. बृ. ५-७-२२. १०. शारीर, १-१-३. २. सुबाल.७-ख.तुरीयातीतावधूतोप.१.च. ११. शारीर. १-१-४. ३. यजुरारण्यके. ३. प्रश्ने-११-अनु. १२. शारीर, १-१-५. ४. छा, ६-३-२. १३ शारीर. ४-४-१७. ५. ते, आ. ६-२. १४. शारि, ४-४-२१. ६. इति श्रुतिरेवमर्थमुप. पा. १५. शारीर. ४-४-२२. ७. तै. आ. ६-२. छा. ६-२-३. १६. ते. भृ. १. १. ८. चिदचिद्वस्तुशरी. पा. १७. छा. ६-२-३. ९. शारीर. १-१-२. १८. छा. ६-१-३. For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. छा. ६-१-४. २. छा. ६-२-१. ३. वाच्यतयैकताप. पा. ४. छा. ६-२-३ ५. छा. ६.८-७. ६. वैदिकैरभ्यु. पा. पा. १.] जिज्ञासाधिकरणम्. ११७ शाय १" यथा सोम्यैकेन मृत्पिण्डेन" इत्येकमृत्पिण्डारब्धघटशरावादीनां तन्मृत्पिण्डादनन्यद्रव्यतया तज्ज्ञानेन तेषां ज्ञाततेव, ब्रह्मज्ञानेन तदारब्धस्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तस्मादनतिरिक्तवस्तुतया ज्ञातता सम्भवतीत्युपपाद्य, २" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्"इतीदंशब्दवाच्यस्य चिदचिदात्मकप्रपञ्चस्य सृष्टेः प्रानि खिलभेदप्रहाणेन सच्छब्द ३वाच्येनैकतापत्ति घटशरावाद्युत्पत्तेः प्रागुत्पादकमृत्पिण्डैकतापत्तिवदभिधाय, ४' तदैक्षत बहु स्याम्' इति तदेव सच्छब्दवाच्यं ब्रह्म चिदचिदात्मकप्रपञ्चरूपेणाऽत्मनो बहुभवनमेकमृत्पिण्डस्य घटशरावादिरूपेण बहुभव नवत्सङ्कल्प्यात्मानमेव तेजः प्रभृतिजगदाकारेणासृजतेति चाभिधाय ५ "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि' इत्यभिधानाद्ब्रह्मकमेवाविद्याकृतेन, पारमार्थिकेन वा उपाधिना सम्बद्धं देवादिरूपेण बहुभूतमिति ६वेदविद्भिरभ्युपगन्तव्यम् इति । तदयुक्तम्, ७"ज्ञाशौ द्वावजावीशनीशौ" ८" नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद्धाति कामान्" इत्यादिश्रुतिभिः जीवानामजत्वनित्यत्ववहुत्ववचनात् । यदि घटशरावादेरुत्पत्तेः प्रागेकीभूतस्य मृद्दव्यस्योत्पत्त्युत्तरकालभाविबहुत्ववत् सृष्टेः प्रागेकीभूतस्यैव ब्रह्मणस्सृष्टयुत्तरकालीनं नानाविधजीवरूपेण बहुत्वमुच्येत; तदा जीवानामजत्वनित्यत्वबहुत्वादि विरुध्येत । सूत्रविरोधश्च ९ " इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः” इति ब्रह्मैव देवमनुष्यादिजीवरूपेण बहुभूतश्चेदात्मनो हिताकरणादिदोषप्रसक्तिरित्युक्त्वा १० " अधिकन्तु भेदनिर्देशात् " इति जी - वाद्ब्रह्मणोऽर्थान्तरत्वमुक्तम् । तथा च ११" वैषम्यनैर्घृण्ये न सापेक्षत्वात् " इति देवादिविषम सृष्टिप्रयुक्तपक्षपातंनर्घृण्ये जीवानां पूर्वपूर्वकर्मापेक्षत्वाद्विषम सृष्टेरिति परिहृते । तथा — १२ "न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च " इति 'सदेव सोम्योदमग्र आसीदेकमेवाद्वितीयम्” इति सृष्टेः प्रागविभागवचनात् सृष्टेः प्राग्जीवानामभावात्तत्कर्म न सम्भवतीति परिचोद्य जीवानां तत्कर्मप्रवाहाणां चानादित्वादिति परिहृतम् । १३" नात्मा "" ७. श्वे. १ ९. Acharya Shri Kailassagarsuri Gyanmandir ८. वे. ६-१३; कट, २, ५, १३. ९. शारी. २.१-२१. १०. शारी. २-१-२२. ११. शारी २-१-३४. १२. शारी, २-१-३५. १३. शारी. २-३-१८. For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ वेदान्तदीपे [अ. १. श्रुतेर्नित्यत्वाच ताभ्यः" इत्यात्मन उत्पत्त्यभावश्चोक्तो नित्यत्वं च ; स्वाभ्युपगमविरोधश्चाआ मोक्षाजीवभेदस्यानादित्वं सर्वैरेव हि वेदान्तिभिरभ्युपगम्यते। अतश्श्रुतिविरोधात्सूत्रविरोधात्स्वाभ्युपगमविरोधाच्च सृष्टेः प्रागेकत्वावधारणं नामरूपविभागाभावाभिप्रायम् । नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुशक्तिभेदसहं चेति सर्वैरभ्युपगम्यते । इयांस्तु विशेषः-अविद्यापरिकल्पनेऽप्युपाधिपरिकल्पनेऽपि ब्रह्मव्यतिरिक्तस्याविद्यासम्बन्धिनश्चोपाधिसम्बन्धिनश्चेतनस्याभावादविद्योपाधिसम्बन्धौ,तत्कृताश्च दोषा ब्रह्मण एव भवेयुः इति ॥ सन्मात्रब्रह्मवादेऽपि प्राक्सृष्टेस्सन्मानं ब्रह्मैकमेव सृष्ट्युत्तरकालं भोक्तृ. भोग्यनियन्तृरूपेण त्रिधा भूतश्चेत् , घटशरावमणिकवजीवेश्वरयोरुत्पत्तिमत्त्वमनित्यत्वञ्च स्यात् । अथैकत्वापत्तिवेलायामपि भोक्तृभोग्यनियन्तृशक्तित्रयमवस्थितमितिचेत्, किमिदं शक्तित्रयशब्दवाच्यमिति विवेचनीयम् । यदि सन्माअस्यैकस्यैव भोक्तृभोग्यनियन्तृरूपेण परिणामसामर्थ्य शक्तित्रयशब्दवाच्यम्; एवं तर्हि मृत्पिण्डस्य घटशरावादिपरिणामसमर्थस्य तदुत्पादकत्वमिव ब्रह्मण ईश्वरादीनामुत्पादकत्वमिति तेषामनित्यत्वमेवाअथेश्वरादीनां सूक्ष्मरूपेणावस्थितिरेव शक्तिरित्युच्येत तर्हि तदतिरिक्तस्य सन्मात्रस्य ब्रह्मणः, प्रमाणा भावात्तदभ्युपगमे च तदुत्पाद्यतयेश्वरादीनामनित्यत्वप्रसङ्गाच्च त्रयाणां नामरूपविभागानहसूक्ष्मदशापत्तिरेव प्राक्सृष्टेरेकत्वावधारणावसेयेति वक्तव्यम् । १न तदा तेषां ब्रह्मात्मकत्वादेकत्वावधारणं विरुद्ध्येत। अतस्सर्वावस्थावस्थितस्य चिदचिद्वस्तुनः ब्रह्मशरित्वश्रुतेस्सर्वदा सर्वशब्दैर्ब्रह्मैव तत्तच्छरीरकतया तत्तद्विशिष्टमेवाभिरधीयत इति स्थूलचिदचिद्वस्तुविशिष्टं ब्रह्मैव कार्यभूतं जगत्, नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुविशिष्टं ब्रह्म कारणमिति तदेव मृत्पिण्डस्थानीयं ३"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्"इत्युच्यते । तदेव विभक्तनामरूपचिदचिद्वस्तुविशिष्टं ब्रह्म कार्यमिति सर्व समञ्जसम् । श्रुतिन्यायविरोधस्तु तेषां भाष्ये प्रपश्चितइति नेह प्रतन्यते ॥ भाष्योदितोऽधिकरणार्थस्ससूत्रविवरणस्सुखग्रहणाय सङ्क्षपणोपन्यस्य ते।तत्र प्रथमे पादे प्रधानपुरुषावेव जगत्कारणतया वेदान्ताः प्रतिपादयन्तीत्याशङ्कय सर्वज्ञं सत्यसङ्कल्पं निरवद्यं समस्तकल्याणगुणाकरं ब्रह्मैव जगत्कारणतया प्रतिपादयन्तीत्युक्तम् । द्वितीयतृतीय४चतुर्थपादेषु कानिचिद्वेदान्तवा१. तदा तेषां बहुत्वादेकत्वाव. पा. ३. छा. ६-२-१. २. धेयमिति. पा. । ४. चतुर्थेषु पादेषु. पा. For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. प्रसक्तदोषः . पा. २. मुखेनास्यैवा. पा. पा. १.] जिज्ञासाधिकरणम्. ११९ क्यानि प्रधानादिप्रतिपादनपराणीति तन्मुखेन सर्वाक्षेपमाशङ्कय तान्यपि ब्रह्मपराणीत्युक्तम् । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये निरूपितानि, स्पष्टलिङ्गकानि तृतीये । चतुर्थे तु प्रधानादिप्रतिपादनच्छायानुसारीणीति विशेषः । अतः प्रथमेऽध्याये सर्व वेदान्तवाक्यजातं सार्वशथसत्यसङ्कल्पत्वादियुक्तं ब्रह्मैव जगत्कारणतया प्रतिपादयतीति स्थापितम् । द्वितीयेऽध्याये तस्यार्थस्य दुर्धपणत्वप्रतिपादनेन द्रढिमोच्यते । तत्र प्रथमे पादे साङ्ख्यादिस्मृतिविरोधाध्यायविरोधाच्च प्रसक्तो दोषः परिहृतः । द्वितीये तु साङ्ख्यादिवेदबाह्यपक्षप्रतिक्षेप२ मुखेन तस्यैवादरणीयता स्थिरीकृता । तृतीयचतुर्थयोर्वेदान्तवाक्यानामन्योन्यविप्रतिषेधादिदोषगन्धाभावख्यापनाय वियदादीनां ब्रह्मकार्यताप्रकारो विशोध्यते । तत्र तृतीये पादे च चिदचित्प्रपञ्चस्य ब्रह्मकार्यत्वे सत्यप्यचिदंशस्य स्वरूपान्यथाभावेन कार्यत्वम् ; चिदंशस्य स्वभावान्यथाभावेन ज्ञानसङ्कोचविकासरूपेण कार्यतोदिता । चतुर्थे तु जीवोपकरणानामिन्द्रियादीनामुत्पत्तिप्रकार इति प्रथमेनाध्यायद्वयेन मुमुक्षुभिरुपास्यं निरस्तनिखिलदोषगन्धम् अनवधिकातिशयास कल्याणगुणगणं निखिलजगदेककारणं ब्रह्मेति प्रतिपादितम् । उत्तरेण द्वयेन ब्रह्मोपासनप्रकारस्तत्फलभूतमोक्षस्वरूपञ्च चिन्त्यते । तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिसिषोत्पत्तये जीवस्य संसरतो दोषाः कीर्तिताः। द्वितीये च उपासिसिषोत्पत्तय एव ब्रह्मणो निरस्तनिखिलदोषताकल्याणगुणाकरतारूपोभयलिङ्गता प्रतिपाद्यते । तृतीये तु ब्रह्मोपासनैकत्व ४नानात्वविचारपूर्वकमुपासनेषूपसंहार्यानुपसंहार्यगुणविशेषाः प्रपश्चिताः । चतुर्थे तूपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वमुक्तम् । चतुर्थेऽध्याये ब्रह्मोपासनफलचिन्ता क्रियते । तत्र प्रथमे पादे ब्रह्मोपासनफलं वक्तुम् उपासनस्वरूपपूर्वकोपासनानुष्ठानप्रकारो विद्यामाहात्म्यञ्चोच्यते । द्वितीये तु ब्रह्मोपासीनानां ब्रह्मप्राप्तिगत्युपक्रमप्रकारश्चिन्तितः । तृतीये तु अर्चिरादिगतिस्वरूपम्, अर्चिरादिनैव ब्रह्मप्राप्तिरिति च प्रतिपाद्यते । चतुर्थे तु मुक्तस्य ब्रह्मानुभवप्रकारश्चिन्त्यते। अतो मुमुक्षुभिः शातव्यं निरस्तनिखिलदोषगन्धम् अनवधिकातिशयासङ्घधेयकल्याणगुणगणाकरं निखिलजगदेककारणं परं ब्रह्म, तज्ज्ञानञ्च मोक्षसाधनमसकृदावृत्तस्मृतिसन्तानरूपमुपासनात्मकम् । उपासनफलं च अर्चिरादिना परं ब्रह्मोपसम्पद्य स्वस्वरूप Acharya Shri Kailassagarsuri Gyanmandir ३. ४. नानात्वपूर्वक. पा. For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० वेदान्तदीपे [अ.१. भूतज्ञानादिगुणाविर्भावपूर्वकानन्तमहाविभूत्यनवधिकातिशयानन्दब्रह्मानुभवोऽपुनरावृत्तिरूप इति शारीरकशास्त्रेणोक्तं भवति ॥ अथातो ब्रह्मजिज्ञासा ॥१॥ ब्रह्ममीमांसा विषयः, सा किमारम्भणीया? उतानारम्भणीया? इति संशयः । तदर्थ परीक्ष्यते-वेदान्ताः किं ब्रह्मणि प्रमाणम् ? उत न? इति । तदर्थ परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्यावधारणं सम्भवति नेति। न सम्भवतीति पूर्वः पक्षः । सम्भवतीति राद्धान्तः।यदा न सम्भवति, तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्याभावात्सिद्धरूपे ब्रह्मणि न वेदान्ताः प्रमाणमिति तद्विचाराकारा ब्रह्ममीमांसा नारम्भणीया । यदा सम्भवति, तदा सिद्धेऽप्यर्थे शब्दस्य बोधनसामर्थ्यसम्भवाद्वेदान्ताः ब्रह्मणि प्रमाणमिति सा चारम्भणीया स्यात् । अत्र पूर्वपक्षवादी मन्यते--वृद्धव्यवहारादन्यत्र व्युत्पत्त्यसम्भवात् , व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्य एवार्थे शब्दशक्त्यवधारणात् , परिनिष्पन्नेऽर्थे ब्रह्मणि न वेदान्ताःप्रमाणमिति तद्विचाररूपा ब्रह्ममीमांसा नारम्भणीयेति । २सिद्धान्तस्तु-बालानां मातापितृप्रभृतिभिरम्बातातमातुलशशिपशुपक्षिमृगादिषु अङ्गुल्या निर्दिश्य तत्तदभिधायिनश्शब्दान्प्रयुआनः क्रमेण बहुशशिक्षितानां तत्तच्छब्दश्रवणसमनन्तरं स्वात्मनामेव तदर्थबुद्धयुत्पत्तिदर्शनात् , शब्दार्थयोस्सम्बन्धान्तरादर्शनात् , सङ्केतयितृपुरुषाज्ञानाच, बोध्यबोधकभाव एव शब्दार्थयोस्सम्बन्ध इति निश्चिन्वानानां परिनिष्पन्नेऽर्थे शब्दस्य बोधकत्वावधारणं सम्भवतीति ब्रह्मणि३वेदान्तवाक्यानां प्रामाण्यात्तदर्थविचाराकारा ब्रह्ममीमांसा आरम्भणीया-इति॥ सूत्रार्थस्तु–'अथ' इत्यानन्तर्ये । 'अतः' इतिच वृत्तस्य हेतुभावे । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा, ज्ञातुमिच्छा जिज्ञासा। इच्छायाः इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिहाभिप्रेतम् । पूर्ववृत्तादल्पास्थिरफलकेवलकर्माधिगमादनन्तरं तत एव हेतोरनन्तस्थिरफलब्रह्माधिगमः कर्तव्यइति ॥ इति श्रीवेदान्तदीपे जिज्ञासाधिकरणम् ।। १ ।। १. जननसा. पा. २. राधान्त, पा, | ३. वेदान्ताना. पा. For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - श्रीशारीरकमीमांसाभाष्ये-जन्माद्यधिकरणम् ॥२॥)...'किं पुनस्तब्रह्म, यज्जिज्ञास्यमुच्यते' इत्यत्राह जन्माद्यस्य यतः।११।२॥ जन्मादीति-सृष्टिस्थितिपलयम्। तद्गुण' संविज्ञानो बहुव्रीहिः।अस्यअचिन्त्यविविधविचित्ररचनस्य नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतः । यतः-यस्मात्सर्वेश्वरान्निखिलहेयमत्यनीकखरूपात्सत्यसंकल्पात् ज्ञानानन्दायनन्तकल्याणगुणात् सर्वज्ञात् सर्वशक्तेः परमकारुणिकात् परस्मात्पुंसः सृष्टिस्थितिपलयाः प्रवर्तन्ते ; तत् ब्रह्मेति सूत्रार्थः॥ ...(पूर्वःपक्षः)-..२ "भृगुवै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म" इत्यारभ्य ३“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म"इति श्रूयते । तत्र संशयः-किमस्माद्वाक्यात् ब्रह्म लक्षणतः प्रतिपत्तुं शक्यते, न वा-इति। किं प्राप्तम् ? न शक्यमिति । न तावजन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति , अनेकविशेषणव्यात्तत्वेन ब्रह्मणोऽनेकत्वप्रसक्तेः । विशेषणत्वं हि व्यावर्तकत्वम् ॥ ननु 'देवदत्तश्श्यामो युवा लोहिताक्षस्समपरिमाणः' इत्यत्र विशेषणबहुत्वेऽप्येक एव देवदत्तः प्रतीयते। एवमत्राप्येकमेव ब्रह्म भवति। नैवम्-तत्र प्रमाणान्तरेणैक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहारः। अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वमपरिहार्यम् । अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मणः प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्तकभेदेन ब्रह्मबहुत्वमवर्जन यम् ॥ १. संविज्ञानबहुव्रीहिः. पा. २. ३.ते. भृ. १. अनु. 16 For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२२ [अ. १. शारीरकमीमांसाभाष्ये ब्रह्मशब्देक्यादवाप्यैक्यं प्रतीयत इति चेत् न, अज्ञातगोव्यक्तेः जिज्ञासोः पुरुषस्य 'खण्डो मुण्डः पूर्णशृङ्गो गौः' इत्युक्ते गोपदैक्येऽपि खण्डत्वादिव्यावर्तकभेदेन गोव्यक्ति बहुत्वप्रतीतेः ब्रह्मव्यक्तयोऽपि बह्वयस्स्युः। अत एव लिलक्षयिषिते वस्तुनि एषां विशेषणानां संभूय लक्षणत्वमप्यनुपपन्नम् ॥ नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्तेः । उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टं 'यत्रायं सारसः, स देवदत्तकेदार:' इत्यादिषु ॥ ननुच 'सत्यं ज्ञानमनन्तं ब्रह्म' इति प्रतिपन्नाकारस्य जगज्जन्मादीन्युपलक्षणानि भवन्ति । न, इतरेतरप्रतिपन्नाकारापेक्षत्वेन उभयोर्लक्षणवाक्ययोरन्योन्याश्रयणात् । अतो न लक्षणतो ब्रह्म प्रतिपत्तुं शक्यत इति ।। ( सिद्धान्तः ) - Acharya Shri Kailassagarsuri Gyanmandir एवं प्राप्तेऽभिधीयते जगत्सृष्टिस्थितिप्रलयैरुपलक्षणभूतैर्ब्रह्म प्रतिपत्तुं शक्यते। न च उपलक्षणोपलक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेब्रह्मप्रतिपत्तिः । उपलक्ष्यं ह्यनवधिकातिशयबृहत्, बृंहणं च ; बृहतेर्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगज्जन्मस्थितिलयाः । 'यतो, येन, यत्' इति प्रसिद्धवनिर्देशेन यथाप्रसिद्धि जन्मादिकारणमनूद्यते । प्रसिद्धिश्व *""सदेवसोम्येदमग्र आसी देकमेवाद्वितीय” “तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्येकस्यैव सच्छब्दवाच्यस्य निमित्तोपादानरूपकारणत्वेन तदपि 'सदेवेदमये एकमेवासीत्' इत्युपादानतां प्रतिपाद्य 'अद्वितीयम्' इत्य धिष्ठात्रन्तरं प्रतिषिध्य ३ " तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्येकस्यैव प्रतिपादनात् । तस्मात् यन्मूला जगज्जन्मस्थितिलयाः तद्ब्रह्मेति जन्मस्थितिलयाः स्वनिमित्तोपादानभूतं वस्तु ब्रह्मेति लक्षयन्ति । जगन्निमित्तोपादानताक्षिप्तसर्वज्ञत्वस त्यसङ्कल्पत्वविचित्रशक्तित्वाद्याकारबृहत्त्वेन १. तै. आनन्द. १.१. २. प्रसिद्धवज्जन्मादिकारण निर्देशेन.पा. * ३. छा. उप. ६.२.१.३ For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जन्माद्यधिकरणम्. १२३ प्रतिपन्नं ब्रह्मेति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्तिरूपानुपपत्तिः ॥ Acharya Shri Kailassagarsuri Gyanmandir जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चिद्दोषः । लक्षणभूतान्यपि विशेषणानि स्वविरोधिव्यावृत्तं वस्तु लक्षयन्ति । अज्ञातस्वरूपे वस्तुन्येकस्मिन् लिलक्षयिषितेऽपि परस्पराविरोध्यनेकविशेषणलक्षणत्वं न भेदमापादयति । अत्र तु कालभेदेन जन्मादीनां न विरोधः ॥ १. तै-भृ. १. १. २. तै- आनन्द, १. १. १ * यतो वा इमानि भूतानि जायन्ते" इत्यादिकारणवाक्येन प्रतिपन्नस्य जगज्जन्मादिकारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते - २" सत्यं ज्ञानमनन्तं ब्रह्म" इति। तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माह | तेन विकारास्पदमचेतनं तत्संसृष्टश्वेतनश्च व्यावृत्तः । नामान्तरभजनाहवस्थान्तरयोगेन तयोर्निरुपाधिकसत्ता योगरहितत्वात् । ज्ञानपदं-नित्यासङ्कुचितज्ञानैकाकारमाह । तेन कदाचित् सङ्कचितज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं - देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणाः नित्याः व्यावृत्ताः । विशेषणानां व्यावर्तकत्वात् । ततः २" सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं ब्रह्म सकलेतरवस्तुविसजातीयमिति लक्ष्यत इति नान्योन्याश्रयणम् । अतस्सकलजगज्जन्मादिकारणं निरवद्यं सर्वज्ञं सत्यसङ्कल्पं सर्वशक्ति ब्रह्म लक्षणतः प्रतिपत्तुं शक्यत इति सिद्धम् ।। ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति । तन्मते " ब्रह्मजिज्ञासा" "जन्माद्यस्य यतः" इत्यसङ्गतं स्यात्; निरतिशयबृहत् बृंहणं च ब्र* 'यतो वा इमानि" इत्यादि. पा. ३. सर्वशक्ति सत्य संकल्पं, पा, For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ शारीरकमीमांसाभाष्ये [अ. १. ह्मेति निर्वचनात् । तच्च ब्रह्म जगजन्मादिकारणमितिवचनाच्च । एवमुत्तरेष्वपि मूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु च ईक्षणायन्वयदर्शनात् सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च-साध्यधर्माव्यभिचारिसाधनधान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम्। जगज्जन्मादि१भ्रमो यतस्तद्ब्रह्मेति खोत्प्रेक्षा पक्षेऽपि न निर्विशेषवस्तुसिद्धिः,भ्रममूलमज्ञानम् , अज्ञानसाक्षि ब्रह्मेत्यभ्युपगमात् । साक्षित्वं हि-प्रकाशैकरसतयैवोच्यते । प्रकाशत्वं तु जडाव्यावर्तकं, स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन भवति । तथा सति सविशेषत्वम् । तदभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् । इति श्रीशारीरकमीमांसाभाष्ये जन्मायधिकरणम् ॥ २॥ ---( वेदान्तसारे जन्माद्यधिकरणम् ॥ २॥).-.. जन्माद्यस्य यतः।१।१॥२॥ ३अस्य-विचित्रचिदचिन्मिश्रस्य व्यवस्थितसुखदुःखोपभोगस्य जगतः, जन्मस्थितिलयाः यतः,तत् ब्रह्मेति प्रतिपादयति श्रुतिरित्यर्थः,४“यतो वा इमानि भूतानि जायन्ते...तद्ब्रह्म" इति। सूत्रे 'यत' इति हेतौ पञ्चमी, जनिस्थितिलयानां साधारणत्वात् । जनिहेतुत्वञ्च निमित्तोपादानरूपं विवक्षितम्, 'यतः' इति हि ५श्रुतिः । इहोभयविषया कथमिति चेत् , *"यतो वा इमानि" इति ६प्रसिद्धवनिर्देशात्,प्रसिद्धेश्च उभयविषयत्वात्। ७"सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्... तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यत्र, 'स. देव इदम् अग्रे एकमेव आसीत्' इति उपादानतां प्रतिपाद्य, 'अद्वितीयम्' इति अधिष्ठात्रन्तरनिवारणात् सच्छब्दवाच्यं ब्रह्मैव निमित्तमुपादानश्चेति वि. १. भ्रमा यत:. पा. २. पक्षे. च. ५. श्रुतिरुभयविषया. पा. ३. अस्य चिदचिन्मिश्रस्य. पा. ६. प्रसिद्धनिदशेत् . पा. ४. * ते. भृ, अनु .१. ७. छा. ६.२.१. For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा १. जन्माद्यधिकरणम्. १२५ शायते। तथा *"तदैक्षत बहु स्यां प्रजायेय" इत्यात्मन एव विचित्रस्थिरत्रसरूपेण बहुभवनं सङ्कल्प्य तथैव सृष्टिवचनाच्च । अतश्श्रुतावपि 'यतः' इति हेतौ पञ्चमी । अत्रैव ब्रह्मणो जगन्निमित्तत्वमुपादानत्वञ्च प्रतिपादितम् । अर्थविरोधात् १"अस्मान्मायी सृजते विश्वमेतत्" इत्यादि विशेषश्रुत्या चाक्षिप्य, २ "प्रकृतिश्च प्र. तिक्षादृष्टान्तानुपरोधात्" ३"अभिध्योपदेशाच" ४“ साक्षाच्चोभयानानात्" ५ "आत्मकृतेः” इत्यादिभिः सूत्रैः परिहरिष्यते। ननु च सर्वशं सर्वशक्ति सत्यसङ्कल्पं निरवद्यतया निरस्तसमस्तापुरुषार्थगन्धं ब्रह्मैवाऽत्मानं विचित्रचिदचिन्मिनं जगद्र्पमिदं सर्वमसृजतेति कथमुपपद्यते ? । तदेतत् सूत्रकारस्स्वयमेव परिचोद्य परिहरिष्यति। ६"अपीतौ तद्वत् प्रसङ्गादसमञ्जसम्" ७"इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः” इति चोद्यम्; परिहारस्तु"न तु दृष्टान्तभावात्" ९"अधिकन्तु भेदनिर्देशात्" इति च । १०"क्षरन्त्वविद्या ह्यमृतन्तु विद्या, विद्या विद्ये ईशते यस्तु सोऽन्यः” ११"स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः"१२"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" अचिद्वर्ग स्वात्मनो भोग्यत्वेन हरतीति भोक्ता हर इत्युच्यते । १३"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः॥ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इत्यादिश्रुतिस्मृति१४गणः प्रत्यगात्मनो ब्रह्मणो भेदेन निर्देशात् परमपुरुषार्थभागिनः प्रत्यगात्मनोऽधिकमर्थान्तरभूतं ब्रह्म । तञ्च प्रत्यगात्मशरीरतया तदात्मभूतम् । १५ प्रत्यगात्मनस्तच्छरीरत्वं ब्रह्मणस्तदात्मत्वश्च १६ “य आत्मनि तिष्ठन्... यस्यात्मा शरीरम्" १७“एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण" इत्यादिश्रुतिशतसमधिगतम् । सशरीरस्यात्मनः कार्यावस्थाप्राप्तावपि गुणदोष. * छा.उप.६.२.३. १. श्वे. ४.९.! ११. श्वे. ६. ९. १२. श्वे. १.१०. २.३.४.५.शारी.१-४.२३,२४,२५,२६. १३. गी. १५. १६, १७. १८, ६. शारी. २-१-८. १४. गणेन प्रत्यगात्मनो भेदनिर्देशात्, पुरुषा ७. शारी. २-१. २१. र्थभागिन: पा. ८. शारी. २. १. ९, १५, प्रत्यगत्मनस्तु शरीरत्वं. पा. ९. शारी. २. १. २२. १६, माध्यन्दिनपाठे. १०. श्वे. ५, १. । १७. सुबालोप. ७-ख. For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. १२६ वेदान्तसारे व्यवस्थितेर्टष्टान्तभावात् ब्रह्मणि न दोषप्रसक्तिः इति नासामञ्जस्यं वेदान्तवाक्यस्येति १“न तु दृष्टान्तभावात्"इत्युक्तम् । दृष्टान्तश्च-देवमनुष्यादिशब्दवाच्यस्य सशरीरस्थाऽत्मनः 'मनुष्यो बालो युवा स्थविरः' इति नानावस्थाप्राप्तावपि बालत्वयुवत्वस्थविरत्वादयः शरीरगता दोषाः नात्मानं स्पृशन्ति, आत्मगताश्च ज्ञानसुखादयः न शरीरमिति । अतः कार्यावस्थं कारणावस्थं च ब्रह्म प्रत्यगात्म. शरीरतया तदात्मभूतमिति प्रत्यगात्मवाचिना शब्देन ब्रह्माभिधाने तच्छब्दसामानाधिकरण्ये च हेतुं वक्तुम्, निरसनीयम्मतद्वयम् २ "प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः,"३"उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः"इत्युपन्यस्य४"अवस्थिते. रिति काशकृत्स्नः" इति हेतुरुक्तः। ५"तत्सृष्ट्वा। तदेवानुप्राविशत्। तदनुप्रविश्य। सच त्यञ्चाभवत्" इत्यादिना प्रत्यगात्मन आत्मतयाऽवस्थानात् ब्रह्मणस्तच्छब्देनाभिधानम्, तत्सामानाधिकरण्येन व्यपदेशश्चेत्युक्तम् । तथा ६"वैषम्यनघण्ये न सापेक्षत्वात्" ७"न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति देवमनुष्यादिविषमसृष्टेर्जीवकर्मनिमित्तत्वम्, जीवानां तत्तत्कर्मप्रवाहाणाञ्चानादित्वं प्रतिपाद्य,तदनादित्वं च ८"नित्यो नित्यानां चेतनश्चेतनानाम्" ९"शाशो द्वौ"इत्यादिश्रुतिषूपलभ्यत इत्युक्तवा,तदनादित्वेऽपि प्रलयकाले चिद्चिद्वस्तुनो कृभोग्ययोर्नामरूपविभागाभावात् , १०"आत्मा वा इदमेकएवाग्र आसीत् नान्यत् किञ्चन मिषत्" इत्यादावेकत्वावधारणमुपपद्यतइति सूत्रकारेण स्वयमेवोक्तम् । तथा च११"नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इति प्रत्यगात्मनो नित्यत्वादनुत्पत्तिमुक्त्वा १२ "शोऽत एव" इति तस्य ज्ञातृत्वमेव स्वरूपमित्युक्तम्। १३ "उत्क्रान्तिगत्यागतीनाम्" इत्यादिनाऽणुत्वञ्चोक्तम् । १४"तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत्" १५"यावदात्मभावित्वाञ्च न दोषस्तदर्शनात्" इति ज्ञातु. रेवात्मनो ज्ञानशब्देन व्यपदेशो ज्ञानगुणसारत्वात् ज्ञानकनिरूपणीयस्वभावत्वाञ्चेत्युक्तम् । १६ "नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा" इति ज्ञानमात्रस्वरूपात्मवादे हेत्वन्तरायत्तशानवादे, सर्वगतात्मवादे च दोष उक्तः। १. शारी. २. १. ९. १०. ऐतरेये. १. १. १. २. ३. ४. शारी. १. ४. २०. २१. २२. ११. १२. शारी-२ ३. १८, १९. ५. ते. आ. ६. २, ३. १३. शारी. २. ३. २०. ६. ७. शारी २.१-३४., ३५. १४. १५, शारी. २. ३. २९, ३०. ८. श्वे. ६. १३. १६. शारी, २.३. ३२. ९. थे. १-९. For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जन्माघधिकरणम्. १२७ १'कर्ता शास्त्रार्थवत्त्वात् ' २ 'उपादानाद्विहारोपदेशाच' ३" व्यपदेशाच्च कियायां न चेनिर्देशविपर्ययः" ४"उपलब्धिवदनियमः" ५ "शक्तिविपर्ययात्" ६"समाध्यभावाच्च"७ "यथा च तक्षोभयथा" इत्यात्मन एव शुभाशुभेषु कर्मसु कर्तृत्वम्,प्रकृतेरकर्तृत्वम्,प्रकृतेश्च कर्तृत्वे तस्यास्साधारणत्वेन सर्वेषां फलानुभवप्रसङ्गादिच प्रतिपादितम्। “परात्तु तच्छृतेः" १० "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः” इत्यात्मन एव कर्तृत्वं परमपुरुषानुमतिसहकृतमित्युक्तम् । ११ "अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके" १२"मन्त्रवर्णात्" १३ "अपि स्मर्यते"१४"प्रकाशादिवत्तु नैवं परः'१५"स्मरन्ति च" इति १६"अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः” १७"क्षरन्त्वविद्या ह्यमृतन्तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः” १८"प्राज्ञेनाऽत्मना संपरिष्वक्तो न बाह्यकिञ्चन वेद नान्तरम्" १९" तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति"२०"ज्ञाशो द्वाव. जावीशनीशी" २१"पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" २२"यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम्।तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"२३“स कारणं करणाधिपाधिपो नचास्य कश्चिजनिता न चाधिपः”२४'यस्सर्वज्ञस्सर्ववित्'२५“पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलकिया च"२६"निष्कलं निष्क्रिय शान्तं निरवद्यं निर. अनम्"२७"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" [नित्यानां चेतनानां यः एकः नित्यश्चेत२८नस्स कामान्विदधातीत्यर्थः]२९"पति विश्वस्याऽत्मेश्वरम्" इत्यादिषु प्रत्यगात्मनः परमात्मनश्च कर्मवश्यत्वेन शोचि १. २. । ३, ४, ५, ६, ७, शारी. २-३. ३३, ३४, ३५, ३६, ३७, ३८,३९, ८. प्रसङ्गादिति प्रति. पा. ९.१०.११.१२.१३.१४,१५.शारी. २. ३. ४०, ४१, ४२, ४३, ४४, ४५, ४६.. १६. मुण्डक.३.१. २. १७. श्वे. उप. ५. १. १८. बृ. ६.३. २१. १९. मुण्डक. ३. १.१. २०. श्वे, १. ९. २१. खे. १. ६. २२. मुण्डक. ३. १. ३. २३. श्वे. ६. ९. २४. मुण्ड. १.१. ९. २५. श्वे. ६. ८. २६. श्वे. ६. १९. २७. श्वे. ६. १३. २८. न: कामान् . पा. २९. ते. नारयणे. ६. ११. ३. For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ वेदान्तसारे [अ.१. तृत्वेनासर्वज्ञत्वेन उपासनायत्तमुक्तित्वेन निरवद्यत्वेन सर्वशत्वेन सत्यसङ्कल्पत्वेन सर्वेश्वरत्वेन समस्तकल्याणगुणाकरत्वादिना च स्वरूपस्य स्वभावस्य नानात्वव्यपदेशात् तयोरेव"तत्त्वमसि' २ "अयमात्मा ब्रह्म" ३ " योऽसौ सोऽहं योऽहं सोऽसौ” ४ "अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद" ५" अकृत्स्नो ह्येषः...आत्मेत्येवोपासीत" "ब्रह्म दाशा ब्रह्म दासा ब्रह्म मे कितवाः" इतिच सर्वजीवात्मव्यापित्वेनाभेदव्यपदेशाच, उभयव्यपदेशाविरोधेन परमात्मांशो जीवात्मेत्यभ्युपगन्तव्यम् । न केवलं न्यायसिद्धमिदं, श्रुतिस्मृतिभ्याञ्चांशत्वमुक्तं जीवात्मनः ७ "पादोऽस्य विश्वा भूतानि” “ममैवांशो जीवलोके जीवभूतस्सनातनः" इति । अंशत्वन्नाम एकवस्त्वेकदेशत्वम्। तथा सत्युभयोरेकरवस्तुत्वेनाविरोधो न स्यादित्याशकन्य, १० " प्रकाशादिवत्तु नैवं परः" इति परिहरति । अन्यविशेषणतैकस्वभावप्रकाशजातिगुणशरीरविशिष्टानग्निव्यक्तिगुण्यात्मनः प्रति प्रकाशजातिगुणशरीराणां यथा अंशत्वम् ; एवं परमात्मानं प्रत्यगात्मशरीरकं प्रति प्रत्यगात्मनोऽशत्वम्। एवम् अंशत्वे यत्स्वभावोऽशभूतो जीवः, नैवमंशी परमात्मा, सर्वत्र विशेषणविशेष्ययोस्वरूपस्वभावभेदात्।एवञ्च ११"कर्ता शास्त्रार्थवत्त्वात्"१२"परात्तु तच्छ्रुतेः" इत्यनन्तरोक्तश्च न विरुध्यते।एवं प्रकाशशरीरवजीवात्मनाम् अंशत्वं पराशरादयस्स्मरन्ति च-१३"एकदेशस्थितस्याग्नेः ज्यो. स्ना विस्तारिणी यथा।परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत्"१४“यत्किञ्चित् सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्व वै हरेस्तनुः" १५“ते सर्वेसर्वभूतस्य विष्णोरंशसमुद्भवाः" इति। अन्यथा पारमार्थिकापारमार्थिकोपाधिसमाश्रयणे प्रत्यगात्मनोऽशत्वे ब्रह्मण एव वेदान्तनिवास्सर्वे दोषा भवेयुरिति१६"आभासा एव च"इत्या१७दिसूत्रैरुक्तम्।अतस्सर्वदा चिदचिद्वस्तु १. छा. ६. ८. ७. । १०. शारी. २ ३, ४५. २. बृ. ६.४.५. ३. ऐतरेयिण इति शाङ्क- ११. शारी. २. ३. ३३. रीये (३३. ३६.) ४. ब. ३. ४. १०. १२, शारी. २. ३. ४०. ५. बृ. ३. ४. ७. १३. पि. पु. १. २२. ५६. १४. वि. पु. १. २२. ३८. ६. अथर्व-संहितोप. ७. यजु. आरण्य. १२.१३. पुरुषसूक्ते. ३. १५. वि. पु. १. २२. २०. ८. गी. १५-७. १६. शारी, २. ३. ४९. ९. वस्तुत्वेन विरोध: पा. । १७. दिनोक्तम्. पा. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. तै. भृ. १. १. २. छा. ६.२.१. * ३. छा, ६.२.३. ४. माध्यन्दिनपाठे. 17 जन्माद्यधिकरणम् पा. १.] १२९ शरीरतया तदात्मभूतमेव ब्रह्म, कदाचिदविभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कारणावस्थम्, कदाचिच्च विभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कार्यावस्थं ब्रह्न सर्वदा चिदचिद्वस्तुशरीरतया तद्विशिष्टत्वेऽपि ब्रह्मणः परिणामित्वापुरुषाश्रयत्वे शरीरभूतचेतनाचेतनवस्तुगते । आत्मभूतं ब्रह्म सर्वदा निरस्तनिखिलदोषगन्धानवधि कातिशयासङ्घयेयज्ञानानन्दाद्यपरिमितोदार गुणसागरमवतिष्ठतइति ब्रह्मैव जगन्निमित्तमुपादानञ्चेति १ यतो वा इमानि " इत्यादिवाक्यं प्रतिपादयत्येवेति' जन्माद्यस्य यतः तत् ब्रह्म' इति सुष्ठक्तम् । २" सदेव सोम्येदमग्रआसीत्, एकमेवाद्वितीयम् " ३" तदैक्षत बहु स्यां प्रजायेय " इति । अ स्यचायमर्थः - ४ " यस्यात्मा शरीरम् " ५ " यस्याक्षरं शरीरम्, यस्य पृथिवी शरीरम्, यस्याव्यक्तं शरीरम् । एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः " इत्यादिश्रुतेः ब्रह्मणः सर्वदा चिदचिद्वस्तुशरीरकत्वात् सदेवेदमिदानीं स्थूलचिचिद्वस्तुशरीरकत्वेन विभक्तनामरूपम् अग्रे प्रलयकाले, सूक्ष्मदशापन्नचिचिद्वस्तुशरीरतया नामरूपविभागानईमेकमेवासीत् । ६खयमेव ब्रह्म सर्वज्ञं सर्वशक्ति निमित्तान्तरानपेक्षमद्वितीयञ्चातिष्ठत् । "" तदैक्षत बहु स्यां प्रजायेय" इति तन्नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरकतया एकमेवावस्थितं नामरूपविभागार्हस्थूलदशापत्त्या बहुप्रकारं स्यामिति उपेक्षत। 'स्यां, प्रजायेय' इति व्यष्टिसमष्टिव्यपदेशः । चिदचितोः परस्य च प्रलयकालेऽपि व्यवहारानहसूक्ष्मभेदः ८ सर्ववेदान्तिभिरभ्युपगतः, अविद्याकृतभेदस्य उपाधिकृतभेदस्य च अनादित्वाभ्युपगमात् । यांस्तु विशेषः - ब्रह्मवाशम् उपाधिसम्बद्धं चेति सर्वश्रुतिस्मृतिन्यायविरोधोऽन्येषाम् तदभावादविरोधश्चास्माकम् - इति ॥ इति वेदान्तसारे जन्माद्यधिकरणम् ॥ २ ॥ " ܕ Acharya Shri Kailassagarsuri Gyanmandir ५. सुबालो. ७. ख. ६. स्वयमेव सर्वज्ञ. पा. ७. ऐक्षतेतिचिदचिदतो:. पा. ८. सर्वेर्वेदान्तवादिभिरभ्युपेतः. पा. For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( वेदान्तदीपे जन्माद्यधिकरणम् )--- जन्माद्यस्य यतः।१।१।२॥ तैत्तिरीयके १“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिशासख । नब्रह्म" इत्येतद्वाक्यं विषयः । किमेतजिज्ञास्यतया प्रतिज्ञातं ब्रह्म जगजन्मादिकारणतया लक्षणतः प्रतिपादयितुं शक्नोति न वेति संशयः। न शक्नौतीति पूर्वः पक्षः। कुतः? जगजन्मादीनामुपलक्षणतया विशेषणतया वा ब्रह्मलक्षणत्वासम्भवात्।उपलक्षणत्वे ह्युपलक्ष्यस्याऽकारान्तरयोगोऽपेक्षितःन चेह तदस्ति। अतः उपलक्षणत्वं न सम्भवति। विशेषणत्वेऽप्यनेकविशेषणविशिष्टतया अपूर्वस्यैकस्य र प्रतिपादकत्वं न सम्भवति । विशेषणानां ब्यावर्तकत्वेन विशेषणबहुत्वे ब्रह्मबहुत्वप्रसक्तेः । राद्धान्तस्तुएकस्मिन्नविरुद्धानां विशेषणानाम् अनेकत्वेऽपि श्यामत्वयुवत्वादिविशिष्टदेवदत्तवज्जगजन्मादिविशिष्टं ३ब्रह्मैकमेव विशेष्यं भवति । ४उपलक्षणत्वे जन्मादि. भिरुपलक्ष्यस्य ब्रह्मशब्दावगतबृहत्त्वाद्याकाराश्च सन्तीति जगजन्मादिकारणं ब्रह्मेति लक्षणतः प्रतिपादयितुं शक्नोति-इति । सूत्रार्थ:-अस्य विविधविचित्रभोक्तृभोग्यपूर्णस्य जगतः, यतः जन्मादि, तब्रह्मेति प्रतिपादयितुं शक्रोत्येतद्वाक्यम्-इति ॥ इति वेदान्तदीपे जन्माद्यधिकरणम् ॥ २ ॥ .....( श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् )... जगजन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तदयुक्तम् । तद्धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धरित्याशङ्कयाह शास्त्रयोनित्वात्। १।१॥३॥ शास्त्रं यस्य योनिः कारणं प्रमाणम् , तच्छास्त्रयोनि । तस्य भावश्शास्त्रयोनित्वम् । तस्मात् ब्रह्मज्ञानकारणत्वात् शास्त्रस्य, तद्योनित्वं १. तै. भृ. १. ३. ब्रह्मैकमेव भवति, पा. २. प्रतिपादनं त. पा. ४. उपलक्षणत्वेऽपि जन्मादि. पा. For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश्शास्त्रैकप्रमाणकत्वात् उक्तस्वरूपं ब्रह्म १ " यतो वा इमानि भूतानि" इत्यादिवाक्यं बोधयत्येवेत्यर्थः ॥ शास्त्रयोनित्वाधिकरणम्. १. ( पूर्वः पक्षः ननु - शास्त्रयोनित्वं ब्रह्मणो न सम्भवति, प्रमाणान्तरवेद्यत्वाब्रह्मणः । अप्राप्ते तु शास्त्रमर्थवत् ॥ तै, भृ. १. Acharya Shri Kailassagarsuri Gyanmandir किन्तर्हि तत्र प्रमाणम् । न तावत् प्रत्यक्षम् । तद्धि द्विविधम्, इन्द्रियसम्भवं योगसम्भवं चेति । इन्द्रियसंभवञ्च बाह्यसम्भवम्, आन्तरसम्भवश्चेति द्विधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीतिन सर्वार्थसाक्षात्कार तन्निर्माणसमर्थ पुरुषविशेषविषयबोधजननानि । नाप्यान्तरम्, आन्तरसुखदुःखादिव्यतिरिक्तवहिर्विषयेषु तस्य बाह्येन्द्रयानपेक्षमवृत्त्यनुपपत्तेः। नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता; तदतिरिक्तविषयत्वे कारणाभावात् । तथा सति तस्य भ्रमरूपता । नाप्यनुमानं विशेषतो दृष्टं सामान्यतो दृष्टं वा; अतीन्द्रिये वस्तुनि सम्बन्धावधारणविरहान्न विशेषतो दृष्टम्। समस्त वस्तु साक्षात्कारतन्निर्माणसमर्थ पुरुषविशेषनियतं सामान्यतो दृष्टमपि न लिङ्गमुपलभ्यते ॥ ननु च जगतः कार्यत्वं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम्। अचेतनारब्धत्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम्। सर्वे हि घटादिकार्य तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् | अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनं च । सावयवत्वेन जगतः कार्यत्वम् ।। २. १३१ कार्यसमिति, पा. For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ शारीरकमीमांसाभाष्ये [अ.१. उच्यते-किमिदमेकचेतनाधीनत्वम् ? न तावत्तदायत्तोत्पत्तिस्थितित्वम् ; दृष्टान्तो हि साध्यविकलस्स्यात्, न ह्यरोग स्वशरीरमेकचेतनायत्तोत्पत्तिस्थिति, तच्छरीरस्य भोक्तृणां भार्यादिसर्वचेतनानामदृष्टजन्यत्वात्तदुत्पत्तिस्थित्योः। किंच-शरीरावयविनस्स्वावयवसमवेततारूपा स्थितिरवयवसंश्लेषविशेषव्यतिरेकेण न चेतनमपेक्षते। प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमते क्षितिजलधिमहीधरादौ न संभवतीति पक्षसपक्षानुगतामेकरूपां स्थितिं नोपलभामहे । तदायत्तप्रवृत्तित्वं तदधीनत्वमिति चेत् अनेकचेतनसाध्येषु गुरुतररथशिलामहीरुहादिषु व्यभिचारः। चेतनमालाधीनत्वे सिद्धसाध्यता॥ किंच-उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्तः। न च जीवानामुपादानाधनभिज्ञतया कर्तृत्वासंभवः, सर्वेषामेव चेतनानां पृथिव्याधुपादानयागाद्युपकरणसाक्षात्कारसामर्थ्यात् । यथेदानीं पृथिव्यादयो यागादयश्च प्रत्यक्षमीक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्तिः,तत्साक्षात्कारानपेक्षणात्कार्यारम्भस्य । शक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी । शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते ; न साक्षाकारः । नहि कुलालादयः कार्योपकरणभूतदण्डचक्रादिवत्तच्छक्तिमपि साक्षात्कृत्य घटमणिकादिकार्यमारभन्ते । इह तु चेतनानामागमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः॥ किञ्च–यच्छक्यक्रियं शक्योपादानादिविज्ञानञ्च, तदेव तदभिज्ञकर्तृकं दृष्टम् । महीमही धरमहार्णवादि त्वशक्यक्रियमशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम् । अतो घटमणिकादिसजातीयशक्यक्रियशक्योपादानादिविज्ञानवस्तुगतमेव कार्यत्वं बुद्धिमत्कर्तपूर्वकत्वसाधने प्रभवति । किश्च घटादिकार्यमनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परि१. परार्णवादि. पा. For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३३ पा. १.] शास्त्रयोनित्वाधिकरणम्. ग्रहवताऽनासकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्तारं साधयनयं कार्यत्वहेतुस्सिपाधयिषितपुरुषसार्वज्यसर्वैश्वर्यादिविपरीतसाधनाद्विरुद्धस्स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास्तत्प्रमाणप्रतिहतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास्सर्व एवाविशेषेण प्रसज्यन्ते । निवर्तकप्रमाणाभावात्तथैवावतिष्ठन्ते । अत आगमाहते कथमीश्वरस्सेत्स्यति ॥ अत्राहुः--सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते। भवन्ति च प्रयोगाः-विवादाध्यासितं भूभूधरादि कार्य, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितमवनिजलधिमहीधरादि कार्य, महत्त्वे सति क्रियावत्त्वात् , २घटवत्। तनुभुवनादि कार्य,महत्त्वे सति मूर्तत्वात् , २घटवत् इति। सावयवेषु द्रव्येषु'इदमेव क्रियते नेतरत्' इति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यतइति चेत् -- न; कार्यत्वेनानुभतेऽपि विषये ज्ञानशक्ती कार्यानुमेये-इत्यन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्विशेषः । तथाहि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषोऽदृष्टपूर्व विचित्रसन्निवेशं नरेन्द्रभवनमालोक्यावयवसनिवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति । अतस्तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः कश्चित्पुरुषविशेषस्सिद्ध्यत्येव ॥ किंच-सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभोगें चेत१. विपरीता विशेषाः. पा. ३. कार्यानुमेये । अन्यत्रापि. पा. २. घटादिवत् . पा. For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३४ [अ. १. शारीरकमीमांसाभाष्ये नानधिष्ठितयोस्तयोरचेतनयोः फलहेतुत्वानुपपत्तेः सर्वकर्मानुगुणसर्वफलमदान चतुरः कश्चिदास्थेयः ; वर्धकिनाऽनाधिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकरसन्निधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजारादेः पक्षान्तर्भावेन तैर्व्यभिचारापादनं श्रोत्रियवेतालानामनभिज्ञताविजृम्भितम् । तत एव सुखादिभिर्व्यभिचारवचनमपि तथैव । न च लाघवेोभयवादिसंप्रतिपन्न क्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्, तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनाशक्तिनिश्चयात् । दर्शनानुगुजैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्वयोऽस्ति । अतः प्रमाणान्तरतो न तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्व नियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसवर्थसाक्षात्कारतनियमनशक्तिसंपन्न १ एव सिध्यति || Acharya Shri Kailassagarsuri Gyanmandir नैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वमुन्नीतम् ; तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्, सपक्षे सह दृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्यमाप्तेः ।। एतदुक्तं भवति- केनचित् किंचित् क्रियमाणं स्वोत्पत्तये कर्तुः स्वनिर्माणसामर्थ्य स्वोपादानोपकरणज्ञानं चापेक्षते ; न त्वन्यासामर्थ्यमन्याज्ञानं च हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तराज्ञानादेर्हेतुत्वकल्पनायोगात् इति । किंच क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सर्वविषयं क्रियोपयोगि ; उत कतिपयविषयम् । न तावत्सर्वविषयम् ; नहि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि न जानाति । नापि कतिपयविषयम्, सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीतसाधनत्वम् ॥ १. एव हि सिध्यति . पा. For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ पा. १.] शास्त्रयोनित्वाधिकरणम्. ____ कुलालादीनां दण्डचक्रायधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठानमीश्वरस्याशरीरस्यानुपपन्नमिति चेत् नः संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथमशरीरस्य परप्रवर्तनरूपस्संकल्प इति चेत्न शरीरापेक्षस्संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः। तदभ्युपगतमीश्वरेऽपि, कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात् । मानसस्सङ्कल्पस्सशरीरस्यैव, सशरीरस्यैव समनस्कत्वादिति चेत्न, मनसो नित्यत्वेन देहापगमेऽपि मनसस्सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसनिवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपाप परवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्योऽशरीरस्संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररच. नप्रपश्चः पुरुषविशेष ईश्वरोऽनुमानेनैव सिद्ध्यति । अतः प्रमाणान्तरावसेयत्वाद्ब्रह्मणः नैतद्वाक्यं ब्रह्म प्रतिपादयति ॥ किंच-अत्यन्तभिन्नयोरेव मृद्रव्यकुलालयोनिमित्तोपादानत्व - दर्शनेन आकाशादेर्निरवयवर द्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानं च प्रतिपादयितुं शक्नोति इति ॥ ___- (सिद्धान्तः).-..-. एवं प्राप्ते ब्रूमः यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव । कुतः? शास्त्रैकप्रमाणकत्वाद्ब्रह्मणः । यदुक्तं सावयवत्वादिना कार्य सर्व जगत् । कार्यच तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिदनुमेयः इति । तदयुक्तम् , महीमहार्णवादीनां कार्यत्वेऽप्येकदैवैकेन निर्मिता इत्यत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम् , येनकदैवैकः कर्ता स्यात् । पृथग्भूतेषु १. परवशपरिमितशक्तिशान: पा. । २. द्रव्यत्वात्कार्यत्वानुपप. पा. For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्माणाशत्तया कार्यत्वबलेन लदतिरिक्तकल्पनायाम् अनेककल्पनानुपपत्तेश्चैकः कर्ता भवितुमर्हतीति क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात् । तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः। न च १युगपत्सर्वोत्पत्तिस्सर्वोच्छित्तिश्च प्रमाणपदवीमधिरोहतः, अदर्शनात् , क्रमेणैवोत्पत्तिविनाशदर्शनाच । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोदर्शनानुगुण्येन कल्पनायां विरोधाभावाच । अतो बुद्धिमदेककतकत्वे साध्ये कार्यत्वस्यानैकान्त्यम् ; पक्षस्याप्रसिद्धविशेषणत्वम् ; साध्यविकलता च दृष्टान्तस्य सर्वनिर्माणचतुरस्य एकस्याप्रसिद्धेः । बुद्धिमत्कतकत्वमाने साध्ये सिद्धसाधनता ।। सार्वज्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वं किं युगपदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यमानसववस्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्तृकत्वसाधनाद्विरुद्धता । अत्राप्येककर्तृकत्वसाधने प्रत्यक्षानुमानविरोधश्शास्त्रविरोधश्च ; 'कुम्भकारो जायते रथकारो जायते' इत्यादिश्रवणात् ॥ ___ अपिच-सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास्सत्त्वादयः। तेषां कार्याणां तन्मूलत्वापादनं तयुक्तपुरुषान्तःकरणविकारद्वारेण । पुरुषस्य च तद्योगः कर्ममूल इति कार्यविशेषारम्भायैव, ज्ञानशक्तिवत्कर्तुः कर्मसम्बन्धः कार्यहेतुत्वेनैवावश्याश्रयणीयः; ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषितायास्तस्यास्सत्त्वादिमूलकत्वेन १. युगपत्सर्वोच्छित्तिस्सर्वोत्पत्तिश्च. पा. For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] शास्त्रयोनित्वाधिकरणम्. १३७ कर्मसंबन्धोऽवर्जनीयः। अतः क्षेत्रज्ञा एव कर्तारः न तद्विलक्षणः कश्चि दनुमानात्सिध्यति || २भवन्ति च प्रयोगाः – तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्तद्वदेव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः, तत्राप्यनादेस्सूक्ष्मशरीरस्य सद्भावात् । विमतिविषयः कालो न लोकशून्यः, कालत्वाद्वर्तमानकालवत् इति ॥ अपिच – कमीश्वरस्सशरीरोऽशरीरो वा कार्य करोति । न तावदशरीरः, अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति, मनसो नित्यत्वेऽप्यशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः, विकल्पासहत्वात् । तच्छरीरं किं नित्यम् ? उतानित्यम् । न तावन्नित्यम्, सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम्, तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । स्वयमेव हेतुरिति चेत् न, अशरीरस्य तदयोगात् । अन्येन शरीरेण सशरीर इति चेत् न, अनवस्थानात् ॥ स किं सव्यापारो निर्व्यापारो वा । अशरीरत्वादेव न सव्यापारः । नापि निर्व्यापारः कार्य करोति, मुक्तात्मवत् । कार्य जगदिच्छामात्रव्यापारकर्तृकमित्युच्यमाने पक्षस्यामसिद्धविशेषणत्वम् ; दृष्टान्तस्य च साध्यहीनता । अतो दर्शनानुगुण्येन ४ ईश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्मभूतस्सर्वेश्वरः पुरुषोत्तमः ॥ For Private And Personal Use Only - शास्त्रन्तु सकलेत रममाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वइयसत्यसङ्कल्पत्वादिमिश्रानवाधिकातिशयापरिमितोदारगुणसागरं निखिलहेयमत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसा१. कर्मसंबन्धोऽवश्याश्रयणीयः पा || ३. घटादिवत् पा ॥ २. भवन्तिचात्र पा ॥ ४. ईश्वरसाधनं. पा ॥ 18 Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३८ वेदान्तदीपे धर्म्ययुक्तदोषगन्धप्रसङ्गः । यत्तु निमित्तोपादानयोरैक्यमाकाशादेनिरवयवद्रव्यस्य कार्य त्वं चानुपलब्धम् अशक्यप्रतिपादनमित्युक्तम् ; तदप्यविरुद्धमिति ४ प्रकृतिश्च प्रतिज्ञादृष्टान्तनुपरोधात्" "न वियदश्रुतेः" इत्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात् ६ "यतो वा इमानि भूतानि " इति वाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् || इति श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ ( वेदान्तसारे शास्त्रयोनित्वाधिकरणम् || ३ || ) → शास्त्रयोनित्वात् । १।१॥३॥ एवं चिदचिद्वस्तुशरीरतया तद्विशिष्टस्य ब्रह्मण एव जगदुपादानत्वं निमित्तत्वञ्च नानुमानगम्यमिति शास्त्रैकप्रमाणकत्वात्तस्य। *" यतो वा इमानि भूतानि” इत्यादिवाक्यम्, निखिलजगदेक कारणं ९ ब्रह्मैव बोधयत्येवेति सिद्धम् ॥ इति वेदान्तसारे शास्त्रयोनित्वाधिकरणम् ॥ ३॥ - ( वेदान्तदीपे शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ )-~~ शास्त्रयोनित्वात् । १।१॥३॥ *" यतो वा इमानि " इत्यादिवाक्यमेव विषयः । तत्किं जगत्कारणे ब्रह्मणि प्रमाणम् ? उत नेति संशयः । नैतत्प्रमाणमिति पूर्वः पक्षः । अनुमानसिद्धब्रह्मविषयत्वात् । प्रमाणान्तराविषये हि शास्त्रं प्रमाणम् । जगतस्सावयवत्वेन कार्यत्वात् कार्यस्य स्वोपादानोपकरणसम्प्रदानप्रयोजनाद्यभिज्ञकर्तृकत्वात्, जगन्निर्माणकार्यचतुरः कर्मपरवशपरिमितशक्त्यादिक्षेत्रज्ञविलक्षणस्सर्वज्ञस्स , १. निमित्तोपादानैक्यं. पा ॥ २. त्वमनु. पा ॥ ३. तदविरुद्ध. पा।। ४. शारी. १ - अ. ४- पा. २३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [अ. १. ५. शारी. २ - अ. ३ - पा.१ ॥ *६. तै. भृगु. १ - अनु ।। ७. इत्यादिवाक्य. पा।। ८. शास्त्रैकवेद्यम्.पा ।। ९. ब्रह्म अवगमयत्येवेति पा ॥ Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. शक्तस्सर्वेश्वरोऽनुमानसिद्धइति तस्मिन् १"यतो वा इमानि भूतानि" इत्यादिवाक्यं न प्रमाणमिति॥ राद्धान्तस्तु-जगतः कार्यत्वेऽपि एकदैवैकेनैव कृत्स्नं जगनिर्मितमित्यत्र प्रमाणाभावात् , क्षेत्रज्ञानामेव विलक्षणपुण्यानां ज्ञानशक्तिवैचित्र्यसम्भावनया कदाचित् कस्यचिजगदेकदेशनिर्माणसामर्थ्यसम्भवात् , तदतिरिक्तपुरुषानुमानं न सम्भवतीति शास्त्रैकप्रमाणकत्वात् ब्रह्मणस्तत्प्रतिपादकत्वेन तस्मिन् *" यतो वा इमानि भूतानि" इत्यादिवाक्यं प्रमाणमिति । २शास्त्रं योनिः ३यस्य कारणं प्रमाणं तद्ब्रह्म शास्त्रयोनि, प्रमाणान्तराविषयत्वेन शास्त्रै. कप्रमाणकत्वाब्रह्मणः। तस्मिन् *"यतो वा इमानि" इत्यादिवाक्यं ४प्रमाणमिति सूत्रार्थः॥ इति वेदान्तदीपे शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ ............. --( श्रीशारीरकमीमांसाभाष्ये समन्वयाधिकरणम् ॥ ४ ॥ ).... यद्यपि प्रमाणान्तरागोचरं ब्रह्म । तथापि प्रवृत्तिनिवृत्तिपरत्वाभावेन सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्कयाह तत्तु समन्वयात् । १।१।४॥ प्रसक्ताशङ्कानिवृत्त्यर्थस्तु शब्दः। तत्-शास्त्रप्रमाणकत्वं ब्रह्मणस्सम्भवत्येव । कुतः ? समन्वयात् परमपुरुषार्थतयाऽन्वयस्समन्वयः ; परम पुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयात् ।। ६एवमिव समन्वितो ह्यौपनिषदः पदसमुदायः-*"यतो वा इमानि भूतानि जायन्ते" ७"सदेव सोभ्येदमन आसीदेकमेवाद्वितीयम् । तदैक्षत -------- - ---- - --------- ----.......... * १. तै. भृ. १-अनु। २. सूत्रार्थ:-- शास्त्र. पा|| ३. कारणं यस्य. पा॥ ४. प्रमाणमिति. पा॥ ५. पुरुषार्थस्यैव. पा॥ ६. एवमेव. पा॥ ७. छा. ६-प्र. २-ख. १; ३॥ For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० शारीरकमीमांसाभाष्ये बहु स्यां प्रजायेयेति तत्तेजो सृजत" १"ब्रह्म वा इदमेकमेवाग्र आसीत्" २“आत्मा वा इदमेक एवाग्र आसीत्" ३'तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" ४"एको ह वै नारायण आसीत्" ५"सत्यं ज्ञानमनन्तं ब्रह्म" ६ "आनन्दो ब्रह्म" इत्येवमादिः॥ न च व्युत्पत्तिसिद्धपरिनिष्पन्नवस्तुप्रतिपादनसमर्थानां पदसमुदायानामखिलजगदुत्पत्तिस्थितिविनाशहेतुभूताशेषदोषप्रत्यनीकापरिमितोदारगुणसागरानवधिकातिशयानन्दस्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपरत्वम् , स्वविषयावबोधपर्यवसायित्वात्सर्वप्रमाणानाम् । नच प्रयोजनानुगुणा प्रमाणप्रवृत्तिः । प्रयोजनं हि प्रमाणानुगुणम् । न च प्रवृत्तिनिवृत्त्यन्वयविरहिणः प्रयोजनशून्यत्वम् , पुरुषार्थान्वयमतीः । तथा स्वरूपपरेष्वपि 'पुत्रस्ते जातः, नायं सर्पः' इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्वं दृष्टम् ।। अलाह-न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्तिनिवृत्यन्वयविरहिणः शास्त्रस्यानर्थक्यात्। यद्यपि प्रत्यक्षादीनि वस्तुयाथात्म्यावबोधे पर्यवस्यन्ति ; तथाऽपि शास्त्रं प्रयोजनपर्यवसाय्येव । न हि लोकवेदयोः प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचरः । न च किश्चित् प्रयोजनमनुद्दिश्य वाक्यप्रयोगः श्रवणं वा सम्भवति । तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टमाप्तिपरिहारात्मकमुपलब्धम्'अर्थार्थी राजकुलं गच्छेत् ' 'मन्दाग्निर्नाम्बु पिवेत्' ७ स्वर्गकामो यजेत' 'न कलङ्गं भक्षयेत्' इत्येवमादिषु । यत्पुनस्सिद्धवस्तुपरेष्वपि 'पुत्रस्ते जातः, नायं सो रज्जुरेषा' इत्यादिषु हर्षभयनिवृत्तिरूपपुरुषार्थान्वयो १. बृ. ३-अ. २.बा. ११॥ ५. तै-आन. १-अनु।। ६. तै-भृ. ६ अनु।। २. ऐतरेय. १-अ. १-ख. १॥ ७. यजुषि. २. कां. ५. प्रश्न. ५-अनु।। ३. तै-आन. १. अनु।। ८. इत्यादिपु. पा॥ ४. महोपनिषत् , १. अ, १. वा।। For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. सतोऽप्यर्थस्याज्ञातस्य. पा २. प्रपञ्चविलय. पा।। पा १.] समन्वयाधिकरणम्. १४१ दृष्ट इत्युक्तम् । तत्र किं पुत्रजन्माद्यर्थात्पुरुषार्थावाप्तिः ? । उत तज्ज्ञानादिति विवेचनीयम् । सतोऽप्यज्ञातस्यार्थस्या पुरुषार्थत्वेन तज्ज्ञानादिति चेत् — सत्यप्यर्थे ज्ञानादेव पुरुषार्थस्सिध्यतीत्यर्थपरत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम् । तस्मात्सर्वत्र प्रवृत्तिनिवृत्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासम्भवान्न वेदान्ताः परिनिष्पन्नं ब्रह्मप्रतिपादयन्ति || अव कचिदाह वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाणभावमनुभवन्ति - कथं निष्प्रपञ्चमद्वितीयं ज्ञानैकरसं ब्रह्म अनाद्यविद्यया प्रपञ्चतया प्रतीयमानं निष्प्रपञ्चं कुर्यादिति ब्रह्मणः प्रपञ्चवि - लयद्वारेण विधिविषयत्वम् — इति । कोऽसौ द्रष्टृदृश्यरूपप्रपञ्च र प्रविलयद्वारेण साध्यज्ञानैकरसब्रह्मविषयो विधिः । । ३" न दृष्टेद्रशरं पश्येः । न मतेर्मन्तारं मन्वीथाः " ४इत्यादिः । द्रष्टदृश्यरूपभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादित्यर्थः। स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्च तारूपेण कार्यत्वमविरुद्धम्इति ॥ तदयुक्तम् नियोगवाक्यार्थवादिना हि नियोगः, नियोज्यविशेषणम्, विषयः, करणम्, इतिकर्तव्यता, प्रयोक्ता च वक्तव्याः । तत्र हि नियोज्यविशेषणमनुपादेयम् । तच्च निमित्तं फलमिति द्विधा । अत्र किं नियोज्यविशेषणम्, तच्च किं निमित्तं फलं वेति विवेचनीयम् | ब्रह्मस्वरूपयाथात्म्यानुभवश्चेन्नियोज्यविशेषणम् तर्हि न तन्निमित्तम्, जीवनादिवत्तस्यासिद्धत्वात् । निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जीवननिमित्ताग्निहोत्रादिवत् नित्यतद्विषयानुष्ठानप्रसङ्गः । नापि फलं नैयोगिकफलत्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात् || ; Acharya Shri Kailassagarsuri Gyanmandir ३. बृ. ५-अ, ४ - बा. २ वा ॥ ४. इत्येवमादि: पा|| ५. साध्यत्वमवि. पा For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४२ शारीरकमीमांसाभाष्ये [अ. १. व्यरूपत्वात्, Tara नियोगविषयः । ब्रह्मैवेति चेत न, तस्य नित्यत्वेनाभअभावार्थत्वाच्च । निष्प्रपञ्चं ब्रह्म साध्यमिति चेत्-सात्वेऽपि फलत्वमेव । अभावार्थत्वान्न विधिविषयत्वम् । साध्यत्वश्च कस्य । किं ब्रह्मणः ?, उत प्रपञ्चनिवृत्तेः । न तावद्ब्रह्मणः सिद्धत्वात् ; अनित्यत्वप्रसक्तेश्च । अथ प्रपञ्चनिवृत्तेः । न तर्हि ब्रह्मणस्साध्यत्वम् । प्रपञ्चनिवृत्तिरेव विधिविषय इति चेत् न, तस्याः फलत्वेन विधिविषयत्वायोगात् । प्रपञ्चनिवृत्तिरेव हि मोक्षः । स च फलम् । अस्य च नियोगविषयत्वे नियोगात्प्रपञ्चनिवृत्तिः प्रपञ्चनिवृत्त्या नियोगः- इतीतरेतराश्रयत्वम् ॥ Acharya Shri Kailassagarsuri Gyanmandir अपिच किं निवर्तनीयः प्रपञ्चः मिथ्यारूपः सत्यो वा । मि थ्यारूपत्वे ज्ञाननिवर्त्यत्वादेव नियोगेन न किंचित्प्रयोजनम् | नियोगस्तु निवर्तकज्ञानमुत्पाद्यतद्वारेण प्रपञ्चस्य निवर्तक इति चेत्-तत्स्ववाक्यादेव जातमिति नियोगेन न प्रयोजनम् । वाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतस्य प्रपञ्चस्य बाधितत्वात् सपरिकर - स्य नियोगस्यासिद्धिच । मपञ्चस्य निवर्त्यत्वे प्रपञ्चवनिवर्तको नियोगः किं ब्रह्मस्वरूपमेव उत तद्व्यतिरिक्तः । यदि ब्रह्मस्वरूपमेव निवर्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न सम्भवति । नित्यत्वेन नियोगस्य विषयानुष्ठान साध्यत्वं च न घटते । अथ ब्रह्मस्वरूपव्यतिरिक्तः । तस्य कृत्स्त्रप्रपञ्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धिः । प्रपञ्चनिवृत्तिरूपविषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरितस्य कृत्स्नस्य निवृत्तत्वात् न नियोगनिष्पाद्यं मोक्षाख्यं फलम् । किंच -प्रपञ्चनिवृत्तेर्नियोग करणस्य इतिकर्तव्यताऽभावात्, अनुपकृतस्य च करणत्वायोगान्न करणत्वम् । कथम् इतिकर्तव्यताऽभाव इति चेत्इत्थम् - अस्येतिकर्तव्यता भावरूपा ? अभावरूपा ? वा । भावरूपा च १. नित्यत्वेनाभाव्यरूप पा २. ब्रह्मव. पा ३. निवर्तकं. पा ॥ For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. १४३ करणशरीरनिष्पत्तितदनुग्रहकार्यभेदभिन्ना। उभयविधा च न सम्भवति। नहि मुद्राभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तकः कोऽपि दृश्यत इति दृष्टार्थी न सम्भवति । नापि निष्पन्नस्य करणस्य कार्योत्पत्तावनुग्रहस्सम्भवति, अनुग्राहकांशसद्भावेन कृत्स्नमपश्चनिवृत्तिरूपकरणस्वरूपासिद्धेः। ब्रह्मणोऽद्वितीयत्वज्ञानं प्रपञ्चनिवृत्तिरूपकरणशरीरं निष्पादयतीति चेत्ते नैव प्रपञ्चनिवृत्तिरूपो मोक्षस्सिद्ध इति न करणादिनिष्पाधम् अवशिष्यत इति पूर्वमेवोक्तम्। अभावरूपत्वे १चाभावादेव न करणशरीरं निष्पादयति । नाप्यनुग्राहकः । अतो निष्पपञ्चब्रह्मविषयो विधिर्न संभवति ॥ ___अन्योऽप्याह-यद्यपि वेदान्तवाक्यानां न परिनिष्पन्नब्रह्मस्वरूपपरतया प्रामाण्यम् । तथाऽपि ब्रह्मस्वरूपं सिध्यत्येव । कुतः? ध्यानविधिसामर्थ्यात्। एवमेव हि समामनन्ति-२'आत्मा वा अरे द्रष्टव्यः...निदिध्यासितव्यः"३ “य आत्मा अपहतपाप्मा सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः" "आत्मेत्येवोपासीत" *"आत्मानमेव लोकमुपासीत" इति। अत्र ध्यानविषयो हि नियोगस्वविषयभूतध्यानं ध्येयैकनिरूपणीयम् इति ध्येयमाक्षिपति । स च ध्येयस्ववाक्यनिर्दिष्ट आत्मा । स किंरूप इत्यपेक्षायां तत्स्वरूपविशेषसमर्पणद्वारेण ५'सत्यं ज्ञानमनन्तं ब्रह्म" ६"सदेव सोम्येदमग्र आसीत्" इत्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यम्-इति विधिविषयभूतध्यानशरीरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव । अतः *"एकमेवाद्वितीयम्" ७"तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" ८"नेह नानाऽस्ति किंचन" इत्यादिभिर्ब्रह्मस्वरूपमेकमेव सत्यं तद्व्यतिरिक्तं सर्व मिथ्येत्यवगम्यते । प्रत्यक्षादिभिश्रृंदावलम्बिना च १.अभावत्वादेव.पा॥ २. वृ. ४-अ.४-ब्रा ५॥ *६. छा. ६-प्र. २-ख. १॥ ३. छा. ८-प्र. ७. ख, १॥ ७. छा. ६-प्र. ८-ख, ७॥ *४. बृ. ३. अ. ४-ब्रा. ७. १५॥ ८. कठ, ४-वल्ली. ११॥ ५. तै. आन. १-अनु॥ For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ शारीरकमीमांसाभाष्ये [अ. १. कर्मशास्त्रेण भेदः प्रतीयते। भेदाभेदयोः परस्परविरोधे सत्यनाद्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इति निश्चीयते । तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्तसमस्ताविद्याकृतविविधभेदाद्वितीयज्ञानैकरसब्रह्मरूपमोक्षः प्राप्यते ।। न च वाक्याद्वाक्यार्थज्ञानमात्रेण ब्रह्मभावसिद्धिः, अनुपलब्धेः, विविधभेददर्शनानुवृत्तेश्च। तथा च सति श्रवणादिविधानमनर्थकं स्यात्।। अथोच्येत-'रज्जुरेषा न सर्पः' इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात् रज्जुसर्पवत् बन्धस्य च मिथ्यारूपत्वेन ज्ञानबाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तियुक्ता ; न नियोगेन । नियोगसाध्यत्वे मोक्षस्यानित्यत्वं स्यात् , स्वर्गादिवत्। मोक्षस्य नित्यत्वं हि सर्ववादिसम्प्रतिपन्नम् । किञ्च धर्माधर्मयोः फलहेतुत्वं वफलानुभवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिस्थावरानचतुर्विधशरीरसम्बन्धरूपसंसारफलत्वमवर्जनीयम् । तस्मान्न धर्मसाध्यो मोक्षः तथा च श्रुतिः-१"न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः" इति।अशरीरत्वरूपे मोक्षे धर्माधर्मसाध्यप्रियाप्रियविरहश्रवणात् , न धर्मसाध्यमशरीरत्वमिति विज्ञायते। न च नियोगविशेषसाध्यफलविशेषवत् ध्याननियोगसाध्यमशरीरत्वम् , अशरीरत्वस्य स्वरूपत्वेनासाध्यत्वात् । यथाऽऽहुः श्रुतयः-२"अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति"३"अप्राणो ह्यमनाइशुभ्रः"४"असङ्गो ह्ययं पुरुषः" इत्याद्याः। अतोऽशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्यः। तथा च श्रुतिः-*"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच यत्तत्पश्यसि तद्वद" इति । १. छा. ८-प्र. १२-ख. १॥ ३. मुण्ड. २-मु. १-ख. २ ॥ *२. कठ. २-वल्ली. २२. १४॥ ४, बु. ६-अ. ३-ब्रा. १५॥ For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. __अपिच उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न संभवति । न तावदुत्पाद्यः, मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात् । नापि प्राप्यः, आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात् । नापि विकार्यः,दध्यादिवदनित्यत्वप्रसङ्गादेव । नापि संस्कार्यः; संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति । न तावदोषापनयनेन, नित्यशुद्धत्वाद्ब्रह्मणः । नाप्यतिशयाधानेन, अनाधेयातिशयस्वरूपत्वात् । नित्यनिर्विकारत्वेन स्वाश्रयायाः पराश्रयायाश्च क्रियाया अविषयतया न निर्घर्षणेनाऽदर्शादिवदपि संस्कार्यत्वम्।न च देहस्थया स्नानादिक्रियया आत्मा संस्क्रियते ; किं त्वविद्यागृहीतस्तत्सङ्गतोऽहङ्कर्ता । तत्फलानुभवोऽपि तस्यैव। न चाहङ्कतैवाऽत्मा, तत्साक्षित्वात् । तथा च मन्त्रवर्णः-२"तयोरन्यः पिप्पलं स्वादत्ति अनश्नन्नन्यो अभिचाकशीति" इति; ३“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः"४"एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च" ५“सपर्यगाच्छुक्रमकामयव्रणमस्त्राविरं शुद्धमपापविद्धम्" इति च । अविद्यागृहीतादहङ्कर्तुरात्मस्वरूपमनाधेयातिशयं नित्यशुद्धं निर्विकारं निष्कृष्यते । तस्मादात्मस्वरूपत्वेन न साध्यो मोक्षः॥ यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत् -मोक्षप्रतिबन्धनित्तिमात्रमिति ब्रूमः।तथा च श्रुतयः ..७ "त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि"इति, श्रुतं ह्येवमेव भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवश्शोचामि तं मा भगवान् शोकस्य पारं तारयतु"९"तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इत्याद्याः। तस्मानित्यस्यैव मोक्षस्य प्रतिबन्धनित्तिर्वाक्यार्थज्ञानेन क्रि १.दोषापनयनेन गुणाधानेन वा.पा।। २.मुण्ड. ३-मु. १-ख. १॥ ३. कठ. ३. वल्ली. ४॥ ४. श्वे, ६-अ. ११॥ ५. ईशा. ८॥ ६.अस्थाविरं. पा॥ ७. प्रश्न. ६-प्रश्न ८॥ ८. छा. ७-प्र. १-ख ३॥ ९. छा. ७-प्र. २६. ख. २।। 19 For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४६ शारीरकमीमांसाभाष्ये [अ. १. यते । निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति। १" ब्रह्म वेद ब्रह्मैव भवति " २" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि । नच विदिक्रिया कर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः, ४उभयविधकर्मत्वप्रतिषेधात् । " अन्यदेव तद्विदितादथो ६अविदितादपि " ७""येनेदं सर्व विजानाति तत्केन विजानीयात् " इति । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति च ॥ ५ Acharya Shri Kailassagarsuri Gyanmandir न चैतावता शास्त्रस्य निर्विषयत्वम्, अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हीदन्तया ब्रह्म विषयकरोति शास्त्रम् ; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयदविद्याकल्पितज्ञानज्ञातृज्ञेय 'विभागं निवर्तयति । तथा च शास्त्रं - ९" न दृष्टेर्द्रष्टारं पश्येः" इत्येवमादि । नच ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्, स्वभावप्रवृत्तकलेतरविकल्पविमुखीकरणद्वारेण वाक्यार्थावगतिहेतुत्वात्तेषाम् । न च ज्ञानमात्रात् बन्धनिवृत्तिर्न दृष्टेति वाच्यम्, बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्तेः । अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम् । नहि मिथ्यारूपसर्पभयनिवृत्तिः रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते । यदि शरीरसम्बन्धः पारमार्थिकः तदा हि तद्विनाशापेक्षा । स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तः तस्य ज्ञानमेव न १० जातमित्यवगम्यते, ज्ञानकार्यादर्शनात् । तस्मात् शरीरस्थितिर्भवतु वा मा वा ; वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ । अतो न ध्याननियोगसाध्यो मोक्ष इति न I " १. मुण्ड ३ - मु. २ ख ९ ॥ २. वे. ३- अ. ८॥ ३. कर्मत्वेन ध्यानक्रियाकर्मत्वेन वा. पा ४. उभयकर्मत्वप्रति पा।। ५. केन. १ ख ३॥ ६. अविदितादधि पा ॥ ७. बृ. ४- अ, ४. बा. १४ ॥ ९. बृ. ५- अ. ४. बा. २॥ For Private And Personal Use Only ८. भेदं पा ॥ १०. ज्ञात. पा ॥ Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] समन्वयाधिकरणम् · १४७ ध्यानविधिशेषतया ब्रह्मणस्सिद्धिः । अपि तु १ " सत्यं ज्ञानमनन्तं ब्रह्म" २" तत्त्वमसि " ३" अयमात्मा ब्रह्म" इति तत्परेणैव पदसमुदायेन सिध्यतीति ॥ १. तै. आन. १ - अनु || २. छा. ६ - प्र, ८ - ख. ७॥ Acharya Shri Kailassagarsuri Gyanmandir तदयुक्तं, वाक्यार्थज्ञानमात्राद्बन्धनिवृत्त्यनुपपत्तेः । यद्यपि मिथ्यारूपो बन्धो ज्ञानवाध्यः ; तथाऽपि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स वाध्यते, रज्ज्वादावपरोक्षसर्पप्रतीतौ वर्तमानायां ' नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण भयानिवृत्तिदर्शनात् । आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्षनिमित्तप्रवृत्तिहेतुत्वेन । तथा हि-रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम्, तस्यानिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव ह्यपरोक्षसाधनानि । न चास्यानभिसंहितफलकर्मानुष्ठानमृदितकषायस्य श्रवणमनननिदिध्यासनविमुखीकृतबाह्यविषयस्य पुरुषस्य वाक्यमेवापरोक्षज्ञानं जनयति, निवृत्तप्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्रीविशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् ।। न च ध्यानस्य वाक्यार्थज्ञानोपायता, इतरेतराश्रयत्वात् ; वाक्यार्थज्ञाने जाते तद्विषयध्यानम्, ध्याने निर्वृत्ते वाक्यार्थज्ञानम् इति । न च ध्यानवाक्यार्थज्ञानयोर्भिन्नविषयत्वम्, तथा सति ध्यानस्य वाक्यार्थज्ञानोपायता न स्यात् । न ह्यन्यध्यानमन्योन्मुख्यमुत्पादयति । ज्ञातार्थस्मृतिसन्ततिरूपस्य ध्यानस्य वाक्यार्थज्ञानपूर्वकत्वमवर्जनीयम्, ध्येयब्रह्मविषयज्ञानस्य हेत्वन्तरासंभवात् । न च ध्यानमूलं ज्ञानं वाक्यान्तरजन्यम्, निवर्तकज्ञानं तत्त्वमस्यादिवाक्यजन्यमिति युक्तम् । ध्यानमू ३. माण्डूक्य १ ख २॥ ४. स्वस्वविषय. पा॥ For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शारीरकमीमांसाभाष्ये Acharya Shri Kailassagarsuri Gyanmandir १४८ लमिदं वाक्यान्तरजन्यं ज्ञानं तत्त्वमस्यादिवाक्यजन्यज्ञानेनैकविषयम्, भिन्नविषयं वा । एकविषयत्वे तदेवेतरेतराश्रयत्वम् । भिन्नविषयत्वे ध्यानेन तदौन्मुख्यापादनासंभवः । किञ्च ध्यानस्य ध्येयध्यानाद्यनेकप्रपञ्चापेक्षत्वान्निष्प्रपञ्चब्रह्मात्मैकत्वविषयवाक्यार्थज्ञानोत्पत्तौ दृष्टद्वारेण नोपयोग इति वाक्यार्थज्ञानमात्रादविद्यानिवृतिं वदतः श्रवणमनननिदिध्यासनविधीनामानर्थक्यमेव ॥ [अ. १. For Private And Personal Use Only यतो वाक्यादापरोक्ष्यज्ञानासम्भवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते; तत एव जीवन्मुक्तिरपि दूरोत्सारिता । का चेयं जीवन्मुक्तिः ? | स शरीरस्यैव मोक्ष इति चेत्- ' माता मे वन्ध्या' इतिवदसङ्गतार्थ वचः; यतस्सशरीरत्वं बन्धः, अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम् । अथ सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययः, तस्य सशरीरत्वनिवृत्तिरिति । न, मिथ्येति प्रत्ययेन सशरीरत्वं निवृत्तं चेत् कथं सशररिस्य मुक्ति: । अजीवतोऽपि मुक्तिसशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्तिरिति विशेषः । अथ सशरीरत्वप्रतिभासो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत् न, ब्रह्मव्यतिरिक्तसकलवस्तुविषयत्वाद्वाधकज्ञानस्य । कारणभूताविद्याकर्मादिदोषस्सशरीरत्वप्रतिभासेन सह तेनैव बा - धित इति बाधितानुवृत्तिर्न शक्यते वक्तुम् । द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञान भूतचन्द्रैकत्वज्ञानाविषयत्वेनावाधितत्वात्, द्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता । किञ्च २" तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये " इति सद्विद्यानिष्ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्तीयं श्रुतिः जीवन्मुक्तिं वारयति । सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता - २" वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् । १. द्विचन्द्रज्ञानादौ पा॥। २. छा, ६ - प्र. १४- खं. २ ॥ ३. आपस्तम्बधर्मे. २- प्र. ९ - पटल.२१ - ख॥ Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत । एतेन परं व्याख्यातम्" इति । अनेन ज्ञानमालान्मोक्षश्च निरस्तः । अतस्सकलभेदनिवृत्तिरूपा मुक्तिींवतो न संभवति ॥ तस्माद्ध्याननियोगेन ब्रह्मापरोक्षज्ञानफलेनैव बन्धनिवृत्तिः। न च नियोगसाध्यत्वे मोक्षस्यानित्यत्वप्रसक्तिः, प्रतिबन्धनिवृत्तिमात्रस्यैव साध्यत्वात् । किंच-न नियोगेन साक्षात् बन्धनिवृत्तिः क्रियते; किन्तु निष्पपञ्चज्ञानकरसब्रह्मापरोक्ष्यज्ञानेन । नियोगस्तु तदापरोक्ष्यज्ञानं जनयति॥ कथं नियोगस्य ज्ञानोत्पत्तिहेतुत्वमिति चेत् कथं वा भवतोऽनभिसंहितफलानां कर्मणां वेदनोत्पत्तिहेतुत्वम्।मनोनैर्मल्यद्वारेणेति चेत्ममापि तथैव। मम तु निर्मले मनसि शास्त्रेण ज्ञानमुत्पाद्यते। तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत् ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूमः। केनावगम्यत इति चेत् भवतो वा कर्मभिमनो निर्मलं भवति, निर्मले मनसि श्रवणमनननिदिध्यासनैस्सकलेतरविषयविमुखस्यैव शास्त्रं निवर्तकज्ञानमुत्पादयतीति केनावगम्यते?।१"विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" २" श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" ३" ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिश्शास्त्रैरिति चेत्-ममापि *"श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" ४" ब्रह्मविदामोति परम्" ५" न चक्षुषा गृह्यते नापि वाचा" ६" मनसा तु विशुद्धेन" ७"हृदा मनीषा मनसाभिकप्तः" इत्यादिभिश्शास्त्राननियोगेन मनो निर्मलं भवति । निर्मलं च मनो ब्रह्मापरोक्षज्ञानं जनयतीत्यवगम्यते इति ९निरवद्यम् ॥ १. वृ-६. अ-४, ब्रा-२२॥ २.३.६.अ-५. ८, इत्यादिशास्त्रैः. पा॥ ब्रा-६॥ ३. मुण्ड-३. मु-२. ख-९॥ ९. 'इतिशब्दो नानन्तरवाक्यशेषः' इति ४. ते, आ. १-अनु॥ ५. मुण्ड-३. मु-१. श्रुतप्रकाशिकापर्यालोचनया भाष्ये 'निरवद्यम् ख-८॥ ६॥ ७. कठ-६. वल्ली-९॥ इति पाठोऽधिक इति प्रतिभाति ॥ For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० शारीरकमीमांसाभाष्ये [अ.१. १" नेदं यदिदमुपासते"इत्युपास्यत्वं प्रतिषिद्धमिति चेत् नैवम्, नात्र ब्रह्मण उपास्यत्वं प्रतिषिध्यते ; अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपायते । यदिदं जगदुपासते पाणिनः, नेदं ब्रह्म तदेव ब्रह्म त्वं विद्धि, यद्वाचाऽनभ्युदितं येन वागभ्युद्यते इति वाक्यार्थः । अन्यथा 'तदेव ब्रह्म त्वं विद्धि' इति विरुध्यते । ध्यानविधियर्थं च स्यात् । अतो ब्रह्मसाक्षात्कारफलेन ध्याननियोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टटश्यादिप्रपञ्चरूपबन्धस्य निवृत्तिः ॥ ___ यदपि कैश्चिदुक्तम्-भेदाभेदयोर्विरोधो न विद्यते इति तदयुक्तम् , न हि शीतोष्णतम प्रकाशादिवझेदाभेदावेकस्मिन्वस्तुनि सङ्गच्छेते । अथोच्येत सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्। सर्व च भिन्नाभिन्न प्रतीयते। कारणात्मना जात्यात्मना चाभिन्नम् । कार्यात्मना व्यक्त्यात्मना च भिन्नम् । छायातपादिषु विरोधस्सहानवस्थानलक्षणो भिन्नाधारत्वरूपश्च । कार्यकारणयोर्जातिव्यक्त्योश्च तदुभयमपि नोपलभ्यते । प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते ; यथा 'मृदयं घटः' 'खण्डो गौः' 'मुण्डो गौः' इति । न चैकरूपं किंचिदपि वस्तु २लोके दृष्टचरम् । न च तृणादेवलनादिवदभेदो भेदोपमर्दी दृश्यत इति न वस्तुविरोधः; मृत्सुवर्णगवावाद्यात्मनाऽवस्थितस्यैव घटमकुटखण्डबडबाधात्मना चावस्थानात् । न चाभिन्नस्य भिन्नस्य च वस्तुनोऽभेदो भेदश्च एक एवाकार इतीश्वराज्ञा । प्रतीतत्वादैकरूप्यं चेत् - प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम् । न हि विष्फारिताक्षः पुरुषो घटशरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु 'इयं मृत् ,अयं घटः,इदं गोत्वम् इयं व्यक्ति इति विवेक्तुं शक्नोति । अपि तु 'मृदयं घटः, खण्डो गौः' इत्येव प्रत्येति । अनुत्तिबुद्धिबोध्यं कारण१. केन - १. ख - ५॥ | २. लौकिकैर्दृष्ट. पा For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] समन्वयाधिकरणम्. १५१ १ 1 माकृतिश्व, व्यावृत्तिबुद्धिबोध्यं कार्य व्यक्तिचेति विविनतीति चेत्-नैवम्, विविक्ताकारानुपलब्धेः । न हि सुसूक्ष्ममपि निरीक्षमाणै: 'इदमनुवर्तमानम्, इदं च व्यावर्तमानम्' इति पुरोऽवस्थिते वस्तुन्याकारभेद उपलभ्यते । यथा संप्रतिपन्नैक्ये कार्ये विशेषे चैकत्वबुद्धिरुपजायते ; तथैव सकारणे सामान्ये चैकत्वबुद्धिरविशिष्टोपजायते । एवमेव देशतः कालतश्चाकारतश्चात्यान्तविलक्षणेष्वपि वस्तुषु तदेवेदमिति प्रत्यभिज्ञा जायते । अतो व्यात्मकमेव वस्तु प्रतीयते इति कार्यकारणयोर्जातिव्यक्त्योश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् । अथोच्येत - ' मृदयं घटः खण्डो गौः' इतिवत् 'देवोऽहं मनुष्योऽहम्' इति सामानाधिकरण्येनैक्यप्रतीतेरात्मशरीरयोरपि भिन्नाभिन्नत्वं स्यात् ; अथ इदं भेदाभेदोपपादनं निजसदननिहितहुतवहज्वालायत इति, तदिदमनाकलितभेदाभेदसाधन समानाधिकरण्यतदर्थयाथात्म्यावबोधविलसितम् । तथा हिअबाधित एव प्रत्ययः सर्वत्रार्थ व्यवस्थापयति । देवाद्यात्माभिमानस्तु आत्मयाथात्म्यगोचरैस्सर्वैः प्रमाणैर्बाध्यमानो रज्जुसर्पादिबुद्धिवन्नात्मशरीरयोरभेदं साधयति । ' खण्डो गौः, मुण्डो गौ: ' इति सामानाधिकरयस्य न केनचित्कचिद्वाधो दृश्यते । तस्मान्नातिप्रसङ्गः । अत एव जी - वोsपि ब्रह्मणो नात्यन्तभिन्नः । अपि तु ब्रह्मांशत्वेन भिन्नाभिन्नः । darभेद एव स्वाभाविकः, भेदस्त्वोपाधिकः कथमवगम्यत इति चेत् :२" तत्त्वमसि " ३" नान्योऽतोऽस्ति द्रष्टा " ४" अयमात्मा ब्रह्म" इत्यादिभिःश्रुतिभिः ५" ब्रह्मेमे द्यावापृथिवी " इति प्रकृत्य " ब्रह्म दाशा ब्रह्म दासा ब्रह्मे कितवा उत । स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान्" इत्याथर्वणिकानां संहितोपनिषदि ब्रह्मसूते अभेदश्रवणाच्च । ६" नित्यो नित्यानां चेतनचेतनानामेको बहूनां यो विदधाति — १. सूक्ष्म. पा २. छा- ६. प्र. ८. स-७॥ ३. बृ ५. अ-७. या २३॥ Acharya Shri Kailassagarsuri Gyanmandir ४. बृ- ६. अ-४, बा-५॥ ६. श्वे. ६. अ- १३॥ For Private And Personal Use Only ५॥ Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५२ शारीरकमीमांसाभाष्ये (अ. १. कामान् ” १" ज्ञाज्ञौ द्वावजावीशनीशौ ” २" क्रियागुणैरात्मगुणैश्च तेषां संयोग हेतुरपरोऽपि दृष्टः " ३" प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः " ४" स कारणं करणाधिपाधिपः " ५" तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचातशीति " ६" य आत्मनि तिष्ठन् " " प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद "..." प्राज्ञेनाऽत्मनाऽन्वारूढः उत्सर्जन्याति " ८" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिभिर्भेदश्रवणाच्च, जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ, तत्र १ " ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापतिव्यपदेशात् । १०" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति तदानीं भेदेनेश्वरदर्शननिषेधाच्चाभेदस्स्वाभाविक इत्यवगम्यते । ननु च ११" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता " इति सहश्रुत्या तदानीमपि भेद: १२ प्रतीयते । वक्ष्यति च १३ " जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ” *“ भोगमात्रसाम्यलिङ्गाच्च " इति । नैतदेवम् १४" नान्योऽतोऽस्ति द्रष्टा " इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात् । *" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति सर्वैः कामैस्सह ब्रह्माश्नुते - सर्वगुणान्वितं ब्रह्माश्नुत इत्युक्तं भवति । अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत। " जगद्व्यापारवर्जम्" इत्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते, अन्यथा " संपद्याविर्भावस्स्वेनशब्दात् " इत्यादिभिर्विरोधात् । तस्मादभेद एव * १. श्वे. १ - अ, ९ ॥ २. वे. ५-अ १२॥ ३. श्वे, ६-१६॥ ४. वे. ६-अ. ९॥ ५ वे. ४- अ. ६ ॥ ६. बृ. ५- अ. ७-ब्रा, २२. माध्यन्दिनपाठः ॥ ७. ब्रु. ६-अ. ३ - बा. २१, ३५॥ Acharya Shri Kailassagarsuri Gyanmandir ८, वे. ३. अ. ८॥ ११. तै- आ ९. मुण्ड. ३. भु. २ ख ९॥ १०. बृ-४. अ-४. ब्रा - १४॥ १. अनु ॥ १२. प्रतीयते इति पा * १३. शारी- ४. अ-४. पा-१७. २१.१ ॥ १४. बु- ५. अ-७ वा २३ ॥ For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम् स्वाभाविकः । भेदस्तु जीवानां परस्मात् ब्रह्मणः, परस्परं च बुद्धीन्द्रियदेहोपाधिकृतः । यद्यपि ब्रह्म निरवयवं सर्वगतं च ; तथाऽप्याकाश इव घटादिना बुद्ध्याापाधिना ब्रह्मण्यपि भेदस्संभवत्येव । न च भिन्ने ब्रह्मणि बुद्ध्याधुपाधिसंयोगः, बुद्ध्याापाधिसंयोगाद्ब्रह्मणि भेद इतीतरेतराश्रयत्वम् : उपाधेस्तत्संयोगस्य च कर्मकृतत्वात् , तत्प्रवाहस्य चानादित्वात् । एतदुक्तं भवति–पूर्वकर्मसंवद्धाज्जीवात् स्वसंबद्ध एवोपाधिरुत्पद्यते, तद्युक्तात्कर्म। एवं बीजाङ्करन्यायेन कर्मोपाधिसंबन्धस्यानादित्वान दोषः-इति।अतो जीवानां परस्परं ब्रह्मणा चाभेद एव स्वाभाविकः। भेदस्त्वौपाधिकः। उपाधीनां पुनः परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविकः, उपाधीनामुपाध्यन्तराभावात् , तदभ्युपगमेऽनवस्थानाच । अतो जीवकर्मानुरूपं ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधयउत्पद्यन्ते इति ॥ ___अत्रोच्यते-अद्वितीयसच्चिदानन्दब्रह्मध्यानविषयविधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यैरभेदः प्रतीयते । भेदावलम्बिभिः कर्मशास्त्रैः प्रत्यक्षादिभिश्च भेदः प्रतीयते । भेदाभेदयोः परस्परविरोधात अनाद्यविद्यामूलतयाऽपि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इत्युक्तम् । तत्र यदुक्तं-भेदाभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोधः इति।तदयुक्तम् , कस्माञ्चित्कस्यचिद्विलक्षणत्वं हि तस्मात्तस्य भेदः। तद्विपरीतत्वं चाभेदः। तयोस्तथाभावातथाभावरूपयोरेकन सम्भवमनुन्मत्तः को ब्रवीति? । कारणात्मना जात्यात्मना चाभेदः, कार्यात्मना व्यक्त्यात्मना च भेदः-इत्याकारभेदादविरोध इति चेत्-न विकल्पासहत्वात्। आकारभेदादविरोधं वदतः किमेकस्मिन्नाकारे भेदः, आकारान्तरे चाभेद:इत्यभिप्रायः?; उताकारद्वययोगिवस्तुगतावुभावपीति? पूर्वस्मिन् कल्पेव्यक्तिगतो भेदः,जातिगतश्चाभेद इति नैकस्य द्वयात्मकता। जातिय॑क्ति १. गमे चानवस्थानात् पा॥ 20 For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. तन्मूला जन्ममरणा पा. २. मुण्ड- १. मु-१. ख ९. १५४ शारीरकमीमांसाभाष्ये [अ. १. रिति चैकमेव वस्त्विति चेत्तर्ह्यकारभेदादविरोधः परित्यक्तस्स्यात् । एकस्मिंश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम् । द्वितीये तु कल्पे अन्योन्यविलक्षणमाकारद्वयमप्रतिपन्नं च तदाश्रयभूतं वस्त्विति । तृतीयाभ्युपगमेऽपि त्रयाणामन्योन्यवैलक्षण्यमेवोपपादितं स्यात् ; न पुनरभेदः । आकारद्वयनिरुह्यमाणाविरोधं तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत् — स्वस्माद्विलक्षणं स्वाश्रयमाकारद्वयं स्वस्मिन्विरुद्धधर्मद्वयसमावेशनिर्वाहकं कथं भवेत् || अविलक्षणं तु कथंतराम् । आकारद्वयतद्व१ तोच व्यात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात् । न च सम्प्रतिपन्नैक्यव्यक्तिप्रतीतिवत् ससामान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते । यतः 'इदमित्थम्' इति सर्वत्र प्रकार प्रकारितयैव सर्वा प्रतीतिः । तत्र प्रकारांशी जातिः, प्रकार्यशो व्यक्तिरिति नैकाकारा प्रतीतिः । अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न सम्भवति । तस्मादभेदस्यानन्यथासिद्धशास्त्रमूलत्वादनाद्यविद्यामूल एव भेदप्रत्ययः । नन्वेवं ब्रह्मण एवाज्ञत्वं, तन्मूलाश्च जन्मजरामरणादयो दोषाः प्रादुःष्युः ततश्च २" यस्सर्वज्ञस्सर्ववित्" ३" एष आत्माऽपहतपाप्मा" इत्यादीनि शास्त्राणि बाध्येरन् । नैवम् - अज्ञानादिदोषाणामपरमार्थत्वात् । भवतस्तूपाधिब्रह्मव्यतिरिक्तं वस्त्वन्तरमनभ्युपगच्छतो ब्रह्मण्येवोपाधिसंसर्गस्तत्कृताव जीवत्वात्वादयो दोषाः परमार्थत एव भवेयुः। न हि ब्रह्मणि निtara अच्छे सम्बद्ध्यमाना उपाधयस्तच्छित्वा भित्वा वा सम्बद्ध्यन्ते । अपि तु ब्रह्मखरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति । यदि ५ मन्वीत उपाध्युपहितं ब्रह्म जीवः । स चाणुपरिमाणः । अणुत्वं चावच्छेदकस्य मनसोऽणुत्वात् । स चावच्छेदोऽनादिः । एवमुपाध्युपहितेंशे संवच्यमाना दोषाः अनुपहिते परे ब्रह्मणि न संबद्ध्यन्ते इति । अयं प्रष्ट Acharya Shri Kailassagarsuri Gyanmandir ३. छा-८. प्र - १. ख-५. ४. जीवत्वादयो.पा. For Private And Personal Use Only ५. मन्वीथा. पा. Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ पा. १.] समन्वयाधिकरणम्. व्यः-किमुपाधिना छिन्नो ब्रह्मखण्डोऽणुरूपो जीवः? उताच्छिन्न एवाणुरूपोपाधिसंयुक्तो ब्रह्मपदेशविशेषः। उतोपाधिसंयुक्तं ब्रह्मस्वरूपम्।। अथोपाधिसंयुक्तं चेतनान्तरं । अथोपाधिरेव इति । अच्छेद्यत्वाब्रह्मणः प्रथमः कल्पो न कल्पते । आदिमत्त्वं च जीवस्य स्यात् । एकस्य सतो द्वैधीकरणं हि च्छेदनम् । द्वितीये तु कल्पे ब्रह्मण एव प्रदेशविशेषे उपाधिसंबन्धादौपाधिकास्सर्वे दोषास्तस्यैव स्युः। उपाधौ गच्छत्युपाधिना स्वसंयुक्तब्रह्मप्रदेशाकर्षणायोगादनुक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदात् क्षणेक्षणे बन्धमोक्षौ च स्याताम् । आकर्षणे चाच्छिन्नत्वात् कृत्स्नस्य ब्रह्मणः आकर्षणं स्यात् । निरंशस्य व्यापिनः आकर्षणं न सम्भवतीति चेत् तर्हि उपाधिरेव गच्छतीति पूर्वोक्त एव दोषः स्यात् । अच्छिन्नब्रह्मप्रदेशेषु सर्वोषाधिसंसर्ग सर्वेषां च जीवानां ब्रह्मण एवं प्रदेशत्वेनैकत्वेन प्रतिसन्धानं स्यात् । प्रदेशभेदाप्रतिसन्धाने चैकस्यापि स्वोपाधौ गच्छति प्रतिसन्धानं न स्यात् । तृतीये तु कल्पे ब्रह्मस्वरूपस्यैवोपाधिसम्बन्धेन जीवत्वापातात् तदतिरिक्तानुपहितब्रह्मासिद्धिः स्यात् । सर्वेषु च देहेष्वेक एव जीवः स्यात् । तुरीये तु कल्पे ब्रह्मणोऽन्य एव जीव इति जीवभेदस्यौपाधिकत्वं परित्यक्तं स्यात् । चरमे चार्वाकपक्ष एव परिगृहीतः स्यात् । तस्मादभेदशास्त्रवलेन कृत्स्नस्य भेदस्याविद्यामूलत्वमेवाभ्युपगन्तव्यम् । अतः प्रवृत्तिनिवृत्तिप्रयोजनपरतयैव शास्त्रस्य प्रामाण्येऽपि ध्यानविधिशेषतया वेदान्तवाक्यानां ब्रह्मस्वरूपे प्रामाण्य३मुपपन्नम् इति ॥ तदप्ययुक्तम् ---ध्यानविधिशेषत्वेऽपि वेदान्तवाक्यानामर्थसत्यत्वे प्रामाण्यायोगात् । एतदुक्तं भवति–ब्रह्मवरूपगोचराणि वाक्यानि किं ध्यानविधिनैकवाक्यतामापन्नानि ब्रह्मस्वरूपे प्रामाण्यं प्रतिपद्यन्ते उत स्व१. प्रदेशत्वेनैकत्वप्रतिसं. २. गच्छति सति. ३. उपपन्नतरम् . For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ शारीरकमीमांसाभाष्ये [भ. १. तन्त्राण्येव एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्य न सम्भवति। भिन्नवाक्यत्वे प्रवृत्तिनिवृत्तिप्रयोजनविरहादनवबोधकत्वमेव। न च वाच्यम्-ध्यानं नाम स्मृतिसन्ततिरूपम् । तच्च स्मर्तव्यैकनिरूपणीयमिति ध्यानविधेस्स्मतव्यविशेषाकाङ्क्षायाम् १" इदं सर्वं यदयमात्मा" २"ब्रह्म सर्वानुभूः" ३ "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादीनि स्वरूपतद्विशेषादीनि समर्पयन्ति । तेनैकवाक्यतामापन्नान्यर्थसद्भावे प्रमाणम् इति ध्यानविधेस्स्मर्तव्यविशेषापेक्षत्वेऽपि ४"*नाम ब्रह्म" इत्यादिदृष्टिविधिवदसत्येनाप्यर्थविशेषेण ध्याननिर्वृत्त्युपपत्तेः ध्येयसत्यत्वानपेक्षणात्। अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिप्रयोजनविधुरत्वाद्ध्यानविधिशेषत्वेऽपि ध्येयविशेषस्वरूपसमर्पणमानपर्यवसानात् , स्वातन्त्र्येऽपि बालातुरायुपच्छन्दनवाक्यवत् ज्ञानमात्रेणैव पुरुषार्थपर्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यतागोचरत्वाभावात् ब्रह्मणश्शास्त्रप्रमाणकत्वं न सम्भवतीति प्राप्तम् ॥ ___---( सिद्धान्तः )... __ तत्र प्रतिपद्यते-तत्तु समन्वयात्-इति।समन्वयः-सम्यगन्वयः पुरुषार्थतयाऽन्वय इत्यर्थः। परमपुरुषार्थभूतस्यानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात् । तत् शास्त्रप्रमाणकत्वं सिध्यत्येवेत्यर्थः । निरस्तनिखिलदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन्वेदान्तवाक्यगणः प्रवृत्तिनिवृत्तिपरताविरहान्न प्रयोजनपर्यवसायीति ब्रुवाणो राजकुलवासिनः पुरुषस्य कौलेयककुलाननुप्रवेशेन प्रयोजनशून्यता ब्रूते । एतदुक्तं भवति—अनादिकर्मरूपाविद्यावेष्टनतिरोहितपरावरतत्त्वयाथात्म्यवस्वरूपावबोधानां देवासुरगन्धर्वसिद्धविद्याधरकिन्नरकिम्पुरुष यक्षराक्षसपिशाचमनुजपशुशकुनिसरीसृपक्षगुल्मलतादूर्वादीनां स्त्री १. बृ-४. अ-४, ब्रा-६. २. बृ-४. ४. छां-७.प्र-१.ख-५. * मनो ब्रह्म.पा. अ-५. ब्रा-१९. ३. ते.आनं-१ अनु. | छा. ७ प्र. ३. ख. २. ५. यक्षरक्षःपि. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. १५७ पुनपुंसकभेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषकभोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषणानुभवसम्भवे स्वरूपगुणविभवचेष्टितैरनवधिकातिशयानन्दजननं परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपर्यवसायि । प्रवृत्तिनिवृत्तिनिष्ठं तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि । एवंभूतं परं ब्रह्म कथं प्राप्यत इत्यपेक्षायां १"ब्रह्मविदाप्नोति परम्" २“आत्मानमेव लोकमुपासीत" इति वेदनादिशब्दरुपासनं ब्रह्मप्राप्त्युपायतया विधीयते । यथास्ववेश्मनि 'निधिरस्ति' इति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रयतते। यथाच कश्चि द्राजकुमारो वालक्रीडासक्तो नरेन्द्रभवनानिष्क्रान्तो मार्गाद्भष्टो नष्ट इति राज्ञा विज्ञातस्स्वयं चाज्ञातपितृकः केनचिद्विजवर्येण वर्धितोऽधिगतवेदशास्त्रषोडशवर्षस्सर्वकल्याणगुणाकरस्तिष्ठन् 'पिता ते सर्वलोकाधिपतिः गाम्भीर्यौदार्यवात्सल्यसौशील्यशौर्यवीर्यपराक्रमादिगुणसम्पन्नस्त्वामेव नटं पुत्रं दिक्षुः पुरवरे तिष्ठति' इति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत् तदानीमेव 'अहं तावत् जीवतः पुत्रः, मत्पिता च सर्वसम्पत्समृद्धः' इति निरतिशयहर्षसमन्वितो भवति । राजा च स्वपुत्रं जीवन्तमरोगमतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वाऽवाप्तसमस्त पुरुषार्थों भवति । पश्चात्तदुपादाने च प्रयतते । पश्चात्तावुभौ सङ्गच्छेते च-इति।। यत्पुनःपरिनिष्पन्नवस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् बालातुराग्रुपच्छन्दनवाक्यवन्नार्थसद्भावे प्रामाण्यम् ...इति । तदसत्अर्थसद्भावाभावे निश्चिते ज्ञातोऽप्यर्थः पुरुषार्थाय न भवति। बालातुरादीनामप्यर्थसद्भावभ्रान्त्या हर्षाद्युत्पत्तिः।तेषामेव तस्मिनेव ज्ञाने विद्यमाने यद्यर्थाभावनिश्चयो जायेत; ततस्तदानीमेव हर्षा१. तै-आनं-१. अनु. __४. पुरुषार्थो भवति. पश्चात्तावुभौ संगच्छेते २. बृ-३. अ-४. ब्रा-१५. ३. तव वेश्मनि. । ५. बालादीनामर्थ...हर्षायुपपतिः. पा. च पा, For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ वेदान्तदीपे दयो निवर्तेरन् । औपनिषदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्यवसानं न स्यात् । अतः १ यतो वा इमानि भूतानि जायन्ते " इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलदोषगन्धं सार्वइयसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवाधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम् ॥ ४ ॥ इति श्रीशारीरकमीमांसाभाष्ये समन्वयाधिकरणम् ॥ ४ ॥ ~ ( वेदान्तसारे समन्वयाधिकरणम् || ४ || ) तत्तु समन्वयात् । १।१।४॥ २ पुरुषार्थतयाऽन्वयः समन्वयः शास्त्राख्यप्रमाणस्य पुरुषार्थपर्यवसायित्वेऽपि ब्रह्म स्वस्य परस्यश्चानुभवितुः अविशेषेण स्वरूपेण गुणैः विभूत्या च अनुभूयमानम् अनवधिकातिशयानन्दरूपमिति पुरुषार्थत्वेनाभिधेयतयाऽन्वयात्, ब्रह्मणश्शास्त्रप्रमाणकत्वमुपपन्नतरमिति निरवद्यं निखिलजगदेककारणं ब्रह्म - दान्ताः प्रतिपादयन्तीत्युक्तम् । तस्यैकस्यैकदैव कृत्स्नजगन्निमित्तत्वं तस्यैवोपादानतया जगदात्मकत्वञ्च नानुमानादिगम्यमिति शास्त्रक प्रमाणकत्वात् तस्य चानवाधिकातिशयानन्दरूपतया परमपुरुषार्थत्वाद्वेदान्ताः प्रतिपादयन्त्येवेति स्थिरीकृतम् । अतः परं पादशेषेण जगत्कारणतया प्रधानपुरुषप्रतिपादनानर्हतया सर्वशं सत्यसङ्कल्पं निरस्ताविद्यादिसमस्तदोषगन्धम् अपरिमितोदारगुणसागरं ब्रह्मैव वेदान्ताः प्रतिपादयन्तीत्युच्यते ॥ ४ ॥ " इति वेदान्तसारे समन्वयाधिकरणम् ॥ ४ ॥ ( वेदान्तदीपे समन्वयाधिकरणम् || ४ || ) तत्तु समन्वयात् । १ । १ । ४ ॥ [अ. १. १. तै- भृगु. १ - अनु. १· २. पुरुषार्थतया सम्यगन्वयः समन्वय: पा. अनवधिकातिशयानन्द. प्रा. For Private And Personal Use Only ३. वानुभवितुः स्वरूपेण गुणैः विभूत्या वा Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] ईक्षत्यधिकरणम् १५९ बह्मणश्शास्त्रप्रमाणकत्वं सम्भवति, नेति विचार्यते । न सम्भवतीति पूर्वः पक्षः कुतः प्रवृत्तिनिवृत्त्यन्वयविरहिणो ब्रह्मणः स्वरूपेणापुरुषार्थत्वात् पुरुषार्थावबोधकत्वेन च शास्त्रस्य प्रामाण्यान्मोक्षसाधनब्रह्मध्यानविधिपरत्वेऽसत्यपि ब्रह्मणि तयानविधानसम्भवात् न ब्रह्मसद्भावे तात्पर्यमिति ब्रह्मणश्शास्त्रप्रमाणकत्वं न सम्भवति इति । राद्धान्तस्तु - अतिशयितगुणपितृपुत्रादिजीवनज्ञानवत् अनवधिकातिशयानन्दस्वरूपब्रह्मज्ञानस्य निरतिशयपुरुषार्थत्वातस्य शास्त्रप्रमाणकत्वं सम्भवति, "आनन्दो ब्रह्म" "यदेष आकाश आनन्दो न स्यात्" "यतो वाचो निर्वतन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वानें " इत्यादिभिरनवधिकातिशयानन्दस्वरूपं ब्रह्मेति हि प्रतिपाद्यते। अतो ब्रह्म स्वेन परेण वाप्यनुभूयमानं निरतिशयानन्दस्वरूपमेवेति तत्प्रतिपादन परस्यैव साक्षात्पुरुषार्थान्वयः । प्रवृत्तिनिवृत्तिपरस्य तु तत्साध्यफलसम्बन्धात्पुरुषार्थान्वयः - इति ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रार्थः - तुशब्दः प्रसक्ताशङ्कानिवृत्त्यर्थः । तत् पूर्वसूत्रोदितं ब्रह्मणश्शास्त्रयोनित्वं सिद्ध्यति । समन्वयात् – सम्यक् पुरुषार्थतयाऽन्वयः समन्वयः । वेदितुर्निरतिशयानन्दस्वरूपत्वेन परमपुरुषार्थरूपे परे १ ब्रह्मणि वेदकतया शास्त्रस्यान्वयाद्ब्रह्मणश्शास्त्रप्रमाणकत्वं सिद्ध्यत्येव - इति ॥ इति वेदान्तदीपे समन्वयाधिकरणम् || ४ || ( शारीरकमीमांसाभाष्ये ईक्षत्यधिकरणम् ॥ ५ ॥ १. ब्रह्मण्यावेदकशास्त्रान्वयात्. पा. २. तै- भृगु, १ - अनु. १. ईक्षतेर्नाशब्दम् । १ । १ । ५ ॥ २" यतो वा इमानि " इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्त प्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्यु - क्तम् । इदानीं जगत्कारणवादिवाक्यानामानुमानिकप्रधानादिप्रतिपादनानर्हतोच्यते-- ईक्षतेनशब्दम् इत्यादिना || इदमान्नायते छान्दोग्ये ३ “सदेव सोम्येदमग्र आसीदेकमेवाद्विती ३. छा- ६. प्र-२. ख- १. For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० शारीरकमीमांसाभाष्ये [अ. १. यम् । तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत"इत्यादि । तत्र सन्देहः -किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम् ? , उतोक्तलक्षणं ब्रह्म-इति ॥ किं प्राप्तम् ? प्रधानमिति । कुतः ? *"सदेव सोम्येदमग्र आसीदेकमेव" इतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः कारणावस्थां वदति । कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता । अतो यद्दव्यं यत्स्वभावं च कार्यावस्थम् ; तत्स्वभावं तदेव द्रव्यं कारणावस्थम् । सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम् । तदेवोपसंहृतसकलविशेष सन्मात्रमिति *"स देव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्यभिधीयते । तत एव च कार्यकारणयोरनन्यत्वम् । तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः।अन्यथार "यथा सोम्यैकेन मृत्पिण्डेन" इत्यादि मृत्पिण्डतत्कार्यदृष्टान्तदान्तिकयो(रूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते । प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छब्दवाच्यमानुमानिकमेव इत्येवं प्राप्तेऽभिधीयते ईक्षते शब्दम् इति । यस्मिन् शब्द एव प्रमाणं न भवति, तदशब्दम् आनुमानिकं प्रधानमित्यर्थः। न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम्। कुतः? ईक्षतेः-सच्छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोश्श्रवणात् ।३"तदैवत बहु स्यां प्रजायेय"इति ईक्षणक्रियायोगश्चाचेतने प्रधाने न सम्भवति । अत ईदृशेक्षणक्षमश्चेतन विशेषस्सर्वज्ञस्सर्वशक्तिः पुरुषोत्तमस्सच्छब्दाभिधेयः। तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकैव सृष्टिःप्रतीयते--४“स ईक्षत लोकान्नु सृजा इति १. तत्र सन्दियते. पा. ३. छा-६. प्र.२. ख-३. २. छा-६. प्र-१. ख-४. ४. ऐ-१. ख-१,२. For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ईक्षत्यधिकरणम्, स इमाल्लोकानसृजत" "स ईक्षाश्चके...स प्राणमसृजत" इत्यादिषु। ननु च कार्यानुगुणेनैव कारणेन भवितव्यम्।सत्यम् सर्वकार्यानुगुण एव सर्वज्ञस्सर्वशक्तिस्सत्यसङ्कल्पः पुरुषोत्तमस्सूक्ष्मचिदचिद्वस्तुशरीरकः। यथाऽऽह २"पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च"३"यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः" "यस्याव्यक्तं शरीरं...यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् .. एष सर्वभूतान्तरात्मा"इतितदेतत्-.५"न विलक्षणत्वात्" इत्यादिषु प्रतिपादयिष्यते। अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते । वस्तुविरोधस्तु तत्रैव परिहरिष्यते । यत्तूक्तंप्रतिज्ञादृष्टान्तयोगादनुमानरूपमेवेदं वाक्यम्-इति,तदसत् : हेत्वनुपादानात् । ६"येनाश्रुतं श्रुतम्" इत्येकविज्ञानेन सर्वविज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसम्भवं मन्वानस्य तत्सम्भवमानप्रदर्शनाय हि दृष्टान्तोपादानम् । ईक्षत्यादिश्रवणादेव ह्यनुमानगन्धाभावोऽवगतः ॥५॥ अथ स्यात् -न चेतनगतं मुख्यमीक्षणमिहोच्यते, अपि तु प्रधानगतं गौणमीक्षणम्, "तत्तेज ऐक्षत - ता आप ऐक्षन्त"इति गौणेक्षणसाहचर्यात् । भवति चाचेतनेष्वपि चेतनधर्मोपचारः। यथा- 'दृष्टिप्रतीक्षा शालय'८"वर्षेण बीजं प्रतिसञ्जहर्ष"इति। अतो गौणमीक्षणमितीमामाशङ्कामनुभाष्य परिहरति गौणश्चेन्नात्मशब्दात् । १।१॥६॥ यदुक्तं - गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशस्सर्गनियतपूर्वावस्थाभिप्रायो गौणः-इति। तन्न ९“ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा" इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात् । एतदुक्तं १. प्रश्न-६. प्रश्न-३,४॥ २. श्वे-६. अ-८॥ ६. छां-६. प्र-१. ख-३॥ ३. मु-१. मु-१. ख-९॥ ७. छां-६. प्र-२. ख-३, ४॥ ४. सु-७. ख. तुरीयातीतावधूतोप. च. १॥ ८. रामायणे. सुन्दर. २९-सर्ग. ६-श्लो।। ५. शारी-२. अ-१. पा-४. स॥ ! ९. छां-६. प्र.८. ख-७॥ 21 For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ शारीरकमीमांसाभाष्ये [अ. १. भवति - १" ऐतदात्म्यमिदं सर्वम् । स आत्मा" इति चेतनाचेतनप्रपञ्चोदेशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छते इति । अतस्तेजोsवन्नानामपि परमात्मैवात्मेति तेजःप्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः । तथाहि - २" हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति परमात्मानुप्रवेशादेव तेज:प्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वश्चेति ३" तत्तेज ऐक्षत"*"ता आप ऐक्षन्त" इत्यपि मुख्य एवेक्षणव्यपदेशः । अतस्साहचर्यादपि " तदैक्षत " tara ४ गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः ॥ ६ ॥ इतश्च न प्रधानं सच्छन्दप्रतिपाद्यम्तन्निष्ठस्य मोक्षोपदेशात् ॥ १ ॥१॥७ ॥ इतश्च न प्रधानम् --- मुमुक्षोरश्वेतकेतोः *“ तत्त्वमसि " इति सदात्मकत्वानुसन्धानमुपदिश्य, तन्निष्ठस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति शरीरपातमात्रान्तरायो ब्रह्मसम्पत्तिलक्षणो मोक्ष इत्युपदिशति । यदि च प्रधानमचेतनं कारणमुपदिश्येत तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते । ६ “यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति”इति तन्निष्ठस्याचेतनसम्पत्तिरेव स्यात् । नच मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंविधतापत्रयाभिहतिहेतुभूतामचित्सम्पत्तिमुपदिशति । प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir १. छां - ६. प्र-८. ख. ७॥ २. छां - ६. प्र ३ ख २ ॥ ३. छां - ६ प्र. २- ख - ३.४ ॥ ४. गौणत्वादिशङ्का. पा॥ हेयत्वावचनाच्च। १।१८॥ ५. छां - ६. प्र. १४ - ख. २॥ ६. छां - ३. प्र. १४. ख - १॥ ७. वत्सलतरं हि शास्त्रं पा For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ईक्षत्यधिकरणम् . १६३ यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत् तदा मुमुक्षोश्श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वादेयत्वेनैवोपदेश्यं स्यात् । न च तक्रियते, प्रत्युतोपादेयत्वेनैवर "तत्वमसि"३"तस्य तावदेव चिरम्" इत्युपदिश्यते ॥ ८॥ इतश्च न प्रधानम् प्रतिज्ञाविरोधात्। १।१॥९॥ प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति । वाक्योपक्रमे ोकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् । तत्तु प्रधानकारणत्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धेविरुध्यते ॥९॥ इतश्च न प्रधानम् -- स्वाप्ययात्।१।१।१०॥ तदेव सच्छब्दवाच्यं प्रकृत्याह ४"स्वमान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषस्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते खं ह्यपीतो भवति" इति सुषुप्तं जीवं सता सम्पन्न स्वमपीतः --स्वस्मिन् प्रलीनः इति व्यपदिशति । प्रलयश्च-स्वकारणे लयः। न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणंभवितुमर्हति । स्वमपीतो भवति --आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव ६जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम्। तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलयकाल १. भिहितं-तदा. पा॥ ४. छां-६. प्र-८. ख-१॥ २. छां-६. प्र-८. ख-७॥ ५. भवति, पा॥ ६. जीवशब्देनाप्यभिधी. पा॥ ३. छां-६. प्र-१४. ख-२॥ For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६४ [म. १. इव नामरूपपरिष्वङ्गाभावात् केवलसच्छन्दाभिधेयमिति १" सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् २ "प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि र जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते -- ४" यदा' सुप्त - स्स्वयं न किञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति "८" तस्माद्वा ९ आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते"; ११ तथा - १२" त इह व्याघ्रो सिंहो वा वृको वा वराहो वा देशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति” इति च । तथा सुषुप्तं जीवं * “प्राज्ञेनाऽत्मना सम्परिष्वक्तः " इति च वदति ॥ १ शारीरकमीमांसाभाष्ये १. छां - ६. प्र ८, ख - १॥ २. बृ- ६. अ-३. ब्रा - २१॥ ३. जागरण. पा॥ ४. कौषीतकी, ४. अ- १९ ॥ तस्मात् सच्छन्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः ""सता सोम्य तदा सम्पन्नो भवति " इति, सम्पत्यसम्पत्तिभ्यामेतदध्यवसीयते " प्राज्ञेनाऽत्मना सम्परिष्वक्तः" इति चाह - इति ॥ १० ॥ इतश्च न प्रधानम्- Acharya Shri Kailassagarsuri Gyanmandir गतिसामान्यात् । १।१॥११॥ ७. कौषी. ४. अ- १९॥ ८. एतस्मादात्मनः, एतस्माद्वा आत्मनः पा|| ९. यथायतनं पा|| १०. यथा. पा।। ११. छां ६. प्र ९. ख-३॥ १२. सिंहोवा वृकोवायाद्भवन्ति तथाभ. पा।। १३. तै. आनं-१ - अनु|| ५. सुषुप्तः. पा॥ ६. कथश्वन. पा।। ६. अथहास्मिन् पा।। For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra इतश्व न प्रधानम् - पा. १.] ईशत्यधिकरणम्. १६५ १" आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमाल्लोकानसृजत " २" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः । आकाशाद्वायुः। वायोरग्निः । अग्नेरापः। अद्भ्यः पृथिवी " ३" तस्यह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" इत्यादिसृष्टिवाक्यानां या गतिः प्रवृत्तिः, तत्सामान्यात् तत्समानार्थत्वादस्य; तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते । तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते ॥ ११ ॥ www.kobatirth.org श्रुतत्वाच्च । १ । १ । १२ ॥ ५. श्रुतमेव स्यामुपनिषदि अस्य सच्छन्दवाच्यस्य आत्मत्वेन नामरूपयोर्व्याकर्तृत्वं सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वाधारत्वम्, अपहतपाप्मत्वादिकं, सत्यकामत्वं सत्यसङ्कल्पत्वञ्च - ४" अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” “सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः " ६ "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा"७" यच्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन्समाहितम् । तस्मिन् कामास्समाहिताः " ९ एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति ।। १. ऐन - १. अ- १. खं ।। २. तै- आनं - १. अनु।। Acharya Shri Kailassagarsuri Gyanmandir तथाच श्रुत्यन्तराणि १० " न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् |स कारणं करणाधिपाधिपो न चास्य कश्चिज्ज ३. सुबा. २॥ ४. छां - ६. प्र-३. खं-२ ॥ ५, ६. छां - ६. प्र-८. खं. ६-७॥ ७. छ- ८. प्र- १. खं - ३-५ ॥ ८. अस्मिन् पा॥ ९. छा. ८-१-५॥ For Private And Personal Use Only १०. वे. ६. अ - ९ ॥ Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६६ शारीरकमीमांसाभाष्ये [अ. १. निता न चाधिप: "१" सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" २" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" ३" विश्वात्मानं परायणम्" ३" पति विश्वस्याऽत्मेश्वरम् " ३" यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपिवा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " ४" एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादीनि । तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम् । अतस्सर्वज्ञस्सर्वशक्तिस्सर्वेश्वरेश्वरो निरस्त निखिल दोषगन्धोऽनवधिकातिशयासङ्ख्येयकल्याणगुणगणौघमहार्णवः पुरुषोत्तमो नारायण एवं निखिलजगदे - ककारणं जिज्ञास्यं ब्रह्मेति स्थितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir अत एव निर्विशेषचिन्मातब्रह्मवादोऽपि सूत्रकारण आभिश्श्रुतिभिः निरस्तो वेदितव्यः ; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् । निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकं वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम् । तच्च चेतनमिति ईक्षतेनशब्दम् - इत्यादिभिस्सूतैः प्रतिपाद्यते । चेतनत्वं नाम चैतन्यगुणयोगः । अत ईक्षणगुणविरहिणः प्रधानतुल्यत्वमेव । किंच - निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुपपादम् । प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापादयन्वस्तुविशेषः । निर्विशेषस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव । तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत् तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव । सामर्थ्यगुणयोगे हि निर्विशेषवादः परित्यक्तस्स्यात् । अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत् हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वं, सर्वेश्वरेश्वरत्वं, सर्वकल्याणगुणाकरत्वं, सकलहेयप्रत्यनीकतेत्यादयस्सर्वेऽ १. तै- आरण्य ब्रह्ममेध - पुरुषसू - ३.१२.१३॥ २. तै- आरण्य - चित्ति - ३. प्रश्न- ११. अनु- २१.५ ॥ ३. तै- ना - ११. अनु॥ ४. सुबा. खं-७॥ ५. वादीनि वाक्यानि न प्रधानप्रतिपादनयोग्यानि पा ६. समस्त, पा।। For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] ईक्षत्यधिकरणम्. १६७ भ्युपगन्तव्याः । शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम् ; कार्यविशेषस्य निष्प्रमाणकत्वे तदेकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणकं स्यात् । किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम् । प्रत्यक्षानुमानागमस्वानुभवाः सविशेषगोचरा इति पूर्वमे - वोक्तम् । तस्माद्विचित्रचेतनाचेतनात्मकजगद्रोण ?" बहु स्याम् " इतीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम् ॥ १२ ॥ इति श्रीशारीरकमीमांसाभाष्ये ईक्षत्यधिकरणम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे ईक्षत्यधिकरणम् ॥ ५ ॥ ), तत्र तावत्प्रधानं वेदान्तप्रतिपादनानर्ह मित्याह ३. छा. ६-२-३॥ वस्तुनि पा|| ईक्षतेर्नाशब्दम् । १।१।५ ॥ अशब्दम् - आनुमानिकं प्रधानम् । तत् वेदान्तवेद्यम् नः कुतः ? ईक्षतेः २" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इति प्रस्तुतजगत्कारणव्यापारवाचिनः ईक्षतेर्धातोदश्रवणात्- 'तदैक्षत बहु स्याम्" - इति ॥ ५ ॥ * गौणश्चेन्नात्मशब्दात् । १।१।६ ॥ ३" तत्तेज ऐक्षत" ४ इत्यादिषु अचेतनेऽपि वस्तुनि ईक्षतिश्श्रूयते । तत्र गौण इति चेत्-नैतदुपपद्यते, प्रस्तुते सच्छन्दवाच्ये श्रूयमाणाश्चेतनवाचिनः आत्मशब्दात् । ६“स आत्मा तत्त्वमसि श्वेतकेतो” इति ह्युत्तरत्र श्रूयते । तेज:प्रभृतिष्वपि न गौणमीक्षणम् । तेजःप्रभृतिशब्दैरपि तत्तच्छरीरकं ब्रह्मवाभिधीयते, ७" अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ब्रह्मात्मकजीवानुप्रवेशादेव सर्वस्य वस्तुनो नामरूपभाक्त्वात् ॥ ८" तत्सृष्ट्वा । तदेवानु१. छा. ६-२-३॥ २. छा. ६-२-१॥ | त्रापि प्रधान एवेक्षतिगण इति चेत्, पा॥ ७. छा. ६-३-२॥ ४. इत्याद्यचेतनेsपि - ५. स हि गौण: ; एवम ६. छा. ६-८-७॥ ८. तै. आ. ६ ॥ For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ वेदान्तसारे [अ. १. प्राविशत् । तदनुप्रविश्य । सञ्च त्यच्चाभवत्। निरुक्तञ्चानिरुक्तश्च। निलयनश्चानिलयनश्च । विज्ञानश्चाविज्ञानश्च । सत्यश्चानृतश्च सत्यमभवत्" इति चेतनमचेतनश्च पृथक् निर्दिश्य तदुभयमनुप्रविश्य १सत्त्यच्छब्दवाच्योऽभवत्- इति हि समानप्रकरणे स्पष्टमभिहितम् ॥ ६॥ तन्निष्ठस्य मोक्षोपदेशात्।१।१॥७॥ इतपत्र प्रधानादर्थान्तरभूतं सच्छब्दाभिहितं जगत्कारणम् । सच्छब्दाभिहिततत्त्वनिष्ठस्य मोक्षोपदेशात् २"तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ संपत्स्ये" इति हि तनिष्ठस्य मोक्ष उपदिश्यते । प्रधानकारणवादिनामपि हि प्रधाननिष्ठस्य मोक्षो नाभिमतः ॥ ७॥ हेयत्वावचनाच्च।१।१८॥ यदि प्रधानमत्र विवक्षितम् तदा तस्य३हेयत्वात् अध्येयत्वमुच्येत। न तदुच्यते।मोक्षसाधनतया ४ध्येयत्वमेवात्रोच्यते;"तत्त्वमसि श्वेतकेतो" इत्यादिना॥ इतश्च न प्रधानम् प्रतिज्ञाविरोधात्।१।१।९॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधात् । सच्छब्दवाच्यतत्त्वज्ञानेन तस्कार्यतया चेतनाचेतनसर्ववस्तुशानम्, ६"येनाश्रुतं श्रुतं भवति" इत्यादिना प्रतिज्ञातम् । तद्धि प्रधानकारणवादे विरुध्यते, चेतनस्य प्रधानकार्यत्वाभावात् । प्रधानादर्थान्तरभूतब्रह्मकारणवादे चिदचिवस्तुशरीरं ब्रह्मैव नामरूपविभागाविभागाभ्यां कार्य कारणञ्चेति ब्रह्मज्ञानेन कृत्स्नस्य शाततोपपद्यते ॥९॥ इतश्च न प्रधानम् -- स्वाप्ययात्।११।१०॥ ८"स्वप्नान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषस्वपिति नाम सता सोम्य तदा सम्पन्नो भवति । स्वमपीतो भवति । तस्मादेनं स्वपितीत्या १. तत्तदभवत् तत्तच्छब्दवाच्योऽभवत्. पा! ४. ध्येयत्वमेव ह्यत्रोच्यते. पा। २. छा. ६.१४-२॥ ५. छा. ६-८-७॥ ६. छा. ६-१-३॥ ३. हेयत्वमध्येयत्वमुच्येत. पा। ७. भावाभावाभ्यां पा॥ ८. छा. ६-८-१॥ For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] ईक्षत्यधिकरणम् १६९ चक्षते । स्वं ह्यपीतो भवति " इति जीवस्य चेतनस्य सुषुप्तस्य सता संपन्नस्य स्वाप्ययवचनात् प्रधानादर्थान्तरभूतं सच्छब्दवाच्यमिति विज्ञायते । स्वमपीतो भवति - आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । १ चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरण २ श्रुत्युक्तम् । तजीवशब्दाभिधेयं परं ब्रह्मैव सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति ३" सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राशेनैव परिष्वङ्गात् ४" प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाधं किञ्चन वेद नान्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते । यथा -- *५ " सुप्तः... स्वप्नं न कञ्चन पश्यति” ६" अथास्मिन्प्राण एवैकधा भवति एतस्माद्वा आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते" तथा "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा ... यद्यद्भवन्ति तथा भवन्ति" इति ॥ १० ॥ गतिसामान्यात् । १।१।११॥ सकलोपनिषद्गतिसामान्यादस्यामप्युपनिषदि न प्रधानं कारणमिति ज्ञायते । ८" आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत्, स ईक्षत लोका सृजा इति स इमाल्लोकानसृजत" ९" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” १०"स कारणं करणाधिपाधिपो नचास्य कश्चिज्जनिता न चाधिपः " इत्यादिसकलोपनिषत्सु सर्वेश्वर एव हि जगत्कारणमिति प्रतिपाद्यते ॥ ११ ॥ १. चिचिद्वस्तु पा २. श्रुत्योक्तम्. पा ३. छा. ६ ८ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रुतत्वाच्च । १ । १ । १२॥ श्रुतमेव स्यामुपनिषदि - ११" आत्मतः प्राणः... आत्मत आकाशः ४. बृ. ६.३.२१ ॥ *५. सुषुप्तः षा . ६.३.१९।। 22 ६. कौषी. ४. १९॥ ७. छा. ६. ९.३॥ ८. ऐत १. १. १॥ ९. तै. आनं. १॥ ११. छा. ७. २६. १॥ For Private And Personal Use Only · १०. वे. ६.९ ।। "" Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० वेदान्तदीपे [अ. १. इत्यादौ आत्मन एव सर्वोत्पत्तिः; अतः प्रधानादचेतनादर्थान्तरभूतस्सर्वज्ञः पुरुषोत्तम एव जगत्कारणं ब्रह्मेति स्थितम् ॥ १२ ॥ इति वेदान्तसारे ईक्षत्यधिकरणम् ॥ ५ ॥ ....( वेदान्तदीपे ईक्षत्यधिकरणम् ॥ ५॥)... ईक्षते शब्दम्।१।१॥५॥ १" येनाश्रुतं श्रुतं भवति" इत्यादिर जगत्कारणवादिवेदान्तवेद्यं विषयः । तत्किं साङयोक्तं प्रधानम् , उतानवधिकातिशयानन्दं ब्रह्मेति संशयः। प्रधानमिति पूर्वः पक्षः।कुतः? प्रतिज्ञादृष्टान्तान्वयेनानुमानाकारवाक्यवेद्यत्वात् १"ये. नाश्रुतं श्रुतं भवति"३इत्यादिना एकविज्ञानेन सर्वविज्ञानं प्रतिक्षाय ४"यथा सो. म्यैकेन मृत्पिण्डेन" इति दृष्टान्तेन ह्युपपाद्यते । एवमानुमानिकमेवैतद्वाक्यवेधमिति निश्चीयते। ५" सदेव सोम्येदम्” इति सच्छब्दःप्रधानविषयः।" तदैक्षत बहु स्याम्" इति च गौणमीक्षणं भवितुमर्हति,७" तत्तेज ऐक्षत" इत्या. दिगोणेक्षणसाहचर्याञ्च । राद्धान्तस्तु--- ६" तदैक्षत बहु स्याम्" इति बहुभवनसङ्कल्परूपेक्षणान्वयात् , ५"सदेव सोम्य" इति कारणवाचिसच्छब्दविषयो नाचेतनं प्रधानम् अपि तु सावश्यसत्य सङ्कल्पत्वादियुक्तं परं ब्रह्मैवेति निश्चीयते । न चानुमानाकारमेतद्वाक्यम्। हेत्वनुपादानात् । अन्यज्ञानेनान्यज्ञानासम्भवपरिजिहीर्षया तु दृष्टान्तोपादानम्, न च मुख्येक्षणसम्भवे गौणपरिग्रहसम्भवः। तेजःप्रभृतिष्वपि न गौणमीक्षणम्, तेजआदिशब्दानां तेजःप्रभृतिशरीरकत्यान्तर्यामिणो वाचकत्वादिति परमेव ब्रह्म जगत्कारणवादिवेदान्तवेद्यम्---इति ॥ सूत्रार्थः-ईक्षतेः इति ईक्षतिधात्वर्थः ईक्षणम् । शब्दः प्रमाणं यस्य न भवति तत् अशब्दं परोक्तमानुमानिकं प्रधानम् । ५" सदेव सोम्येदम्" इति जगत्कारणतया प्रतिपादितान्वयिनः ईक्षणव्यापारान्नाचेतनमशब्दं तत्; अपि तु सर्वशं सत्यसङ्कल्पं ब्रह्मैव जगत्कारणमिति निश्चीयते-इति ॥५॥ १. छा.६.१ ३॥ २.जगत्कारण इत्येवारम्भः ४. छा. ६. १. ४॥ ५. छा. ६.२.१॥ कचिहश्यते ॥ ३. इत्येकविज्ञानेन, पा। ६.७. छा. १.२.३।। ८.साइल्पस्वयुक्तं. पण For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org ईक्षत्यधिकरणम्. गौणश्चेन्नात्मशब्दात् । १।१।६॥ १" तत्तेज ऐक्षत” इत्यचेतनगतगौणेक्षणसाहचर्यात् २ " तदैक्षत' इत्यत्र ई - क्षतिगण इति चेन्न, आत्मशब्दात्, सच्छब्दाभिहिते ईक्षितरि३" ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा” इति श्रूयमाणाश्चेतनवाचिनः आत्मशब्दादयमीक्षतिमुख्य एवेति प्रतीयते । ३" ऐतदात्म्यमिदं सर्वम्" इति तेजः प्रभृतीनामपि तदात्मकत्वावगमात् तेजः प्रभृतीक्षणमपि मुख्यमेवेत्यभिप्रायः ॥ ६ ॥ तन्निष्टस्य मोक्षोपदेशात् ॥ ११॥७॥ Acharya Shri Kailassagarsuri Gyanmandir १, २. छा. ६.२.३॥ ३. छा. ६. ८. ७॥ ४. छा. ६. १४.२ ॥ इतश्च सच्छन्दाभिहितं न प्रधानम् । अपि तु परमेव ब्रह्म । ३ 'तत्त्वमसि” इति सदात्मकतया प्रत्यगात्मानुसन्धाननिष्टस्य ४ " तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति "मोक्षोपदेशात्तत्कारणं परमेव ब्रह्म ॥ ७ ॥ हेयत्वावचनाच्च।१।१।८॥ यदि प्रधानमिह कारणतया विवक्षितम्, तदा तस्य मोक्षविरोधित्वाद्धेयत्वमुच्येत । न चोच्यते । अतश्च न प्रधानम् ॥ ८ ॥ प्रतिज्ञाविरोधात् । १।१॥९॥ प्रधानवादे प्रतिज्ञा च विरुध्यते । ६ "येनाश्रुतं श्रुतम्" इति वक्ष्यमाणकारणविज्ञानेन चेतनाचेतनमिश्रकृत्स्त्रप्रपञ्चज्ञानं हि प्रतिज्ञातम् । चेतनांश प्रति प्रधानस्याकारणत्वात्, तज्ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम् ॥ स्वाप्ययात् । १।१।१०॥ ७" स्वमपीतो भवति... सता सोम्य तदा सम्पन्नो भवति" इति जीवस्य सुषुप्तस्य स्वाप्ययश्रुतेः । स्वकारणे ह्यप्ययः स्वाप्ययः । जीवं प्रति प्रधानस्याकारणत्वात्स्वाप्ययश्रुतिर्विरुध्यते । अतश्च न प्रधानम् । अपि तु ब्रह्मैव ॥ १० ॥ १७१ ५. मोक्षोपदेशात् ॥ ७ ॥ पा । ६. छा. ६. १.३॥ ७. छा. ६, ८.१ ॥ For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७२ www.kobatirth.org शारीरकमीमांसाभाष्ये गतिसामान्यात् । १ । १ । ११ ॥ इतरोपनिषद्गतिसामान्यादस्यां चोपनिषदि न प्रधानं कारणं विवक्षितम् । इतरासु चोपनिषत्सु – १" यस्सर्वशस्सर्ववित् तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते " २" पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ३" स कारणं करणाधिपाधिपः " ४" आत्मनि खल्वरे विदिते सर्वमिदं विज्ञातं भवति" ५" तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यद्यग्वेदः” ६" पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम्” ७" तस्माद्विराडजायत” "आत्मा वा इदमेक एवाग्र आसीत् ... से इमाल्लोकानसृजत " ९" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः १० "एको ह वै नारायण आसीत्... स एकाकी न रमेत" इति सर्वशः पुरुषोतम एव कारणतया प्रतिपाद्यते । अस्याश्च तद्गतिसामान्यादत्रापि स एव कारणतया प्रतिपादनमर्हतीति च न प्रधानम् ॥ ११ ॥ ५. बृ. ६ ५. ११; ४.४. १०॥ श्रुतत्वाच्च । १।१।१२ ॥ श्रुतमेव हास्यामुपनिषदि - ११ "आत्मत एवेदं सर्वम्" इति। अतश्च १२"सदेव सोम्य" इत्यादिजगत्कारणवादिवेदान्तवेद्यं न प्रधानम्; सर्वशं सत्यसङ्कल्पं परमेव ब्रह्मेति स्थितम् ॥ १२ ॥ इति श्रीवेदान्तदीपे ईक्षत्यधिकरणम् ॥ ५ ॥ ६. पुरुषसू . २॥ ७. पुरुषसू ॥ Acharya Shri Kailassagarsuri Gyanmandir - १. मुण्ड. १ १.९ ॥ २. श्वे. ६.८॥ ८. ऐतरेय. १. १. १॥ ३. वे. ६- ९॥ ४. बृ. ६.५, ६॥ ९. तै. आन. १ || १०. महोपनिषदि . १. अ. १॥ ११. छा. ७-२६. १॥ १२. छा. ६.२-१॥ ( श्री शारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् || ६ || ) एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्य भूतजडरूपसत्त्वरजस्तमोमयप्रधानाध्यावृत्तिरुक्ता ; इदानीं कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमितनानाविधानन्तदुःखसागरनिमज्जनेनाशुद्धाच्छुद्धाच्च प्रत्यगात्मनोऽन्य सुबाल. २ १ ॥ [अ. १. For Private And Personal Use Only ܕܕ Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्. १७३ निखिलध्य प्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते आनन्दमयोऽभ्यासात्।१।१।१३॥ तैत्तिरीया अधीयते--२ “स वा एष पुरुषोऽन्नरसमयः" इति प्रकृत्य ३ "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः" इति । तत्र सन्देहः--किमयमानन्दमयो बन्धमोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्मा; उत स एव-इति ॥ किं युक्तम् ? प्रत्यगात्मेति। कुतः १४"तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणात् शारीरो हि शरीरसम्बन्धी जीवात्मा ॥ ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति ; जगत्कारणं च ५“तदैक्षत" इतीक्षणश्रवणात्सर्वज्ञस्सर्वेश्वर इत्युक्तम् ॥ सत्यमुक्तम् स तु जीवानातिरिच्यते-६ “अनेन जीवेनाऽत्मनाऽनुप्रविश्य"७"तत्त्वमसि श्वेतकेतो"इति कारणतया निर्दिष्टस्य जीवसामानाधिकरण्यनिर्देशात्। सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम् यथा सोऽयं देवदत्तः' इत्यादौ । ईक्षापूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव। अतः "ब्रह्मविदामोति परम्" इति जीवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते। अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते... ९"सत्यं ज्ञानमनन्तं ब्रह्म" इति । तद्रपप्राप्तिरेव हि मोक्षः। १० "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरंवावसन्तंनप्रियाप्रिये स्पृशतः" इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रा१. प्रत्यनीकं निरतिशया, पा ॥ ६. छा. ६. ३. २॥ २. ते. आन.१. अनु॥ ३.ते.आन.५-२॥ : ७. छा. ६. ८. ७॥ ४, ते. आन. ५. अनु।। ८. ९. ते. आन. १॥ ५. छा. ६. २. ३॥ १०. छा. ८. १२. १॥ For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ शारीरकमीमांसाभाष्ये [म.. न्तमानन्दमय इत्युपदिश्यते । तथाहि-शाखाचन्द्रन्यायेनाऽत्मस्वरूपं दर्शयितुम् १"अन्नमयः पुरुषः" इति शरीरं प्रथमं निर्दिश्य तदन्तरभूतं तस्य धारकं पञ्चत्तिप्राणम्, तस्याप्यन्तरभूतं मनः, तदन्तरभूतां च बुद्धिं, २'प्राणमयो" ३"मनोमयों' ४"विज्ञानमयः" इति तत्रतत्र बुद्ध्यवतरणक्रमेण निर्दिश्य सर्वान्तरभूतं जीवात्मानम् ५“अन्योऽन्तर आत्माऽऽनन्दमयः" इत्युपदिश्यान्तरात्मपरम्परां समापयति । अतो जीवात्मस्वरूपमेव ६५७ब्रह्मविदाप्नोति" इति प्रक्रान्तं ब्रह्म ; तदेवाऽनन्दमय इत्युपदिष्टमिति निश्चीयते ॥ ननुच-८"ब्रह्म पुच्छं प्रतिष्ठा"इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते । नैवं ब्रह्मैव स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथाऽन्नमयो देहोऽवयवी स्वस्मादनतिरिक्तैः स्वावयवैरेव ९"तस्येदमेव शिरः" इत्यादिना शिरःपक्षपुच्छवत्तया निदर्शितः; तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिर्निदर्शितम् । तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं "ब्रह्म पुच्छं प्रतिष्ठा" इत्युच्यते।यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, ___ 'तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्म'इत्यपि निरदेक्ष्यत। नचैवं निर्दिश्यते। एतदुक्तं भवति- ६"ब्रह्मविदामोति परम्"इति प्रकान्तं ब्रह्म १० "सत्यं ज्ञानमनन्तं ब्रह्म"इतिलक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य तदेव १ "तस्माद्वा एतस्मादात्मनः" इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनाऽत्मत्वं व्यञ्जयद्वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन १. नायं वाक्यानुप्वीनिर्देश:, किन्तु अर्थ. ३ .ते. आन. ३॥ ४. तै. आ. ४॥ कथनमात्रमिति वा, अन्नरसमयः...पुरुष: ५. तें. आन.५.२॥ ६. तै.आन.१।। इति वा पाठ: स्वीकर्तव्यः; तत्र एतादृशवाक्या- ७. ब्रह्मविदाप्नोति परम्” इति. पा॥ नुपलब्धेरिति॥ ८. तै.आन.५॥ ९. तै.आन, १, अनु।। २.ते .आन. २. अनु॥ १०. ११. ते. आन. १॥ For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्. १७५ निर्दिष्टान् प्राणमयादीनतिक्रम्य १" अन्योऽन्तर आत्माऽऽनन्दमयः " इत्यात्मशब्देन निर्देशनानन्दमये समापयति । अत आत्मशब्देन प्रक्रान्तं ब्रह्माऽनन्दमय इति निश्चीयते इति।ननु च --२"ब्रह्म पुच्छं प्रतिष्ठा" इत्युक्त्वा ३"असन्नेव स भवति। असब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः" इति ब्रह्मज्ञानाज्ञानाभ्यामात्मनस्सद्भावासद्भावो दर्शयति ; नानन्दमयज्ञानाज्ञानाभ्याम् । न चानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकविदितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता । अतो नानन्दमयमधिकृत्यायं श्लोक उदाहृतः। तस्मादानन्दमयादन्यद्ब्रह्म । नैवम् -- ४"इदं पुच्छं प्रतिष्ठा"५'पृथिवी पुच्छं प्रतिष्ठा" ६'अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा""महः पुच्छं प्रतिष्ठा" इत्युक्त्वा तत्रतत्रोदाहृताः९“अन्नाद्वैप्रजाः प्रजायन्ते" इत्यादिश्लोका यथा न पुच्छमात्रप्रतिपादनपराः अपि त्वन्नमयादिपुरुषप्रतिपादनपराः ; एवमत्राप्यानन्दमयस्यायम् १०" असन्नेव" इति श्लोकः ; नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्दमयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण११रूपितस्यापरिच्छिन्नानन्दस्य सद्भावासद्भाव१२ज्ञानाशङ्का युक्तवा पुच्छब्रह्मणोऽप्यपरिच्छिन्नानन्दतयैव ह्यप्रसिद्धता। शिरःप्रभृत्यवयवित्वाभावाद्ब्रह्मणो नानन्दमयो ब्रह्मेति चेत्-ब्रह्मणः पुच्छत्वप्रतिष्ठात्वाभावात् पुच्छमपि ब्रह्म न भवेत् । अथाविद्यापरिकल्पितस्य वस्तुनस्तस्याश्रयभूतत्वात् ब्रह्मणः पुच्छं प्रतिष्ठेति रूपणमात्रमित्युच्येत ; हन्त तर्हि तस्यासुखाद्यावृत्तस्यानन्दमयस्य ब्रह्मणः प्रियशिर १. तै. आन. ५. २॥ २. तै. आन. ५. ३॥ ३. तै. आन. ६. १॥ ४. तै. आन. १. ३॥ ५. से. आन, २. ३॥ ६. से. आन. ३. ३॥ ७. तै. आन. ४. २॥ ८. इत्येवमुक्त्वा , पा॥ ९. ते, आन. २. १॥ १०. ते. आन. ६. १॥ ११. रूपितस्य तस्याप, पा॥ १२. ज्ञानशङ्का, पा॥ For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ शारीरकमीमांसाभाष्ये [अ. १. स्त्वादिरूपणं भविष्यति । एवं च १“सत्यं ज्ञानमनन्तं ब्रह्म" इति विकारास्पदजडपरिच्छिन्नवस्त्वन्तरव्यात्तस्यासुखाद्यावृत्तिरानन्दमय इत्युपदिश्यते । ततश्चाखण्डैकरसानन्दरूपे ब्रह्मण्यानन्दमय इति मयट् प्राणमय इव स्वार्थिको द्रष्टव्यः। तस्मादविद्यापरिकल्पितविविधविचिबदेवादिभेदभिन्नस्य जीवात्मनस्वाभाविक रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमयः प्रत्यगात्मा ॥ ...( सिद्धान्तः )--- एवं प्राप्ते प्रचक्ष्महे—आनन्दमयोऽभ्यासात् ---आनन्दमयः परमात्मा। कुतः? अभ्यासात-.३ "सैषाऽऽनन्दस्य मीमांसा भवति" इत्यारभ्य ४'यतो वाचो निवर्तन्ते"इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्दः अनन्तदुःखमिश्रपरिमितमुखलवभागिनि जीवात्मन्यसम्भवनिखिलहेयप्रत्यनीकं कल्याणैकतानं सकलेतरविलक्षणं परमात्मानमेव स्वाश्रयमावेदयति ॥ यथाऽऽह ५'तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः" इति विज्ञानमयो हि जीवः; न बुद्धिमात्रम्, मयट्मत्ययेन व्यतिरेकप्रतीतेः । प्राणमयेत्वगत्या स्वार्थिकताऽऽश्रीयते । इह तु तद्वतो जीवस्य सम्भवानानर्थक्यं न्याय्यम् । बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि । प्राणमयादौ च मयडर्थसम्भवोऽनन्तरमेव वक्ष्यते। कथं तर्हि विज्ञानमयविषयश्लोके ६"विज्ञानं यज्ञं तनुते" इति केवलविज्ञानशब्दोपादानमुपपद्यले । ज्ञातुरेवाऽत्मनस्वरूपमपि स्वप्रकशतया विज्ञानमित्युच्यत इति न दोषः, ज्ञानकनिरूपणीयत्वाच्च ज्ञातुस्वरूपस्य । खरूपनिरूपणधर्मशब्दा हि धमेमुखेन धर्मिस्वरूपमपि प्रतिपादयन्ति, १. ते. आन, १. अनु. १॥ ४. , आन, ९, १ ॥ २. ततश्चाखण्डानन्दैकरस, पा॥ ५. ते. आन. ५, २॥ ३. सै. आन, ८,१॥ ६. सै. आन. ५, १ ॥ For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] आनन्दमयाधिकरणम्. १७७ गवादिशब्दवत् । १" कृत्यल्युटो बहुलम्" इति वा कर्तरि ल्युडाश्रीयते । नन्द्यादित्वं वाऽऽश्रित्य २" नन्दिग्रहि" इत्यादिना कर्तरि ल्युः । अत एव च ३" विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते । बुद्धिमात्त्रस्य हि न कर्तृत्वं सम्भवति । अचेतनेषु हि चेतनोपकरणभूतेषु विज्ञानमयात्माचीनेष्वन्नमयादिषु न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणैः निलयनत्वानिलयनत्वादिभिर्धर्मविशेषैर्विभज्य निर्दिशद्वाक्यम् "विज्ञानं चाविज्ञानं च" इति विज्ञानशब्देन तद्गुणं चेतनं वदति । तथाऽन्तर्यामिब्राह्मणे ४" यो विज्ञाने तिष्ठन् " इत्यस्य काण्वपाठगतस्य पर्यायस्य स्थाने "यआत्मनि तिष्ठन् " इति पर्यायमधीयाना माध्यन्दिनाः काण्वपाठगतं वि ज्ञानशब्दनिर्दिष्टं जीवात्मेति स्फुटीकुर्वन्ति । विज्ञानमिति च नपुंसकलिङ्गं वस्तुत्वाभिप्रायम् । तदेवं विज्ञानमयाज्जीवादन्यस्तदन्तरः परमात्मा आनन्दमयः । यद्यपि २" विज्ञानं यज्ञं तनुते" इति लोके ज्ञानमात्रमेवोपादीयते; न ज्ञाता ; तथाऽपि ६" अन्योऽन्तर आत्मा विज्ञानमय: " इति तद्वान् ज्ञातैवोपदिश्यते यथा “अन्नाद्वै प्रजाः प्रजायन्ते" इत्यन श्लोके केवलानोपादानेऽपि "स वा एष पुरुषोऽन्नरसमयः" इत्यत्र नानातं निर्दिष्टम् अपितु तन्मयः तद्विकारः । एतत्सर्व हृदि निधाय सूत्रकारस्स्वयमेव ९" भेदव्यपदेशात्" इत्यनन्तरमेव वदति ॥ १. अष्टाध्याय्यां. ३.३. ११३. २. अष्टाध्यय्यां. ३. १. १३४. तै. आन. ५. अनु. Q यदुक्तं जगत्कारणतया निर्दिष्टस्य १०" अनेन जीवेनाऽत्मनाऽनुप्रविइय" ११" तत्त्वमसि' इति च जीवसामानाधिकरण्यनिर्देशाज्जगत्कारणमपि ३. www.kobatirth.org ४. बृ.६.७.२२ ॥ ५. विज्ञानस्थाने माध्य ६. तै. आन. ४. १, न्दिनपाठः ॥ 23 Acharya Shri Kailassagarsuri Gyanmandir ७. तै, आन. २.१. ८. तै. आ. १ ९. शारी १. १. १८. १०. छा. ६.३.२. ११. छा. ६,८.७. For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ १. जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं १ ब्रह्मविदाप्नोति परम्" इति प्रक्रान्तमसुखाच्यावृत्तत्वेनाऽनन्दमय इत्युपदिश्यत इति ; तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि २" तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इति स्वसङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्तेः । शुद्धावस्थस्यापि हितस्य सर्गादिजगव्यापारासम्भवो ३" जगव्यापारवर्जम् " ४" भोगमात्रसाम्यलिङ्गात् ४" भोगमात्रसाम्यलिङ्गात् " इत्यत्रोपपादयिष्यते । कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे "अनेन जीवेनाऽत्मना " ६ "तत्त्वमसि' इति सामानाधिकरण्यनिर्देशः कथमुपपद्यत इति चेत् कथं वा निरस्तनिखिलदोषगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेरनवधिकातिशयासङ्घयेयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणः नानाविधानन्तदुःखाकर कर्माधीनचिन्तितनिमिषितादिसकलप्रवृत्तिजीवस्वरूपत्वम् ? । अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत् कस्य भोः? । किं सम्बन्धस्य ? किंवा हेयमत्यनीककल्याणैकतानस्वभावस्य ? | हेयमत्यनीककल्याणैकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत् — विप्रतिषिद्धमिदमभिधीयते ब्रह्मणो हेयमत्यनीक कल्याणैकतानत्वमनाद्यविद्याश्रयत्वेनानन्तदुःखविषयमिथ्या - प्रतिभासाश्रयत्वं चेति । अविद्याश्रयत्वं तत्कार्यदुःखप्रतिभासाश्रयत्वं चैव हि सम्बन्धः । तत्सम्बन्धित्वं तत्प्रत्यनीकत्वं च विरुद्धमेव । तथाऽपि तस्य मिथ्यात्वान्न विरोध इति मा वोचः । मिथ्याभूतमप्य पुरुषार्थ एव ; यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे । निरसनीयापुरुषार्थयोग हेयप्रत्यनीककल्याणैकतानतया विरुध्यते । किं कुर्मः ? । १. तै. आन. १. २.. छा. ६.२. ३. ३. शारी. ४. ४. १७. Acharya Shri Kailassagarsuri Gyanmandir ४. शारी. ४. ४. २१. ५. छा. ६.३.२. ६. छा. ६.८. ७. For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम् . १"येनाश्रुत्रं श्रुतं भवति" इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय २ "सदेव सोम्येदमग्रआसीत्" इत्यादिना निखिलजगदेककारणताम्,३"तदक्षत बहु स्याम्" इति सत्यसङ्कल्पतां च ब्रह्मणः प्रतिपाद्य तस्यैव ब्रह्मणः ४"तत्वमसि" इति सामानाधिकरण्येनानन्तदुःखाश्रयजीवैक्यं प्रतिपादितम् ; तदन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयमिति चेत् --श्रुतोपपत्तयेऽप्यनुपपन्नं विरुद्धं च न कल्पनीयम् । अथ हेयसम्बन्ध एव पारमार्थिकः, कल्याणकस्वभाव तु मिथ्याभूता ; हन्तैवं तापत्रयाभिहतचेतनोजिजीवयिषया प्रवृत्तं शास्त्रम् , तापत्रयाभिहतिरेव तस्य पारमार्थिकी, कल्याणकखभावस्तु भ्रान्तिपरिकल्पित इति बोधयत्सम्यगुज्जीवयति । अथैतदोषपरिजिहीर्षया ब्रह्मणो निर्विशेषचिन्मानस्वरूपातिरिक्तजीवत्वदुःखित्वादिकं सत्यसङ्कल्पत्वकल्याणगुणाकरत्वजगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयमिति चेत् --अहो भवतां वाक्यार्थपर्यालोचनकुशलता । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न पसेत्स्यति । यथैकविज्ञानं परमार्थविषयम् , तथैव सर्वविज्ञानमपि यदि परमार्थविषयम् । तदन्तर्गतं च तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम् । न हि परमार्थशुक्तिकाज्ञानेन तदाश्रयमपरामर्थरजतं ज्ञातं भवति।अथोच्येत एकविज्ञानेन सर्व विज्ञानप्रतिज्ञाया अयमर्थः-निर्विशेषवस्तुमानमेव सत्यम्, अन्यदसत्यम् - इति । न तर्हि ? "येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्"इति श्रूयेतः येन श्रुतेनाश्रुतमपि श्रुतं भवतीति यस्य वाक्यस्यार्थः। कारणतयोपलक्षितनिर्विशेषवस्तुमात्रस्यैव सद्भावश्चमतिज्ञातः, ६"यथा सोम्यैकेन मृत्पि १. छा. ६. १. ३. २. छा. ६. २. १. ३, छा. ६.२.३. ४. हा. ६. ८. ७. ५. संपत्स्यते. पा. ६. छा. ६.१. ४ For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. ण्डेन सर्व मृण्मयं विज्ञातम्" इति दृष्टान्तोऽपि न घटते । मृत्पिण्डविज्ञानेन हि तद्विकारस्य ज्ञातता निदर्शिता । तत्रापि विकारस्यासत्यताभिप्रेतेति चेत्-मृद्विकारस्य रज्जुसादिवदसत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थसम्भावनाप्रदर्शनाय ? "यथा सोम्य"इति प्रसिद्धवदुपन्यासो न युज्यतेन च तत्त्वमस्यादिवाक्यजन्यज्ञानोत्पत्तेः प्राग्विकारजातस्यासत्यतामापादयत्तानुगृहीतमननुगृहीतं वा प्रमाणमुपलभामह इति । अयमर्थः २ "तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र वक्ष्यते।तथा ३ “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" ४ तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत"५ 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुमविश्य नामरूपे व्याकरवाणि"६ "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सप्रतिष्ठाः...ऐतदात्म्यमिदं सर्वम्" इत्यादिनाऽस्य जगतस्सदात्मकता, सृष्टेः पूर्वकाले नामरूपविभागप्रहाणम् , जगदुत्पत्तौ सच्छब्दवाच्यस्य ब्रह्मणस्वव्यतिरिक्तनिमित्तान्तरानपेक्षत्वम् , सृष्टिकालेऽहमेवानन्तस्थिरत्नसरूपेण बहुस्याम् इत्यनन्यसाधारणसङ्कल्पविशेषः, यथासङ्कल्पमनन्तविचित्रतत्त्वानां विलक्षणक्रमविशेषविशिष्टा सृष्टिः समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्तनामरूपव्याकरणम् , स्वव्यतिरिक्तस्य समस्तस्य स्वमूलत्वम् , स्वायतनत्वम् , स्वपवर्त्यत्वम् , खेनैव जीवनम् , स्वप्रतिष्ठत्वमित्यायनन्तविशेषाशास्त्रैकसमधिगम्याः प्रतिपादिताः। तत्सम्बन्धितया प्रकरणान्तरेष्वप्यपहतपाप्मत्वादिनिरस्तनिखिलदोषतासर्वज्ञतासर्वेश्वरत्वसत्यकामत्वसत्यसङ्कल्पत्वसर्वानन्दकरणनिरतिशयानन्दयोगादयस्सकलेतरपमाणाविषयास्सहस्रशः प्रतिपादिताः । १. छा. ६. १. २. शारी. २. १. १५. ३. छा, ६. २. १. ४. छा. ६. २. ३. ५. छा, ६, ३. २. . ६. छा, ६. ८. ६. ७. प्रवेशेनानन्त . पा. For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ पा. १.] आनन्दमयाधिकरणम्. एवमनन्यगोचरानन्तविशेषविशिष्टप्रकृतब्रह्मपरामर्शितच्छब्दस्य निर्विशेषवस्तुमात्रोपदेशपरत्वमसङ्गतत्वेनोन्मत्त प्रलपितायेत । त्वंपदं च संसारित्वविशिष्टजीववाचि । तस्यापि निर्विशेषस्वरूपोपस्थापनपरत्वे स्वार्थः परित्यक्तस्स्यात् । निर्विशेषप्रकाशस्वरूपस्य च वस्तुनो ह्यविद्यया तिरोधानं स्वरूपनाशप्रसङ्गादिभिर्न सम्भवतीति पूर्वमेवोक्तम् । एवं च सति समानाधिकरणदृत्तयोस्तत्त्वमिति द्वयोरपि पदयोमुख्यार्थपरित्यागेन लक्षणा च समाश्रयणीया ॥ __अथोच्येत-समानाधिकरणवृत्तानामेकार्थप्रतिपादनपरतया विशेषणांशे तात्पर्यासम्भवादेव विशेषणनिवृत्तेर्वस्तुमात्रैकत्वप्रतिपादनान्न लक्षणाप्रसङ्गः। यथा 'नीलमुत्पलम्' इति पदद्वयस्य विशेष्यैकत्वप्रतिपादनपरत्वेन नीलत्वोत्पलत्वरूपविशेषण न विवक्ष्यते । तद्विवक्षायां हि नीलत्वविशिष्टाकारेणोत्पलत्वविशिष्टाकारस्यैकत्वमतिपादनं प्रसज्येत । तत्तु न सम्भवति–न हि नैल्यविशिष्टाकारेण तद्वस्तूत्पलपदेन विशेष्यते, जातिगुणयोरन्योन्यसमवायप्रसङ्गात् । अतो नीलत्वोत्पलत्वोपलक्षितवस्त्वेकत्वमानं सामानाधिकरण्येन प्रतिपाद्यते । तथा 'सोऽयं देवदत्तः' इत्यतीतकालविप्रकृष्टदेशविशिष्टस्य तेनैव रूपेण सन्निहितदेशवर्तमानकालविशिष्टतया प्रतिपादनानुपपत्तेरुभयदेशकालोपलक्षितस्वरूपमात्रैक्यं सामानाधिकरण्येन प्रतिपाद्यते । यद्यपि नीलमित्यायेकपदश्रवणे, प्रतीयमानं विशेषणं सामानाधिकरण्यवेलायां विरोधान्न प्रतिपाद्यते । तथाऽ पि वाच्येऽर्थे प्रधानांशस्य प्रतिपादनान लक्षणा । अपि तु विशेषणांशस्याविवक्षामात्रम् । सर्वत्र सामानाधिकरण्यस्यैष एव स्वभाव इति न कश्चिदोष-इति ॥ तदिदमसारं सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रं प्रत्याय्यम् । तत्र समानाधिकरणवृत्तानामपि नीलादिपदानां १. प्रलपितायते . पा. । २. सामानाधिकरण्यस्यैष स्वभाव इति. पा. For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ शारीरकमीमांसाभाष्ये [भ.१. नेल्यादिविशिष्ट एवार्थो व्युत्पत्तिसिद्धः पदान्तरार्थसंसृष्टोऽभिधीयते । यथा 'नीलमुत्पलमानय' इत्युक्ते नीलिमादिविशिष्टमेवानीयते; यथा च 'विन्ध्याटव्यां मदमुदितो मातङ्गगणस्तिष्ठति' इति पदद्वयावगतविशेषणविशिष्ट एवार्थः प्रतीयते ; एवं वेदान्तवाक्ये वपि समानाधिकरणनिर्देशेषु तत्तद्विशेषणविशिष्टमेव ब्रह्म प्रतिपत्तव्यम् । न च विशेषणविवक्षायामितरविशिष्टाकारं वस्त्वन्येन विशेष्टव्यम् । अपि तु सर्विशेषणैस्वरूपमेव विशेष्यम्। तथाहि १"भिन्नमवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्" इति अन्वयेन निवृत्त्या वा पदान्तरप्रतिपाद्यादाकारादाकारान्तरयुक्ततया तस्यैव वस्तुनः पदान्तरपतिपाद्यत्वं सामानाधिकरण्यकार्यम् । यथा 'देवदत्तश्श्यामो युवा लोहिताक्षोऽदीनोऽकृपणोऽनवद्यः' इति । यत्र त्वेकस्मिन् वस्तुनि समन्वयायोग्यं विशेषणद्वयं समानाधिकरणपदनिर्दिष्टम् । तत्राप्यन्यतरत्पदममुख्यवृत्तमाश्रीयते ; न द्वयम् । यथा 'गौर्वाहीकः' इति । नीलोत्पलादिषु तु विशेषणद्वयान्वयाविरोधादेकमेवोभयविशिष्टं प्रतिपाद्यते ॥ ___अथ मनुषे-एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणं विशेषणान्तरप्रतिसम्बन्धित्वाद्विलक्षणम्-इति घटपटयोरिवैकविभक्तिनिर्देशेऽ प्यैक्यप्रतिपादनासम्भवात्समानाधिकरणशब्दस्य न विशिष्टप्रतिपादनपरत्वम्, अपि तु विशेषणमुखेन स्वरूपमुपस्थाप्य तदैक्यप्रतिपादनपरत्वमेव इति ॥ स्यादेतदेवम् ; यदि विशेषणद्वयपतिसम्बन्धित्वमात्रमेवैक्यं निरुन्ध्यात् । नचैतदस्ति ; एकस्मिन्धर्मिण्युपसंहर्तुमयोग्यधर्मद्वयविशिष्टत्वमेव ह्येकत्वं निरुणद्धि । अयोग्यता च प्रमाणान्तरसिद्धा घटत्वपटत्वयोः। 'नीलमुत्पलम्'इत्यादिषु तु दण्डित्वकुण्डलित्ववद्रुपवत्त्वरसवत्त्वगन्धवत्त्वा १. कैर्यटे, वृयाहिके. For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आदन्दमयाधिकरणम्. दिवच्च विरोधो नोपलभ्यते । न केवलमविरोध एव ; प्रवृत्तिनिमित्तभेदेनैकार्थनिष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टताम् । अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ताभावात्सामानाधिकरण्य. मेव न स्यात् । विशेषणानां स्वसम्बन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे सत्येकेनैव वस्तूपलक्षितमित्युपलक्षणान्तरमनर्थकमेव; उपलक्षणान्तरोपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्गः ॥ १८३ 'सोऽयं देवदत्तः' इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात् । देशान्तरसम्बन्धितयाऽतीतस्य सन्निहितदेशसम्बन्धितया वर्त - मानत्वाविरोधात् । अत एव हि 'सोऽयम्' इति प्रत्यभिज्ञया कालद्वयसम्बन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनस्स्थिरत्ववादिभिः । अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात् । देशद्वयसम्बन्धविरोधस्तु कालभेदेन परिहियते || यतस्समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थवाचित्वम् ; अत एव २" अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यारुण्यादिविशिष्ठैकहायन्या कयस्साध्यतया विधीयते । For Private And Personal Use Only तदुक्तम्- - २" अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमस्स्यात् ” – इति । तत्रैवं पूर्वपक्षी मन्यते—– यद्यप्यरुणयेति पदमाकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावत्वाद्द्रव्यपर्यन्तमेवारुणिमानमभिदधाति ; तथाऽप्येकहायन्यन्वयनियमो ऽरुणिम्नो न सम्भवति ; एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासम्भवात् ॥ ततश्वारुणयेति वाक्यं भित्वा प्रकरणविहितसर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति । अरुणयेति स्त्रीलिङ्गनिर्देशः प्रकरणवि१. रूपस्वे. पा । २. यजु. ६-१-६. ] ३. पूर्वमीमांसासूत्रम् ३-१-१२.. २. Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये हितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थः । तस्मादेकहायन्यन्वयनियमोऽरु. णिन्नो न स्यात्-इति॥ अत्राभिधीयते—१“अर्थैकत्वे द्रव्यगुणयोरैककान्नियमस्स्यात्" २" अरुणयैकहायन्या" इत्यारुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोस्सामानाधिकरण्येनार्थंकले सिद्धे सत्येकहायनीद्रव्यारुण्यगुणयोररुणयेति पदेनैव विशेषणविशेष्यभावेन सम्बन्धितयाऽभिहितयोः क्रयाख्यैककर्मान्वयाविरोधादरुणिनः क्रयसाधनभूतैकहायन्यन्वयनियमस्स्यात् ।। यद्यकहायन्याः क्रयसम्बन्धवदरुणिमसम्बन्धोऽपि वाक्यावसेयस्स्यात् । तदा वाक्यस्यार्थद्वयविधानं स्यात् । न चैतदस्ति अरुणयेति पदेनैवारुणिमविशिष्टद्रव्यमभिहितम् । एकहायनीपदसामानाधिकरण्येन तस्यैकहायनीत्वमात्रमवगम्यते ; न गुणसम्बन्धः; विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थः; ३“भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्" इति हि सामानाधिकरण्यलक्षणम् ॥ ___ अत एव हि 'रक्तः पटो भवति' इत्यादिष्वकार्थ्यादेकवाक्यत्वम् । पटस्य भवनक्रियासम्बन्धे हि वाक्यव्यापारः; रागसम्बन्धस्तु रक्तपदेनैवाभिहितः; रागसम्बन्धि द्रव्यं पट इत्येतावन्मानं सामानाधिकरण्यावसेयम्। एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा तेनतेन पदेन समस्तेन व्यस्तेन वा विशिष्टमुपस्थाप्य सामानाधिकरण्येन सर्वविशेषणविशिष्टोऽर्थ एक इति ज्ञापयित्वा तस्य क्रियासम्बन्धाभिधानमविरुद्धम् -'देवदत्तइश्यामो युवा लोहिताक्षो दण्डी कुण्डली तिष्ठति ; शुक्लेन वाससा यवनिका सम्पादयेत् ; नीलमुत्पलमानय ; नीलोत्पलमानय ; गामानय १. पूर्वमी, ३-१-१२, २. यजु ६-१-६. ३. कैयटे वृज्याहिके. For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. आनन्दमयाधिकरणम्. १८५ शुक्लां शोभनाक्षीम् ' १“अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत" -इति । एवम् २ 'अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इति ॥ एतदुक्तं भवति—यथा काष्ठैस्स्थाल्यामोदनपचेत्' इत्यनेककारकविशिष्टैका क्रिया युगपत्प्रतीयते; तथा समानाधिकरणपदसङ्घाताभिहितमेकै कारक तत्तत्कारकप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्वेतीति न कश्चिद्विरोधः 'खादिरैश्शुष्कैः काष्ठस्समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेत् , इत्यादिषु इति ॥ ४यत्तूपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलगुणाभिधायीत्यरुणयेति पदेन केवलगुणस्यैवाभिधानमिति तन्नोपपद्यते, लोकवेदयोव्यवाचिपदसमानाधिकणस्य गुणवाचिनः कचिदपि केवलगुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्यसङ्गतम् , 'पटश्शुक्लः' इत्यादिषूपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात् । 'पटस्य शुक्लः' इत्यत्र शौक्ल्यविशिष्टपटाप्रतिपत्तिरसमानविभक्तिनिर्देशकृता; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव पटस्य शुक्लो भाग:"इत्यादिषु समानविभक्तिनिर्देशे शौक्ल्यविशिष्टद्रव्यं प्रतीयते । यत्पुनः क्रयस्यैकहायन्यवरुद्धतयाऽरुणिन्नः क्रयान्वयो न सम्भवतीति । तदपि विरोधिगुणरहितद्रव्यवाचिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते चोक्तन्यायेनारुणिम्नश्शाब्दे द्रव्यान्वये सिद्धे द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात्परस्परान्वयस्सिध्यतीत्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ।। तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रतिपादनं वर्णनीयम् । तत्त्वनाद्यविद्योपहितानवधिकदुःख १. यजुषि. २. काण्डे, २-अनु।। ३. पचति' इत्यने. पा॥ २. यजुषि, ६. १.६॥ ४. यत्तूक्तं-उपात्त. पा 24 For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ शारीरकमीमांसाभाष्ये [अ.१. भागिनश्शुद्ध्यशुद्धयुभयावस्था-चेतनादर्थान्तरभूतमशेषहेयप्रत्यनीकानवधि ककल्याणैकतानं परमात्मानमनभ्युपगच्छतो न सम्भवति ॥ अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थितविशेषणविशिष्टंक्यप्रतिपादनपरत्वाश्रयणे त्वम्पदप्रतिपन्नसकलदोष'भागित्वं परस्य प्रसज्येतेति चेत्-नैतदेवम् , त्वम्पदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात् ॥ एतदुक्तं भवति-सच्छब्दाभिहितं निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पमिश्रानवधिकातिशयासङ्खयेयकल्याणगुणगणं समस्तकारणभूतं परं ब्रह्म ३"बहु स्याम्" इति सङ्कल्प्य तेजोवनप्रमुखं कृत्स्नं जगत्सृष्टा तस्मिन् देवादिविचित्रसंस्थानसंस्थिते जगति चेतनं जीववर्ग स्वकर्मानुगुणेषु शरीरेष्वात्मतया प्रवेश्य स्वयं च स्वेच्छयैव जीवान्तरात्मतयाऽनुप्रविश्य एवम्भूतेषु स्वपर्यन्तेषु देवाद्याकारेषु सङ्घातेषु नामरूपे व्याकरोत् । एवं रूपसङ्घातस्यैव वस्तुत्वं शब्दवाच्यत्वं चाकरोदित्यर्थः । अनेन जीवेनात्मना जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति। ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मणोऽप्रवेशादित्यवगम्यते-६"इदं सर्वमसृजत । यदिदं किं च । तत्सृष्ट्वा । तदेवानुमाविशत् । तदनुपविश्य । सच्च त्यच्चाभवत्"इति अवेदं सर्वमिति निर्दिष्टं चेतनाचेतनश्वस्तुद्वयं सत्त्यच्छब्दाभ्यां विज्ञानाविज्ञानशब्दाभ्यां च विभज्य निर्दिश्य चिद्वस्तुन्यपि ब्रह्मणोऽनुप्रवेशाभिधानात् । अत एवं नामरूपव्याकरणात्सर्वे वाचकाश्शब्दा अचिज्जीवविशिष्टपरमात्मवाचिन इत्यवगतम् इति ॥ किश्च "ऐतदात्म्यमिदं सर्वम्" इति चेतनमिश्रं प्रपञ्चम् इदं सर्व१. भागित्वं ब्रह्मण:. पा॥ । ४. देवाथाकारेषु नाम, पा॥ २. निरतिशयकल्याण पा॥ ५. प्रवेशादवगम्यते पा॥ ६.ते.आन.६.२॥ ३. छा. ६. २. ३ ; तै. आन. ६॥ । ७. वर्गद्वयं पा॥ ८. छा.६.८.७।। For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १, तै, आन ५॥ २. यजुषि आरण्यके. ३. ११॥ पा. १.] आनन्दमयाधिकरणम्. १८७ - मिति निर्दिश्य १ " तस्यैष आत्मा" इति प्रतिपादितम् । एवंच सर्व चेतनाचेतनं प्रति ब्रह्मण आत्मत्वेन सर्वे सचेतनं जगत् तस्य शरीरं भवति । तथा च श्रुत्यन्तराणि २ " अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" ३" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद । यस्य पृथिवी शरीरम् । यः पृथिवीमन्तरो यमयति । स त आत्माऽन्तर्याम्यमृतः" इति प्रारभ्य४"य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् | य आत्मानमन्तरो यमयति । स त आत्माऽन्तर्याम्यमृतः" इत्यादि ५" यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम् । योऽपामन्तरे सञ्चरन् यस्यापश्शरीरम्" इत्यारभ्य ६" योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरम् । यमक्षरं न वेद । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमात्मानमुपदिशन्ति । अतश्वेतनवाचिनोऽपि शब्दाचेतनस्याप्यात्मभूतं चेतनशरीरकं परमात्मानमेवाभिदधति । यथा अचेतनदेवादिसंस्थानपिण्डवाचिनश्शब्दाः तत्तच्छरीरकजीवात्मन एव वाचकाः ७' चत्वारः पञ्चदशरात्राद्देवत्वं गच्छन्ति" इत्यादिषु देवा भवन्तीत्यर्थः। शरीरस्य शरीरिणं प्रति प्रकारत्वात् 'प्रकारवाचिनां च शब्दानां प्रकारियेव पर्यवसानात् शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम् । प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमाaiशः । तस्य त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वा तस्मिन्नेव पर्य वसानं युक्तमिति तस्य प्रतिपादकोऽपि शब्दस्तस्मिन्नेव पर्यवस्यति । अत एव 'गौरवो मनुष्यः' इत्यादिप्रकार भूताकृतिवाचिनश्शब्दाः प्रकारिणि ५, ६, सुबाल ७| ३.५, ७, ३॥ ४, बृ. ५,७, २२, माध्यन्दिनपाठोऽयम् || Acharya Shri Kailassagarsuri Gyanmandir ७. ८. प्रकारवाचिनां शब्दानां पा|| ९. शरीराभिधायिनां पा।। For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ शारीरकमीमांसाभाष्ये [अ. १. पिण्डे पर्यवस्यन्तः पिण्डस्यापि चेतनशरीरत्वेन तत्पकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यन्तीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामानाधिकरण्यं मुख्यमेव ॥ ननु–'खण्डो गौः खण्डश्शुक्ल'इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदैस्सह सामानाधिकरण्यं दृष्टम् ; द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीवप्रत्ययो दृष्टः, यथा-'दण्डी कुण्डली' इति नैवम् , जातिर्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्, अन्योन्यस्मिन् व्यभिचारात् , यस्य पदार्थस्य कस्यचित्कारतयैव सद्भावः, तस्य तदपृथक्सिद्धिस्थितिप्रतीतिभिस्तद्वाचिनां शब्दानां स्वाभिधेयविशिष्टद्रव्यवाचित्वाद्धर्मान्तरविशिष्टतहव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव । यत्र पुनः पृथक्सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित्कचिद्दव्यान्तरप्रकारत्वमिष्यते तत्र मत्वर्थीयप्रत्यय इति निरवद्यम् ।। तदेवं परमात्मनश्शरीरतया तत्प्रकारत्वादचिाद्वीशष्ट जीवस्यापि जीवनिर्देशविशेषरूपा अहंत्वमित्यादिशब्दाः परमात्मानमेवाऽचक्षत इति २"तत्त्वमास"इति सामानाधिकरण्येनोपसंहृतम् एवं च सति परमात्मानं प्रति जीवस्य शरीरतयाऽन्वयाज्जीवगता धर्माः परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता बालत्वयुवत्वस्थविरत्वादयो धर्माः जीवं न स्पृशन्ति; अतः २ 'तत्त्वमसि'इति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्प सर्वकल्याणगुणाकरं निरस्तसमस्तहेयगन्धं परमात्मानमाचष्टे त्वमिति च तमेव सशरीरजीवशरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम् प्रकरणाविरोधस्सर्वश्रुत्यविरोधो ब्रह्मणि निरवये कल्याणकताने अविद्यादिदोषगन्धाभावश्चाअतो जीवसामानाधिकरण्यमपि विशेषणभूताज्जीवाद१. जीवस्य जीवनि पा॥ २. छा. ६-८-७॥ ३. भूतजीवा. पा। For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्. १८९ न्यत्वमेवापादयतीति विज्ञानमयाज्जीवादन्य एवानन्दमयः परमात्मा । यदुक्तम्-१"तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणाजीवादन्यत्वं न सम्भवति-इति,तदयुक्तम् अस्मिन् प्रकरणे सर्व "तस्यैष एव शारीर आत्मा।यः पूर्वस्य"इति परमात्मन एव शारीरास्मत्वाभिधाने कथं "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः"इत्याकाशादिसृज्यवर्गस्य परमकारणत्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मण आत्मत्वेन व्यपदेशात्तव्यतिरिक्ताकाशादीनामन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते । ३“यस्य पृथिवी शरीरं। यस्यापश्शरीरीयस्य तेजश्शरीरं । यस्य वायुश्शरीरं । यस्याकाशश्शरीरं । यस्याक्षरं शरीरं । यस्य मृत्युश्शरीरं । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति सुवालश्रुत्या सर्वतत्त्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते। अतः २"तस्माद्वा एतस्मादात्मनः" इत्यत्रैवान्नमयस्य परमात्मैव शारीर आत्मेत्यवगतः। प्राणमयं प्रकृत्याह १"तस्यैष एव शारीर आत्मा । यः पूर्वस्य" इति। पूर्वस्यान्नमयस्य यश्शारीर आत्मा श्रुत्यन्तरसिद्धः परमकारणभूतः परमात्मा स एव तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः। एवं मनोमयविज्ञानमययोर्द्रष्टव्यम् । आनन्दमये तु १“एष एव" इति निर्देशस्तस्यानन्यात्मत्वं दर्शयितुम् । तत्कथं विज्ञानमयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्यवगतः । एवं सति विज्ञानमयस्य यइशारीर आत्मा, स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते आनन्दमयस्य अभ्यासावगतपरमात्मभावस्य परमात्मनस्स्वयमेवात्मेत्यवगम्यते। एवं च स्वव्यतिरिक्तं चेतनाचेतनवस्तुजातं स्वशरीरमिति स एव निरुपाधिकश्शारीर आत्मा। अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारी१. तै. आन. ५॥ ३. सुबाल. ७॥ २. तै. आन. १॥ ४. तेजश्शररिम् । यस्याकाशश्शरीरम्' पा।। For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. १९० शारीरकमीमांसाभाग्ये रकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्दमयः॥१३॥ आह–नायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयट्प्रत्ययस्य श्रवणात् १"मयड्वैतयोः" इति प्रकृत्य २“नित्यं वृद्धशरादिभ्यः"इति विकारार्थे मयट् स्मयते । वृद्धश्चायमानन्दशब्दः॥ ननु-प्राचुर्येऽपि मयडस्ति ३"तत्पकृतरचने मयद" इतिस्मृतेः। यथा 'अन्नमयो यज्ञः' इति । स एवायं भविष्यति । नैवम् --अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम् , अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम् ॥ किश्च-प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथाहि--- आनन्दप्रचुर इत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्य दुःखस्याल्पत्वमवगमयति । दुःखमिश्रत्यमेव हि जीवत्वम्। अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् ।। किञ्च-लोके मृण्मयं हिरण्मयं दारुमयमित्यादिषु, वेदे च४"पर्णमयी जुहूः" ५ "शमीमय्यस्युचः" ६"दर्भययी रशना" इत्यादिषु मयटो विकारार्थे प्रयोगबाहुल्यात्स एव प्रथमतरं धियाधिरोहति। जीवस्य चानन्दविकारत्वमस्त्येव । तस्य स्वत आनन्दरूपस्य सतस्संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयदप्रत्ययस्य श्रवणादानन्दमयो जीवादनतिरिक्त इति । तदेतदनुभाष्य परिहरतिविकारशब्दान्नेतिचेन्न प्राचुर्यात्। १।१॥१४॥ १. अष्टाध्याय्यां. ४. ३. १४३॥ . ४. यजुषि, ३. कां. ५. प्र, ७, अनु।। २ अष्टाध्याय्यां ४. ३. १४४॥ ३. अष्टाध्याय्यां. ५. ४. २१॥ ६. यजुषि, ३. अष्टके, ८, प्र. २, अनु।। For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] आनन्दमयाधिकरणम्. १९१ नैतद्युक्तं ; कुतः ? प्राचुर्यात् – परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात् । 'प्राचुर्यार्थे च मयटस्सम्भवात् । एतदुक्तं भवति शतगुणितोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासम्भवाद्ब्रह्माश्रयोऽयमानन्द इति निश्चिते सति तस्मिन् ब्रह्मणि विकारासम्भवात् प्राचुर्येऽपि मयविधिसम्भवाच्चानन्दमयः परं ब्रह्म इति ॥ Acharya Shri Kailassagarsuri Gyanmandir औचित्यात्प्रयोगप्रौढया च मयटो विकारार्थत्वमर्थविरोधान्न सम्भवति । किञ्च - औचित्यं प्राणमय एवं परित्यक्तम्, तत्र विकारार्थत्वासम्भवात् । अतस्तत्र पञ्चवृत्तेर्वायोः प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम्, प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्तेः प्राचुर्याद्वा । न च प्राचुये मयप्रत्ययस्य प्रौढिर्नास्ति, 'अन्नमयो यज्ञः ' ' शकटमयी यात्रा' इत्यादिषु दर्शनात् || यदुक्तमानन्दमाचुर्यमल्पदुःखसद्भावमवगमयतीतिः तदसत् तत्प्रचुरत्वं हि तत्प्रभूतत्वम्, तच्चेतरस्य सत्तां नावगमयतिः अपि तु तस्याल्पत्वं निवर्तयति । इतरसद्भावासद्भावौ तु प्रमाणान्तरात्रसेयौः इह च प्रमाणान्तरेण तदभावोsवगम्यते ३" अपहतपाप्मा" इत्यादिना । तत्रैतावदेव वक्तव्यं, ब्रह्मानन्दस्य प्रभूतत्वमन्या ४ नन्दस्याल्पत्वमपेक्षत इति । उच्यते च तत् ५ स एको मानुष आनन्दः" इत्यादिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशयदशापनः प्रभूत इति ॥ यच्चोक्तं जीवस्यानन्दविकारत्वं सम्भवतीति ; तदपि नोपपद्यते, जीवस्य ज्ञानानन्दस्वरूपस्य केनचिदाकारेण मृद इव घटाद्याकारणे परिणामस्सक लश्रुतिस्मृतिन्यायविरुद्धः । संसारदशायां तु कर्मणा ज्ञानानन्दौ सङ्कचितावित्युपपादयिष्यते । अतश्चानन्दमयो जीवादन्यः परं ब्रह्म । १. प्राचुर्यार्थे मयटस्सं पा २. प्राणवत्सामा. पा॥ ३. छा. ८-१-५॥ ४. आनन्दस्यापत्वापेक्षमिति पा।। तै. आन ८ - अनु|| ५. For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १९२ www.kobatirth.org शारीरकमीमांसाभाष्ये इतश्च जीवादन्य आनन्दमयः परं ब्रह्म १. तै. आन-७. अनु॥ २. जीवानामानन्दहेतु पा॥ ३. . आन- १. अनु|| तद्धेतुव्यपदेशाच्च । १ । १ । १५ ॥ १" को ह्येवान्यात्कः माण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति" इति । एष एव जीवानानन्दयतीतिर जीवानन्दहेतुरयं व्यपदिश्यते । अतश्वानन्दयितव्याज्जीवादानन्दयिताऽयमन्य आनन्दमयः परमात्मेति विज्ञायते । आनन्दमय एवात्र आनन्दशब्देनोच्यत इति चानन्तरमेव वक्ष्यते || इतश्च जीवादन्य आनन्दमयः मान्त्रवर्णिकमेव च गीयते । १ । १ ।१६ ॥ ३" सत्यं ज्ञानमनन्तं ब्रह्म" इति मन्त्रवर्णोदितं ब्रह्मवानन्दमय इति गीयते । तत्तु जीवस्वरूपादन्यत् परं ब्रह्म । तथाहि - ४ " ब्रह्मविदामोति परम्" इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् ॥ ५" तदेषाभ्युक्ता " इति -- तत् ब्रह्म, अभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य, ऋगेषा, अध्येतृभिरुक्ता । ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्यर्थः, जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव । अनन्तरं च ७" तस्माद्वा एतस्मादात्मन अकाशस्सम्भूतः" इत्यारभ्योत्तरोतरैर्ब्राह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते । अतो जीवादन्य आनन्दमयः || अलाह - यद्यप्युपासकात्माप्यस्य भेदेन भवितव्यम् ; तथापि न वस्त्वन्तरं जीवान्मान्त्रवर्णिकं ब्रह्म; किन्तु तस्यैवोपासकस्य निरस्त - समस्तात्रिद्यागन्धनिर्विशेषचिन्मात्रैकरसं शुद्धं स्वरूपम्, तदेव “सत्यं Acharya Shri Kailassagarsuri Gyanmandir ४. ५. ७. तै. आन -१, अनु॥ ६. ब्राह्मणोक्तार्थस्य. पा For Private And Personal Use Only [अ. १. Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] भानन्दमयाधिकरणम्. १९३ ज्ञानमनन्तं ब्रह्म" इति मन्त्रेण विशोध्यते । तदेव च “यतो वाचो निवतन्ते । अप्राप्य मनसा सह" इति वाङ्मनसागोचरतया निर्विशेषमिति गम्यते। अतस्तदेव मान्नवर्णिकमिति तस्मादनतिरिक्त आनन्दमय इति । अत उत्तरं पठति नेतरोऽनुपपत्तेः।१।१।१७॥ परमात्मन इतरो जीवशब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रवर्णिकः । कुतः१ अनुपपत्तेः। तथाविधस्यात्मनो निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्त्वं २"सोऽकामयत बहु स्यां प्रजायेय" इति सत्यसङ्कल्पत्वप्रदर्शनेन विवरिष्यते । ३विविधं पश्यचित्त्वं हि विपश्चित्त्वम् । पृषोदरादित्वात्पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः। यद्यपि मुक्तस्य विपश्चित्त्वं सम्भवति ; तथापि तस्यैवात्मनस्संसारदशायामविपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते । निर्विशेषचिन्मात्रतापन्नस्य मुक्तस्य विविध दर्शनाभावा ५त्सुतरां विपश्चित्त्वं न सम्भवतीति न केनापि प्रमाणेन निर्विशेष वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम्। १" यतो वाचो निवर्तन्ते" इति च वाक्यं यदि वाङ्मनसयोर्ब्रह्मणो निवृत्ति मभिदधीत ; न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात् ; अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत् । तथाच सति तस्य तुच्छत्वमेवापद्यते। ६"ब्रह्मविदाप्नोति"इत्यारभ्य ब्रह्मणो विपश्चित्त्वं जगत्कारणत्वं ज्ञानानन्दैकतानतामितरान्पत्यानन्दयितृत्वं कामादेव चिदचिदात्मकस्य कुत्वस्य स्रष्टत्वं सृज्यवर्गानुप्रवेशकृततदात्मकत्वं भयाभयहेतुत्वं वायवा१. ते. आन. ९-अनु ॥ ४. दर्शनासंभवात् . पा॥ २. ते. आन. ६॥ ५. सुतरामपि. पा॥ ६. ते. आन. १॥ ३. विविधं हि पश्यश्चित्त्वं विप ॥ ७. परमित्यार, पा॥ ८. वाय्वादीनां. पा। For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ शारीरकमीमांसाभाष्ये [.१ दित्यादीनां प्रशासितृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वमन्यच्चानेकं प्रतिपाद्य वाङमनसयोः ब्रह्मणि प्रवृत्त्यभावेन निष्पमाणकं ब्रह्मेत्युच्यत इति भ्रान्तजल्पितम् । १" यतो वाचो निवर्तन्ते" इति यच्छब्दनिर्दिष्टमर्थम् २“आनन्दं ब्रह्मणो विद्वान्" इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसम्बन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य तदेव वाड्मनसागोचरं 'विद्वान्'इति तद्वेदनमभिदधद्वाक्यं जरद्गवादिवाक्यवदन थकं वाच्यनन्तर्गतं च स्यात् । - अतश्शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावादेव वाङमनसयोस्ततो निवृत्तिः १“यतो वाचो निवर्तन्ते"इत्युच्यते । एवमियत्तारहितं 'ब्रह्मण आनन्दं विद्वान् कुतश्चन न बिभेति' इत्युच्यते।किञ्च अस्य मान्नवर्णिकस्य विपश्चितः४"सोऽकामयत" इत्यारभ्य ५वक्ष्यमाणस्वसङ्कल्पावकृप्तजगज्जन्मस्थितिजगदन्तरात्मत्वादेमुक्तात्मस्वरूपादन्यत्वं सुस्पष्टमेव ॥ १७ ॥ इतश्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमयः-- भेदव्यपदेशाच्च।१।१।१८॥ ६"तस्माद्वा एतस्मादात्मन आकाशः" इत्यारभ्य मान्त्रवर्णिकं ब्रह्म व्यञ्जयद्वाक्यमनप्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति "तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः"इति । अतो जीवाद्भेदस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायते।। ___ इतश्च जीवादन्यः कामाच्च नानुमानापेक्षा । १११॥१९॥ १. ते. आन. ९. अनु॥ ५. वक्ष्यमाणस्य स्व. पा।। २. तै. आन. ९॥ ३. वाचकानन्त र्ग. पा. ६. ते. आन, १॥ ४. ते. आन. ६॥ । ७. ते. आन, ५॥ ८. विज्ञायते. पा। For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्, जीवस्याविद्यापरवशस्य जगत्कारणत्वे ह्यवर्जनीया आनुमानिकप्रधानादिशब्दाभिधेयाचिद्वस्तुसंसर्गापेक्षा तथैव हि चतुर्मुखादीनां कारणत्वम् इह च १"सोऽकामयत। बहु स्यां प्रजायेय" इत्यचित्संसर्गररहितस्य स्वकामादेव विचित्रचिदचिद्वस्तुनस्सृष्टिः ३ "इदं सर्वमसृजत। यदिदं किञ्च" इत्याम्नायते। अतोऽस्यानन्दमयस्य जगत्सृजतो नानुमानिकाचिद्वस्तुसंसर्गापेक्षा प्रतीयते। ततश्च जीवादन्य आनन्दमयः ॥ १९ ॥ इतश्च अस्मिन्नस्य च तद्योगं शास्ति।१।१॥२०॥ अस्मिन्-आनन्दमये,अस्य-जीवस्य, तद्योगम्-आनन्दयोगम् , शास्ति शास्त्रम् -- ४"रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" इति। रसशब्दाभिधेयानन्दमयलाभादयं जीवशब्दाभिलपनीय आनन्दी भवतीत्युच्यमाने यल्लाभाद्य आनन्दी भवति, स स एवेत्यनुन्मत्तः को ब्रवीतीत्यर्थः॥ __एवमानन्दमयः परं ब्रह्मेति निश्चिते सति ५" यदेष अकाश आनन्द:"६"विज्ञानमानन्दं ब्रह्म" इत्यादिष्वानन्दशब्देनानन्दमय एव परामश्यते। यथा विज्ञानशब्देन विज्ञानमयः। अत एव 'आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशः। अत एव च " आनन्दमयमात्मानमुपसङ्कामति" इति फलनिर्देशश्च । उत्तरे चानुवाके पूर्वानुवाकोक्तानामअमयादीनाम् ९ "अन्नं ब्रह्मेति व्यजानात्"१० "प्राणो ब्रह्मेति व्यजानात्" ११"मनो ब्रह्मेति व्यजानात्"१२ "विज्ञानं ब्रह्मेति व्यजानात् "इति प्रति १.ते.आन.६-अनु।। २. रहितस्य तस्य.पा।। ७. ते. आन. ९.१॥ ८. तै. आन.८-५॥ ३. ते. आन. ६-२॥ ९. ते. भृ. २॥ १०. ते. भृ. ३॥ ४. तै. आन. ७-१॥ ५. तै. आन. ७॥ ११. तै. भृ. ४-अनु।। ६.. ५. ९. २८॥ १२. तै. भृ. ५-१॥ For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ वेदान्तसारे [ अ. १. पादनात् " आनन्दो ब्रह्म" इत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञाय - ते; तत एव च तत्रापि २ “आनन्दमयमात्मानमुपसङ्क्रम्य" इत्युपसंहृतम् । अतः प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं सिद्धम् || २० ॥ इति श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् || ६ || -. ( वेदान्तसारे आनन्दमयाधिकरणम् || ६ || ) आनन्दमयोऽभ्यासात्। १॥ ११३ ॥ यद्यपि प्रधानादर्थान्तरभूतस्य प्रत्यगात्मनश्चेतनस्य ३ ईक्षणगुणयोगस्सम्भवति, तथाऽपि प्रत्यगात्मा बद्धो मुक्तश्च न जगत्कारणम्, ४" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इत्यारभ्य, ५" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः " ६इत्यस्य आनन्दमयत्वप्रतिपादनात् कारणतया व्यपदिष्टोऽयमानन्दमयः प्रत्यगामिनो ऽर्थान्तरभूतः सर्वज्ञः परमात्मैव । कुतः अभ्या सात् -- आनन्दमयस्य निरतिशयदशाशिरस्कानन्दमयत्वेनाभ्यासात् । ७" ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः "८" यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन" इति हि वेद्यत्वेनायमानन्दमयोऽनवधि कातिशयोऽभ्यस्यते ॥ १३ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् | १|१|१४|| Acharya Shri Kailassagarsuri Gyanmandir ९स वा एष पुरुषोsन्नरसमयः' इति विकारार्थमयट्प्रकरणात् १० "आनन्दमयः" इत्यस्यापि विकारार्थत्वं प्रतीयते । अतोऽयमानन्दमयः नाविकाररूपः परमात्मा, इति चेन्न अर्थविरोधात् प्राचुर्यार्थ एवायं मयडिति विज्ञायते, ४"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इति ह्यविकार आत्मा प्रकृतः । प्रक १. तै. भृ. ६-१॥ २. तै. आन. १०-५॥ ३. ईक्षणयोग:, पा. ४. तै. आन. १, अनु|| ५. तै. आन. ५ ॥ ६. इति तस्य. पा. तै. आन. ९॥ ८. १०. तै. आन. ५-२॥ For Private And Personal Use Only ७. तै. आन. ८.४ ॥ ९. तै. आन. १॥ Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. आनन्दमयाधिकरणम्. रणे च विकारार्थत्वं प्राणमय एव परित्यक्तम् । उक्तेन न्यायेन आनन्दप्राचुर्यात् परमपुरुष एवायमानन्दमयः ॥ १४ ॥ तद्धेतुव्यपदेशाच्च । १।१।१५॥ १“एष धेवानन्दयाति" इति जीवान्प्रत्यानन्दहेतुरयमानन्दमयो व्यपदिश्यते; अतश्चायं न प्रत्यगात्मा ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते ।।१।१६॥ २"सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रवर्णोदितमेव३"तस्माद्वा एतस्मात्" इत्यादिना आनन्दमय इति गीयते ; अतश्च न प्रत्यगात्मा ॥ १६ ॥ नेतरोऽनुपपत्तेः।१।१११७॥ इतरः,प्रत्यगात्मा मन्त्रवर्णोदित इति नाशङ्कनीयम् , ४"सोऽभुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति प्रत्यगात्मनो बद्धस्य मुक्तस्य च ईदृशविपश्चित्त्वानुपपत्तेः। ५“सोऽकामयत। बहु स्यां प्रजायेय" इति विचित्रस्थिरत्रसरूपबहुभवनसङ्कल्परूपमिदं विपश्चित्त्वमिति हत्तरत्र व्यज्यते। मुक्तस्य सवंशस्यापि जगद्व्यापाराभावादीदृशविपश्चित्त्वासम्भवः ॥१७॥ इतश्च शाच्च।१।१।१८॥ ६" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः" इति हि विज्ञानमयात् प्रत्यगात्मनो भेदेनायमानन्दमयो व्यपदिश्यते । नच विज्ञानमयविषयतया उदाहृतश्लोके ७"विज्ञानं यज्ञं तनुते" इति व्यपदेशात विज्ञानमयो बुद्धिमानमित्याशङ्कनीयम् ; यतस्सूत्रकार एव इमामाशङ्कां परिह रिष्यति ८"व्यपदेशाच क्रियायां न चेन्निर्देशविपर्ययः" इति । ७"विज्ञानं यज्ञ तनुते” इति यज्ञादिक्रियायां जीवस्य कर्तृत्वव्यपदेशाच्च जीवः कर्ता। विज्ञानश ब्देन जीवस्याप्युपदेशे बुद्धिमात्रव्यपदेशे च विज्ञानेनेति निर्देशविपर्ययस्स्यात् बुद्धेः करणत्वादिति ॥१८॥ १. ते, आन. ७-१. अनु।। ६. ते. आन. ५॥ ७. ते. मान, ५॥ २. ते. आन. १॥ ३. ते. आन. १॥ ८. शारी. २-३-३५॥ ४. ते. आन. १॥ ५. ते. आन. ६॥ For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ वेदान्तदीपे [म. १. इतश्च कामाच्च नानुमानापेक्षा। १॥ १॥१९॥ १" सोऽकामयत । बहु स्याम्" इति स्वकामादेवास्य जगत्सर्गश्श्रूयते । प्रत्यगात्मनो हि यस्य कस्यचित्सर्गे आनुमानापेक्षा दृश्यते । अनुमानगम्यं प्रधानम् आनुमानम् ॥ १९ ॥ इतश्चअस्मिन्नस्य च तद्योगं शास्ति।१।१॥२०॥ अस्मिन् - आनन्दमये, अस्य - प्रत्यगात्मनः, आनन्दयोग शास्ति २"रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति"-~-इति । अतः प्रत्यगात्मनोडर्थान्तरभूतः सर्वज्ञः पुरुषोत्तमः जगत्कारणभूतः आनन्दमयः॥२०॥ इति वेदान्तसारे आनन्दमयाधिकरणम् ॥ ६ ॥ Maacscnm --..(वेदान्तदीपे आनन्दमयाधिकरणम् ॥ ६॥).-.. आनन्दमयोऽभ्यासात्।१।१।१३॥ तैत्तिरीयके–३"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इति प्रकृत्य ४"तस्माद्वा एतस्माद्विज्ञानमयात्।अन्योऽन्तर आत्माऽऽनन्दमयः” इत्यत्र जगकारणतयाऽवगत आनन्दमयः किं प्रत्यगात्मा? उत परमात्मेति संशयः।५प्रत्यगात्मेति पूर्वः पक्षः । कुतः ? ६"तस्यैष एव शारीर आत्मा" इति आनन्दमयस्य शारीरत्वश्रवणात् । शारीरो हि शरीरसम्बन्धी । स च प्रत्यगात्मैव । तस्य चेतनत्वेनेक्षापूर्विका च सृष्टिरुपपद्यत इति । राद्धान्तस्तु-- ७ "सैषाऽनन्दस्य मीमांसा भवति" इत्यारभ्य,“यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह।आनन्दं ब्रह्मणो विद्वान्" इति निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्दः प्रत्यगात्मनोऽर्थान्तरभूतस्य परस्यैव ब्रह्मण इति निश्चीयते । शारीरात्मत्वञ्च परमात्मन एव, ९"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इत्याकाशादिजग१. ते. आन, ६॥ ५. किंयुक्तम् । प्रत्यगात्मेति. पा. २. ते. आन, ७-१॥ ६. ते. आन। ७. ते, आन. ८॥ ३. ते. आन. १॥ ४. ते. आन. ५॥ ८. ते. आन. ९॥ ९. ते. आन, १॥ For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] भानन्दमयाधिकरणम् . कारणतयाऽवगत एवानमयस्य शारीर आत्मेति प्रतीयते, १आत्मान्तरानिर्देशात् । श्रुत्यन्तरेषु पृथिव्यक्षरादीनां शरीरत्वं परमात्मन आत्मत्वश्च श्रूयते २ “यस्य पृथिवी शरीरम्" इत्यारभ्य,३"एष सर्वभूतान्तरात्माऽपहतपाप्मा दि. व्यो देव एको नारायणः" इति अन्नमयस्यात्मैव प्राणमयादिषु४"तस्यैष एव शारीर आत्मा।यः पूर्वस्य” इत्यनुकृष्यत इति प्रत्यगात्मनो विज्ञानमयस्य च स एव शारीर आत्मा । आनन्दमये तु ४"तस्यैष एव शारीर आत्मा। यः पूर्वस्य" इति निर्देशः आनन्दमयस्यानन्यात्मत्वप्रदर्शनार्थः । अतो जगत्कारणतया निर्दिष्ट आनन्दमयः परमात्मैवेति ॥ सूत्रार्थस्तु-आनन्दमयशब्दनिर्दिष्टः आकाशादिजगत्कारणभूतः प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मा । कुतः? तस्यानन्दस्य निरतिशयत्वप्रतीतिबलात् । ५"स एको मानुष आनन्दः । ते ये शतम्" इत्याद्यभ्यासात् , तस्य च प्रत्यगात्मन्यसम्भावितस्य तदतिरिक्ते परमात्मन्येव सम्भवात् ॥ १३॥ विकारशब्दान्नेति चेन्न प्राचुर्यात्।।१।१४॥ ६'आनन्दमयः” इति विकारार्थान्मयट्च्छब्दानायमविकृतः परमात्मा । अस्य च विकारार्थत्वमेव युक्तम्,७"अन्न....मयः''इति विकारोपक्रमादिति चेन्न, प्रत्यगात्मन्यपि ८"न जायते म्रियते वा"९इत्यादिविकारप्रतिषेधात्प्राचुर्यार्थएवायं मयडिति निश्चयात् । अस्मिश्चानन्दे, १०"यतो वाचो निवर्तन्ते" इति वक्ष्यमाणात्प्राचुर्यादयमानन्दप्रचुरः परमात्मैव । न ह्यनवधिकातिशयरूपाप्रभू सानन्दः प्रत्यगात्मनि सम्भवति ॥१४॥ तद्धेतुव्यपदेशाच्च । १।१।१५॥ ११“एष ह्येवानन्दयाति" इति जीवान्प्रत्यानन्दयितृत्वव्यपदेशाचार्य परमात्मैव ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते । १।१।१६॥ १२"सत्यं शानमनन्तं ब्रह्म'इति मन्त्रवर्णोदितं ब्रह्मैव,१३"तस्माद्वा एतस्मादात्मनः" इत्यारभ्य १४"आनन्दमयः” इति च गीयते; ततश्चानन्दमयो ब्रह्म ॥ १. आनन्दमयस्य आत्मा. पा॥ ९. इति विकार. पा. २, ३. सुबाल. ७. ४. तै. आन ५.१०. ते. आन. ९. ११. तै. आ.७-१. ५. ते. आन.८. ६. ते, आन. ५. १२. तै. आ. १. १३. तै. आ. १. ७.तै.आन.१॥ ८.कठवल्ल्यां . १-२-१८. १४. ते. आन. ५. For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०० www.kobatirth.org वेदान्तदीपे Acharya Shri Kailassagarsuri Gyanmandir प्रत्यगात्मनः परिशुद्धं स्वरूपं मन्त्रवर्णोदितमित्याशङ्कयाह नेतरोऽनुपपत्तेः । १।१।१७॥ परस्माद्ब्रह्मणः, इतरः प्रत्यगात्मा न मन्त्रवर्णोदितः, तस्य १ " विपश्चिता ब्रह्मणा " इति विपश्चित्त्वानुपपत्तेः ; विविधं पश्यश्वित्त्वं हि विपश्चित्त्वम् । तच्च २" सोऽकामयत । बहु स्यां प्रजायेय" इत्यादिवाक्यादितनिरुपाधिक बहुभवनसङ्कल्परूपं सर्वशत्वम् । तत्तु प्रत्यगात्मनः परिशुद्धस्यापि न सम्भवति, ३ “जगयापारवर्ज प्रकरणादसन्निहितत्वाच्च" इति वक्ष्यमाणत्वात् । अतः परं ब्रह्मैव मान्त्रवर्णिकम् ॥ १७ ॥ १. तै. आन. १॥ २. तै. आन. ६ ॥ ३. शारी. ४-४-१७. [अ. १. भेदव्यपदेशाच्च । १ । १ । १८ ॥ ४'' भीषास्माद्वातः पवते" इत्यादिना अग्निवायुसूर्यादि जीववर्गस्य आनन्दमयात्प्रशासितुः प्रशासितव्यत्वेन भेदो व्यपदिश्यते। अतश्चानन्दमयः परमात्मेति । योजनान्तरम् ५ " तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः” इति विज्ञानमयाजीवादानन्दमयस्य भेदो व्यपदिश्यते । विज्ञानमयो हि जीव एव । न बुद्धिमात्रम्, मयट्छ्रुतेः अतञ्चानन्दमयः परमात्मा ॥ १८ ॥ कामाच्च नानुमानापेक्षा । १।१।१९ ॥ २" सोऽकामयत" इत्यारभ्य ६" इदं सर्वमसृजत" इति कामादेव जगत्सश्रवणात् अस्यानन्दमयस्य जगत्सर्गे नानुमानगम्यप्रकृत्यपेक्षा प्रतीयते । प्रत्यगात्मनो यस्य कस्यचिदपि सर्गे प्रकृत्यपेक्षास्ति । अतश्चायं प्रत्यगात्मनोऽन्यः परमात्मा ॥ १९ ॥ अस्मिन्नस्य च तद्योगं शास्ति । १।१।२० ॥ ७" रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति" इति अस्मिन् -आनन्दमये रसशब्दनिर्दिष्टे, अस्य - अयंशब्दनिर्दिष्टस्य जीवस्य, तल्लाभादानन्दयोगं शास्ति शास्त्रम् । प्रत्यगात्मनो यल्लाभादानन्दयोगः, स तस्मादन्यः परमात्मैवे - त्यानन्दमयः परं ब्रह्म ॥ २० ॥ इति वेदान्तदीपे आनन्दमयाधिकरणम् || ६ || For Private And Personal Use Only ४. तै. आन. ८. ५. तै. आन. ५.१ ॥ ६. तै. आन. ६-२. ७. तै. आन. ७-१. Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥ ७ ॥ ) यद्यपि मन्दपुण्यानां जीवानां कामाज्जगत्सृष्टिरतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न सम्भवति तथापि विलक्षण पुण्यानामादित्येन्द्रप्रजापतिप्रभृतीनां सम्भवत्येवेतीमामाशङ्कां निराकरोति— अन्तस्तद्धर्मोपदेशात् । १।१।२१॥ इदमानायते च्छान्दोग्ये २" य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यमश्रुर्हिरण्यकेश आपणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्यादिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्यवच साम च गेort इत्यधिदैवतम् " ३" अथाध्यात्मम् अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम " इति ॥ तत्र सन्दिह्यते--- किमयमक्ष्यादित्यमण्डलान्तर्वतीं पुरुषः पुण्यापचयनिमित्तैश्वर्य आदित्यादिशब्दाभिलप्यो जीव एव; आहोस्वित्तदतिरिक्तः परमात्मा - इति । किं युक्तम् ? उपचितपुण्यो जीव एवेति । कुतः ? सशरीरत्व श्रवणात् । शरीरसम्बन्धो हि जीवानामेव सम्भवति । कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसम्बन्धः । अत एव हि कर्मसम्बन्धरहितस्य मोक्षस्य प्राप्यत्वमशरीरत्वेनोच्यते ४" न ह वै स शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः" इति । सम्भवति च पुण्यातिशयात् ज्ञानाधिक्यम्, शक्त्याधिक्यञ्च । अत एव लोककामेशत्वादि तस्यैवोपपद्यते । ५ तत एव चोपास्यत्वम्, फलदायित्वम्, पापक्षपणकरत्वेन मोक्षोपयो ९. इत्यादीनि न सम्भवन्ति पा॥ २. छा. १-६-६-७-८ ॥ ३, छा, १-७-५॥ 26 ४. छा. ८-१२-१॥ ५. अत एवोपास्यत्वं फलदायित्वं च पा For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ शारीरकमीमांसाभाष्ये [अ.१. गित्वं च । मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञानशक्त्यादिभिरधिकतरा दृश्यन्ते । ततश्च सिद्धगन्धर्वादयः। ततश्च देवाः । ततश्चेन्द्रादयः। अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवम्भूतमैश्वर्य प्राप्तो जगत्सृष्टयाद्यपि करोतीति जगत्कारणत्वजगदन्तरात्मत्वादिवाक्यमस्मिनेवोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति । एवं च सति?"अस्थूलमनण्वहस्वम्" इत्यादयो जीवात्मनस्वरूपाभिप्राया भवन्ति । मोक्षशास्त्राण्यपि तत्स्वरूपतमाप्त्युपायोपदेशपराणि-इति ॥ ____-..-(सिद्धान्तः)..... एवं प्राप्तेऽभिधीयते ---अन्तस्तद्धर्मोपदेशात्-अन्तरादित्येऽन्तरक्षिणि च यः पुरुषः प्रतीयते, स जीवादन्यः परमात्मैव ; कुतः १ तद्धर्मोपदेशात् जीवेष्वसम्भवंस्तदतिरिक्तस्यैव परमात्मनो धर्मोऽयमपहतपाप्मत्वादिः२“स एष सर्वेभ्यः पाप्मभ्य उदितः" इत्यादिनोपदिश्यते । अपहतपाप्मत्वं हि अपहतकर्मत्वम् कर्मवश्यतागन्धरहितत्वमित्यर्थः।कर्माधीनसुखदुःखभागित्वेन कर्मवश्या हि जीवाः। अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्मः॥ तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम् , सत्यसङ्कल्पत्वादिकम् सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्मः यथाह३ "एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति, तथा ४'एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति । ५"सोऽकामयत। बहु स्यां प्रजायेयेति"इत्यादिसत्यसङ्कल्पत्वपूर्वकसमस्तचिदचिद्वस्तुसृष्टियोगो निरुपाधिकभयाभयहेतुत्वम्, वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिकातिशयानन्दयोग इत्यादयोऽकर्मसम्पाद्यास्वा१. बृ. ५-८-८॥ २. छा. १-६-७॥ ४. सुवाल. ७॥ ३. छा. ८-१-५॥ । ५. ते. आन. ६॥ For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] भन्तरधिकरणम् भाविका धर्मा जीवस्य न सम्भवन्ति ॥ यत्तु शरीरसम्बन्धा जीवातिरिक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यतां साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसम्बन्धसम्भवात् । अथोच्येत - शरीरं नाम त्रिगुणात्मकप्रकृतिपरिणामरूपभूतसङ्घातः;तत्सम्बन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्येच्छया न सम्भवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्वस्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगायानिच्छतोऽपि तत्सम्बन्धोऽवर्जनीयः - इति । स्यादेतदेवम् ; यदि गुणत्रयमयः प्राकृतोऽस्य देहस्स्यात्ः स तु स्वाभिमतस्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ॥ १. गुणनिधिदिव्य. पा।। २. तै, भृ, १ ॥ ४. ऐतरेय, १-१-१॥ Acharya Shri Kailassagarsuri Gyanmandir एतदुक्तं भवति - परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवाधिकातिशयासङ्ख्चेयकल्याणगुणगणाश्च सन्ति तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भतनित्यनिरवद्यनिरतिशयौज्ज्वल्य सौन्दर्यसौगन्ध्य सौकुमार्यलावण्ययौवनाद्यनन्त गुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूप संस्थानं करोत्यपारकारुण्य सौशील्यवात्सल्यौदार्यजलनिधिः निरस्तनिखिल हेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायणः - इति ॥ २ यतो वा इमानि भूतानि जायन्ते " ३ " सदेव सोम्येदमग्र आसीत् " ४" आत्मा वा इदमेक एवाग्र आसीत् "५ "एको ह वै नारायण आसीन्न ब्रह्मा नेशानः" इत्यादिषु निखिल जगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः ६“ सत्यं ज्ञानमनन्तं ब्रह्म" ७" विज्ञानमानन्दं ब्रह्म " इत्यादिष्वेवम्भूतं ३. छा, ६-२-१।। ५. महोप. १. अ. १ ॥ तै. आन, १॥ २०३ ६. ७. बृ. ५-९-२८॥ For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०४ www.kobatirth.org [अ. १. शारीरकमीमांसाभाष्ये स्वरूपमित्यवगम्यते। १“निर्गुणम्” २ “निरञ्जनम्" ३ “अपहतपाप्मा बिजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः " ४" न तस्य कार्य करणं च विद्यते न तत्समवाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ५" तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् " ६" स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः "७" सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते "८" वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्ण तमसः परस्तात् " " सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि " इत्यादिषु परस्य ब्रह्मणः प्राकृतहेयगुणान् प्राकृत हेयदेहसम्बन्धं तन्मूलकर्मवश्यतासम्बन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान्। तदिदमाह श्रुतिः - १०" अजायमानो बहुधा विजायते " इति । स्मृतिश्च ??" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया । परित्राणाय साधूनां विनाशाय च दुष्कृताम् " इति । साधवो ह्यपासकाःतत्परित्राणये वाद्देश्यम्, आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्पमात्रेणापि तदुपपत्तेः । 'प्रकृतिं स्वाम्' इति प्रकृतिः - स्वभावः । १२ स्वमेव स्वभावमास्थाय न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति १३ स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । १४" माया वयुनं ज्ञानम्” इति ज्ञानपर्याय १. आत्मोप ।। २. श्वेता. ६. १९ । ३. छा. ८-५-१॥ ४. श्वे. ६-८ ।। ५. वे. ६-७।। ६. श्वे, ६-९॥ ७. ८. यजु. आरण. ३-१२. पुरुषसू ॥ Acharya Shri Kailassagarsuri Gyanmandir ९. तै. नारायणीये. १ - अनु. ८ ॥ १०. पुरुषसू ।। ११. गी. ४-६. यजु. आरण. ८ ।। १२. स्वीयमेव स्वभावमा. पा।। १३. स्वसंकल्परूपज्ञानेन, पा।। - १४. वेदनिखण्टौ, धर्म वर्गे. २२ - हो । For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] अन्तरधिकरणम्. २०५ मपि मायाशब्दं नैखण्टुका अधीयते । आह च भगवान् पराशरः१" समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यदरेमहत् ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया। जगतामुपकाराय न सा कमनिमित्तजा"..इति;महाभारते चावताररूपस्याप्यप्राकृतत्वमुच्यते-२"न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः" इति। अतः परस्यैव ब्रह्मण एवंरूपरूपवत्त्वादयमपि तस्यैव धर्मः । अस आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव ॥ २१ ॥ भेदव्यपदेशाच्चान्यः।१।१॥२२॥ आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः-३"य आदित्ये तिष्ठन्नादित्यादन्तरो थमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति" ४" य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" ५“योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति चास्यापहतपाप्मनः परमात्मनस्सर्वान् जीवान् शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनैनं व्यपदिशति । अतस्सर्वेभ्यो हिरण्यगर्भादिजीवेभ्योऽन्य एव परमात्मेति सिद्धम् ।। २२ ॥ ___ इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥ ७ ॥ १. वि. पु. ६-७-७०॥ २. महाभारते, उद्योगपणि। ३. १. ५-७-९॥ ४. वृ. ५-७-२२॥ ५ सुबाल. ७-खा। ६. इति चास्यापहतपाप्मन: सर्वान् मीवान्। For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( वेदान्तसारे अन्तरधिकरणम् ॥ ७ ॥ --- ) Acharya Shri Kailassagarsuri Gyanmandir अन्तस्तद्धर्मोपदेशात् । १।१।२१॥ ? ', अयं जगत्कारणभूतः विपश्चिदानन्दमयः कश्चिदुपचितपुण्यविशेषो जीवविशेषः देहयोगाद्विज्ञायते, नायं परमात्मेति नाराङ्कनीयम् ; १ " य एषोऽन्तरादित्ये हिरण्मयः पुरुषः" इत्यादौ श्रूयमाणः पुरुषाकारः परमात्मैव । कुतः तद्धर्मोपदेशात्, २" स एष सर्वेषां लोकानामीशः सर्वेषां कामानाम् " ३" तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः" इति निरुपाधिकसर्वलोकसर्वकामेशत्वं स्वत एवाकर्मवश्यत्वं च प्रत्यगात्मनोऽर्थान्तरभूतस्य हि परमपुरुषस्यैव धर्मः, ४" वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्णं तमसः परस्तात्" इत्यादिषु त्रिगुणात्मक प्रकृत्यनन्तर्गताप्राकृतवासाधारणरूपवत्त्वं च ज्ञानादिगुणवत्तस्यैवहि श्रूयते ; ज्ञानादयोऽपि ५ " सत्यं ज्ञानमनन्तं ब्रह्म ” ६'यस्सर्वज्ञस्सर्ववित्"७"पराSस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादिषु श्रुतत्वात् तस्य गुणा विज्ञायन्ते । तथा "आदित्यवर्णं तमसः परस्तात्" इत्यादिषु अप्राकृतखासाधारणरूपश्रवणात् तद्वत्ता च विज्ञायते । तदेतद्वाक्यकाराश्चाह— "हिरण्मयः पुरुषो दृश्यते" इति 'प्राज्ञस्सर्वान्तरस्स्यात् लोककामेशोपदेशात् तथोदयात्पानाम्' इत्युक्त्वा तद्रूपस्य कार्यत्वं मायामयत्वं वा इति विचार्य "स्थापं कृतकमनुग्रहार्थ तच्चेतसामैश्वर्यात्" इति निरसनीयं मतमुपन्यस्य, "रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्ष निर्देशात्" इति । व्याख्यातं च द्रमिंडा - चायैः - "नवा मायामात्रम् अञ्जसैव विश्वसृजो रूपम्, तत्तु न चक्षुषा ग्राह्यम्, मनसा त्वकलुषेण साधनान्तरवता गृह्यते, "न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धेन” इति श्रुतेः नह्यरूपाया देवतायाः रूपमुपदिश्यते; यथाभूतवादि हि शास्त्रम् ; यथा "माहारजतं वासः" "वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्णम्" इति प्रकरणान्तरनिर्देशात्” इति । 'साक्षिण' इति 'हिरण्मय' इति रूपसामान्याच्चन्द्रमुखवत्" इतिच वाक्यम् । तच्च व्याख्यातं तैरेव "नमयडत्र विकारमादाय प्रयुज्यते, अनारभ्यत्वादात्मनः" इत्यादिना । अतः प्रधानात् प्रत्यगात्मनश्चार्थान्तरभूतो निरुपाधिकविपश्चिदनवधि कातिशयानन्दोऽप्राकृतस्वासाधारणदिव्यरूपः पुरुषोत्तमः परं ब्रह्म जगत्कारणमिति वेदान्तैः प्रतिपाद्यत इति निरवद्यम् ॥ २१ ॥ " ६. मु. १-१-९॥ १. छा. १-६-६ ॥ २॥ ३. छा.१-६-७॥ ४. यजु. आरण. ३. १३. पुरुषसू ।। ५. तै. आन. १ || | आरण. ३.१३. पुरुषम् ॥ For Private And Personal Use Only ७. श्वे, ६-८॥८. यजु. ९. अक्षिणी. पा Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] अन्तरधिकरणम्. भेदव्यपदेशाच्चान्यः । १।१।२२॥ १य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम् । यश्वक्षुषि तिष्ठन् इत्यध्यात्मम् । यस्सर्वेषु लोकेषु तिष्ठन्नित्यधिलोकम् । यस्सर्वेषु भूतेषु तिष्ठत्रित्यभूितम् । यस्सर्वेषु वेदेषु तिष्ठन्नित्यधिवेदम् । यस्सर्वेषु यज्ञेषु तिष्ठन्नित्यधियज्ञम्" इत्यन्तर्यामिब्राह्मणे ; सुबालोपनिषदि च २' यः पृथिवीमन्तरे सञ्चरन्” इत्यारभ्य, "योऽव्यक्तमन्तरे सञ्चरन् योऽक्षरमन्तरे सञ्चरन् यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरम् यं मृत्युर्न वेद एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः " इति सर्वदेव सर्वलोकसर्वभूतसर्ववेदसर्वयज्ञसर्वात्मोपरिवर्तमानतया तत्तच्छरीरतया तत्तदन्तरात्मतया तत्तदवेद्यतया तत्तन्नियन्तृतया चैभ्यस्सर्वेभ्यः भेदव्यपदेशाच्च, अयमपहतपाप्मा नारायणःप्रधानात् प्रत्यगात्मनश्च अर्थान्तरभूतो निखिलजगदेककारणमिति सिद्धम्॥ इति वेदान्तसारे अन्तरधिकरणम् || ७ || • ( वेदान्तदीपे अन्तरधिकरणम् ॥ ७ ॥ ) - अन्तस्तद्धर्मोपदेशात् । १।१।२१ ॥ छान्दोग्ये ३ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" ४" य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इत्यक्ष्यादित्याधारतया श्रूयमाणः पुरुषः किं जी - वविशेषः, उत परमपुरुष इति संशयः। जीवविशेष इति पूर्वः पक्षः कुतः ? सशरीरत्वात् । शरीरसंयोगो हि कर्मवश्यस्य जीवस्य स्वकर्मफलभोगायेति । राजान्तस्तु – ५" स एष सर्वेभ्यः पाप्मभ्य उदितः" इत्यादिना अपहतपाप्मत्वपूर्वक - सर्वलोक कामेशत्वोपदेशात् । तेषां च जीवेष्वसम्भवात्, अयमक्ष्यादित्याधारः पुरुषोत्तम एव । स्वासाधारणविलक्षणरूपवत्त्वं च ज्ञानबलैश्वर्यादिकल्याणगुणवत् तस्य सम्भवति । श्रूयते च तद्रूपस्याप्राकृतत्वम् ६" आदित्यवर्णं तमसस्तु पारे" इत्यादौ । सुत्रार्थस्तु – आदित्याद्यन्तश्श्रूयमाणः पुरुषः परं ब्रह्म । ७तदसाधारणादपहतपाप्मत्वादिधर्मोपदेशात् ॥ २१ ॥ १. बृ. ५. अ. ७. ख ९ ।। २. सुबाल. ७ ख ।। ३. छा. १-६-६॥ ४. छा. १-७-५॥ Acharya Shri Kailassagarsuri Gyanmandir ५. छा, १६.७॥ ६. पुरुषसू॥ ७. तदसाधारणापहतपाप्म. पा।। For Private And Personal Use Only २०७ Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org शारीरकमीमांसाभाष्ये भेदव्यपदेशाच्चान्यः । १।१।२२॥ १" य आदित्ये तिष्ठन्नादित्यादन्तरः " २"य आत्मनि तिष्ठन्नात्मनोऽन्तरः" इत्यादिभिः जीवाद्भेदव्यपदेशाच्चायं जीवादन्यः परमात्मैव ॥ २२ ॥ इति वेदान्तदीपे अन्तरधिकरणम् || ७ || (श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥ 17 сы कानसृजत " ३ यतो वा इमानि भूतानि जायन्ते " इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तज्जगत्कारणमित्यपेक्षायां ४" सदेव सोम्येदमग्र आसीत् " ५" तत्तेजोऽसृजत " ६" आत्मा वा इदमेक एवाग्र आसीत् "७" स इमाल्लोतस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इति साधारणैrशब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्द विशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञा' दिव्यतिरिक्तं ब्रह्मेत्युक्तम् । इदानीमाकाशादिविशेशब्दै १० र्निर्दिश्य जगत्कारणत्व जग दैश्वर्यादिवादेऽप्याकाशादिशब्दाभियता प्रसिद्धचिदचिद्वस्तुनोऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यतेआकाशस्तलिङ्गात - इत्यादिना पादशेषेणआकाशस्तल्लिङ्गात्। १ । १२३॥ इदमाम्नायते छान्दोग्ये - ११" अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाश प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्" — इति । तत्र सन्देहः किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते, १. बृ. ५. अ-७. स्व. ९ ॥ २. बृ. ५.७ १२. विज्ञानस्थाने माध्यन्दिन पाठ: ।। ३. तै, भृ. १।। ४. छा. ६-२-१॥ ५. का. ६-२-३॥ Acharya Shri Kailassagarsuri Gyanmandir ६. ऐतरेय. १-१-१॥ [अ. १. ऐतरेय, १-१-२॥ ८. तै, आन, १॥ ७. ९. क्षेत्रज्ञातिरिक्तं पा १०. शब्दैर्निर्दिष्टस्य. पा।। ११. छा. १-९-१॥ For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] आकाशाधिकरणम्. २०९ उतोक्तलक्षणमेव ब्रह्म - इति । किं प्राप्तम् । प्रसिद्धाकाश इति, कुतः ? शब्दैकसमधिगम्ये वस्तुनि य एवार्थो व्युत्पत्तिसिद्धश्शब्देन प्रतीयतेस एव ग्रहीतव्यः । अतः प्रसिद्धाकाश एव चराचरभूतजातस्य कृत्स्नस्य कारणम् । अतस्तस्मादनतिरिक्तं ब्रह्म । नन्वीक्षापूर्वक सृष्ट्यादिभि रचेतनाज्जीवाच्च व्यतिरिक्तं ब्रह्मेत्युक्तम् । सत्यमुक्तम्, अयुक्तं तु तत् । तथाहि १" यतो वा इमानि भूतानि जायन्ते.... तद्ब्रह्म" इत्युक्ते कुत इमानि भूतानि जायन्त इत्यादिविशेषापेक्षायां २" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिना विशेषप्रतीतेः जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति ३" सदेव सोम्येदमग्र आसीत् " इत्यादिष्वपि सदादिशब्दात्साधारणाकारास्तमेव विशेषमाकाशमभिदधति । ४" आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते । तस्यापि हि चेतनैकान्तत्वं न सम्भवति ; यथा ' मृदात्मको घट:' इति । आनोतीत्यात्मेति व्युत्पच्या सुतरामाकाशेऽध्यात्मशब्दो वर्तते । अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सतीक्षणादयस्तदनुगुणा गौणा वर्णनीयाः । यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत ; ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरचेष्यत । आकाशशब्देन तु विशेष एव निश्चित इति नार्थखाभाव्यान्निर्णेतव्यमस्ति । ननु " आत्मन आकाशस्सम्भूतः " इत्याकाशस्यापि कार्यत्वं प्रतीयते । सत्यम्, सर्वेषामेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति । तत्राकाशस्य सूक्ष्मावस्था कारणम् । ६स्थूलावस्था तु कार्यम् । ५" आत्मन आकाशस्सम्भूतः इति स्वस्मादेव सूक्ष्मरूपात्स्वयं स्थूलरूपस्सम्भूत इत्यर्थः । २" सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इति सर्वस्य जगत आकाशादेव ** १. तै. भृ. १, अनु।। २. छा. १-९-१॥ ॥ ३. छा. ६-२-१॥ ४. ऐतरेये, १-१-१ ॥ | 27 Acharya Shri Kailassagarsuri Gyanmandir तै. आन. १-२ ॥ ५. ६. स्थूलावस्था कार्यम्. पा॥ For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० शारीरकमीमांसाभाष्ये [अ. १. प्रभवाप्ययादिश्रवणात्तदेव हि कारणं ब्रह्मेति निश्चितम् । यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म, अत एव च १" यदेष आकाश आनन्दो न स्यात् " २" आकाशो ह वै नामरूपयोर्निर्वहिता" इत्येवमादिनिर्देशाऽप्युपपन्नतरः। अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति ॥ (सिद्धान्तः)-..एवं प्राप्से ब्रुमः-आकाशस्तल्लिङ्गात्-आकाशशब्दाभिधेयः प्रसिद्धाकाशादचेतनादर्थान्तरभूतो यथोक्तलक्षणः परमात्मैवाकुतः ? तल्लिङ्गात्निखिलजगदेककारणत्वम् , सर्वस्माज्ज्यायस्त्वम् , परायणत्वम् इत्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते । निखिलकारणत्वं ह्यचिद्वस्तुनः प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते, चेतनवस्तुनस्तत्कार्यत्वासम्भवात् । परायणत्वं च चेतनानां परमप्राप्यत्वम् । तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न सम्भवति । सर्वस्माज्ज्यायस्त्वं च निरुपाधिक सर्वैः कल्याणगुणैस्सर्वेभ्यो निरतिशयोत्कर्षः । तदप्यचितो नोपपद्यते ॥ यदुक्तं जगत्कारणविशेषाकाङ्क्षायामाकाशशब्देन विशेषसमर्पणादन्यत्सर्व तदनुरूपमेव वर्णनीयमिति , तदयुक्तम् , ४" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते"इति प्रसिद्धवनिर्देशात् । प्रसिद्धवनिर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते । प्रमाणाान्तराणि च ५“सदेव सोम्येदमग्र आसीत्" इत्येवमादीन्येव वाक्यानि । तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्माकाशशब्देन प्रसिद्धवग्निदिश्यते । सम्भवति च परस्य ब्रह्मणः ६प्रकाशकत्वादाकाशशब्दाभिधेयत्वम्-आकाशते, आकाशयति च--इति । किश्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रत्यसम्भावितकारणभावमचेतन१. ते. आन, ७-अनु॥ ५, छा. ६-२-२॥ ३. निखिलजगदेककारणवं. पा॥ ६. प्रकाशवात् , पा॥ ४. छा. १-९-१॥ २. छा. ८-१४-१॥ For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] भाकाशाधिकरणम् २११ विशेषमभिदधानेन १"तदैक्षत बहु स्यां प्रजायेय" २"सोऽकामयत। बहु स्यां प्रजायेय" इत्यादिश्वाक्यशेषावधारितसार्वज्ञयसत्यसङ्कल्पत्वादिविशिष्टापूर्वार्थप्रतिपादनसमर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति । एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादनसमर्थानेकवाक्यगतिसामान्य चैकेनानुवादस्वरूपेणान्यथा कर्तुं न शक्यते । यत्त्वात्मशब्दश्चेतनैकान्तो न भवति, 'मृदात्मको घटः' इत्यादिदर्शनादित्युक्तम् । तत्रोच्यते यद्यपि चेतनादन्यत्रापि कचिदात्मशब्दः प्रयुज्यते ; तथापि शरीरमतिसम्बन्धिन्यात्मशब्दस्य प्रयोगप्राचुर्यात्४ "आत्मा वा इदमेक एवाग्र आसीत्"५"आत्मन आकाशस्सम्भूतः" इत्यादिषु शरीरप्रतिसम्बन्धिचेतन एव प्रतीयते । यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचुर्यात्सास्नादिमानेव स्वतः प्रतीयते ; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा; तथा स्वतः प्राप्तं शरीरपतिसम्बन्धिचेतनाभिधानमेव४ स ईक्षत लोकान्नु सृजा इति"२ "सोऽकामयताबहु स्यां प्रजायेय" इत्यादितत्तद्वाक्यविशेषा एव स्थिरीकुर्वन्ति । एवं वाक्यशेषावधारितानन्यसाधारणानेकापूर्वार्थविशिष्टं निखिलजगदेककारण६'सदेव सोम्य" इत्यादिवाक्यसिद्धं ब्रह्मैवाकाशशब्देन प्रसिद्धवत् ७"सर्वाणि ह वा इमानि भूतानि" इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ॥ २३॥ इति श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ।। ८ ।। .-..(श्रीवेदान्तदीपे आकाशाधिकरणम् )....आकाशस्तल्लिङ्गात् । १।११२३॥ १. छा. ६-२-३॥ २. ते. आन. ६॥ ५. ते. आन. १-२॥ ३. वाक्यविशेष. पा॥४, ऐतरेय. १-१-१॥ ६. छां. ६-२-१॥ ७. छा.१-९-१॥ - आकाशाधिकरणम्प्राणाधिकरणञ्चैकत्रैव व्याख्यातम् ; अतो वेदान्तसारोऽत्र न निवेशित इति ज्ञेयम् ॥ For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २१२ वेदान्तदीपे [अ. १. छान्दोग्ये १" अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति” इत्यत्र आकाशशब्द निर्दिष्टं जगत्कारणं किं प्रसिद्धाकाशः, उत समस्तचिदचिद्वस्तुविलक्षणं ब्रह्मेति संशयः । प्रसिद्धाकाश इति पूर्वः पक्षः । कुतः ? आकाशशब्दस्य लोके तत्रैव व्युत्पत्तेः, २" यतो वा इमानि भूतानि” इत्यादिसामान्यलक्षणस्य सदादिशब्दानामपि साधारणत्वेन १ " आकाशादेव समुत्पद्यन्ते " इति विशेषे पर्यवसानात्, ईक्षणादयोऽपि आकाश एव जगत्कारणमिति निश्चिते सति गौणा वर्णनीया इति । राद्धान्तस्तु - १ " सर्वाणि ह वा इमानि भूतानि ” इति प्रसिद्धवन्निर्देशात्, प्रसिद्धेश्चेक्षापूर्वकत्वात् चिदचिद्वस्तुविलक्षणं सर्वशं ब्रह्माकाशशब्दनिर्दिष्टमिति । सूत्रार्थस्तु आकाशशब्दनिर्दिष्टं परमेव ब्रह्म, प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात् ॥ २३ ॥ इति श्रीवेदान्तदीपे आकाशाधिकरणम् ॥ ८ ॥ ( श्री शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥ ) → १. छा. १-९-१॥ .*. www.kobatirth.org अत एव प्राणः । १ । १ । २४ ॥ इदमान्नायते छान्दोग्ये – ३" प्रस्तोतर्या देवता प्रस्तावमन्वायता" इति प्रस्तुत्य ३ " कतमा सा देवतेति प्राण इति होवाच सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् " - इति ।। aa प्राणशब्दोऽप्याकाशशब्दवत्यसिद्धप्राणव्यतिरिक्त परस्मिन्नेव ब्रह्मणि वर्तते, तदसाधारणनिखिलजगत्प्रवेशनिष्क्रमणादिलिङ्गात्मसिद्धवनिर्दिष्टात् । अधिकाशङ्का तु — कृत्स्नस्य भूतजातस्य प्राणाधीन - स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणी जगत्कारणतया निर्देशमईति — इति ॥ २. भृ. १- अनु ॥ Acharya Shri Kailassagarsuri Gyanmandir ३. छा. १-११-४, ५॥ For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राणाधिकरणम् पा. १.] २१३ परिहारस्तु - शिलाकाष्ठादिषु चेतनस्वरूपे च तदभावात् "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते" इति नोपपद्यत इति । अतः प्राणयति सर्वाणि भूतानीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते । अतः प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेककारणमपहतपाप्मत्वसार्वज्ञयसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणगणं परं ब्रह्मैवाकाशप्राणादिशब्दाभिधेयमिति सिद्धम् ॥ २४ ॥ इति श्री शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥ क Acharya Shri Kailassagarsuri Gyanmandir श्रीवेदान्तसारे आकाशाधि करणं प्राणाधिकरणञ्च ॥ ८ ॥ ९ ॥ J... आकाशस्तल्लिङ्गात्। १ । १ । २३ ॥ अत एव प्राणः । १॥ १२४ ॥ ३" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति” १" सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमेवाभ्युजिहते" इत्यादी, ४" सदेव सोम्येदमग्र आसीत्" इत्यादिना सामान्येन निर्दिष्टस्य जगत्कारणस्य भूताकाशप्राणसहचारिजीववाचिशब्दाभ्यां विशेष निर्णयशङ्कायां ?" सर्वाणि ह वा इमानि भूतानि” इति प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात् भूताकाशजीवाभ्याम् अर्थान्तरभूतः परमपुरुष एवात्र आकाशप्राणशब्दनिर्दिष्ट इति निश्चीयते । तत्प्रसिद्धिस्तु - बहुभवनरूपेक्षणानवधिकातिशयानन्दजीवानन्दहेतुत्वविज्ञानमयविलक्षणत्वनिखिलभुवनभयाभयहेतु त्वसर्वलोक सर्वकामेशत्व सर्वपाप्मोदयाप्राकृतस्वासाधारणरूपविशिष्टस्य रविकरविकसितपुण्डरीकनयनस्य सर्वेशस्य सत्यसङ्कल्पस्य करणाधिपाधिपस्य परमपुरुषस्यैव निखिलजगदेककारणत्वादिति स एव आकाशप्राणशब्दाभ्यां जगत्कारणत्वेनाभिधीयत इति निर्णयो युक्त एव ॥ २३ ॥ २४ ॥ इति श्रीवेदान्तसारे आकाशाधिकरणं प्राणाधिकरणञ्च ॥ ९ ॥ १. छा. १-११-५॥ २. प्राणशब्द. पा॥ ३. छा. १-९-१॥ ४. छा. ६-२-१॥ For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --(श्रीवेदान्तदीपे प्राणाधिकरणम् ॥ ९॥).. अत एव प्राणः। ॥१॥२४॥ छान्दोग्ये १"प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता"इति प्रस्तुत्य,१"कतमा सा देयतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्यज्जिहते सैषा देवता प्रस्तावमन्वायत्ता" इत्यत्र निखिलजगत्का. रणतया प्राणशब्दनिर्दिष्टः किं प्रसिद्धः प्राणः ? उतोक्तलक्षणं ब्रह्मेति संशयः । प्रसिद्धप्राण इति पूर्वपक्षः । कुतः? सर्वस्य जगतः प्राणायत्तस्थितिदर्शनात् स एव निखिलजगदेककारणतया निर्देशमहतीति । राद्धान्तस्तु-शिलाकाष्ठादिवचेतनेषु चेतनस्वरूपेषु च प्राणायत्तस्थित्यभावात्, १"सर्वाणि ह वा इमानि भूतानि' इति प्रसिद्धवनिर्देशादेव हेतोः प्राणशब्दनिर्दिष्टं परमेव ब्रह्म । सूत्रमपि व्याख्यातम् ॥२४॥ इति श्रीवेदान्तदीपे प्राणाधिकरणम् ॥ ९॥ -...(श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥१०॥).... अतः परं जगत्कारणत्वव्याप्तेन येनकेनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते-ज्योतिश्चरणाभिधानात्-इत्यादिना ज्योतिश्चरणाभिधानात्। १।१॥२५॥ इदमाम्नायते छान्दोग्ये २“अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति । तत्र संशयः-किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धयादित्यादिज्योतिरेव कारणभूतं ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीयः परमकारणभूतोऽ१. छा. १-११-४,७॥ । २. छा. ३.१३-७॥ For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ पा. १.] ज्योतिरधिधिकरणम्. मितभास्सर्वज्ञस्सत्यसङ्कल्पः पुरुषोत्तमः-इति । किं युक्तम् प्रसिद्धमेव ज्योतिरिति । कुतः १ प्रसिद्धवनिर्देशेऽप्याकाशप्राणादिवत् खवाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्, परमपुरुषप्रत्यभिज्ञानासम्भवात, कौक्षेयज्योतिषैक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्तनिरतिशयदीप्तियोगाजगत्कारणं रब्रह्मेति ॥ -.(सिद्धान्तः)...एवं प्राप्ते प्रचक्ष्महे-ज्योतिश्चरणाभिधानात्-युसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव । कुतः ? ३“पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इत्यस्यैव द्युसम्बन्धिनश्वरणत्वेन सर्वभूताभिधानात् ॥ एतदुक्तं भवति-यद्यपि४“अथ यदतः परो दिवो ज्योतिः" इत्यस्मिन्वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते; तथापि पूर्ववाक्ये घुसम्बन्धितया परमपुरुषस्य निर्देशादिदमपि द्युसम्बन्धिज्योतिस्स एवेति प्रत्यभिज्ञायत इति । 'कौक्षयज्योतिषैक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः । कौक्षयज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम्५"अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः" इति ॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमा त्तथाहि दर्शनम्। १।१॥२६॥ __पूर्वस्मिन्वाक्ये "गायत्री वा इदं सर्वम्" इति गायत्रयाख्यं छन्दोऽभिधाय ७"तदेतदृचाऽभ्यनूक्तम्" इत्युदाहृताया:"तावानस्य महिमा" इत्यस्या ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत्१. कौशेयकज्योतिष. पा॥ ५. गी. १५-१ ४॥ ६. छा. ३-१२-१॥ २. ब्रह्मेति प्राप्ते प्रचक्ष्महे. पा॥ ७. छा.३.१२-५ ॥ ३. छा.३-१२-६॥ ४. छा. ३-१३-७॥ ८. छा, ३.१२.६॥ For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६ शारीरकमीमांसाभाष्ये [अ. १ तन्न, तथा चेतोर्पणनिगमात् न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दोमावस्य सर्वात्मकत्वानुपपत्तेः अपि तु ब्रह्मणएव गायत्रीचेतोर्पणमिह निगम्यते । ब्रह्मणि गायत्री सादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थः । सम्भवति च १ " पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि " इति चतुष्पदो ब्रह्मणश्चतुष्पदया गायश्या च सादृश्यम् । चतुष्पदा च गायत्री कचिद्दश्यते । तद्यथा २" इन्द्रश्शचीपतिः । बलेन पीडितः | दुश्च्यवनो वृषा । समित्सुसासहिः" इति । तथा ह्यन्यत्रापि सादृश्याच्छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते । यथा संवर्गविद्यायाम् ३" ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्ते" इत्यारभ्य ३" सैषा विराडन्नात्" इत्युच्यते ।। २६ ।। इतश्व गायत्रीशब्देन ब्रह्मैवाभिधीयते— Acharya Shri Kailassagarsuri Gyanmandir भृतादिपादव्यपदेशोपपत्तेश्चैवम् १।१।२७ ॥ भूतपृथिवीशरीरहृदयानि निर्दिश्य " सैषा चतुष्पदा" इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेय उपपद्यते ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । १।१।२८॥ पूर्ववाक्ये ६" त्रिपादस्यामृतं दिवि " इति दिवोऽधिकरणत्वेन निर्देशादिह च दिवः पर इत्यवधित्वेन निर्देशादुपदेशस्य " भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत् — तन्न, उभयस्मि - नपि उपदेशे अर्थ स्वभावैक्येन प्रत्यभिज्ञाया अविरोधात् ; यथा ' वृक्षाग्रे श्येनो वृक्षाग्रात्परतश्श्येनः' इति । तस्मात्परमपुरुष एव निरतिशयतेजस्को १. छा, ३-१२-६॥ २. मानुजीयादिषु पाठो दृश्यते॥५. छा. ३-१२-५ ॥ ३. छा. ४-३-८॥ ४. सन्त इति रङ्गरा - | ६. छा. ६-१२-६॥ ७. भिन्नत्वेन पा ॥ For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ज्योतिरधिकरणम् २१७ दिवः परो ज्योतिर्दीप्यत इति प्रतिपाद्यते । १" एतावानस्य महिमा । अतो ज्यायाँश्च पुरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि" इति प्रतिपादितस्य चतुष्पदः परमपुरुषस्य २" वेदाहमेतं पुरुष महान्तम् । आदित्यवर्ण तमसस्तु पारे" इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम् ॥ इति श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥ १० ॥ -n.(वेदान्तसारे ज्योतिरधिकरणम् ॥ १०॥)-..ज्योतिश्चरणाभिधानात् । १।१॥२५॥ “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुतमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः” इत्यत्र स स्मात्परत्वेन निर्दिश्यमानतया सकलकारणभूतज्योतिषः कौक्षयज्योतिषैक्याभिधानात् , स्ववाक्ये विरोधिलिङ्गादर्शनाच, प्रसिद्धमेव ज्योतिर्जगत्कारणत्वेन प्रदिपाद्यत इति शङ्कायाम् , यद्यपि स्ववाक्ये विरोधिलिङ्गं न दृश्यते; तथापि पूर्वस्मिन् वाक्ये ४"पादोऽस्य विश्वा भूतानिात्रिपादस्यामृतन्दिवि" इति प्रतिपादितस्य सर्वभूतचरणस्य परमपुरुषस्यैव धुसम्बन्धितयाऽत्रापि प्रत्यभिज्ञानात् स एव ज्योतिश्शब्देन सर्वस्मात् परत्वेन सकलकारणतयाऽभिधीयते। अस्य च कौशेयज्योतिषैक्याभिधानं फलायोपदिश्यत इति न काश्चद्विरोधः। अखिलजगदेककारणभूतः परमपुरुषोऽप्राकृतवासाधारणदिव्यवों दिव्यरूपस्तमसः परस्ताद्वर्तत इति तस्यैव निरतिशयदीप्तियोगात् ज्योतिश्शब्दाभिधेयत्वम् ३ "विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु" वासश्च युज्यत एव ॥२५॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम्।१।१॥२६॥ १.२. यजु, आरण्य, ३. प्र. १२. अ. ३, छा. ३. १३. ७॥ ४.छा.३-१२-६॥ 38 For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ बेदान्तसारे पूर्वत्र १"गायत्री वा इदं सर्वम्" इति गायव्याख्यच्छन्दः प्रस्तुतमिति नात्र परमपुरुषाभिधानमिति चेत्-नैतत्, परमपुरुषस्यैव गायत्रीसादृश्यस्य अनुसन्धानोपदेशत्वात्, तस्य छन्दोमात्रस्य सर्वभूतात्मकत्वानुपपत्तेरेवेति निगम्यते । अन्यत्रापि ह्यन्यस्य छन्दस्सादृश्यात् छन्दोनिर्देशः दृश्यते २ "ते वा एते पञ्चान्ये" इत्यारभ्य "सैषा विराट्" इत्यादौ ॥ २६॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम्।।१॥२७॥ भूतपृथिवीशरीरहृदयैश्चतुष्पदेति व्यपदेशश्च परमपुरुषे गायत्रीशब्दनिर्दिष्टे ह्युपपद्यत इति पूर्वोक्तप्रकार एव समासः ॥२७॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य विरोधात्। १११॥२८॥ पर्वत्र३"त्रिपादस्यामृतन्दिवि"इति परमपुरुषो व्यपदिश्यते। भत्र ४"अथ यदतः परो दिवः" इति पञ्चम्या निर्दिष्टः द्युसम्बन्धिज्योतिरिति न प्रत्यभिज्ञेति चेत्-नैतत्, उभयस्मिन्नपि व्यपदेशे विरोधाभावात् ; यथा 'वृक्षाग्रे श्येनः, वृक्षापात्परतश्श्येनः' इति व्यपदेशः । अत्र दिवः परत्वमेव उभयत्र विवक्षितमित्यर्थः ॥ २८॥ .. इति श्रीवेदान्तसारे ज्योतिरधिकरणम् ॥ ९ ॥ ----(वेदान्तदीपे ज्योतिरधिकरणम् ॥ १०॥).-..-. ज्योतिश्चरणाभिधानात् । १।१।२५॥ छान्दोग्ये ४"अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः" इत्यत्र जगत्कारणत्वव्याप्तनिरतिशयदीप्तियुक्ततया ज्योतिश्शब्दनिर्दिष्टं किं प्रसिद्धादित्यादि ज्योतिः, उत परमेव ब्रह्मेति संशयः, प्रसिद्धज्योतिरिति पूर्वः पक्षः । कुतः? ५ " इदं वाच तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः" इति कौक्षेयज्योतिषा १. छा. ३. १२. १॥ । ३. छा. ३. १२, ६॥ २. छा. ४. ३. ८॥ ४. ५.... १३.७॥ For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ज्योतिरधिकरणम् प्रसिद्धेनैक्यावगमात्, स्ववाक्ये तदतिरिक्तपरब्रह्मासाधारणलिङ्गादर्शनाश्च । राधान्तस्तु-प्रसिद्धज्योतिषोऽन्यदेव परं ब्रह्म इह निरतिशयदीप्तियुक्तं ज्योतिश्शब्दनिर्दिष्टम् ,कुतः,१"पादोस्य सर्वाभूतानि । त्रिपादस्यामृतन्दिवि"इति पूर्ववाक्ये घुसम्बन्धितया निर्दिष्टस्यैव चतुष्पदो ब्रह्मणः २" अथ यदतः परो दिवो ज्योतिः" इत्यत्र प्रत्यभिज्ञानात् । तश्च परमेव ब्रह्मेति विज्ञातम् , सर्वेषां भूतानां तस्य पादत्वेन व्यपदेशात् । एवं परब्रह्मत्वे निश्चिते कौक्षेपज्योतिषः तदात्मकत्वानुसन्धान फलायोपदिश्यत इति ज्ञायते।सूत्रार्थस्तु-ज्योतिश्शब्दनिर्दिष्टं परं ब्रह्म; अस्य ज्योतिषः पूर्ववाक्ये सर्वभूतचरणत्वाभिधानात् । सर्वभूतपादत्वञ्च परस्यैव ब्रह्मण उपपद्यते ॥२५॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम्।१।१।२६॥ ३"गायत्री वा इदं सर्वम्" इति गायत्र्याख्यच्छन्दसः प्रकृतत्वात्,सर्वभूतपादत्वेन गायच्या एवाभिधानान ब्रह्मेति चेत्-नैतत्,तथा चेतोर्पणनिगमात् गायत्री यथा भवति, तथा ब्रह्मणि चेतोर्पणोपदेशात् । गायत्रीसादृश्यं चतुपात्त्वं ब्रह्मण्यनुसन्धेयमित्युपदिश्यते, गायत्र्यास्सर्वात्मकत्वानुपपत्तेरित्यर्थः । तथाहि दर्शनम्-तथा ह्यन्यत्रापि अच्छन्दस एव सादृश्याच्छन्दश्शब्देनाभिधानं दृश्यते ४" ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्ते" इत्यारभ्य ४" सैषा विराडनात् ” इति ॥२६॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम्।१।१॥२७॥ भूतपृथिवीशरीरहृदयानि निर्दिश्य ५ "सैषा चतुष्पदा" इति भूतादीनां पादत्वव्यपदेशश्च ब्रह्मण्येवोपपद्यत इति ब्रह्मैव गायत्रीशब्दनिर्दिष्टमिति गम्यते॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य विरोधात्। १।१॥२८॥ १. छा, ३. १२.६॥ २. छा. ३.१३. ७॥ ३. छा. ३, १२. १॥ ४. छा. ४. ३. ८॥ ५. छा. ३. १२. ५॥ For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० श्रीशारीरकमीमांसाभाष्ये [म १. ____१"पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतन्दिवि" इति पूर्ववाक्योदितं परं ब्रह्मैवास्तु,तथापि २ "अथ यदतः परो दिवो ज्योतिः"इति द्युसम्बन्धमात्रेण नेह तत्प्रत्यभिज्ञायते ; तत्र चात्र च उपदेशप्रकारभेदात् । तत्र हि 'दिवि ' इति द्यौस्सप्तम्या निर्दिश्यते । इह च 'दिवः परो ज्योतिः' इति पञ्चम्या । ततो न प्रतिसन्धानमिति चेन्न; उभयस्मिन्नपि व्यपदेशे उपरिस्थितिरूपार्थक्येन प्रतिसन्धानाविरोधात् । यथा 'वृक्षाग्रे श्येनः, वृक्षापात्परतश्श्यनः' इति॥ २८॥ इति श्रीवेदान्तदीपे ज्योतिरधिकरणम् ।। १० ॥ ----(श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम् ॥११॥)--- निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवनिर्दिष्टं परमपुरुष एवेत्युक्तम् । इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रमाणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह प्राणस्तथाऽनुगमात् । १।१॥२९॥ कौषीतकीब्राह्मणे प्रतर्दनविद्यायां ३"प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च"इत्यारभ्य३ "वरं वृणीष्व" इति वक्तारमिन्द्रं प्रति ३" त्वमेव मे परं वृणीष्व यं त्वं मनुष्याय हिततम मन्यसे" इति प्रतर्दनेनोक्ते ३"स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व"इति श्रूयते। तत्र संशयः किमयं हिततमोपासनकर्मतयेन्द्रप्राणशब्दनिर्दिष्टो जीव एव; उत तदतिरिक्तः परमात्मा-इति । किं युक्तम् , जीव एवेति । कुतः? इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धः, तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तेः। अयमिन्द्राभिधानो जीवः प्रतर्दनेन३ " त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इत्युक्तः ३" मामुपास्व" इति स्वात्मोपासनं हिततममुपदिदेश। हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता १. छा. ३-१२-६॥ ३. कौषीतक्यां ३. १॥ २. छा. ३-१३-७॥ For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रा. १.] इन्द्रप्राणाधिकरणम् २२१ १" तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इत्यवगता । अतः प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह्म ॥ इत्याशङ्कायामभिधीयते - प्राणस्तथानुगमात् - इति : अयमिन्द्रमाणशब्दनिर्दिष्टो न जीवमात्रम् अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । २" स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः” इतीन्द्रप्राणशब्दाभ्यां प्रस्तुतस्याऽनन्दाजरामृतशब्दसामानाधिकरण्येनानुगमो हि तथा सत्येबोपपद्यते ।। २९ ।। नवक्रात्मोपेदशादिति चेदध्यात्मसंबन्ध भूमा ह्यस्मिन् । १।१।३०॥ यदुक्तमिन्द्रप्राणशब्दनिर्दिष्टस्य २" आनन्दोऽजरोऽमृतः" इत्यनेनैकार्थ्यादयं परं ब्रह्मेति । तन्नोपपद्यते, ३" मामेव विजानीहि " ३" प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व" इति वक्ता हीन्द्र : २ " त्रिशीर्षाणं त्वाष्टमहनम् " इत्येवमादिना त्वाष्टवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति । अत उपक्रमे जीवविशेष इत्यवगते सति २" आनन्दोऽजरोऽमृतः" इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत् परिहरति--अध्यात्मसम्बन्धभूमा यस्मिन्- आत्मनि यस्सम्बन्धस्सोऽध्यात्मसम्बन्धः । तस्य भूमा भूयस्त्वम्, - बहुत्वमित्यर्थः । आत्मन्याधेयतया सम्बध्यमानानां बहुत्वेन सम्बन्धबहुत्वम् । तच्चास्मिन्वक्तरि परमात्मन्येव हि सम्भवति। २" तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्खर्पिताः प्रज्ञामात्राः प्राणेऽर्पितास एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृतः” इति भूतमात्राशब्दे - १. छा. ६. १४. २॥ ३. कौ. ३. १॥ २. Acharya Shri Kailassagarsuri Gyanmandir कौ. ३. ९॥ For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ श्रीशारीरकमीमांसामाग्ये [भ.१. नाचेतनवस्तुजातमभिधाय प्रज्ञामाताशब्देन तदाधारतया चेतनवर्ग चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रमाणशब्दाभिधेयं निर्दिश्य तमेव १"आनन्दोऽजरोऽमृतः" इत्युपदिशति।तदेतञ्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्येवोपपद्यत इत्यर्थः ।। अथवा-अध्यात्मसम्बन्धभूमा ह्यस्मिन्-परमात्मासाधारणधर्मसम्बन्धोऽध्यात्मसम्बन्धः । तस्य भूमा बहुत्वं हि अस्मिन् प्रकरणे विघते। तथाहि--प्रथमं २ "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततम मन्यसे"इति'मामुपास्व"इति च परमात्मासाधारणमोक्षसाधानोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते । तथा २"एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपति एष एवासाधु कर्म कारयति तं यमधो निनीषति" इति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः। तथा २ "तद्यथा रथस्यारेषु नेमिरर्पिता नामावरा अर्पिताः एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः" इति सर्वाधारत्वं च तस्यैव धर्मः।तथा२ "स एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृतः" इत्येतेऽपि परमात्मन एव धर्माः । २“एष लोकाधिपतिरेष सर्वेशः" इति च परमात्मन्येव सम्भवति । तदेवमध्यात्मसम्बन्धभूम्नोऽत्र विद्यमानत्वात्परमात्मैवानेन्द्रमाणशब्दनिर्दिष्टः ॥३०॥ कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशस्सअच्छते । तत्राहशास्त्रदृष्टया तूपदेशो वामदेववत् । १।१॥३१॥ प्रज्ञातजीवभावेनेन्द्रेण३ 'मामेव विजानीहि" ३ "मामुपास्स्व"इत्युपास्यस्य ब्रह्मणस्वात्मत्वेनोपदेशोऽयं न प्रमाणान्तरमाप्तस्वात्मावलोकनकृतः, अपितु शास्त्रेण स्वात्मदृष्टिकृतः । एतदुक्तं भवति-४"अनेन १. कौ. ३, ९॥ २. कौ ३. ९॥ ३. को. ३. १॥ . ४. छा. ६. ३. २॥ For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] इन्द्रप्राणाधिकरणम्. २२१ जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" १"ऐतदात्म्यमिदं सवम्"२"अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा"३"य आत्मनि तिष्ठन्नास्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण" इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्मवाचिनामहत्वमादिशब्दानामपिं परमात्मन्येव पर्यवसानं ज्ञात्वा ५“मामेव विजानीहि" ५"मामुपास्व" इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेश-इति । वामदेववत्-यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य च तच्छरीरत्वं शरीरवाचिनां च शब्दानां शरीरिणि पर्यवसानं पश्यन् 'अहम्' इति खात्मशरीरकं परं ब्रह्म निर्दिश्य तसामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति ६"तद्वैतत्पश्यनृषिर्वामदेवः प्रतिपदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि विप्र" इत्यादिना । यथा च प्रहादः ७"सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वे मयि सर्व सनातने" इत्यादि वदति ॥ ३१॥ अस्मिन् प्रकरणे जीववाचिभिश्शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाहजीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ "न वाचं विजिज्ञासीत वक्तारं विद्यात्" ५"त्रिशीर्षाणं त्वाष्टमहनम् अरुन्मुखान्यतीन् सालाकेभ्यः प्रायच्छम्" इत्यादिजीवलिङ्गात्, ५"या१. छा, ६.८. ७॥ २, यजु.आरण॥ | इत्यन्तमेव बृहदारण्यके दृश्यते। ऋक्संहिता (३. ३. १.५.७.२२॥ ४. सुवाल. ७. ख॥ ६-१५-४-३-२६-१) वाक्यम् 'अहम् ' इत्या५. को. ३. १॥ रभ्य 'विप्र' इत्यन्तम् ॥ १.र. ३. ४.१०. ' महम्मनु-सूर्यच ..वि.पु.१.१९.८९॥ ८.को.१.८ For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२४ [अ. १. श्री शारीरकमीमांसाभाष्ये वदस्मिन् शरीरे प्राणो वसति तावदायुः " १" अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्मोत्थापयति" इति मुख्यमाणलिङ्गाश्च नाध्यात्मसम्बन्धभूमेति चेत् —न, उपासालैविध्यात् हेतोः, उपासनात्वैविध्यमुपदेष्टुं तत्तच्छब्देनाभिधानम्-निखिलकारणभूतस्य ब्रह्मणस्वरूपेणानुसन्धानम्, भोक्तृवर्गशरीरकत्वानुसन्धानम्, भोग्यभोगोपकरणशरीरकत्वानुसन्धानंचेति त्रिविधमनुसन्धानमुपदेष्टुमित्यर्थः । तदिदं त्रिविधं ब्रह्मानुस - न्धानं प्रकरणान्तरेष्वप्याश्रितम् - २" सत्यं ज्ञानमनन्तं ब्रह्म" ३" आनन्दो ब्रह्म” – इत्यादिषु स्वरूपानुसन्धानम् ; ४" तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य | सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्" इत्यादिषु भोक्तृशरीरतया, भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । इहापि प्रकरणे तत्रिविधमनुसन्धानं युज्यत एवेत्यर्थः ॥ १. कौ. ३. १॥ २. तै. आन. १. अनु ।। एतदुक्तं भवति - यत्र हिरण्यगर्भादिजीवविशेषाणां प्रकृत्याद्यचेतनविशेषाणां च परमात्मासाधारणधर्मयोगः तदभिधायिनां शब्दानां परमात्मवाचिशब्दैस्सामानाधिकरण्यं वा दृश्यते ; तत्र परमात्मनस्तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितम् - इति । अतोऽत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ॥ ३२ ॥ इति श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir ३. तै. भृ. ६. अनु ॥ ४. तै, आन. ६, २॥ For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --(वेदान्तसारे इन्द्रप्राणाधिकरणम् ॥ ११ ॥) -- प्राणस्तथाऽनुगमात्। १।१॥२९॥ आत्मनां हिततमरूपमोक्षसाधनोपासनकर्मतया प्रज्ञातजीवभावस्य इन्द्रस्य १"प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व"इति विधानात् स एव जगत्कारणम् । कारणोपासनं हि मोक्षसाधनम् , २ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ सम्पत्स्ये' इति श्रुतेरिति नाशङ्कनीयम् ; प्राणशब्दसमानाधिकरणेन्द्रशब्दनिर्दिष्टो जीवादर्थान्तरभूत उक्तलक्षणः परमात्मैव । कुतः ? तथानुगमात्, परमात्मासाधारणानन्दाजरामृतादिष्वस्येन्द्रप्राणशब्दनिर्दिष्टस्यानुगमो हि दृश्यते-१" स एष प्राण एव प्रशात्माऽनन्दोऽजरोऽमृतः" इति ॥ २९॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभू मा ह्यस्मिन्।१।१॥३०॥ उपक्रमे हि१ "मामेव विजानीहि' इति त्वाष्टवधादिना प्रशातजीवभावस्य इन्द्रस्योपदेशात्, उपसंहारस्तदनुगुणो वर्णनीय इति चेत्-नैतत्; अध्यात्मसम्बन्धभूमा हस्मिन्---अध्यात्म-परमात्मधर्मः । परमात्मधर्मसम्बन्धबहुत्वमस्मिन्निन्द्रशब्दाभिधेये, वाक्योपक्रमप्रभृत्युपसंहारादृश्यते । १“यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमोपासनं प्रारब्धम् । तञ्च परमात्मधर्मः । ४"तमेवं विद्वानमृत इह भवति। नान्यः पन्थाः"इत्यादिश्रुतेः। तथा ५"एष एव साधु कर्म कारयति" इत्यादिना सर्वस्य कारयितृत्वम्, ५"एवमेवैता भूतमात्राः"इत्यारभ्य ५"प्रशामात्राः प्राणेष्वर्पिताः" इति सर्वाधारत्वं, तथा आनन्दादयश्च, ५“एष लोकाधिपतिः” इत्यादिना सर्वेश्वरत्वञ्च ॥ ३०॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत्।।१।३१॥ नामरूपव्याकरणादिशास्त्रात्सर्वशब्दैः परमात्मैवाभिधीयत इति दृष्टया तज्हापनायायमिन्द्रशब्देन परमात्मोपदेशः । शास्त्रस्था हि वामदेवादयः तथैव १. कौ. ३-१॥ २. छा. ६-१४-७॥ ४. पुरुषसू॥ ५. कौ. ३-९॥ ३. प्राणशब्दस्यानुगमो. पा॥ 29 For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ वेदान्तसारे [अ. १. वदन्ति-१" तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" इति ॥ ३१ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ २"त्रिशीर्षाणं त्वाष्ट्रमहनम् , यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः” इत्यादिजीवालिङ्ग, मुख्यप्राणलिङ्गं चास्मिन् दृश्यत इति नैवमिति चेन्न; उपासात्रैविध्यात् हेतोर्जीवशब्देन प्राणशब्देन च परमात्मनोऽभिधानम् । अन्यत्रापि परमात्मनः स्वरूपेणोपासनं भोक्तशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन इति त्रिविधं परमात्मोपासनमाश्रितम् । यथा ३" सत्यं ज्ञानमनन्तं ब्रह्म" इति स्वरूपेण,४ तदनुप्रविश्य सञ्च त्यञ्चाभवत्" इत्यादि ५"सत्यञ्चानृतश्व सत्यमभवत्" इति भोक्तृशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन च इहापि तत्सम्भवादेवमुपदेशः। ६" जन्माद्यस्य यतः" इत्यादिषु सब्रह्मात्मेति सामान्यशब्दैहि जगत्कारणं प्रकृतिपुरुषाभ्यामर्थान्तरभूतमिति साधितम् । ७" ज्योतिश्चरणाभिधानात्" इत्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगकारणमिति विशेषतो निर्णीतम् । स एव प्रज्ञातजीववाचिभिरिन्द्रादिशब्दैरपि क्वचित्क्वचिच्छास्त्रदृष्टया तत्तच्छरीरकतया चोपास्यत्वायोपदिश्यतइति ८"शास्त्रदृष्टया तूपदेशो वामदेववत्" इति उपासात्रैविध्यात् इति साधितम् ॥ ___इति श्रीवेदान्तसारे इन्द्रप्राणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य प्रथमः पादः॥ .....( वेदान्तदीपे इन्द्रप्राणाधिकरणम् ॥ ११ ॥)..... प्राणस्तथाऽनुगमात्।१।१।२९॥ कौषीतकीब्राह्मणे प्रतर्दनविद्यायां ९"त्वमेव मे वरं वृणीष्व यं त्वं मनुज्याय हिततमं मन्यसे"इति प्रतर्दनेनोक्त इन्द्रः ९"प्राणोऽस्मि प्रशात्मा तं मामा १.पू. ३-४-१०॥ २. कौ. ३-१॥ ६. शारी. १-१-२॥ ७.शारी.१-१-२६॥ ३. तै. आन. १॥ ४,५. ते. आन.६॥ ८. शारी. १-१-३१॥ ९. को. ३.१. For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. इन्द्रप्राणाधिकरणम्. २२७ युरमृतमित्युपास्व” इत्याह । अत्र हिततमोपासनकर्मतया निर्दिष्ट इन्द्रप्राणशब्दाभिधेयः,किं जीवः? उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः। कुतः? इन्द्रशब्दस्य जीवविशेषे प्रसिद्धेः, प्राणशब्दस्यापि तत्समानाधिकरणस्य स एवार्थ इति? "तम्मामायुरमृतमित्युपास्स्व"इति तस्यैवोपास्यत्वोपदेशात् इति । राद्धान्तस्तु–इन्द्रप्राणशब्दनिर्दिष्टं जीवादर्थान्तरभूतं परं ब्रह्म,१“स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः"इतीन्द्रप्राणशब्दनिर्दिष्टस्यैवजीवेष्वसम्भावि. तानन्दत्वाजरत्वामृतत्वादिश्रवणात्।सूत्रार्थस्तु -- उपास्यतयोपदिष्टम् इन्द्रप्राणशब्दाभिधेयं परं ब्रह्म तथेति प्रकारवचनः, परब्रह्मप्रकारभूतेष्वानन्दादिष्वस्यानुगमात् ॥ २९ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभू मा ह्यस्मिन्। १।१॥३०॥ नायमुपास्यः परमात्मा–१"मामेव विजानीहि"१ "तं मामायुरमृतमित्युपास्व'इति प्रज्ञातजीवभावस्येन्द्रस्य वक्तुस्स्वात्मन उपास्यत्वोपदेशात्। उपक्रमे जीवभावनिश्चये सति उपसंहारस्य तदनुगुणतया नेयत्वादिति चेन्न; अध्यास्मसम्बन्धभूमा ह्यस्मिन्--आत्मनि सम्बन्धः अध्यात्मसम्बन्धः, तस्य भूमा बहुत्वम् । जीवादर्थान्तरभूतात्मासाधारणधर्मसम्बन्धबहुत्वमस्मिन् प्रकरणे उपक्रमप्रभृत्युपसंहारादुपलभ्यते । उपक्रमे तावत् १ "यं त्वं मनुष्याय हिततमं मन्यसे” इति ह्यनेनोच्यमानमुपासनं परमात्मोपासनमेव, तस्यैव हिततमत्वात्। तथा २'एष एव साधु कर्म कारयति" इत्यादिसाध्वसाधुकर्मणोः कारयितृत्वं परमात्मन एव धर्मः । तथा २"तद्यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पि. ताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः” इति सर्वाधारत्वञ्च तस्यैव धर्मः। आनन्दादयश्च, २"एष लोकाधिपतिरेष सर्वेशः" इति च । हीति हेतौ । अतः परं ब्रह्मैवायमित्यर्थः ॥ ३०॥ परमात्मैवोपास्यश्चेत् – कथमिन्द्रः १"मामुपास्स्व" इत्युपदिदेश-इत्यत आह शास्त्रदृष्टया तूपदेशो वामदेववत्।॥१॥३१॥ १. कौ. ३-१॥ २. कौ. ३.९॥ For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ वेदान्तदीपे इन्द्रस्य जीवस्यैव सतः स्वात्मत्वेनोपास्यभूतपरमात्मोपदेशोऽयं शास्त्रदृष्टया। १"अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' २"तत्त्वमसि'३“य आत्मनि तिष्ठमात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः'४"एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादीनि हि शास्त्राणि परमात्मानं जीवात्मन आत्मतयोपदिदिशुः; अतो जीवात्मवाचिनश्शब्दाः जीवात्मशरीरं परमात्मानमेव वदन्तीति शास्त्रदृष्टार्थस्य तस्य५'मामेव विजानीहि"५"माम् ...उपास्व"इति स्वात्मशब्देन परमात्मोपदेशो न विरुध्यते । यथा वामदेवश्शास्त्रदृष्टया स्वात्मशरीरकं परमात्मानं पश्यन् अहमिति परमात्मानमवोचत् , ६"तद्धतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्वाहं कक्षीवानृषिरस्मि विष" इति ॥ ३१॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ ५"त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्'५“यावदस्मिन् शरीरे प्राणो वसति तावदायुः" इति जीवमुख्यप्राणलिङ्गात् नाध्यास्मसम्बन्धभूम्ना परमात्मत्वनिश्चय इति चेन्न परमात्मन एव स्वाकारेण,जीवशरीरकत्वेन, प्राणशरीरकत्वेन चोपासात्रैविध्याद्धेतोः तत्तच्छब्देनाभिधानमिति निश्चीयते। अन्यत्रापि ब्रह्मोपासनात्रैविध्यस्याश्रितत्वात् -७ "सत्यं शानमनन्तं ब्रह्म' 'आनन्दो ब्रह्म" इति स्वाकारेणोपास्यत्वम् , ८"सश्च त्यञ्चाभवत्" इत्यादिना भोक्तृशरीरकत्वेन, भोग्यशरीरकत्वेन च । इह प्रतर्दनविद्यायामपि तस्य त्रैविध्यस्य सम्भवात् । अतः इन्द्रप्राणशब्दनिर्दिष्टः परमात्मा ॥ इति श्रीवेदान्तदीपे इन्द्रप्राणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य प्रथमः पादः॥ १. आरण. ३. प्र. अनु. २१॥ २. छा. ६-८-७॥ ३. बृ. ५-७-२२. माध्यन्दिनपाठे ॥ ४. सुबाल, ७. ख॥ ५. कौ. ३.१॥ ६. वृ. ३-४-१०॥ ७. ते, आन. १॥ ८. ते. आन. ६॥ For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः . श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये (प्रथमाध्याये-द्वितीयपादे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ ) -- ON प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यविज्ञानः केवलकर्मणामल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुपजातपरमपुरुषार्थ लक्षणमोक्षापेक्षो saधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्तिः वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसाश्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये ॥ १ ॥ अनन्तविचित्त्रस्थिरत्त्रसरूपभोक्तृभोग्य भोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय महानन्दैककारणं परं ब्रह्म “ यतो वा इमानि" इत्यादिवाक्यं बोधयतीति च प्रत्यपादि ॥ २ ॥ जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकममाकमित्यभ्यधाम ॥ ३॥ शास्त्रममाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपे - जैव परमपुरुषार्थ भूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयानिरुह्यत इत्यब्रूम ॥ ४ ॥ १. तदुपासन: समुपजात. पा।। For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३० श्रीशारीरकमीमांसाभाष्ये [अ. १ निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्थान्तरभूतश्चेतनविशेष एवेत्युपापीपदाम ॥ ५ ॥ स च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्पत्वसमस्तचेतनाचेतनान्तरात्मत्वादिभिर्बद्धमुक्तो Acharya Shri Kailassagarsuri Gyanmandir - - भयावस्थाज्जीवशब्दाभिलपनीयाच्चार्थान्तरभूत इति च समार्तिथामहि ॥ स चामाकृताकर्मनिमित्तवासाधारणादिव्यरूप इत्युदैरिराम ||७|| आकाशप्राणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवनिर्दिश्यमानस्सकले तर चेतनाचेतनविलक्षणस्स एवेति समगरिष्महि || परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो ग्रुसम्बन्धितया प्रत्यभिज्ञानात्स एवेत्यातिष्ठामहि ।। १० ।। परमकारणासाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्टयेन्द्रादिशब्दैरभिधीयत इत्यब्रुमहि ॥ ११ ॥ तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञयसत्यसङ्क ल्पत्वाद्य परिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एवं वेदान्तवेद्य इत्युक्तम् ॥ अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव, तथापि कानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते ॥ तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यते ; स्पष्टलिङ्गकानि तृतीये; तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे || सर्वत्र प्रसिद्धोपदेशात् । १ । २।१॥ इदमान्नायते छान्दोग्ये १ अथ खलु क्रतुमयः पुरुषो यथाऋतु १. छा. ३-१४-१ ॥ For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] सर्वत्रप्रसिद्ध्ययधिकरणम् २३१ रस्मिलाँके पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः" इत्यादि ॥ Acharya Shri Kailassagarsuri Gyanmandir अत्र १" स ऋतुं कुर्वीत" इतिं प्रतिपादितस्योपासनस्योपास्यः १" मनोमयः प्राणशरीरः" इति निर्दिश्यत इति प्रतीयते । तत्र संशयःकिं मनोमयत्वादिगुणकः क्षेत्रज्ञः ; उत परमात्मा - इति । किं युक्तम् ? क्षेत्रज्ञ इति । कुत: ? मनःप्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु २" अमाणो ह्यमनाः" इति तत्प्रतिषेधाच्च । न च १ " सर्वं खल्विदं ब्रह्म" इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, “शान्त उपासीत " इत्युपासनोपकरणशान्तिनिर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् । न च १ स ऋतुं कुर्वीत" इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाशत्वात् १" मनोमयः प्राणशरीरः" इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणो भयाकाङ्क्षानिवृत्तिसिद्धेः । एवं निश्चिते जीवत्वे ' एतद्ब्रह्म' इत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थ प्रयुक्तमित्यध्यवसीयत इति ।। १. छा. ३-१४-१॥ २. मु. २-१-२॥ ३. पूर्ववाक्य निर्दिष्ट. पा|| ४. मु. २-२-७॥ एवं प्राप्ते ब्रूमः - सर्वत्र प्रसिद्धोपदेशात् - मनोमयत्वादिगुणकः परमात्मा । कुतः ? सर्वत्र - वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनो - मयत्वादेरुपदेशात् । प्रसिद्धं हि मनोमयत्वादि ब्रह्मणः । यथा - ४१ 'मनोमयः प्राणशरीरनेता" ५ स एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः " ६" हृदा मनीषा मनसाऽभिकुप्तो य एनं विदुरमृतास्ते भवन्ति" "न चक्षुषा गृह्यते नापि वाचा" " मनसा तु ५. तै, शिक्षावल्ल्यां. ६-३ ॥ ६. तै. नारायण. ३॥ ७. मु. ३-१-८॥ For Private And Personal Use Only ८. Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ श्रीशारीरकमीमांसाभाष्ये [अ. १. विशुद्धेन" तथा "प्राणस्य प्राणः" २“अथ खलु पाण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति"३"सर्वाणि ह वा इमानि भूतानि प्राणमेवामिसंविशन्ति प्राणमभ्युजिहते" इत्यादिषु । मनोमयत्व-विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वं-प्राणस्याप्याधारत्वं नियन्तृत्वंच ॥ एवं च सति ४"एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इति ब्रह्मशब्दोऽपि मुख्य एव भवति । ५“अमाणो ह्यमना:"इति मनआयत्तं ज्ञानं प्राणायत्तां स्थितिं च ब्रह्मणो निषेधति ।। अथवा ६"सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इत्यत्रैवोपासनं विधीयते-सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीति । ६"स ऋतुं कुर्वीत" इति तस्यैव गुणोपादानार्थोऽनुवादः। उपादेयाश्च गुणा मनोमयत्वादयः । यतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः-किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते ; उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृस्नं जगत्। ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव ; परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते। प्रत्यगात्मन्यपि कचित्कचिद्ब्रह्मशब्दः प्रयुज्यते । अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य कचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाव॒हत्त्वं च विद्यते ७" स चानन्त्याय कल्पते " इति श्रुतेः । अविदुषस्तस्यैव कर्मनिमित्तत्वाजन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽ १. केनोप. १-२॥ २. को. ३-२. ४. छा. ३-१४-४॥ अथ खल्वित्यधिक: पाठोनो पनिषदि॥ ५. मु. २-१-२॥ ३. छा. १-११-५॥ ६. छा. ३.१४-१॥ ७.६.५.९॥ For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] सर्वत्रप्रसिद्ध्यधिकरणम्. २३३ प्युपपद्यते । तदयमर्थः-अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रमभूतस्सन्ननाद्यविद्यया देवतियङ्मनुष्यस्थावरात्मनाऽवतिष्ठते-इति ॥ अत्र प्रतिविधीयते सर्वत्र प्रसिद्धोपदेशात्-सर्वत्र-१"सर्व खल्विदम्" इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया विधीयमानं परं ब्रह्मैव न प्रत्यगात्मा । कुतः? प्रसिद्धोपदेशात्, १"तज्जलान्" इति हेतुतः 'सर्व खल्विदं ब्रह्मे'इति प्रसिद्धवदुपदेशात्। ब्रह्मणो जातत्वाब्रह्मणि लीनत्वाब्रह्माधीनजीवनत्वाच हेतोब्रह्मात्मकं सर्व खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवान ब्रह्मेति प्रतीयते । तच्च परमेव ब्रह्म तथाहि २" यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासख । तहम" इत्युपक्रम्य ३“आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते" इत्यादिना पूर्वानुवाकप्रतिपादितानवधिकाति शयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितिलया निर्दिश्यन्ते तथा ४“स कारणं करणाधिपाधिपो नचास्य कश्चिजनिता नचाधिपः" इवि करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं व्यपदिश्यते । एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं प्रसिद्धम् । अतः परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात्तेन प्राणनात्तदात्मकतया तादात्म्यमुपपन्नम्। अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिरेव परस्य ब्रह्मणस्सर्वात्मकत्वमुपपाय तस्योपासनमुपदिशति । परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुश रीरतया सर्वदा सर्वात्मभूतम् । एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूत | ३. ते. भृ. ६॥ १. छा. ३.१४.२ ॥ २. है. भ. १॥ . 30 For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ श्रीशारीरकमीमांसाभाष्ये अ.१. शरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात् । प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् ॥ यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति । तदसत् , जीवानां प्रतिशरीरं भिन्नानामन्योन्यतादात्म्यासम्भवात् । मुक्तस्याप्यनवच्छिन्नखरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तं न सम्भवतीति १“जगद्व्यापारवर्जम्" इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वाजगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनिमित्तत्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवाऽत्र ब्रह्मशब्दाभिधेयः इममेव सूत्रार्थमभियुक्ता बहुमन्वते । यथाह वृत्तिकारः २"सर्व खल्विति सर्वात्मा ब्रह्मेशः" इति ॥१॥ विवक्षितगुणोपपत्तेश्च । १।२।२॥ कम वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते ३"मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामसर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः" इति । मनोमयः-परिशुद्धेन मनसैकेन ग्राह्यः; विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते । अनेन हेयप्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात् । प्राणशरीरः-जगति सर्वेषां प्राणानां धारकः प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीरः । आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीत्युपपादयिष्यते । भारूप:-भास्वररूपः, अप्राकृतवासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यथेः सत्यसङ्कल्प:-अप्रतिहतसङ्कल्प: आकाशात्मा-आकाशवत्सूक्ष्मख१. शारी. ४.४.१७ ॥ ३. छा. ३-१४-२ ॥ २. वृत्तिः . For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ पा. २.] सर्वत्रप्रसिख्यधिकरणम्. च्छस्वरूपः, सकलेतरकारणभूतस्याऽकाशस्याप्यात्मभूत इति वा आकाशात्मा; स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा-क्रियत इति कर्म ; सर्व जगद्यस्य कर्म, असौ सर्वकर्माः सर्वा वा किया यस्यासौ सर्वकर्मा । सर्वकाम:-काम्यन्त इति कामा:-भोग्यभोगोपकरणादयः; ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धः सर्वरसः-१" अशब्दमस्पर्शम्"इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूतास्सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः। सर्वमिदमभ्यात्तः-उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान् । 'अभ्यात्तः' इति ‘भुक्ता ब्राह्मणाः' इतिवत्कर्तरि क्तः प्रतिपत्तव्यः। अवाकी-चाकः उक्तिः; सोऽस्य नास्तीत्यवाकी । कुत इत्याह-अनादर इति-अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः। अत एव अवाकी-अजल्पाकः परिपूर्णैश्वयत्वाब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोपपद्यन्ते ॥ २ ॥ अनुपपत्तस्तु न शारीरः।१।२।३॥ तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमितदुःखसम्बन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः ॥३॥ कर्मकर्तृव्यपदेशाच्च।१।२।४॥ २" एतमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्यतया परं ब्रह्म व्यपदिश्यते , प्राप्ततया च जीवः । अतः प्राप्ता जीव उपासकः , प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥४॥ १. कठ, १.३.१५॥ २. छा. ३.१४.४ ॥ For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २३६ www.kobatirth.org श्रीशारीरकमीमांसाभाष्ये १. छा. ३-१४-३ ॥ २. शतपथब्राह्मण. १-६-३ ॥ ३. गी. १५-१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir शब्दविशेषात् ॥१२॥५॥ १" एष म आत्मान्तर्हृदये " इति शारीरष्षष्ट्या निर्दिष्टः उपास्यस्तु प्रथमया । एवं समानप्रकरणे वाजिनां च श्रुतौ शब्दविशेषयते जीवपरयोः ; यथा २" ब्रीहिर्वा यवो वा श्यामाको वा श्यामाकतडुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयो यथा ज्योतिरधूमम् इति । अत्र २" अन्तरात्मन् " इति सप्तम्यन्तेन शारीरो निर्दिश्यते ; २" पुरुषो हिरण्मयः " इति प्रथमयोपास्यः । अतः पर एवोपास्यः ॥ इतश्च शारीरादन्यःस्मृतेश्च । १।२।६ ॥ [म. १. ३" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोइन” ४" यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ५" ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ " इति शारीरमुपासक, परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥ ६ ॥ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्य - त्वादेवं व्योमवच्च । १।२७॥ अल्पायतनत्वमर्भकौकस्त्वम् ; तव्यपदेशः - अल्पत्वव्यपदेशः । ६" एष म आत्माऽन्तर्हृदये" इत्यणीयसि हृदयायतने स्थितत्वात् ६" अणीयान् व्रीहेर्वा यवाद्वा" इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं ४. गी. १५-१९ ॥ ५. गी. १८-६१ ॥ ६. छा. ३-१४-३ ॥ For Private And Personal Use Only 19 Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा २.] सर्वत्रप्रतियधिकरणम् परमात्मा,अपि तु जीव एव; "सर्वगतं सुसूक्ष्म तदव्ययं यद्भतयोनि परिपश्यन्ति धीराः" इत्यादिभिः परमात्मनोऽपरिच्छिन्नत्वावगमात्, जीवस्य चाराग्रमात्रत्वव्यपदेशादिति चेत् नैतदेवम् , परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते एवं निचाय्यत्वेन-एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत् । न पुनरणीयस्त्वमेवास्य स्वरूपमितिव्योमवञ्चायं व्यपदिश्यते, स्वाभाविकं महत्वं चाव व्यपदिश्यते-२" ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः" इति । अत उपासनार्थमेवाल्पत्वव्यपदेशः । तथाहि २" सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्याऽत्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय २“अथ खलु ऋतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति यथोपासनं प्राप्यसिद्धिमभिधाय २“स क्रतुं कुर्वीत " इति गुणविधानार्थमुपासनमनूद्य २" मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः" इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य २"एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा" इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्त्वा २ "एष म आत्माऽन्तईदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यस्सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः " इत्यन्तर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारं निर्दिश्य २“एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इत्येवम्भूतं परं ब्रह्म परमकारुण्ये१. मुण्ड. १-१-६॥ २. छा. ३-१४-१,४॥ For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org [ अ. १. नास्मदुज्जिजीवयिषयाऽस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय १" एतमितः प्रेत्याभिसम्भविताऽस्मि " इति यथोपासनं प्राप्तिनिश्चयातुसन्धानं च विधाय १" इति यस्य स्यादद्धा न विचिकित्साऽस्ति" इत्येवंविधप्राप्यप्राप्तिनिश्श्रयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भ कौकस्त्वमणीयस्त्वं च ॥ ७ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् । १।२।८ ॥ वेदान्तसारे १. छा. ३-१४-४ ॥ २. मुण्ड. ३-१-१ ॥ Acharya Shri Kailassagarsuri Gyanmandir जीवस्येव परस्यापि ब्रह्मणशरीरान्तर्वर्तित्वमभ्युपगतं चेत्तद्वदेव शरीरसम्बन्धप्रयुक्तसुखदुःखोपभोगप्राप्तिरिति चेत् तन्न, हेतुबैशेष्यात्-नहि शरीरान्तर्वर्तित्वमेव सुखदुःखोपभोगहेतुः ; अपि तु पुण्यपापरूपकर्मपरवशत्वम् ; तत्वपहतपाप्मनः परमात्मनो न सम्भवति । तथा च श्रुतिः २ " तयोरन्यः पिप्पलं स्वाद्वस्यनश्नन्नन्यो अभिचाकशीति" इति ॥ ८ ॥ इति श्रीशारीरकमीमांसाभाष्ये सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ • ( श्रीवेदान्तसारे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ ) + सर्वत्र प्रसिद्धोपदेशात् । १ । २ । १ ॥ ३" सर्व खल्विदम्" इति निर्दिष्टेन सामानाधिकरण्येन निर्दिष्टं ब्रह्म परमात्मा; कुतः ?, प्रसिद्धोपदेशात् ३" तजलान्" इति हेतुतस्सर्वात्मकत्वोपदेशादि त्यर्थः । प्रसिद्धं हि हेतुतया व्यपदिश्यते । सकलोपनिषत्सु ब्रह्मैव हि जगजमलयजीवनहेतुतया प्रसिद्धं ४" यतो वा इमानि " इत्यादिषु ॥ १ ॥ विवक्षितगुणोपपत्तेश्च । १ । २।२॥ मनोमयत्व सत्यसङ्कल्पत्वादयो विवक्षितगुणाः ब्रह्मण्येवोपपद्यन्ते ॥ ३. छा, ३-१४-१ ॥ ४. तै. १ ॥ भू. For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ पा. २.] सर्वत्रप्रसिद्ध्यधिकरणम्. २३९ अनुपपत्तेस्तुन शरीरः । १।२।३॥ दुःखभिश्रपरिमितसुखलवभागिनि शारीरे तु एषांगुणानाम् अनुपपत्तेन शारीरोऽयम् ॥३॥ . कर्मकर्तृव्यपदेशाच्च।१॥२॥४॥ १"एतमितः प्रेत्याभिसंभविताऽस्मि"इत्यभिसंभाव्याभिसंभवितृत्वेन प्रस्तुतब्रह्मजीवयोर्व्यपदेशादभिसंभाव्यं ब्रह्म जीवादर्थान्तरम् ॥ ४॥ शब्दविशेषात् । १।२।५॥ ____२"एष म आत्माऽन्तर्हृदये" इति षष्ठया प्रथमया च जीवो ब्रह्म च व्यपदिश्यते । ततश्चार्थान्तरम् ॥ ५॥ स्मृतेश्च । १।२।६॥ अत्रापि प्रथमया निर्दिष्टः पुरुषोत्तम इति निश्चीयते। ३"सर्वस्य चाहं ह. दि सन्निविष्टः" इति हि स्मृतिः ॥६॥ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च। १॥२॥७॥ २ "एष म आत्माऽन्तर्हृदये अणीयन् बीहेः" इत्यादिना अल्पायतनत्वात्, स्वरूपाल्पत्वस्य व्यपदेशाच,नायं पर इतिचेन, उपास्यत्वाखेतोस्तथा व्यपदेशः, मतु स्वरूपाल्पत्वेनाव्योमवत्-स्वरूपमहत्वं चात्रैव व्यपदिश्यते-२"ज्यायान् पृथिव्याः ज्यायानन्तरिक्षात्" इत्यादिना ॥७॥ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् । १।२।८॥ परोऽप्यन्तश्शरीरे वसति चेत्-जीववत् सुखदुःखोपभोगप्राप्तिस्स्यादितिचेन्न, हेतुवैशेष्यात् ; परस्य हि छन्दतो जीवरक्षायै शरीरान्तर्वासः॥ इति श्रीवेदान्तसारे सर्वत्र प्रसिद्ध्यधिकरणम् ॥ १ ॥ १. छा. ३-१४-४॥ २. छा. ३.१४.३॥ ३. गो. १५-१५ ॥ For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---(श्रीवेदान्तदीपे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १॥)-.. सर्वत्रप्रसिद्धोपदेशात् । १।२।१॥ छान्दोग्ये श्रूयते, १"सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु क्रतुमयोऽयं पुरुषः यथा क्रतुरस्मिल्लाँके पुरुषो भवति, तथेत प्रेत्य भवति, स क्रतुं कुर्वीत मनोमयः प्राणशरीरः" इति । अत्र, १"सर्व खल्विदं ब्रह्म" इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म, किं प्रत्यगात्मा, उत परमात्मेति संशयः। प्रत्यगात्मेति पूर्वः पक्षः, सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते । परस्य तु ब्रह्मणः सकलहेयप्रत्यनीककल्याणकतानस्य समस्तहेयाकारं सर्वतादात्म्यं विरोधादेव न सम्भवति । प्रत्यगात्मनो हि कर्मनिमित्तो ब्रह्मादिस्तम्बपर्यतसर्वभाव उपपद्यते । सृष्ट्यादिहेतुत्वञ्च तत्तत्कर्मनिमित्तत्वेन सृष्टयादेरुपपद्यते । ब्रह्मशब्दोऽपि बृहत्त्वगुणयोगेन २ "तस्मादेतब्रह्म नाम रूपमन्नश्च जायते" इतिवत्तत्रैव वर्तते। राद्धान्तस्तु- १"तज्जलान्" इति १"सर्व खल्विदं ब्रह्म' इति तज्जन्मस्थितिलयहेतुकं तदात्मकत्वं प्रसिद्धवनिर्दिश्यमानं परस्यैव ब्रह्मण उपपद्यते । परस्माब्रह्मण एव हि जगजन्मस्थितिलयाः प्रसिद्धाः ३"सोऽकामयत बहु स्यां प्रजायेयेति" ३" इदं सर्वमसृजत" इत्यादिषु । तथा सर्वात्मकत्वञ्च जन्मादिहेतुकं परस्यैव ब्रह्मणः प्रसिद्धम्, ४"सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः" ५“ऐतदात्म्यमिदं सर्वम्" इति । हेयप्रत्यनीककल्याणकतानात्मनश्च परस्य हेयाकरसर्वभूता. स्मत्वमविरुद्धम् । ६ “यः पृथिव्यां तिष्ठन्...यस्य पृथिवी शरीरम्" ७"य आ. स्मनि तिष्ठन्...यस्यात्मा शरीरं स त आत्माऽन्तर्याम्यमृतः" इत्यादिना शरीरात्मभावेन सर्वात्मत्वोपपादनात् ; शरीरात्मनोश्च स्वभावव्यवस्थानात् । सर्व ब्रह्मेति सामानाधिकरण्यनिर्देशश्च सर्वशब्दस्य सर्वशरीरके ब्रह्मण्येव प्रवृत्तेरुपपद्यते । शरीरवाची हि शब्दः शरीरिण्यात्मन्येव पर्यवस्यति; देवमनुष्यादिश ब्दवत् । सूत्रार्थस्तु-सर्वत्र-१"सर्व खल्विदं ब्रह्म" इति निर्दिष्टे वस्तुनि स. शब्दवाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव । कुतः ? १. छा. ३-१४-१॥ ५. छा. ६. ८. ७ ॥ २. मुण्ड, १-१-९ ॥ ३.ते. आ. ६॥ ७. .. ५-७-२२ मध्यन्दिनपाठः॥ ४.ग. For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] सर्वत्रप्रसिद्ध्यधिकरणम्. २४१ प्रसिद्धोपदेशात्; १" तजलान्" इति 'सर्वमिदं ब्रह्म खलु' इति प्रसिद्ध वत्तस्योपदेशात्, सर्वात्मकत्वस्योपदेशाच्च । तदेव हि जगज्जन्मस्थितिलयहेतुत्वेन वेदातेषु प्रसिद्धम् ॥ १ ॥ द्यन्ते ॥ २ ॥ विवक्षितगुणेोपपत्तेश्च । १।२।२॥ मनोमयत्वादिकास्सत्यसङ्कल्पत्वमिश्रा विवक्षिता गुणाः परस्मिन्नेवोपप Acharya Shri Kailassagarsuri Gyanmandir अनुपपत्तेस्तु न शारीरः । १।२।३॥ एतेषां गुणनाम् अनन्तदुःखमिश्रपरिमित सुखलवभागिनि अझै कर्मपरवशे शारीरे प्रत्यगात्मन्यनुपपत्तेश्चायं न शारीरः, अपि तु परमेव ब्रह्म ॥ ३ ॥ कर्मकर्तृव्यपदेशाच्च । १।२४॥ २" एतमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्यतयोपास्यो निर्दिश्यते; प्राप्तृतया च जीवः । अतश्च जीवादन्यदेवेदं परं ब्रह्म ॥ ४ ॥ शब्दविशेषात् । १ । २।५ ॥ ३" एष म आत्माऽन्तर्हृदये" इति शारीरषष्ठया निर्दिष्टः, उपास्यः प्रथमया । अतश्च जीवादन्यः ॥ ५ ॥ स्मृतेश्च । १।२।६॥ १. छा. ३-१४ - १॥ २, छा. ३. १४. ४॥ 31 ४" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति स्मृतेश्च । अतश्च जीवादन्य उपास्यः परमात्मा ॥ ६ ॥ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च । १ । २॥७॥ १" एष म आत्माऽन्तर्हृदये" इति अल्पस्थानत्वात्, १ " अणीयान्त्रीहेर्वा यवाद्वा" इत्यल्पत्वव्यपदेशाश्च न परं ब्रह्मेति चेन्न, निचाय्यत्वादेवम्, एवमुपा ३. छा. ३. १४. ३॥ ४. गी. १५-१५॥ For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४२ श्रीशारीरकमीमांसाभाष्ये [अ. १. स्यत्वाद्धेतोरल्पायतनत्वात्पत्वव्यपदेशः न स्वरूपाल्पत्वेन, १" ज्यायान्पृथिव्याः” इत्यादिना सर्वस्माज थायस्त्वोपदेशात् । ज्यायसोऽप्यस्य हृदयायतनावच्छेदेनाल्पत्वानुसन्धानमुपपद्यते । व्योमवत् - यथा महतोऽपि व्योम्नस्सूचीपथादिष्वल्पत्वानुसन्धानम्। चशब्दो ऽवधारणे । तद्वदेवेत्यर्थः । २स्वाभाविकं चास्य महत्त्वमत्राभिधीयत इत्यर्थः । १" ज्यायान्पृथिव्याः ज्यायानन्तरिक्षाज्जयायान्दिवो ज्यायानेभ्यो लोकेम्यः" इति ह्यनन्तरमेवोपदिश्यते ॥ ७ ॥ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् । १।२।८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यद्युपासकशरीरे हृदयेऽयमपि वर्तते ; ततस्तद्वदेवास्यापि शरीरप्रयुक्तसुखदुःखसम्भोगप्राप्तिरिति चेन्न हेतुवैशेष्यात् । न हि शरीरान्तर्वर्तित्वमात्रमेव सुखदुःखोपभोगहेतुः ; अपि तु कर्मपरवशत्वम् ; तत्त्वपहतपाप्मनः परमात्मनो न सम्भवति ॥ ८ ॥ इति श्रीवेदान्तदीपे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ ( श्रीशारीरकमीमांसाभाष्ये अत्यधिकरणम् ॥ २॥) --- यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमा नो जीव एव स्यादित्याशङ्कयाह अत्ता चराचरग्रहणात् । १।२ ।९ ॥ कठवल्लीवाम्नायते ३" यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति । अत्रौदनोपसेचनसूचितोता किं जीव एव, उत परमात्मेति सन्दिह्यते । किं युक्तम् ? जीव इति । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वाज्जीवस्यैव तत्सम्भवात् ॥ अनोच्यते-अत्ता चराचरग्रहणात् - अत्ता परमात्मैव । कुतः ? चराचरग्रहणात् चराचरस्य कृत्स्नस्यात्तृत्वं हि तस्यैव सम्भवति । न चेदं कर्मनिमित्तभोक्तृत्वम् अपि तु जगज्जन्मस्थितिलय हेतुभूतस्य पर १. छा. ३. १४. ३ ॥ २. ग्योमवच्चायं व्यपदिश्यते स्वाभाविकं पा । ३. कठ. १-२-२५ ॥ For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] अधिकरणम्. ૨૪૨ स्य ब्रह्मणो विष्णोस्संहर्तृत्वम् ; १" सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यत्रैव दर्शनात् । तथा च २" मृत्युर्यस्योपसेचनम्" इति वचनात्, २" ब्रह्म च क्षत्रं च " इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम स्वयमद्यमानं सदन्यस्यादनहेतुः । अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव । तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन एव ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रकरणाच्च । १ । २।१० ॥ । प्रकरणं चेदं परस्यैव ब्रह्मणः - ३ " महान्तं विभुमात्मानं मत्वा धीरो न शोचति " ३" नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विछृणुते तनूं स्वाम्” इ ति हि प्रकृतम् । २" क इत्था वेद यत्र सः" इत्यपि हि तत्प्रसादाहते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ॥ १० ॥ १. कठ. १-३-९॥ २. कठ. १-२-२५ ॥ अथ स्यात् - नायं ब्रह्मक्षत्रौदनसूचितः पुरुषोऽपहतपाप्मा परमात्मा;अनन्तरम् ४"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः " इति कर्मफलभोक्तुरेव सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणो बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफलभोग एव ; स च परमात्मनो न सम्भवति, बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योपकरणभूतयोर्यथा कथञ्चित्पानेSन्वयस्सम्भवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते, तदेकमकरणत्वात्पूर्व प्रस्तुतोऽत्ताऽपि स एव भवितुमर्हति - इति । तत्त्रोच्यते ३. कठ. १-२-२२-२३ ॥ ४. कठ, १-३-१॥ For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ भीशारीरकमीमांसाभाष्ये [अ १. गुहां प्रविष्टावात्मानौ हि तदर्शनात्। १।२।११॥ न प्राणजीवी बुद्धिजीवौ वा गुहां प्रविष्टावृतं पिबन्तावित्युच्येते; अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्यते । कुतः? तदर्शनात्। अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते । परमात्मनस्तावत् १"तं दुर्दर्श गूढमनुपविष्टं गुहाहितं गहरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति" इति । जीवस्यापि २“या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत" इति । कर्मफलान्यत्तीत्यदिति व उच्यते । प्राणेन सम्भवतिप्राणेन सह वर्तते । देवतामयी-इन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीकोदरवर्तिनी । भूतेभिर्व्यजायत-पृथिव्यादिभिभूतैस्सहिता देवादिरूपेण विविधा जायते । एवं च सति ३"ऋतं पिबन्तौ" इति व्यपदेशः 'छत्रिणो गच्छन्ति' इति वत्प्रतिपत्तव्यः । यद्वा-प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते ॥ ११ ॥ विशेषणाच्च। १।२।१२॥ अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वमाप्यत्वमामृत्वविशिष्टौ सर्वत्र प्रतिपाद्यते। तथाहि-४"ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्तमेति" इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च । तं देवमीड्यं विदित्वा-जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा ५“यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि" इत्युपास्यः परमात्मोच्यते । नाचिकतम्-नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । ६“आत्मानं रथिनं १. कठ. १-२-१२॥ ४. कठ. १-१-१७ ॥ २. कठ. २-४-७॥ ५. कठ. १-३-२ ॥ ३. कठ, १-३-१॥ ६. कठ. १-३-३ ॥ For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४५ पा. २.] अअधिकरणम् . विद्धि शरीरं रथमेव च" इत्यादिनोपासको जीव उच्यते । तथा १"विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ । इहापि २"छायातपौ" इत्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्यते ॥ अथ स्यात् ३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके" इति जीवस्वरूपयाथात्म्यप्रश्नोपक्रमत्वात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयते इति । नैतदेवम् , न हि जीवस्य देहातिरिक्तस्यास्तित्वनास्तित्वशङ्कयाऽयं प्रश्नः, तथा सति पूर्ववरद्वयवरणानुपपत्तेः। तथा हि पितुस्सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण खात्मदानेनापि पितुः ऋतुसाद्गण्यमिच्छता ४“कस्मै मां दास्यसि" इत्यसकृत्पितरं पृष्टवता स्वनिर्बन्धरुष्टपितृवचनान्मृत्युसदनं प्रविष्टेन स्वसदनालोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्पतिविधानप्रवृत्तमृत्युप्रदत्ते वरत्रये आस्तिक्यातिरेकात्पथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः। एतच्च सर्व देहातिरिक्तमात्मानमजानतो नोपपद्यते । द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्यफलसाधनभूताऽग्निविद्या वृता; तदपि देहातिरिक्तात्मानभिज्ञस्य न सम्भवति । अतस्तृ. तीयेन वरेण यदिदं वियते ३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः" इतिः अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते । एवं च ३"येयं प्रेते" इति न शरीरवियोगमात्राभिमायम् अपि तु सर्वबन्ध १. कठ. १-३-९ ॥ २. कठ. १-३-१॥ ३. कठ. १-१-२०॥ ४. कठ.१.१.४॥ For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ श्रीशारीरकमीमांसामाग्ये [भ. १. विनिर्मोक्षाभिप्रायम्। यथा ?"न प्रेत्य संज्ञाऽस्ति" इति । अयमर्थः-मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्तिनिमित्ताऽस्तिनास्त्यात्मिका येयं विचिकित्सा, तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां-जानीयाम्-इति । तथा हि बहुधा विप्रतिपद्यन्ते-केचिद्वित्तिमात्रस्याऽत्मनस्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । अपरे-पाषाणकल्पस्याऽत्मनो ज्ञानावशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे तु- अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तस्तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु-निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणशरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविकपरमात्मा - नुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाविद्यामिति नचिकेतसा पृष्टो मृत्युस्तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्तिलक्षणं मोक्षं च २"तं दुर्दर्श गूढमनुपविष्टम्"इत्यारभ्य ३"सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यन्तेनोपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्व समञ्जसम्। अतः परमात्मैवात्तेति सिद्धम् ॥ १२ ॥ इति श्रीशारीरकमीमांसाभाष्ये अत्त्रधिकरणम् ॥ २ ॥ ३. कठ, १-३.९ ॥ १.१.४-४-१२ २, कठ, १-२-१२॥ For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. अप्रधिकरणम् . ......(श्रीवेदान्तसारे अत्त्रधिकरणम् ।। २ ॥)..-.. अत्ता चराचरग्रहणात् । १।२।९॥ १“यस्य ब्रह्म च क्षत्रश्चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इत्यत्र ओदनोपसेचनसूचितोऽत्ता परमपुरुषः, ब्रह्मक्षत्रोपलक्षितस्य चराचरस्य कृत्स्नस्य मृत्यूपसेचनत्वेन अदनीयतया ग्रहणात् ॥९॥ प्रकरणाच्च।१।२।१०॥ २"महान्तं विभुमात्मानं मत्वा धीरो न शोचति" ३"नायमात्मा प्रवचनेन लभ्यः" इत्यादिना परस्यैव प्रकृतत्वात् स एवायम् ॥ १०॥ गुहां प्रविष्टावात्मानौ हि तदर्शनात्। १॥२॥११॥ अनन्तरम् ४'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें " इत्यादिना जीवपरमात्मानावेव प्रयोज्यप्रयोजकभावेन कर्मफलाशनेऽन्वयादु. पदिष्टौ, तयोरेवास्मिन् प्रकरणे गुहाप्रवेशदर्शनात् ; ५"तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितम्" इति परस्य, ६"या प्राणेन सम्भत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती" इति जीवस्य । कर्मफलादनाददितिर्जीवः ॥ ११ ॥ विशेषणाच्च। १।२।१२॥ जीवपरावेव हि सर्वत्रास्मिन्प्रकरणे विशेष्येते, ७" न जायते म्रियते वा विपश्चित्" इत्यादौ जीवः ८" अणोरणीयान् महतो महीयान्" २ "महान्तं विभुमात्मानम्"३"नायमात्मा प्रवचनेन""विज्ञानसारथिर्यस्तु मनःप्रग्रहवानरः। सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यादिषु परः। १०"त्रिपादस्या. मृतं दिवि" ११“अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु" इति विश्वतः प्राकृतात् स्थानात् परं विष्णोः परस्थानमेव हि संसाराध्वनः पारभूतं मुमुक्षुभिः प्राप्यम् १०" परमं पदं. १. कठ. १-२-२५॥ ७. कठ. १-२-१८ ॥ २. कठ. १-२-२२, ॥ ८. कठ, १-२-२०॥ ३. कठ. १-२-२३॥ ४. कठ. १-३-१॥ ९. कठ. १-३-९॥ १०. पुरपसू ॥ ५, कठ. १-२-१२ ॥ ६, कठ, २-४-७॥ ११. छा. ३-१३-७॥ For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ वेदान्तदीपे [अ. १. सदा पश्यन्ति सूरयः"१"तदक्षरे परमे व्योमन्"२ "क्षयन्तमस्य रजसः पराके" ३"विश्वं पुराणं तमसः परस्तात्" ४"ते ह नाकं महिमानस्सचन्ते। यत्र पूर्वे साध्यास्सन्ति देवाः" इत्यादिसकलोपनिषत्प्रसिद्धम् ॥ १२॥ इति श्रीवेदान्तसारे अनधिकरणम् ॥ २ ॥ २ ॥ ...(श्रीवेदान्तदीपे अत्रधिकरणम् ॥ २॥).-.. अत्ता चराचरग्रहणात्।।२।९॥ कठवल्लीष्वाम्नायते५“यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति । अत्रौदनोपसेचनसूचितोऽत्ता किं जीवः ? उत परमात्मेति संशयः । जीव इति पूर्वः पक्षः । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वात् , जीवस्यैव तत्सम्भवात् । राद्धान्तस्तु-सर्वोपसंहारे मृत्यूपसेचनमदनीयं चराचरात्मकं कृत्स्नं जगदिति तस्यैतस्यात्ता परमात्मैव। न चे. दं कर्मनिमित्तं भोक्तृत्वम् , अपि तु जगत्सृष्टिस्थितिलयलीलस्य परमात्मनो जगदुपसंहारित्वरूपं भोक्तृत्वम् । सूत्रार्थ:-ब्रह्मक्षत्रौदनस्यात्ता परमात्मा, ब्र. नक्षत्रशब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात् । मृत्यूपसेचनो ह्योदनो न ब्रह्मक्षत्रमात्रम् ; अपि तु तदुपलक्षितं चराचरात्मकं कृत्स्नं जगदेव ॥ ९॥ प्रकरणाच्च। १॥२॥१०॥ ६"महान्तं विभुमात्मानं मत्वा धीरो न शोचति' ६"नायमात्मा प्रवचनेन लभ्यो न मेधया" इति परस्यैव हीदं प्रकरणम् ; अतश्चायं परमात्मा ॥ १० ॥ गुहां प्रविष्टावात्मानौ हि तदर्शनात् ।।२।११॥ नन्वनन्तरम् ७"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें" इति द्वयोः कर्मफलादनश्रवणात् , परमात्मनश्च कर्मफलादनानन्वयात् ,अन्तःकरणद्वितीयो जीव एव तत्रात्तेति प्रतीयते ; अतोऽत्रापि स एव जीवोऽत्ता भवितुमर्हतीत्याशङ्कयाह-गुहां प्रविष्टौ जीवात्मपरमात्मानौ ; जीवद्वितीयः १.ते.नारा, ६-२॥ २.सामवे.उत्तर.१७-२-२॥ ६. कठ. १-२-२२, २३ ॥ ३. ते. नारा, ६-५॥ ४. पुरुषसू॥ | ७. कठ. १-३-१॥ ५. कठ. १-२-२५॥ For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] अन्तराधिकरणम् २४९ परमात्मैव तत्र प्रतीयत इत्यर्थः । स्वयमननतोऽपि परमात्मनः प्रयोजकतया पानेऽन्वयो विद्यते । जीवद्वितीयः परमात्मेति कथमवगम्यते ? तद्दर्शनात्-तयोरेव ह्यस्मिन्प्रकरणे गुहाप्रवेशव्यपदेशो दृश्यते - १" तं दुर्दर्श गूढ मनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इति परमात्मनः; २' या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रषिश्य तिष्ठन्ती या भूतेभिर्व्यजायत” इति जीवस्य । कर्मफलान्यत्तीत्यदितिः जीवः ॥ ११ ॥ विशेषणाच्च । १ । २ । १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अस्मिन्प्रकरणे ह्युपक्रमप्रभृत्योपसंहाराज्जीव परमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्रात्पृत्वादिभिर्विशेष्येते ३" महान्तं विभुमात्मानं मत्वा धीरो न शोचति " ४" विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यादिषु ; अतश्चात्ता परमात्मा ॥ १२ ॥ इति श्रीवेदान्तदीपे अलधिकरणम् ॥ २ ॥ ( श्रीशारीरकमीमांसाभाष्ये अन्तराधिकरणम् || ३ ॥ ) - अन्तर उपपत्तेः । १ । २ ॥१३॥ ५ इदमामनन्ति च्छन्दोगाः ६" य एषोऽक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म" इति । तत्र सन्देहः - किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेषः, उत जीवात्मा, अथ परमात्मा - इति । किं युक्तम् १ प्रतिविम्बात्मेति । कुतः ? प्रसिद्धवनिर्देशात् ; 'दृश्यते' इत्यपरोक्षाभिधानाच्च । जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते। उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति । ७" रश्मिभिरेषोऽस्मिन्मतिष्ठितः” इति श्रुतिप्रसिद्ध्या चक्षुःप्रति १. कठ. १-२-१२॥ २. कठ. २-४-७॥ ३. कठ. १-२-२२॥ ४. कठ. १-३-९॥ ५. इदं समामनन्ति पा || 32 ६. छा. ४-१५-१॥ ७. बृ. ७-५-१॥ ८. श्रुतिप्रसिद्ध पा ॥ For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० श्रीशारीरकमीमांसाभाष्ये [अ.१. ष्ठो देवताविशेषो वा; एष्वेव प्रसिद्धवनिर्देशोपपत्तरेषामन्यतमः इति प्राप्ते प्रचक्ष्महे-अन्तर उपपत्तेः-अक्ष्यन्तरः परमात्मा । कुतः? १“एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति एतं संयताम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति । एष उ एव भामनिः। एष हि सर्वेषु लोकेषु भाति" इत्येषां गुणानां परमात्मन्येवोपपत्तेः॥ १३ ॥ स्थानादिव्यपदेशाच्च।१।२।१४॥ चक्षुषि स्थितिनियमनादयः परमात्मन एव २“यश्चक्षुषि तिष्ठन्" इत्येवमादौ व्यपदिश्यन्ते । अतश्च३ “य एषोऽक्षिणि पुरुषः" इति स एव प्रतीयते । अतः प्रसिद्धवनिर्देशश्च परमात्मन्युपपद्यते । तत एव 'दृश्यते' इति साक्षात्कारव्यपदेशोऽपि योगिभिदृश्यमानत्वादुपपद्यते ॥१४॥ सुखविशिष्टाभिधानादेव च।१।२।१५॥ इतश्चाक्ष्याधारः पुरुषोत्तमः-४ "कं ब्रह्म खं ब्रह्म" इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थ संयद्वामत्वादिगुणविधानार्थं च ३“य एषोऽक्षिणि पुरुषः" इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतो?तयति ॥ नन्वग्निविद्याव्यवधानात् ४"कं ब्रह्म" इति प्रकृतं ब्रह्म नेह सन्निधत्ते। तथा हि-अग्नयः४" प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इति ब्रह्मविद्यामुपदिश्य५“अथ हैनं गार्हपत्योऽनुशशास" इत्यारभ्यानीनामुपासनमुपदिदिशुः। नचाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम् ; ब्रह्मविद्याफलानन्तर्गततद्विरोधिसर्वायु:माप्तिसन्तत्यविच्छेदादिफलश्रवणात्। उच्यते-४"प्राणो ब्रह्म" "एतदमृतमभयमेतद्ब्रह्म" इत्युभयन ब्रह्मसंशब्दनात् ।६"आ१. छा. ४-१५-३॥ २. बू. ५-७-१८॥ ५. छा. ४-११-१॥ ३. छा. ४-१५-१॥ ४. छा, ४-१०-५॥ ६. छा. ४-१४-२॥ For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] अन्तराधिकरणम् २५१ ३ चार्यस्तु ते गतिं वक्ता" इत्यग्निवचनाच्च गत्युपदेशात्पूर्व ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते ; "अथ हैनं गार्हपत्योऽनुशशास " इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । कि श्च २" व्याधिभिः प्रतिपूर्णोऽस्मि ” इति ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वक गर्भजन्मजरामरणादिभव भयोपतप्तायोपकोसलाय ४" एषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या च "इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते । नचात्र मोक्षविरोधिफलं किञ्चिच्छ्रयते, "अपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावर पुरुषाः क्षीयन्ते उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च" इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम् - ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति । लोकी भवति तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेति - ब्रह्मोपासनसमाप्तेर्यावदायुरपेक्षितम्, तत्सर्वमेति । ज्योग्जीवति - व्याध्यादिभिरनुपहतो यावद्ब्रह्ममाप्ति जीवति । नास्यावर पुरुषाः क्षीयन्ते - अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति । ६" नास्याब्रह्मवित्कुले भवति" इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते। उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च-वयम् अग्नयस्तमेन - मुपभुञ्जाम: - यावद्रह्मप्राप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्याया ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात्सुखविशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते । ननु “आचार्यस्तु ते गतिं वक्ता" इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते ; तत्कथं स्थानगुणविध्यर्थतोच्यते । तदभिधीयते "आचार्यस्तु ते ग १. छा. ४-११-१ ॥ २. छा. ४. १०.३ ॥ ३. भयाभि पा॥ ४. छा. ४. १४.१ ॥ Acharya Shri Kailassagarsuri Gyanmandir ५. छा. ४-१३-२ ॥ ६. मु. ३-२-९ ॥ ७. ब्रह्म इहोपासनस्थान पा|| ८. छा. ४-५-९॥ For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ श्रीशारीरकमीमांसाभाष्ये [म. १. तिं वक्ता" इत्यस्यायमभिप्रायः ब्रह्मविद्यामनुपदिश्य मोषुषि गुरौ तदलाभादनाश्वासमुपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हपत्यादयो गुरोरग्रयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य “आचायोद्धैव विद्या विदिता साधिष्ठं प्रापत्" इति श्रुत्यर्थमालांच्य साधुतमत्वप्राप्तयर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमचिरादिकां च गतिमुपदिशत्विति मत्वा २ “आचार्यस्तु ते गतिं वक्ता" इत्यवोचन् । गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम् । अत एवाचार्योsपि३ "अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकां च गतिमुपदिदेश । अतः ४"कं ब्रह्म खं ब्रह्म" इति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादयमक्ष्याधारः परमात्मा ॥ १५ ॥ ___ ननु च४"कं ब्रह्म खं ब्रह्म" इति परं ब्रह्माभिहितमिति कथमवगम्यते, यस्येहाक्ष्याधारतयाऽभिधानं ब्रूषे ; यावता ४"कं ब्रह्म खं ब्रह्म" इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिविधीयत इति प्रतिभाति,५"नाम ब्रह्म'६"मनो ब्रह्म" इत्यादिवचनसारूप्यात्। तत्राह-- अत एव च स ब्रह्म।१।२।१६॥ यतस्तत्र "यदेव कं तदेव खम्"इति सुखविशिष्टस्याऽकाशस्याभिधानम् , अत एव खशब्दाभिधेयस्सः आकाशः परं ब्रह्म। एतदुक्तं भवति-अग्निभिः४"प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्युक्ते उपकोसल उवाच "विजानाम्यहं यत्माणो ब्रह्म कं च तु खं च न विजानामि" इति।। १. छा, ४-९-३॥ २. छा. ४-१४-१॥ ६. छा. ७-३-२॥ ३. छा. ४-१४-३॥ ४. छा. ४-१०-५॥ ७, ८, छा. ४-१०-५॥ ५. छा. ७.१.५॥ For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२.] अन्तराधिकरणम्. २५३ ____ अस्यायमभिप्राय:--न तावत्याणादिप्रतीकोपासनमग्निभिरभिहितम् , जन्मजरामरणादिभवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रत्तत्वात् । अतो ब्रह्मैवोपास्यमुपदिष्टम् । तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम् । तेषु च भाणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति "विजानाम्यहं यत्माणो ब्रह्म" इत्युक्तवान् । तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तनियाम्यत्वेन विशेषणत्वम् ; उतान्योन्यव्यवच्छदेकतया निरतिशयानन्दरूपब्रह्मस्वरूपसमर्पणपरत्वेन वा तत्र पृथग्भूतयोश्शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोर्नियामकत्वं ब्रह्मणस्स्यादिति खरूपावगतिन स्यात् , अन्योन्यव्यवच्छेदकत्वेऽपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणस्स्यादित्यन्यतरप्रकारनिर्दिधारयिषया "कं च तु खं च न विजानामि" इत्युक्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः १“यद्वा व के तदेव खं यदेव खं तदेव कम्" इत्यूचिरे। ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म, तदेवापरिच्छिन्नसुखरूपं चेति निगमितम् ---१“प्राणं च हास्मै तदाकाशं चोचुः" इति । अतः १"कं ब्रह्म खं ब्रह्म" इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम् , तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा ॥ १६ ॥ श्रुतोपनिषत्कगत्यभिधानाच्च। १।२।१७॥ श्रुतोपनिषत्कस्य-अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अचिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते २"तेऽर्चिपमेवाभिसम्भव१. छा. ४-१०-५॥ २. छा. ४-१५-५॥ For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ श्रीशारीरकमीमांसामान्ये [म. १. न्त्यषिोऽहरह्न आपूर्यमाणपक्षम्"इत्यारभ्य"चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" इत्यन्तेनोपदिशति । अतोऽप्ययमक्षिपुरुषः परमात्मा ॥१७॥ अनवस्थितेरसम्भवाच्च नेतरः।१।२।१८॥ __ प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतरः छायादिः अक्षिपुरुषो भवितुमर्हति । प्रतिबिम्बस्य तावत्पुरुषान्तरसन्निधानायत्तत्वान्न नियमेनावस्थानसम्भवः । जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम् । देवतायाश्चर "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति रश्मिद्वारेणावस्थानवचनाद्देशान्तरावस्थितस्यापीन्द्रियाधिष्ठानोपपत्तेन चक्षुष्यवस्थानम् । सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव । तस्मादक्षिपुरुषः परमात्मा । इति श्रीशारीरकमीमांसाभाष्ये अन्तराधिकरणम् ॥ ३ ॥ ---(वेदान्तसारे अन्तराधिकरणम् ॥ ३ ॥)-.. अन्तर उपपत्तेः।१।२।१३॥ ३“य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतब्रह्म" इत्यत्र अक्ष्याधारः परमपुरुषः, निरुपाधिकामृतत्वाभयत्वसंयद्वामत्वादीनामस्मिन्नेवोपपत्तेः ॥१३॥ स्थानादिव्यपदेशाच्च । १।२।१४॥ ४" यश्चक्षुषि तिष्ठन्" इत्यादिना स्थितिनियमनादिव्यपदेशाचायं परः॥ १. छा. ४.१५-५॥ ३. छा, ४-१५.१॥ २. 1. ७.५-१०॥ । ४. इ. ५-७-१८॥ For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] अन्तराधिकरणम् २५५ सुखविशिष्टाभिधानादेव च। १।२।१५॥ १" कं ब्रह्म खं ब्रह्म' इति पूर्वत्रास्यैव सुखविशिष्टतया अभिधानाचार्य परः ॥ १५॥ अत एव च स ब्रह्म । १।२।१६॥ यतस्तत्र भवभीताय उपकोसलाय ब्रह्मजिज्ञासवे १"कं ब्रह्म खं ब्रह्म" इत्युपदिष्टः १" यद्वा व कं तदेव खम्" इति सुखरूपः; अतस्सुखशब्दाभिधेय आकाशः परमेव ब्रह्म ॥१६॥ श्रुतोपनिषत्कगत्यभिधानाच्च । १॥२॥१७॥ श्रुतब्रह्मस्वरूपाणामधिगन्तव्याया अर्चिरादिगतेरक्षिपुरुषं श्रुतवते२ "तेऽ. र्चिषमेवाभिसम्भवन्ति" इत्यादिनाऽभिधानाचायं परमपुरुषः ॥ १७ ॥ अनवस्थितेरसम्भवाच्चनेतरः । १॥२॥१८॥ परस्मादितरो जीवादि श्याधारः, चक्षुषि नियमेन अनवस्थितेः अमृतत्वाद्यसम्भवाच ॥१८॥ इति वेदान्तसारे अन्तराधिकरणम् ॥ ३ ॥ - ... (वेदान्तदीपे अन्तराधिकरणम् ॥ ३ ॥)... अन्तर उपपत्तेः।१।२।१३॥ छान्दोग्ये३'य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म' इत्यत्राक्ष्याधारः पुरुषः किं प्रतिबिम्बात्मजीवदेवताविशेषान्यतमः ? उत परमात्मेति संशयः। एण्वन्यतम इति पूर्वः पक्षः। कुतः ? 'य एष दृश्यते' इति प्रसिद्धवत्साक्षात्कारनिर्देशात् । राद्धान्तस्तु-परमात्मैवायमश्याधारः पुरुषः, अक्षिपुरुषसम्बन्धितया श्रूयमाणा हि निरुपाधिकात्मत्वामृ. तत्वाभयत्वब्रह्मत्वसंयद्वामत्वादयः परमात्मन्येवोपपद्यन्ते । प्रसिद्धवनिर्देशश्च ३. छा.४-१५-१॥ १. छा.४-१०-५॥ २. छा. ४-१५-५॥ For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ वेदान्तदीपे [भ.२. १"यश्चक्षुषि तिष्ठन्" इत्यादिश्रुत्यन्तरप्रसिद्धरुपपद्यते । साक्षात्कारश्च, तदु पासननिष्ठानां योगिनाम् । सूत्रार्थस्तु-अक्ष्यन्तरः परमात्मा, संयद्वामत्वादीनां गुणानामत्रैवोपपत्तेः॥ १३॥ स्थानादिव्यपदेशाच्च । १।२।१४॥ स्थानं-स्थितिः। परमात्मन एव १"यश्चक्षुषि तिष्ठन्" इत्यादौ रचक्षुषि स्थितिनियमनादीनां व्यपदेशाञ्चायं परमात्मा ॥ १४ ॥ सुखविशिष्टाभिधानादेव च।१।२। १५॥ ३"प्राणो ब्रह्म कं ब्रह्मखं ब्रह्म" इति सुखविशिष्टतया प्रकृतस्य परस्यैव ब्रह्मणोऽश्याधारतया उपास्यत्वाभिधानाचायं परमात्मा । एवकारोऽस्यैव हेतोनैरपेक्ष्यावगमाय ॥१५॥ ३"प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म"इत्यत्र सुखविशिष्टं परमेव ब्रह्माभिहितमिति कथमिदमवगम्यते ? यावता नामादिवत्प्रतीकोपासनमेवेत्याशङ्कयाह अत एव च स ब्रह्म । १।२।१६॥ यतस्तत्र भवभयभीतायोपकोसलाय ब्रह्मस्वरूपजिशासवे ३ "कं च तु खं च न विजानामि” इति पृच्छते ३ “यद्वा व कं तदेव खं यदेव खं तदेव कम्" इत्यन्योन्यव्यवच्छेदकतया अपरिच्छिन्नसुखस्वरूपं ब्रह्मेत्यभिधाय, ३ "प्राणं च हास्मै तदाकाशं चोचुः" इत्युक्तम् । अत एव खशब्दाभिधेयस्स आकाशोऽपरिच्छिन्नसुखविशिष्टं परं ब्रह्मैव ॥ १६॥ श्रतोपनिषत्कगत्यभिधानाच्च । १।२।१७॥ श्रुतोपनिषत्कैः अधिगतपरब्रह्मयाथात्म्यैः ब्रह्मप्राप्तये या गतिरर्चिरादिकाऽधिगन्तव्यतयाऽवगता श्रुत्यन्तरे, तस्याश्चेहाक्षिपुरुषं श्रुतवतोऽधिगन्तव्यतया ४"तेऽर्चिषमेवाभिसम्भवन्ति" इत्यादिनाऽभिधानादक्षिपुरुषः परमात्मा। १. वृ. ५-७-१८॥ २. चक्षुःस्थिति. पा॥ ३. छा. ४-१०-५॥ ४. छा. ४-१५-५॥ For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२] अन्तर्याम्यधिकरणम् . २५७ अनवस्थितेरसम्भवाच्च नेतरः।१।२।१८॥ परमात्मन इतरः जीवादिकः, तस्याक्षिण नियमेनानवस्थितेः, अमृतत्वसंयद्वामत्वादीनां चासम्भवान्न सोऽक्ष्याधारः॥१८॥ इति वेदान्तदीपे अन्तराधिकरणम् ॥ ३ ॥ --(श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम् ॥४॥)---- १"स्थानादिव्यपदेशाच" इत्यत्र २“यश्चक्षुषि तिष्ठन्" इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम् ? इदानीं तदेव समर्थयतेअन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यप देशात् । १।२।१९॥ काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति ३“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । एवमम्ब्वनयन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुश्श्रोत्रमनस्त्वग्विज्ञानरेतस्वात्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेधं तत्तच्छरीरकं तत्तद्यमयन्तं कश्चिनिर्दिश्य ४"एष त आत्माऽन्तर्याम्यमृतः" इत्युपदिश्यते । माध्यन्दिनपाठे तु४"यस्सर्वेषु लोकेषु तिछन्" "यस्सर्वेषु वेदेषु" ४'यस्सर्वेषु यज्ञेषु" इति च पर्यायाः। ४“यो विज्ञाने तिष्ठन्" इत्यस्य पर्यायस्य स्थाने ४“य आत्मनि तिष्ठन् इति प१. शारी. १-२-१४॥ । ३. १. ५-७-३॥ २... ५-७-१८॥ ४... ५-७॥ 33 For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ श्रीशारीरकर्मामांसाभाष्ये र्यायः । १“स त आत्माऽन्तर्याम्यमृतः" इति च विशेषः। तत्र संशय्यते -किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? वाक्यशेषेर "द्रष्टा श्रोता" इति करणायत्तज्ञानताश्रुतेः । एवं द्रष्टुरेवान्तर्यामित्वोपदेशात् , २"नान्योऽतोऽस्ति द्रष्टा" इति द्रष्टन्तरनिषेधाचेति ॥ एवं प्राप्तेऽभिधीयते-अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्-अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः। काण्वपाठसिद्धेभ्योऽधिदैवादिमद्भयो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपादानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः ? तद्धर्मव्यपदेशात् ; परमात्मधर्मो ह्ययम् , यदेक एव सन् सर्वलोकसर्वभूतसर्वदेवादीनियमयतीति । तथा उद्दालकप्रश्नः-३“य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति" इत्युपक्रम्य ३"तमन्तर्यामिणं ब्रूहि" इंति, तस्य चोत्तरम् ४“यः पृथिव्यां तिष्ठन्" इत्यारभ्योक्तम् । तदेतत्सर्वाल्लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान्वेदान् सर्वांश्च यज्ञानन्तः प्रविश्य सर्वप्रकारनियमनम् , सर्वशरीरतेया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात्पुरुषोत्तमादन्यस्य न सम्भवति । तथाहि ५ अन्तः प्रविष्टश्शास्ता जनानाँ सर्वात्मा" ६"तत्सृष्ट्वा। तदेवानुमाविशत्। तदनुपविश्य । सच्च त्यचाभवत्" इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्याऽत्मत्वमित्यादीनि वदन्ति । तथा सुवालोपनिषदि "नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजाय १. बृ. ५-७-२३. एषत इति स्थाने सत इ. ति माध्यन्दिनषाठः॥ २. बृ. ५-७-२३॥ ३. वृ. ५-७-१॥ ४. बु. ५-७-३॥ ५. तै. आरण्य, ११. अनु. २०॥ ६. ते. आन. ६॥ ७. सुबाल. ६. ख। For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] अन्तर्याम्यधिकरणम् २५९ न्ते दिव्यो देव एको नारायणः । चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रं च श्रोतव्यं च नारायणः" इत्यारभ्य १“अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य. पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम्" इत्यादि, १“यस्य मृत्युश्शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति परस्यैव ब्रह्मणस्सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते । स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायत्तं द्रष्टत्वादिकम् अपितु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव। तथाच श्रुतिः२"पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता"इतिान च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः; अपितु रूपादिसाक्षात्कारस्य । सच रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा:परस्यतु खतएव।३"नान्योऽतोऽस्ति द्रष्टा"इत्येतदपि पूर्ववाक्योदितानियन्तुष्टरन्यो द्रष्टा नास्तीति वदति। "यं पृथिवी न वेद"१“यमास्मा न वेद" इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव ३“अदृष्टो द्रष्टा अश्रुतश्श्रोता" इति निगमय्य ३"नान्योऽतोऽस्ति द्रष्टा" इत्यादिना तस्य नियन्तुनियन्त्रन्तरं निषिध्यते। ४“एष त आत्मा" *"स त आत्मा" इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्यात्मतयोपदिश्यमानोऽन्तर्यामी न प्रत्यगात्मा भवितुमर्हति ॥ १९॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्चा१॥२॥२०॥ १. सुबाल. ७. खा ३. बृ. ५-७-२३॥ २, श्वे. ३-१९॥ । ४. . ५-७ : *माध्यन्दिनपाठः ॥ For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० वेदान्तसारे स्मार्त प्रधानम् । शारीरः जीवः। स्माते च शारीरश्च नान्तर्यामी, अतद्धर्माभिलापात्-तयोरसम्भावितधर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टुत्वम् , सर्वस्य नियन्तृत्वम्, सर्वस्याऽत्मत्वम् , स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हति । एतदुक्तं भवति-यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति, तथा जीवोऽपि, अतद्धमत्वात्-इति ॥ अमीषां गुणानां परमात्मन्यन्वयः, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः ॥ २० ॥ निरपेक्षं च हेत्वन्तरमाहउभयेऽपि हि भेदेनैनमधीयते। १।२॥२१॥ उभये-माध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनस्समम् एनं शारीरमपि विभज्याधीयते-१“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति माध्यन्दिनाः, २" यो विज्ञाने तिष्ठन्" इत्यादि च काण्वाः,परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ २१ ॥ इति श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम् ॥ ४ ॥ --(श्रीवेदान्तसारे अन्तर्याम्यधिकरणम् ॥४॥)...अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यप देशात्। ॥२॥१९॥ १..५-७-२२ ।। २.अ. ५-७-२२. माध्यन्दिनपाठः।। For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] अन्तर्याम्यधिकरणम्. १" यः पृथिव्यां तिष्ठन् " इत्यादिषु अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमपुरुषः, सर्वान्तरत्व सर्वाविदितत्व सर्वशरीरकत्वसर्वनियन्तृत्वादिपरमात्मधर्मव्यपदेशात् ॥ १९ ॥ २६१ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च।१।२।२०॥ 1 नायं प्रधानं जीवश्च तयोरसम्भावितसर्वाविदितत्वादिधर्माभिलापात् असम्भावनया यथा न स्मार्तम्, तथा जीवोऽपीत्यर्थः ॥ २० ॥ उभयेऽपि हि भेदेनैनमधीयते । १।२।२१ ॥ उभये काण्वा माध्यन्दिनाश्य, २" यो विज्ञाने तिष्ठन् " ३" य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" इति प्रत्यगात्मनो भेदेन, एनम् अन्तर्यामिणम् अधीयते; अतः पर एवायम् ॥ २१ ॥ इति वेदान्तसारे अन्तर्याम्यधिकरणम् || ४ || For Private And Personal Use Only ( वेदान्तदीपे अन्तर्याम्यधिकरणम् ॥ ४ ॥ ) + अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्।१।२।१९॥ इत्या बृहदारण्यके १" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः " दिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किं प्रत्यगात्मा ? उत परमात्मेति संशयः प्रत्यागात्मेति पूर्वः पक्षः, वाक्यशेषे ४'द्रष्टा श्रोता ...मन्ता" इति द्रछ्रुत्वादिश्रुतेः, ४"नान्योऽतोऽस्ति द्रष्टा” इति द्रष्ट्रन्तरनिषेधाश्च । राद्धान्तस्तु— पृथिव्याद्यात्मपर्यन्तसर्वतत्त्वानां सर्वैः तैरदृष्टेनैकेन नियमनं निरुपाधिकामृतत्वादिकश्च परमात्मन एव धर्म इत्यन्तर्यामी परमात्मा । द्रष्टृत्वादिश्च रूपादिसा१. इ. ५-७-३ ॥ २. . ५-७-२२॥ ३.. ५-७-२२. माध्यन्दिनपाठः । ४.५-७-२३॥ Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ श्रीशारीरकमीमांसाभाष्ये [अ. १. क्षात्कारः। स च "पश्यत्यचक्षुः" इत्यादिना परमात्मनोऽप्यस्तिार "नान्योऽतोस्ति द्रष्टा" इति च जीवेनादृष्टान्तर्यामिद्रष्टवत् , अन्तर्यामिणाऽप्यदृष्टद्रष्ट्रन्तरनिषेधपरः । सूत्रार्थः-अधिदेवाधिलोकादिपदचिह्नितेषु वाक्यषु श्रूयमाणोऽन्तर्यामी परमात्मा, सर्वान्तरत्वसर्वाविदितत्वसर्वशरीरकत्वसर्वनियमनसत्मिकत्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात् ॥ १९ ॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च।१।२।२०॥ ___स्मार्त प्रधानम् , शारीरः प्रत्यगात्मा। स्मार्त च शारीरश्च नान्त मी, तयोरसम्भावितोक्तधर्माभिलापात् । यथा स्मार्तस्याचेतनस्यासंभावनया नान्तर्यामित्वप्रसक्तिः, तथा प्रत्यगात्मनोऽपीत्यर्थः ॥ २० ॥ उभयेऽपि हि भेदेनैनमधीयते। १॥२॥२१॥ उभये काण्वा माध्यन्दिना अपि, ३“यो विज्ञाने तिष्ठन्' ३'य आत्मनि तिष्ठन्" इति यतः प्रत्यगात्मनो भेदेन-एनम् अन्तर्यामिणम् अधीयते ; अतोऽयं तदतिरिक्तः परमात्मा ॥ २१ ॥ ___ इति वेदान्तदीपे अन्तर्याम्यधिकरणम् ॥ ४ ॥ -..(श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम्।।)..... अदृश्यत्वादिगुणको धर्मोक्तेः । १।२।२२॥ आथर्वणिका अधीयते-४“अथ परा यया तदक्षरमधिगम्यते । यत्तदद्वेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भतयोनि परिपश्यन्ति धीराः"इति; तथोत्त १. श्वे. ३-१९॥ २. बु. ५-७-२३॥ । । ३. बृ.५-७-२२॥ ४. मुण्ड, १-१-५,६॥ For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३ पा.२.] अदृश्यत्वादिगुणकाधिकरणम् . रत्र १"अक्षरात्परतः परः" इति। तत्र सन्दिह्यते-किमिहादृश्यत्वादिगुणकमक्षरमक्षरात्परतः परश्च प्रकृतिपुरुषो; अथोभयत्र परमात्मैव-इति। किं प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः ? अस्याक्षरस्य २“अदृष्टो द्रष्टा" इत्यादाविव न द्रष्टुत्वादिश्चेतनधर्मविशेष इह श्रूयते, १“अक्षरात्परतः परः" इति च सर्वस्माद्विकारात्परभूतादक्षरादस्मात्परः क्षेत्रज्ञ समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तं भवति–रूपादिमत्स्थूलरूपाचेतनपृथिव्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति, तच्च प्रधानमेव । तस्मात्परत्वं च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितं च प्रधानं महदादिविशेषपर्यन्तं विकारजातं प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते ३“यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्" इति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्यते-इति ॥ एवं पाप्ते ब्रूमः-अदृश्यत्वादिगुणको धर्मोक्तेः-अदृश्यत्वादिगुणकोऽक्षरात्परतः परश्च परमपुरुष एव; कुतः ? तद्धर्मोक्तेः ४“यस्सर्वज्ञस्सर्ववित्"इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते ; तथा हि ५"यया तदक्षरमधिगम्यते" इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय ३"अक्षरात्सम्भवतीह विश्वम्"इति तस्माद्विश्वसम्भवं चाभिधाय४"यस्सवैज्ञस्सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" १. मुण्ड. २-१-२॥ २. बृ. ५-७-२३॥ ३. मुण्ड. १-१-७॥ ४. मुण्ड. १-१-९॥ ५. मुण्ड, १-१-५॥ For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६४ श्रीशारीरकमीमांसाभाष्ये [अ. १. इति भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । पश्चात् १" अक्षरात्परतः परः" इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते। अतः “अक्षरात्परतः परः" इत्यक्षरशब्दः पश्चम्यन्तः प्रकृतमदृश्यत्वादिगुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासम्भवात् । अतोऽवाक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir इतश्च न प्रधानपुरुषौ — विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ । १।२।२३ ॥ १. मुण्ड. २-१-२॥ २. मुण्ड. १-१-१॥ विशिनष्टि हि प्रकरणं - प्रधानाश्च पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयतीत्यर्थः; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनादिभिः। तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते ? " अक्षरात्परतः परः" इत्यादिना । तथाहि२“ स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह" इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता ; परविधैव च सर्वविद्याप्रतिष्ठा ; तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः ३" शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति । ब्रह्मविद्यायास्सर्वविद्याश्रयत्वाद्ब्रह्मविज्ञानेन सर्वे विज्ञातं भवतीति कृत्वा ब्रह्मस्वरूपमनेन पृष्टम् ; ४" तस्मै स होवाच द्वे विद्ये वेदितव्ये इति हम यह्मविदो वदन्ति परा चैवापराच" इति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये - ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम्; तयोर्ब्रह्मप्राप्त्युपाय ३. मुण्ड. १-१-३॥ ४. मुण्ड. १-१-४॥ For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] अदृश्यत्वादिगुणकाधिकरणम्. २६५ भूतमपरोक्षं ज्ञानम्। तच्च भक्तिरूपापन्नम् , १"यमेवैष वृणुते तेन लभ्यः" इत्यत्रैव विशेष्यमाणत्वात् । तदुपायश्चागमजन्यं विवेकादिसाधनसप्तकानुगृहीतं ज्ञानम् , २"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः। आह च भगवान्पराशरः ३"तत्माप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने । आगमोत्थं विवेकाच द्विधा ज्ञानं तथोच्यते" इति । ४" तत्रापरा ऋग्वेदो यजुर्वेदः" इत्यादिना ४" धर्मशास्त्राणि" इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधर्मशास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्तिहेतुत्वात् ५“अथ परा यया तदक्षरमधिगम्यते" इत्युपासनाख्यं ब्रह्मसाक्षात्कारलक्षणं भक्तिरूपापन्नं ज्ञानम् “ यत्तदद्रेश्यमग्रायम्" इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविषयस्य परस्य ब्रह्मणस्वरूपमुच्यते ६“यथोर्णनाभिस्सृजते गृह्णतेच" इत्यादिना। यथोक्तस्वरूपात्परस्माद्ब्रह्मणोऽक्षरात्कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता विश्वमिति वचनानाचेतनमात्रस्य ७"तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्माणो मनस्सत्यं लोकाः कर्मसु चामृतम्" इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते तपसा-ज्ञानेन, “यस्य ज्ञानमयं तपः" इति वक्ष्यमाणत्वात्। चीयते-उपचीयते ९"बहु स्याम्" इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्टयुन्मुखं भवतीत्यर्थः। ततोऽन्नमभिजायते-अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थः; प्राणमनःप्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपर्यन्तं सर्व विकारजातं तस्मादेव जायते । ८" यस्सर्वज्ञस्सर्ववित्" इत्यादिना सृष्टयुपकरणभूतं १. मुण्ड, ३-२-३ ॥ २. २, ६-४-२२॥ ३. वि. पु. ६-५-६० ॥ ४, ५. मुण्ड. १-१-५॥ 34 ६. मुण्ड. १-१-७॥ ७. मुण्ड. १-१-८॥ ८. मुण्ड. १-१-९॥ ९. छा. ६.२.३, ते. आन. ६॥ For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये [म.१. सार्वझ्यसत्यसङ्कल्पत्वादिकमुक्तम्। सर्वज्ञात्सत्यसङ्कल्पात्परमाणोऽक्षरादेतत् कार्याकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते। १"तदेतत्सत्यम्" इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते । १"मन्त्रेषु कर्माणि कवयो यान्यपश्यस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामाः" इति सार्वझ्यसत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्माप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुम्सामावसु कविभिदृष्टानि वर्णाश्रमोचितानि तेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति १"एष वः पन्थाः" इत्यारभ्य २"एष वः पुण्यस्सुकृतो ब्रह्मलोकः" इत्यन्तेन कर्मानुष्ठानप्रकार, श्रुतिस्मृतिचोदितेषु कर्मखेकतरकर्मवैधुर्येऽपीतरेषामनुष्ठितानामपि निष्फलत्वम् , अयथानुष्ठितस्य चाननुष्ठितसमत्वम् अभिधाय ३"प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति"इत्यादिना फलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्तिमुक्त्वा ४"तपश्श्रद्धे ये ह्युपवसन्ति" इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनानुष्ठितं कर्म ब्रह्मप्रासये भवतीति प्रशस्य ५"परीक्ष्य लोकान्" इत्यादिना केवलकर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय"तदेतत्सत्यं यथा सुदीप्तात्"इत्यादिना "सोऽविद्यापन्थिविकिरतीह सोम्य" इत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषस्यानुक्तैस्वरूपगुणैस्सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम् , तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय ८"आविस्सभि - - - १. मुण्ड. १-२-१. २. मुण्ड, १-२-६॥ १. मुण्डा, १-२-७॥ ४. मुण्ड, १-२-११॥ ५. मुण्ड. १-२-१२॥ ६.मुण्ड. २.१-१॥ ७. मुण्ड. २-१-१०॥८. मुण्ड,२-२-१॥ For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] अदृश्यत्वादिगुणकाधिकरणम् हितम्" इत्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरुषात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवाधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारम् उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योपसंहृतम् । अत एवं विशेषणाद्भेदव्यपदेशाच्च नास्मिन्प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते ॥ २३७ भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते । १“दिव्यो मूर्त: पुरुषस्सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमना शुभ्रो यक्षरात्परतः परः" इत्यादिभिः अक्षरादव्याकृतात्परो यस्समष्टिपुरुषः तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशब्दाभिहितः परमात्मेत्यर्थः । अश्नुत इति वा, न क्षरतीति वाऽक्षरम् । तदव्याकृतेऽपि स्वविकारव्यातया वा महदादिवनामान्तराभिलापयोग्यक्षरणाभावाद्वाऽक्षरत्वं कथचिदुपपद्यते ॥ २३ ॥ रूपोपन्यासाच्च । १ । २ । २४ ॥ 266. २" अर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाविवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा" इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव सम्भवति; अतश्च परमात्मा ॥ २४ ॥ इति श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ For Private And Personal Use Only ~ (वेदान्तसारे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ) अदृश्यत्वादिगुणको धर्मोक्तेः । १ । २ । २२ ॥ ३" अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यम्" इत्यारभ्य ४ यद्भुत १. मु. २-१-२. २. मु. २-१-४ ॥ ३. ४, मु. १-१-५-६ ॥ Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ वेदान्तदीपे [म. २. योनिं परिपश्यन्ति धीराः " १" अक्षरात् परतः परः " इत्यादौ प्रधानात्प्रत्यगात्मनश्च अर्थान्तरभूतः परमात्मा प्रतिपाद्यते, २" यस्सर्वशस्सर्ववित्" इत्यादिधर्मोक्तेः ॥ २२ ॥ विशेषण भेदव्यपदेशाभ्याञ्च नेतरौ । १।२।२३ ॥ Acharya Shri Kailassagarsuri Gyanmandir एकविज्ञानेन सर्वविज्ञानरूपविशेषणव्यपदेशान्न प्रधानम् १" अक्षरात् परतः परः" इति प्रधानात्परतः प्रत्यगात्मनोऽपि पर इति भेदव्यपदेशात्, न प्रत्यगात्मा च । अथवा सामानाधिकरण्येन परतोऽक्षरात् पञ्चविंशकात् पर इति भेदव्यपदेशः ॥ २३॥ रूपोपन्यासाच्च । १ । २ । २४ ॥ ३“अग्निर्मूर्धा” इत्यादिना त्रैलोक्यशरीरोपन्यासाच्च परमात्मा ॥ २४ ॥ इति श्रीवेदान्तसारे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ( वेदान्तदीपे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ०० १. मु. २-१-२ ॥ २. सु. १-१-९ ॥ अदृश्यत्वादिगुणको धर्मोक्तेः । १ । २ । २२ ॥ आथर्वणे - ४' अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यम्" इत्यारभ्य, ५' यद्भूतयोनिं परिपश्यन्ति धीराः "१" अक्षरात्परतः परः" इत्यादौ किं प्रधानपुरुषौ प्रतिपाद्येते ? उत परमात्मैवेति संशयः । प्रधानपुरुषाविति पूर्वः पक्षः । पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयाचेतनं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते। तथा "अक्षरात्परतः परः" इति च तस्याधिष्ठाता पुरुष एवेति । राद्धान्तस्तु — उत्तरत्र २" यस्सर्वज्ञ स्सर्ववित्" इति प्रधानपुषयोरसम्भावितं सार्वज्ञ्यमभिधाय २" तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते" इति सवंशात्सत्यसङ्कल्पाज्जगदुत्पत्तिश्रवणात्पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम् १" अक्षरात्परतः परः" इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञायते । ३. मु. २-१-४॥ ४. ५. मु. १-१-५, ६ ॥ For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] वैश्वानराधिकरणम्. २६९ सूत्रार्थस्तु — अदृश्यत्वादिगुणकः परमात्मा, सर्वज्ञत्वादितद्धर्मोक्तेः ॥ २२ ॥ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ । १ । २ । २३॥ विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरम् एकविज्ञानेन सर्वविज्ञानादिना ? तथा १" अक्षरात्परतः परः" इति ; अक्षरात् अव्याकृतात् परतो ऽवस्थितात्पुरुषात् पर इति पुरुषाच्चास्य भूतयोन्यक्षरस्य भेदो व्यपदिश्यते । अतश्च न प्रधानपुरुषौ ; अपितु परमात्मैवात्र निर्दिष्टः ॥ २३॥ Acharya Shri Kailassagarsuri Gyanmandir रूपोपन्यासाच्च । १ । १ । २४ ॥ २‘'अग्निर्मूर्धा” इत्यादिना समस्तस्य चिदचिदात्मकस्य प्रपञ्चस्य भूतयो - न्यक्षररूपत्वेनोपन्यासाश्चायमदृश्यत्वादिगुणकः परमात्मा ॥ २४ ॥ इति वेदान्तदीपे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ~~~~~~~( श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम् ।। ६ ।। ) ----- वैश्वानरस्साधारणशब्दविशेषात् । १।२।२५ ॥ इदमामनन्ति च्छन्दोगाः ३" आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि " इति प्रक्रम्य ४ " यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति । तत्र सन्देहः - किमयं वैश्वानर आत्मा, परमात्मेति शक्यनिर्णयः, उत न- इति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ? वैश्वानरशब्दस्य चतुर्ष्वर्थेषु प्रयोगदर्शनात् – जाठराग्नौ तावत् ५" अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति" इति ; महाभूततृतीये च ६" विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमहामकृण्वन्" इति ; देवतायां च “वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः" इति परमात्मनि च " तदात्मन्येव हृदयेऽग्नौ १. मु. २-१-२ ॥ २. मु. २-१-४ ॥ ३. छा. ५-११-६ ॥ ४. छा. ५-१८-१ ॥ ५. बृ. ७-९-१ ॥ ६. ७. यजु. का. १-५-११ ॥ ८. अष्टक ३. प्रश्न- ११ - अनु-८ ॥ For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० श्रीशारीरकमीमांसामाग्ये भि.१. वैश्वानरे प्रास्यत्"इति,१“स एष वैश्वानरो विश्वरूपः प्राणोऽनिरुदयते" इति च। वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति ॥ एवं प्राप्तेऽभिधीयते-वैश्वानरस्साधारणशब्दविशेषात्-वैश्वानरः पर एवात्मा, कुतः? साधारणशब्दविशेषात्-विशेष्यत इति विशेष:साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैधविशेष्यमाणत्वादित्यर्थः । तथाहि-औपमन्यवादयः पञ्चेमे महर्षयस्समेत्य २“को न आस्मा किं ब्रह्म"इति विचार्य ३“उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः। स चोद्दालक एतान्वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा४"तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्पतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इति । ते चोदालकषष्ठास्तमश्वपतिमभ्याजग्मुः । स च तान्महर्षीन्यथाई पृथगभ्यर्च्य५"न मे स्तेनः"इत्यादिना५"यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इत्यन्तेनाऽत्मनो व्रतस्थतया प्रतिग्रहयोग्यता ज्ञापयनेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य५“यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भवन्तः" इत्यवोचत् । ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रहीत्यवोचन् । तदेवं २“को न आत्मा किं ब्रह्म" इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानस्तज्ज्ञमन्विच्छ. द्भिवैश्वानरात्मज्ञसकाशमागम्य पृच्छयमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवा१. प्रश्नो. १-७॥ २. छा. ५-११-१॥ ४. छा. ५-११-४ ॥ १. छा. ५.११-२॥ ५. छा. ५-११-५ ॥ For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२.] वैश्वानराधिकरणम्. ર૭૨ भिधत्त इति विज्ञायते; किश्च १“स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" २ “तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ॥ २५॥ इतश्च वैश्वानरः परमात्मास्मर्यमाणमनुमानं स्यादिति।१।२।२६॥ युप्रभृति पृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणं—प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमानलिङ्गमित्यर्थः । इतिशब्दः प्रकारवचनः; इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा आथर्वणे ३“अनिर्मूर्धा चक्षुषी चन्द्रसूर्यो दिशश्श्रोत्रे वाग्विताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्यां पृथिवी ह्येष सर्वभूतान्तरात्मा" इति । अग्निरिह झुलोकः, ४"असौ वै लोकोऽग्निः"इति श्रुतेः । स्मरन्ति च मुनयः ५" द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूयौं च नेते । दिशश्श्रोत्रे विद्धि पादो क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता" इति, ६“यस्याग्निरास्य धौमूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्वचर्दिशश्श्रोतं तस्मै लोकात्मने नमः" इति च । इह च धुप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते । तथा हि-तैरौपमन्यवप्रभृतिभिर्महर्षिभिः ७'आत्मानमेवेमं वैश्वानरं सम्पत्यध्येषि तमेव नो हि" इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चित् ज्ञातं किश्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र १"औप१. छा. ५-१८-१॥ २. छा. ५-२४-३ ॥ ५. ६. भारते-शान्तिपर्व-रावधर्म. ३. मु. २.१.४॥ ४. 1. ८.२.९ ॥ ४७-७०॥ ७. छा. ५-११-६॥ For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ श्रीशारीरकमीमांसामाग्ये [म... मन्यव कं त्वमात्मानमुपास्से" इति पृष्टे १"दिवमेव भगवो राजन्" इति तेन चोक्ते दिवि तस्य पूर्णवैश्वानरात्मबुद्धिं निवर्तयन्वैश्वानरस्य द्यौर्मूधैति चोपदिशंस्तस्या वैश्वानरांशभूताया दिवः सुतेजा इति गुणनामधेयं प्राचिख्यपत् । एवं सत्ययज्ञादिभिरादित्यवाय्वाकाशापृथिवीनामेकैकेनैकैकमुपास्यमानतया कथितानां 'विश्वरूपः, पृथग्वा , बहुलो, रयिः, प्रतिष्ठा' इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षुःमाणसन्देहवस्तिपादावयवत्वं चोपदिष्टम् । सन्देहो मध्यकाय उच्यते । अत एवम्भूतामूर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एव॥२६॥ पुनरप्यनिर्णयमेवाशङ्कय परिहरतिशब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥ यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति , तन्न, शब्दादिभ्योऽन्तःप्रतिष्ठानाच जाठरस्याप्यग्नेरिह प्रतीयमानत्वात् । शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे २ "स एषोऽग्निर्वैश्वानरः" इति वैश्वानरसमानाधिकरणतयाऽग्निरिति श्रूयते; अस्मिन्प्रकरणे च ३"हृदयं गाईपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः" इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते । ४“तयद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा" इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते । तथा वैश्वानरस्यास्मिन्पुरुषेऽन्तःप्रतिष्ठानं वाजसनेयिनस्समामनन्ति ५"स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद" इति । अतोऽग्निशब्दसामानाधिकरण्याद१. छा. ५.१२.१ ॥ ३. छा. ५-१८-२॥ २. प्रश्न. १-७, अर्थनिर्देशोऽयम् ॥ ४. छा, ५-१९-१ ॥ ५. For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २] वैश्वानराधिकरणम् २७३ मित्रेतापरिकल्पनात्माणाहुत्याधारभावादन्तःप्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत्____तन्न, तथा दृष्टयुपदेशात्-पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात् । अनिशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते ; अपितु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत्-असम्भवात्-जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात् । बैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थः । यथोक्तं भगवता १“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यानं चतुर्विधम्" इति जाठरानलशरीरो भूत्वेत्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते। किंच पुरुषमपिचैनमधीयते वाजसनेयिनः २“स एषोमिर्वैश्वानरो यत्पुरुषः" इति ; नहि जाठरस्य केवलस्य पुरुषत्वम् , परमात्मन एव हि निरुपाधिकं पुरुषत्वम् , यथा ३"सहस्रशीर्षा पुरुषः" ३"पुरुष एवेदं सर्वम्" इत्यादौ ॥ २७ ॥ अत एव न देवता भूतञ्च । ११२॥२८॥ उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः॥ २८॥ साक्षादप्यविरोधं जैमिनिः । १॥२॥२९॥ वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम् , तथैव परमात्मन उपास्यत्वं चोक्तम् ! जैमिनिस्त्वाचार्यों वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते ॥ १.गी. १५.१४॥ २. । ३. पुरुषम् ॥ - 35 For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ श्रीशारीरकमीमांसामाध्ये अ. १. एतदुक्तं भवति-यथा वैश्वानरशब्दस्साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते ; एवमग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन्प्रकरणे परमात्मासाधारणधर्मविशेषितः परमात्मानमेवाभिधत्त इति ॥ २९ ॥ १“यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्" इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते-तत्राह अभिव्यक्तेरित्याश्मरथ्यः।१।२।३० ॥ उपासकाभिव्यक्त्यर्थ प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते । 'चौमूर्धा आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ'इति झुप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वम् कृत्स्नमभिव्याप्तवता विगतमानस्य हभिव्यक्तेरेव हेतोभवति ॥३०॥ मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत्त त्राह अनुस्मृतेर्बादरिः।१।२।३१ ॥ तथोपासमार्थमिति बादरिराचार्यों मन्यते । १“यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति ब्रह्मप्राप्तये झपासनमुपदिश्यते । एतमेवमितिउक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदनं भोग्यं तदत्ति-सर्वत्र वर्तमानं खत एवानवधि १. छा. ५-१८-१॥ For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२.] वैश्वानराधिकरणम्. २७५ कातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते, तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ॥ ३१ ॥ __यदि परमात्मा वैश्वानरः, कथं तर प्रभृतीनां वेद्यादित्वोपदेशः, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राहसम्पत्तेरिति जैमिनिस्तथा हि दर्शयति।१।।३२॥ ___ अस्य परमात्मन एव वैश्वानरस्य थुप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनायायमुरम्मभृतीनां वेदित्वाद्युपदेश इति जैमिनिराचार्यों मन्यते। तथाहि-परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्रसम्पत्तिं च दर्शयतीयं श्रुतिः । १" स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति तद्ययेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति ॥ आमनन्ति चैनमस्मिन् । १।२।३३॥ एनं परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च २" तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः" इत्यादिना। अयमर्थः-३“यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय३" सर्वेषु लोकेषु" इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोतं २"तस्य ह वा एतस्य" इत्यादिनोपदिशति ; यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरस्तस्यावयवभूतानग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपास१. छा. ५-२४-१॥ २. छा. ५-१८-२॥ ३. छा. ५-१८-१॥ For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ वेदान्तसारे [म.१. कशरीरे मूर्धादिपादान्तेषु सम्पादयति । मुर्धेव सुतेजाः-उपासकस्य मूर्धेव परमात्ममूर्धभूता द्यौरित्यर्थः। चक्षुर्विश्वरूपः-आदित्य इत्यर्थः । प्राणः पृथग्वा-वायुरित्यर्थः। सन्देहो बहुल:-उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः। पृथिव्येव पादौ-अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः। एवमुपासकः स्वशरीरे परमात्मानं बैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रोपकरणभूतान्परिकल्प्य प्राणाहुतेश्वाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति १“उर एव वेदिौमानि बहिर्हदयं गाईपत्यः" इत्यादिनोपदिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ।। ३३ ।। ___इति श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः॥ -..(वेदान्तसारे वैश्वानराधिकरणम् ॥ ६ ॥)..वैश्वानरस्साधारणशब्दविशेषात्। १॥२॥२५॥ २"आत्मानमेवेमं वैश्वानरम्" इत्यादौ वैश्वानरः परमात्मा, जाठराग्न्यादिषु साधारणस्यापि वैश्वानरशब्दस्य अस्मिन्प्रकरणे परमात्मासाधारणैः सर्वात्मकत्वब्रह्मशब्दादिभिर्विशेष्यमाणत्वात् ॥ २५॥ स्मर्यमाणमनुमानं स्यादिति।१।२।२६॥ धुलोकप्रभृति पृथिव्यन्तं रूपम् ३"अग्निर्मूर्धा"इत्यादिषतम् , अत्र प्रत्य. भिज्ञायमानमस्य परमात्मत्वे अनुमानम्-लिङ्गमित्यर्थः ॥२६॥ १. छा, ५-१८-२ ॥ २. छा, ५-११-६॥ ३. मुण्ड. २.१.४ ॥ For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ पा. २.] वैश्वानराधिकरणम् शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥ १"स एषोऽग्निर्वैश्वानरः" इति अग्निशब्दसामानाधिकरण्यात् प्राणाहुत्याधारत्वादिभिः २"पुरुषेऽन्तः प्रतिष्ठितम्" इत्यादेश्च नायं परमात्मेति चेत्नैतत् , जाठराग्निशरीरकत्वेनोपास्यत्वोपदेशात् केवलजाठराग्नेः त्रैलोक्यशरी रकत्वाद्यसम्भवाश्च। १"स एषोऽग्निर्वैश्वानरो यत्पुरुषः" इत्येनं वैश्वानरं पुरुषमप्यधीयते वाजिनःनिरुपाधिकपुरुषशब्दश्च परमात्मनि नारायण एव, ३"सहस्रशीर्षम्" इत्यारभ्य,३"विश्वमेवेदं पुरुषः"इत्यादिषु प्रसिद्धः॥ २७ ॥ अत एव न देवता भूतञ्च । १॥२॥२८॥ यतोऽयं वैश्वानरः त्रैलोक्यशरीरः, पुरुषशब्दनिर्दिष्टश्च, ततोऽयं नाग्न्याख्यदेवता, तृतीयमहाभूतञ्च ॥ २८॥ साक्षादप्यविरोधं जैमिनिः।१।२।२९॥ नावश्यमग्निशरीरकत्वेन उपास्यत्वायेदमग्निशब्दसामानाधिकरण्यम् ,भग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षाद्वत्तेस्सामानाधिकरण्याविरोध जैमिनिराचार्यो मन्यते ॥ २९ ॥ अभिव्यक्तरित्याश्मरथ्यः । १॥२॥३०॥ ४“यस्त्वेतमेवं प्रादेशमात्रम्' इत्यनवच्छिन्नस्य छुप्रभृतिपरिच्छिन्नत्वम् उपासकाभिव्यक्त्यर्थमिति आश्मरथ्यः ॥ ३० ॥ अनुस्मृतेर्बादरिः।१।२।३१॥ धुप्रभृतिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वकल्पनं तथाऽनुस्मृत्यर्थब्रह्म प्रतिपत्तय इति बादरिः ॥ ३१ ॥ सम्पत्तेरिति जैमिनि स्तथा हि दर्शयति।।२॥३२॥ ५"उर एव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्यः” इत्यादिना उपासकहदयादीनां वेद्यादित्वकल्पनं विद्याभूतायाः प्राणाहुतेः अग्निहोत्रत्वसम्पादनार्थ १, २॥ ३. पुरुषस ॥ ४. छा. ५-१८-१॥ ५. छा. ५-१८-२॥ For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ वेदान्तदीपे मिति जैमिनिः।दर्शयति च श्रुतिः-१“य एतदेवं विद्वानग्निहोत्रं जुहोति"इति। एते पक्षास्स्वीकृताः । पूजार्थमाचार्यग्रहणम् ॥ ३२॥ आमनन्ति चैनमस्मिन् । १।२।३३॥ एनम् --- परमात्मानम् , अस्मिन्-उपासितृशरीरे प्राणाहुतिवेलायाम् अनुसन्धानार्थे २"तस्य ह वा एतस्य...मूर्धेव सुतेजाः" इत्यादि आमनन्तिच; उपासकस्य मूर्धादिरेवास्य परमात्मनो मूर्धादिरित्यर्थः ॥ ३३॥ इति श्रीवेदान्तसारे वैश्वानराधिकरणम् ॥ ६ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य द्वितीयः पादः॥ ___ ---(वेदान्तदीपे वैश्वानराधिकरणम् ॥ ६॥)-.-. वैश्वानरस्साधारणशब्दविशेषात्। १।२।२५॥ छान्दोग्ये ३"आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि" इत्यारभ्य ४“यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इत्यत्र किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः? उत नेति संशयः। अशक्यनिर्णय इति पूर्वः पक्षः, वैश्वानरशब्दस्य जाठराग्नौ, भूततृतीये, देवताविशेषे परमास्मनि च वैदिकप्रयोगदर्शनात् ; अस्मिन् प्रकरणे सर्वेषां लिङ्गोपलब्धेश्च । राद्धान्तस्तु-५"को न आत्मा किं ब्रह्म"इति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रक्रमात्, उत्तरत्र च, ६"आत्मानं वैश्वानरम्" इति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाश्च वैश्वानरात्मा सर्वेषां जीवानामात्मभूतं परं ब्रह्मेति वि. शायते । सूत्रार्थः--वैश्वानरशब्दनिर्दिष्टः परमात्मा,वैश्वानरशब्दस्यानेकार्थसा. धारणस्याप्यस्मिन्प्रकरणे परमात्मासाधारणविशेषणैस्सर्वात्मत्वादिभिः विशेज्यमाणत्वात् । विशेष्यतइति विशेषः ॥ २५ ॥ स्मर्यमाणमनुमानं स्यादिति।१।२।२६॥ स्मर्यमाणं-प्रत्यभिज्ञायमानम् , अनुमीयतेऽनेनेति अनुमानम् , इतिशब्दः प्रकारवचनः, इत्थं रूपं स्मर्यमाणं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । धुप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिष्टम् ७"अग्निर्मूर्धा १. छा. ५-२४-२ ॥ २. छा. ५.१८-२ ॥ ४. छा. ५-१८-१ ॥ ५. छा. ५-११-१॥ ३. छा. ५-११-६ ॥ ६. छा. ५-११-२ ॥ ७. मुण्ड. २.१.४॥ For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] वैश्वानराधिकरणम् २७९ चक्षुषी चन्द्रसूर्यो" १"द्यां मूर्धानं यस्य विप्रा वदन्ति" इति श्रुतिस्मृतिप्रसिद्ध परमपुरुषरूपमिह प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे लिङ्गं स्यादित्यर्थः ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥ अनिर्णयमाशङ्कय परिहरति-शब्दादिभ्योऽन्तःप्रतिष्ठानाच-इति। शब्दस्तावत् वाजिनां वैश्वानरविद्याप्रकरणे२ "स एषोऽग्निर्वैश्वानरः" इति वैश्वानरसमानाधिकरणोऽग्निशब्दः । अस्मिन् प्रकरणे च ३"हृदयं गार्हपत्यः" इत्यारभ्य वैश्वानरस्य हृदयादिस्थानस्याग्नित्रयपरिकल्पनं प्राणाहुत्याधारत्वञ्चेत्यादि प्रतीयते । वाजिनामपि ४"स यो हवैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद" इति वैश्वानरस्य शरीरान्तःप्रतिष्टितत्वं प्रतीयते । अतः एतैर्लि वैश्वानरस्य जाठराग्नित्वप्रतीते र्नायं परमात्मेति शक्यनिर्णय इति चेत्-तभा तथा दृष्टयुपदेशात् , दृष्टिः - उपासनम् , तथोपासनोपदेशादित्यर्थः; जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपासनं ह्यत्रोपदिश्यते-५"अयमग्निर्वैश्वानरः पुरुषेऽन्तः प्रतिष्ठितः” इत्यादौ। कथमवगम्यत इति चेत्-असम्भवात् ; केवलजाठराग्नेस्त्रैलोक्यशरीरत्वाद्यसम्भवात् । पुरुषमपि चैनमधीयते; च शब्दः प्रसिद्धौ , वाजिनस्तत्रैव ६ “स एषोऽग्निर्वैश्वानरो यत्पुरुषः" इति ए. नं वैश्वानरं पुरुषमपि ह्यधीयते । पुरुषश्च परमात्मैव ७"पुरुष एवेदं सर्वम्" "पुरुषान्न परं किञ्चित्" इत्यादिषु प्रसिद्धः ॥ २७॥ अत एव न देवता भूतश्च । १।२।२८॥ यतत्रैलोक्यशरीरोऽसौ वैश्वानरः, यतश्च निरुपाधिकपुरुषशब्दनिर्दिधः; अत एव नानपाख्या देवता, महाभूततृतीयश्च वैश्वानरश्शनीयः॥२८॥ साक्षादप्याविरोधं जैमिनिः।१।२।२९॥ अग्निशरीरतया वैश्वानरस्योपासनार्थमग्निशब्दसामानाधिकरण्यनिर्देश इ. स्युक्तम् । विश्वेषां नराणां नेतृत्वादिना सम्बन्धेन यथा वैश्वानरशब्दः परमात्मनि वर्तते, तथैवाग्निशब्दस्यापि अग्रनयनादिना योगेन साक्षात्परमात्मनि वृ सौ न कश्चिद्विरोध इति जैमिनिराचार्यों मन्यते ॥२९॥ १॥ २॥ १, छा. ५-१८-२॥ ४॥ ५॥ ६॥ ७. पुरुषसू. २॥ ८. कठो. ३. ११॥ - - For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे अभिव्यक्तरित्याश्मरथ्यः । १।२।३०॥ १"यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम्" इति थुप्रभृतिपृ. थिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वमनवच्छिन्नस्य परमात्मनो वै. श्वानरस्य कथमुपपद्यत इत्यत्राह-अनवच्छिन्नस्यैव परमात्मनः उपासनाभिव्यक्स्यर्थ छुप्रभृतिपृथिव्यन्तप्रदेशपरिच्छिन्नत्वमिति आश्मरथ्य आचार्यों मन्यते॥ अनुस्मृतेर्बादरिः। १।२।३१ ॥ धुप्रभृतिप्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मनो शुभ्वादित्यादीनां मूर्धाद्यवयवकल्पनं किमर्थमिति चेत् तत्राह–अनुस्मृतिः-उपासनम् , ब्रह्मप्राप्तये तथोपासनार्थ मूर्धप्रभृतिपादान्तदेहपरिकल्पनमिति बादरिराचार्यो मन्यते ॥ अयं वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्य उपदिश्यते चेत्-२"उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः" इत्यादिना उपासकशरीरावयवानां गा. हपत्यादिपरिकल्पनं किमर्थमित्यत्राहसम्पत्तेरिति जैमिनिस्तथा हि दर्शयति।।२।३२॥ वैश्वानरविद्याङ्गभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोबत्वसम्पादनाय गार्हपत्यादिपरिकल्पनमिति जैमिनिराचार्यों मन्यते । तथाह्यग्निहोत्रसम्पत्तिमेव दर्शयतीयं श्रुतिः प्राणाहुतिं विधाय,३"अथ य एवं विद्वानग्निहोत्रं जुहोति" इति । उक्तानामर्थानां पूजितत्वख्यापनायाचार्यग्रहणम् ॥ ३२॥ आमनन्ति चैनमस्मिन् । १।२।३३॥ एनं परमपुरुषं वैश्वानरं शुभ्वादिदेहम् , अस्मिन् उपासकदेहे प्राणाग्नि होत्रेणाराध्यत्वाय आमनन्ति हि २ "तस्य ह वा एतस्य वैश्वानरस्य मूर्धेव सुते. जाः" इत्यादिना । उपासकमूर्धादिपादान्ता एव धुप्रभृतयः परमपुरुषस्य मूर्धादय इति प्राणाग्निहोत्रवेलायामनुसन्धेया इत्यर्थः ॥ ३३ ॥ ___इति श्रीवेदान्तदीपे वैश्वानराधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य द्वितीयः पादः॥ १. छा. ५, १८. १॥ | २. छा. ५-१८-२ ॥ ३. छा. ५-२४-२॥ For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-तृतीयपादे-झुम्वाद्यधिकरणम् ॥१॥).. द्युभ्वाद्यायतनं स्वशब्दात् । १॥३॥१॥ आथर्वणिका अधीयते १“यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इति । तत्र संशयः-किमयं धुपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीवः, उत परमात्मा-इति । किं युक्तम् ? जीव इति। कुतः-१“अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः" इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं पृथिव्याद्यायतनं 'यत्र'इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्वा, पुनरपि “स एषोऽन्तश्चरते बहुधा जायमानः" इति तस्य बहुधा जायमानत्वं चोच्यते ; नाडीसम्बन्धो देवादिरूपेण बहुधाजायमानत्वं च जीवस्यैव धर्मः। अस्मिन्नपि श्लोके १"ओतं मनस्सह प्राणैश्च सर्वैः" इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्य - १. मु. २-२.५ ,६ ॥ For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८२ श्रीशारीरकमीमांसाभाष्ये मानं जीवधर्म एव । एवं जीवत्वे निश्चिते सति पृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यम् — इति ॥ • (सिद्धान्तः ) - १. मु. २-२-५ ॥ २. पुरुषसू ॥ ३. मु. २-२. ७॥ Acharya Shri Kailassagarsuri Gyanmandir एवं प्राप्ते प्रचक्ष्म - शुभ्वाद्यायतनं स्वशब्दात् - धुपृथिव्यादीनामायतनं परं ब्रह्मः कुतः स्वशब्दात् परब्रह्मासाधारणशब्दात् । १" अमृतस्यैष सेतुः" इति परस्य ब्रह्मणोऽसाधारणशब्दः । २" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते " इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्व बन्धनार्थत्वात् सेतुः - अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः - नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः-संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन्ब्रह्मणि मुख्यवृत्तः, आमोतीति ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति । अतस्सोऽपि तस्यैव शब्दः । ३" यस्सर्वज्ञस्सर्ववित्" इत्यादयश्चोपरितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि सम्भवति ४' सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्" इत्यारभ्य ४ " तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इति श्रवणात् । ५" बहुधा जायमानः" इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते -२ “अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्" इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि ६" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया " ४. तै. नारायणे. १३. अनु ॥ ५. मु. २-२-६ ॥ ६. गी. ४-६ ॥ For Private And Personal Use Only [अ. १. Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८३ पा. ३.] पुभ्वाधधिकरणम् इति । मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते॥ इतश्च परमपुरुष:मुक्तोपमृप्यव्यपदेशाच्च । १।३।२॥ अयं धुपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते "यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" २“यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति । संसारबन्धनाद्विमुक्ता एव हि विधृतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिमुक्ताश्च । पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्तनामरूपभाक्त्वमेव हि संसारः। अतो विधूतपुण्यपानिरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापनैः प्राप्यतया निर्दिष्टो द्युपृथिव्यायायतनभूतः पुरुषः परं ब्रह्मैव ॥ २॥ परब्रह्मासाधारणशब्दादिभिः परमेव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारणशब्दाभावाचायं पर एवेत्याहनानुमानमतच्छब्दात्प्राणच्च । १।३।३॥ _यथाऽस्मिन्प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम् । एवं प्राणभृदपीत्यर्थः। अनुमीयत इत्यनुमानं परोक्तं प्रधानमुच्यते , अनुमानप्रमितत्वादानुमानमिति वा; अतच्छब्दात्-तद्वाचिशब्दाभावादित्यर्थः । 'अर्थाभावे यदव्ययम्' इत्यव्ययीभावः ॥ ३ ॥ इतश्चायं न प्रत्यगात्मा भेदव्यपदेशात् । १॥३॥४॥ १.मु. ३.१-३॥ २.मु.३-२-८॥ For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ वेदान्तसारे "समाने वृक्षे पुरुषो निमनोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते। अनीशया भोग्यभूतया प्रकृत्या मुद्यमानश्शोचति जीवः; अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणम् , अस्य ईश्वरस्य महिमानं च निखिलजगनियमनरूपं पश्यति । तदा वीतशोको भवति ॥४॥ प्रकरणात्।१।३।५॥ प्रकरणं चेदं परस्य ब्रह्मण इति २ "अदृश्यत्वादिगुणको धर्मोक्तेः" इत्यत्रैव प्रदर्शितम् । नाडीसम्बन्धबहुधाजायमानत्वमन माणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्म ॥ ५ ॥ स्थित्यदनाभ्याञ्च । १।३।६॥ ३"द्वा सुपणा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इत्येकस्य कर्मफलादनम्, अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्स्थितिमात्र प्रतिपाद्यते । तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वोत्मा घुभवाद्यायतनं भवितुमर्हति , न पुनः कर्मफलमदन् शोचन्मत्यगात्मा । अतो शुभ्वाद्यायतनं परमात्मेति सिद्धम् ॥ इति श्रीशारीरकमीमांसाभाष्ये शुभ्वाधिकरणम् ॥ १ ॥ वेदान्तसारे-शुभ्वाद्यायतनं वशब्दात् ॥ ४" यस्मिन्यौः पृथिवी चान्तरिक्षम्" इत्यादौ धुपृथिव्यादीनामायतनम् आधारः परमपुरुषः, १"तमेवैकं जानथाऽत्मानम्" इत्यात्मशब्दात् । निरुपाधिकात्मत्वं हि परमपुरुषस्यैव। १. थे.४-७,मु. ३-१-२ ॥२, शारी.१-२-२२॥ | ३. थे. ४-६, मु.३-१-१॥४.मु.२.२.५॥ For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.३.] शुभ्वायधिकरणम् १ "अमृतस्यैष सेतुः" इति तदेव द्रढयति ; २ "बहुधा जायमानः" इति परत्वं न निवारयति ; ३ "अजायमानो बहुधा विजायते” इति कर्मभिरजायमानस्यैव आश्रितवात्सल्यात् छन्दतो जननं तस्य हि श्रूयते ॥१॥ मुक्तोपमृप्यव्यपदेशाच्च ॥ ४"तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" ५"तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति च पुण्यपापविनिर्मुक्तानां प्राप्यतया व्यपदेशाचायं परः॥२॥ नानुमानमतच्छब्दात्माणभृच्च ॥ यथा न प्रधानमतच्छब्दात्, तथा न प्राणभृदपीत्यर्थः ॥ ३॥ भेदव्यपदेशात् ॥ ६"अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्" इत्यादिना प्रत्यगात्मनो भेदेन व्यपदेशाचायं परः॥४॥ प्रकरणात् ॥ ७ “अथ परा यया तदक्षरमधिगम्यते” इत्यादि परस्य हीदं प्रकरणम् ॥५॥ स्थित्यदनाभ्याश्च ॥ ८ "तयोरन्यः पिप्पलं स्वात्ति अनननन्यो अभिचाकशीति" इति जीवस्य कर्मफलादनमभिधाय, अननतो दीप्यमानस्य स्थित्यभिधानाञ्चायं परमात्मा ॥६॥ ___ इति वेदान्तसारे शुभ्वाद्यधिकरणम् ॥ २ ॥ वेदान्तदीपे-शुभ्वाद्यायतनं वशब्दात् ॥ आथर्वणे ९ “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथाऽत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इत्यत्र |पृथिव्यादीनामायतनं किं जीवः! उत परमात्मेति संशयः । जीव इति पूर्वः पक्षः, मनःप्रभृतीन्द्रियाधारत्वश्रुतेः, उत्तरत्र नाडीसम्बन्धात् , जायमानत्वश्रुतेश्च । राद्धान्तस्तु-निरुपाधिकात्मत्वामृतसेतुत्वयोः परमात्मधर्मयोश्श्रवणात्परमात्मैवायम् । सर्व नियन्तृतया १. मु. २-२-५॥ २. मु. २-२-६॥ ६. मु. ३-१-२, श्वे. ४.६॥ ३. पुरुषसूक्ते. २१॥ ७. मु. १-१-५॥ ८. मु.३.१-१,वे.४.६॥ ४. मु. ३.१.३ ॥ ५. मु. ३-२-८॥ । ९. मु. २-२.५ ॥ For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घेदान्तदीपे [म.१. आप्नोतीति ह्यात्मा? अमृतस्य प्रापकतया सेतुश्च स एव । नाडीसम्बन्धः, बहुधाजायमानत्वञ्च, १"सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्" २ "अजायमानो बहुधा विजायते” इत्यादिषु सर्वसमाश्रयणीयत्वायाजहत्स्वभावस्यैव परमात्मनोऽपि दृश्यत इति । सूत्रार्थस्तु-धुपृथिव्यादीनामायतनं परमात्मा खशब्दात् ॥ १॥ मुक्तोपमृप्यव्यपदेशाच्च ॥ ३" तदा विद्वान्पुण्यपापे विधूय निरजनः परमं साम्यमुपैति” ४"तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दि. व्यम्" इति च बन्धान्मुक्तस्य प्राप्यतया व्यपदेशाचायं परमात्मा ॥२॥ नानुमानमतच्छब्दात्माणभृच्च ॥ आनुमानम् अनुमानगम्यं प्रधानम् । यथा तद्वाचिशब्दाभावात्तदिह न गृह्यते; तथा प्राणभृदपीत्यर्थः । अतश्चायं परमात्मा ॥३॥ भेदव्यपदेशात् ।। ५" अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यस्यन्यमीशम्" इत्यादिना जीवाद्भेदेन व्यपदेशाचायं परमात्मा ॥४॥ प्रकरणात् ॥ ६॥ अथ परा यया तदक्षरमधिगम्यते” इत्यादिना परमात्मन एव प्रकृतत्वात् ॥५॥ स्थित्यदनाभ्याश्च ॥ ७ "तयोरन्यः पिप्पलं स्वाद्वत्त्यनननन्यो अभिचाकशीति" इति कर्मफलमनश्नतः परमात्मनो दीप्यमानतया स्थितेः, जीवस्य कर्मपरवशतया तत्फलादनाच, परमात्मनो जीवाद्भेदावगमात् अमृतसेतुधुभ्वाद्यायतनं न जीवः। ८ "अदृश्यत्वादिगुणकः" इत्यनेन परमात्मत्वे स्थापितेऽपि, नाडीसम्बन्धबहुधाजायमानत्वलिङ्गात् , याऽवान्तरप्रकरणविच्छेदशङ्का, सा निराकृता "धुभ्वाद्यायतनम्" इति वैश्वानरस्य त्रैलोक्यशरीरत्वादिना परमात्मत्वनिर्णय इति मध्ये वैश्वानरविद्या निरूपिता ॥ ६॥ इति वेदान्तदीफे द्युम्वाद्यधिकरणम् ॥ १ ॥ १.ते. नारायणे. ६-११॥ २. पुरुषसक्त. २१ ॥ ३. मु. ३-१-३॥ ४. म. ३-२-८॥ ५. मु. ३-१-२,श्वे. ४. ७॥ ६. मु. १.१५॥ ७. मु. ३-१-१,वे.४.६॥ ८. शारी. १-२-२२ ॥ For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] २८७ भूमाधिकरणम् (श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम् ॥२॥)--- भूमा सम्प्रसादादध्युपदेशात् । १।३।७॥ ___ इदमामनन्ति च्छन्दोगाः१“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यनान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्" इति । अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते । तथा हि पृथ्वादिषु बहुशब्दः पठ्यते ततः २ "पृथ्वादिभ्य इमनिज्वा" इति इमनिमत्यये कृते ३" बहोर्लोपो भू च बहोः इति प्रकृतिप्रत्यययोर्विकारे भूमेति भवति । भूमा - बहुत्वमित्यर्थः । अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्ख्यावाची ; ४“यनान्यत्पश्यति...तदल्पम्" इत्यल्पप्रतियोगित्वश्रवणात् । अल्पशन्दनिर्दिष्टधर्मिप्रतियोगिप्रतिपादनपरत्वादेव धर्मिपरश्च निश्चीयते । न धर्ममात्रपरः। तदेवं भूमेति विपुल इत्यर्थः । वैपुल्यविशेष्यश्वेहात्मेत्यवगतः ५"तरति शोकमात्मवित्" इति प्रक्रम्य भूमविज्ञानमुपदिश्य ६" आत्मैवेदं सर्वम्" इति तस्यैवोपसंहारात् । अत्र संशय्यते-किमयं भूमगुणविशिष्टः प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? ५"श्रुतं ह्येवमे भगवदशेभ्यस्तरति शोकमात्मवित्" इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषूपास्यतयोपदिष्टेषु ७" अस्ति भगवो नाम्नो भूयः" ८ "अस्ति भगवो वाचो भूयः"इत्यादयः प्रश्नाः, ९"वाग्वाव नाम्नो भूयसी" १०"मनो वाव वाचो भूयः" इत्यादीनि च प्रतिवचनानि, प्राणात्माचीनेषु दृश्यन्ते ; १. छा. ७-२४-१॥ । ६. छा. ७. २५. २॥ ७. छा. ७-१-५॥ २. अष्टाध्याय्यां, ५-१-१२२ ॥ ८. छा. ७-२-२॥ . ३. अष्टा. ६-४-१५८ ॥ ९. छा. ७.२-१॥ ४. थाप. १-२-१३ ॥ ५. छा. ७-१-३॥ १०. छा. ७-३.१॥ For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૮ श्रीशारीरकमीमांसाभाष्ये [म. १. प्राणे तु न पश्यामः । अतः प्राणपर्यन्त एवायमात्मोपदेश इति प्रतीयते तेनेह प्राणशब्दनिर्दिष्टः प्राणसहचारी प्रत्यगात्मैवः न वायुविशेषमात्रम् । १"प्राणो ह पिता प्राणो ह माता" इत्यादयश्च प्राणस्य चेतनतामवगमयन्ति; २"पितृहा...मातृहा" इत्यादिना समाणेषु पितृप्रभृतिष्पमर्दकारिणि हिसंकत्वनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्दकारिण्यप्युपक्रोशाभाववचनाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्दिष्टः। अपाणेषु स्थावरेष्वपि चेतनेषूपमर्दभावाभावयोहिंसातदभावदर्शनादयं हिंसायोग्यतया निर्दिष्टः प्राणः प्रत्यगात्मैवेति निश्चीयते । अत एवच अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्दिष्टः पर इति न भ्रमितव्यम्, परस्य हिंसाप्रसङ्गाभावात् , जीवादितरस्य तद्भोग्यभोगोपकरणभूतस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्तस्थितित्वेन प्रत्यगात्मन्येवारनाभिदृष्टान्तोपपत्तेश्च । अयमेव च प्राणशब्दनिर्दिष्टो भूमा; 'अस्ति भगवः प्राणाद्भूयः' इति प्रश्नस्य 'अदो वाव प्राणाद्भूयः' इति प्रतिवचनस्य चाभावाद्भूमसंशब्दनात्माक्प्राणप्रकरणस्याविच्छेदात् । किञ्च प्राणवेदिनोऽतिवादित्वमुक्त्वा तमेव ३"एष तु वा अतिवदति" इति प्रत्यभिज्ञाप्य ३"यस्सत्येनातिवदति" इति तस्य सत्यवदनं प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्यवदनस्य शेषितया पूर्वनिर्दिष्टप्राणयाथात्म्यविज्ञानं ४॥ यदा वै विजानात्यथ सत्यं वदति" इत्युपदिश्य तत्सिद्ध्यर्थं च मननश्रद्धानिष्ठाप्रयत्नानुपदिश्य तदारम्भाय च प्राप्यभूतपाणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपस्य सुखरूपताज्ञानमुपदिश्य तस्य च सुखस्य विपुलता ५" भूमा त्वेव विजिज्ञासितव्यः" इत्युपदिश्यते । तदेवं प्रत्यगात्मन एवाविद्यावियुक्तं रूपं विपुलसुखमित्युपदिष्टमिति ६"तरति १. छा.७-१५-१ ॥ ४. छा. ७-१७॥ २. छा. ७-१५-२॥ ५. छा. ७-२३-१॥ ३. छा. ७.१६॥ । ६. छा. ७-१-३॥ For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] भूमाधिकरणम् २८९ शोकमात्मवित्" इत्युपक्रमाविरोधश्च। अतो भूमगुणविशिष्टः प्रत्यगात्मा, यत एवं भूमगुणविशिष्टः प्रत्यगात्मा, अतएवाहमर्थे प्रत्यगात्मनि १" अहमेवाधस्तादहमुपरिष्टात्" इत्यारभ्य १" अहमेवेदं सर्वम्" इति प्रत्यगात्मनो वैभवमुपदिशति । एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति ॥ ---(सिद्धान्तः)----- __ एवं प्राप्तेऽभिधीयते-भूमा सम्प्रसादादध्युपदेशात्-भूमगुणविशिष्टो न प्रत्यगात्मा ; अपि तु परमात्मा, कुतः ? सम्प्रसादादध्युपदेशात् ; सम्पसादः-प्रत्यगात्मा, २"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इत्युपनिषत्पसिद्धेः। सम्पसादात् प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्योपदेशादित्यर्थः । सत्यशब्दाभिधेयं च परं ब्रह्म । एतदुक्तं भवति -यथा नामादिषु प्राणपर्यन्तेषु पूर्वपूर्वाधिकतयोत्तरोत्तराभिधानात्पूर्वेभ्य उत्तरेषामर्थान्तरत्वम्, एवं प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽधिकतया निर्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव ; सत्यशब्दनिर्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्मैव भूमेत्युपदिश्यते-इति। तदाह वृत्तिकारः३'भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमस्योपदेशात्" इति। प्राणशब्दनिर्दिष्टादधिकतया सत्यस्योपदेशः कथमवगम्यत इति चेत् --" स वा एष एवं पश्यन्नेवं मन्वान एवं विजाननतिवादी भवति" इति प्राणविदोऽतिवादित्वमुक्त्वा ५ "एष तु वा अतिवदति यस्सत्येनातिवदति" इति सत्यवेदित्वेनातिवादिनं तुशब्देन पूर्वस्मादतिवादिनो व्यावर्तयति । अत एव ५"एष तु वा अतिवदति" इत्यत्र प्राणातिवादिनो १. छा. ७.२५. १॥ ४. छा. ७. १५. ४॥ २. छा. ८. १२. २ ॥ ५. छा. ७. १६-१॥ ३. वृत्तिः ॥ 37 For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० श्रीशारीरकमीमांसाभाष्ये [म. १. न प्रत्यभिज्ञा । अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्माणादधिकमिति विज्ञायते ॥ ननु च प्राणवेदिन एव सत्यवदनमङ्गत्वेनोपदिष्टम् , अतः प्राणप्रकरणाविच्छेद इत्युक्तम् । नैतद्युक्तम्-तुशब्देन ह्यतिवाद्येवान्यः प्रतीयते, न तु तस्यैवातिवादिनस्सत्यवदनाङ्गविशिष्टतामात्रम् । १“एष तु वा अग्निहोत्री यस्सत्यं वदति" इत्यादिष्वग्निहोत्र्यन्तराप्रतीतेः, प्रतीतस्यैवाग्निहोत्रिणस्सत्यवदनाङ्गविधानमिति क्लिष्टा गतिराश्रीयते ; अत्र त्वतिवाद्यन्तरत्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते । सत्यशब्दश्च २“सत्यं ज्ञानमनन्तं ब्रह्म"इत्यादिषु परस्मिन्ब्रह्मणि प्रयुक्तः; अतस्तनिष्ठस्यातिवादिनः पूर्वस्मादधिकत्वं सम्भवतीति वाक्यखरससिद्धमन्यत्वं न बाधितव्यम् । अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतयाऽतिक्रान्तखोपास्यवस्तुवादित्वम् । नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्दिष्टप्रत्यगात्मवादित्वात्माणविदोऽतिवादित्वम् । तस्यापि सातिशयपुरुषार्थत्वानिरतिशयपुरुषार्थतयोपास्यपरब्रह्मवादिन एव साक्षादतिवादित्वमिति ३“एष तु वा अतिवदति यस्सत्येनातिवदति" इत्युक्तम् । सत्येनेतीत्थम्भूतलक्षणे तृतीया; सत्येन परेण ब्रह्मणोपास्येनोपलक्षितो योऽतिवदतीत्यर्थः। अतएवैवं शिष्यः प्रार्थयते ३"सोऽहं भगवस्सत्येनातिवदानि" इति । आचार्यश्च ३"सत्यं त्वेव विजिज्ञासितव्यम्" इत्याह । ४"आत्मतः प्राणः" इति च प्राणशब्दनिर्दिष्टस्याऽत्मन उत्पत्तिरुच्यते। अतः ५“तरति शोकमात्मवित्"इति प्रक्रान्त आत्मा प्राणशब्दनिर्दिष्टादन्य इति गम्यते ॥ । ४. छा. ७. २६.१॥ ५. छा. ७. १, ३॥ २. ते, आन. १. अनु ॥ ३. छा. ७. १६. १ ॥ For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. छा. ७. १५. ४ ॥ २. छा, ७, १६ ॥ ३. छा. ७. १८ ॥ पा. ३.] भूमाधिकरणम् . २९१ यदुक्तम् — 'अस्ति भगवः प्राणाद्भूयः' इति प्रश्नस्य 'अदो वाव प्राणाद्भूयः' इति प्रतिवचनस्यचादर्शनात्प्रक्रान्त आत्मोपदेशः प्राणोपदेशपर्यवसानो गम्यत इति ; तदयुक्तम् ; नहि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते ; प्रमाणान्तरेणापि तत्सम्भवात् । उक्तञ्च प्रमाणान्तरम्। 'अस्ति भगवः प्राणाद्भूयः' इत्यपृच्छतोऽयमभिप्रायः - नामादिष्वा - शापर्यन्तेष्वचेतनेषु पुरुषार्थ भूयस्तया पूर्वपूर्वमतिक्रान्तेष्वप्युत्तरोत्तरेषूपदिष्टेषु तत्तद्वेदिन आचार्येणातिवादित्वं नोक्तम्; प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थ भूयस्त्वातिशयं मन्वानेन “स वा एष एवं पश्यनेवं मन्वान एवं विजानन्नतिवादी भवति" इति अतिक्रान्तवस्तुवादित्वमुक्तम् । अतोऽत्रैवात्मोपदेश स्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ । आचार्यस्त्विदमपि सातिशयं मत्वा निरतिशय पुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म २' एष तु वा अतिवदति यस्सत्येनातिवदति" इति स्वयमेवोपचिक्षेप | शिष्योऽपि परमपुरुषार्थ रूपे परस्मिन्ब्रह्मण्युपक्षिप्ते तत्स्वरूपतदुपासनयाथात्म्यबुभुत्सया २" सोऽहं भगवस्सत्येनातिवदानि " इति प्रार्थयामास । ततो ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनम् २" सत्यं त्वेव विजिज्ञासितव्यम् " इत्युपदिश्य तदुपायभूतं ब्रह्ममननम् ३" मंतिस्त्वेव विजिज्ञासितव्या " इत्युपदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धाम् ४ श्रद्धा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदुपायभूतां च तन्निष्ठाम् “निष्ठा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदुपायभूतां च तदुद्योगप्रयत्न रूपां कृतिमपि ६" कृतिस्त्वेव विजिज्ञासितव्या " इत्युपदिश्य श्रवणाद्युपक्रमरूपकृतिसिद्धये प्राप्यभूतस्य सत्यशब्दाभिहि ४. छ। ७. १९ ॥ ५. छा. ७. २० ॥ ६. छा. ७. २१ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ श्रीशारीरकमीमांसाभाग्ये [अ.१. तस्य ब्रह्मणस्सुखरूपता ज्ञातव्येति "सुखं त्वेव विजिज्ञासितव्यम्" इत्युपदिश्य निरतिशयविपुलमेव सुखं परमपुरुषार्थरूपं भवतीति तस्यैव ब्रह्मणस्सुखरूपस्य निरतिशयविपुलता ज्ञातव्येतिर "भूमा त्वेव विजिज्ञासितव्यः" इत्युपदिश्य निरतिशयविपुलसुखरूपस्य ब्रह्मणो लक्षणमिदमुच्यते ३" यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इति । अयमर्थः-अनवधिकातिशयसुखरूपे ब्रह्मण्यनुभूयमाने ततोऽन्यत्किमपि न पश्यत्यनुभविता, ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वाच्च कृत्स्नस्य वस्तुजातस्य ; अत ऐश्वर्यापरपर्यायविभूतिगुणविशिष्टं निरतिशयसुखरूपं ब्रह्मानुभवन् तद्वयतिरिक्तस्य वस्तुनोऽभावादेव किमप्यन्यन्न पश्यति । अनुभाव्यस्य सर्वस्य सुखरूपत्वादेव दुःखं च न पश्यति, तदेव हि सुखम् , यदनुभूयमानं पुरुषानुकूलं भवति ॥ ननु चेदमेव जगद्ब्रह्मणोऽन्यतयाऽनुभूयमानं दुःखरूपं परिमितसुखरूपं च भवत्कथमिव ब्रह्मविभूतित्वेन तदात्मकतयानुभूयमानं सुखरूपमेव भवेत् । उच्यते-कर्मवश्यानां क्षेत्रज्ञानां ब्रह्मणोऽन्यत्वेनानुभूयमानं कृत्स्नं जगत्तत्तत्कर्मानुरूपं दुःखं च परिमितसुखं च भवति । अतो ब्रह्मणोऽन्यतया परिमितमुखत्वेन दुःखत्वेन च जगदनुभवस्य कर्मनिमित्तत्वाकर्मरूपाविद्याविमुक्तस्य तदेव जगद्विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति। यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येनाल्पसुखं विपरीतं च भवतिः तदेव पयः पित्तानुपहतस्य सुखायैव भवति । यथैव राजपुत्रस्य पितुर्लीलोपकरणमतथात्वेनानुसन्धीयमानं प्रियत्वमनुपगतं तथात्वानुसन्धाने प्रियतमं भवति तथा निरतिशयानन्दस्वरूपस्य ब्रह्मणोऽनवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य लीलोपकरणं तदात्मकं | ३. छा. ७. २४. १ ॥ १. छा. ७. २२ ॥ २. छा. ७.२३ ॥ For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. www.kobatirth.org ३.] भूमाधिकरणम् . चानुसन्धीयमानं जगन्निरतिशयप्रीतये भवत्येव । अतो जगदैश्वर्यविशिष्टमनवाधिकातिशयमुखरूपं ब्रह्मानुभवंस्ततोऽन्यत्किमपि न पश्यति दुःखं च न पश्यति । एतदेवोपपादयति वाक्यशेषः १ स वा एष एवं पश्यनेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्स स्वराङ्कवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारों भवति" इति । स्वराट् - अकर्मवश्यः । अन्यराजानः - कर्मवश्याः । तथा २" न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वे ह पश्यः पश्यति सर्वमाप्नोति सर्वशः" इति च । निरतिशय सुखरूपत्वं च ब्रह्मणः ३" आनन्दमयोऽभ्यासात् " इत्यत्र प्रपञ्चितम् । अतः प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ।। धर्मोपपत्तेश्च । १ । ३ ।८ ॥ अस्य भूम्नो ये धर्मा आम्नायन्ते; तेऽपि परस्मिन्नेवोपपद्यन्ते । ४" एतदमृतम्” इति स्वाभाविकममृतत्वम्, ४ स्त्रे महिम्न" इत्यनन्याधारत्वम्, ५" स एवाधस्तात्" इत्यादि “ स एवेदं सर्वम्" इति सर्वात्मकत्वम्, ६" आत्मतः प्राणः " इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्माः परमात्मन एव । यत्तु " अहमेवाधस्तात्" इत्यादिना सर्वात्मकत्वमुपदिष्टम्, तद्भूमविशिष्टस्य ब्रह्मणोऽहङ्घहेणोपासनमुपदिश्यते " अथातोऽहङ्कारादेशः " इत्यहङ्ग्रहोपदेशोपक्रमात् । अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिषूक्तम् । अतः प्रत्यग Acharya Shri Kailassagarsuri Gyanmandir १. छा. ७.२५.२ ॥ २. छा. ७.२६, २ || | रामानुजीय पाठः ॥ ३. शारी. १. १. १२ ॥ ४. छा. ७, २४, १ ॥ तदमृतमिति रङ्ग ५. छा. ७. २५. १ ॥ ६. छा. ७, २६.१. ॥ For Private And Personal Use Only २९३ - Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वेदान्तसारे १. छा. ७. २५.२ ॥ २. छा. ७.२६.१ ॥ ३. छा. ७.२२ ॥ ४. छा. ७. २३ ॥ २९४ [अ. १. र्थस्य परमात्मपर्यवसानादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मनरीरकत्वेन परमात्मानुसन्धानार्थोऽयमहङ्ग्रहोपदेशः । परमात्मनस्सर्वशरीरतया सर्वात्मत्वात्प्रत्यगात्मनोऽप्यात्मा परमात्मा । तदेव " अथात आत्मादेशः " इत्यादिना "आत्मैवेदं सर्वम्" इत्यन्तेनोच्यते । एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात्परमात्मनस्सर्वस्योत्पत्तिरुच्यते २" तस्य हवा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आकाशः" इत्यादिना । उपासकस्यान्तर्यामितयाऽवस्थितात्परमात्मनस्सस्योत्पत्तिरित्यर्थः । अतः परमात्मनः प्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहङ्ग्रहोपासनं कर्तव्यम्। तस्माद्भूमविशिष्टः परमात्मेति सिद्धम् ॥ ८ ॥ इति श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम् ॥ २ ॥ वेदान्तसारे - भूमा सम्प्रसादादध्युपदेशात् || ३" सुखं त्वेव विजिज्ञासितव्यम्" ४" भूमैव सुखम्" इत्युक्त्वा भूम्नस्वरूपमाह ५' 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ” इति; यस्मिन् सुखेऽनुभूयमाने तद्व्यतिरिक्तं किमपि सुखत्वेन न पश्यति न शृणोति न विजानाति स भूमेत्युच्यते, ५" अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् " " इतिवचनात् । तथाच महाभारते ६" दिव्यानि कामचाराणि विमानानि सभास्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्चामलोकाः। एते वै निरयास्तात स्थानस्य परमात्मनः " इति। ७" एष तुवा अतिवदति यस्सत्येनातिवदति" इति प्रस्तुतञ्चातिवादित्वमेवमेव समञ्जसम् । अतिवादित्वं हि खोपास्यपुरुषार्थाधिक्यवादित्वम्, तदल्पम्' इत्यल्पप्रतियोगिवेन, 'भूमा' इत्युक्तप्रकारवैपुल्याथय सुखरूपवाची । अयं भूमशब्दव्यपदिष्टः परमात्माः संप्रसादादध्युपदेशात्-संप्रसादः प्रत्यगात्मा, ८" अथ य एष संप्र Acharya Shri Kailassagarsuri Gyanmandir 6 ५. छा. ७. २४. १ ॥ ६. भारते. शान्ति. मोक्ष १९८.४,६. लो॥ ७. छा. ७. १६ ॥ ८. छा. ८. ३. ४ ॥ For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ पा.३.] भूमाधिकरणम् सादः" इत्यादिश्रुतेः । १" एष तु वा अतिवदति यस्सत्येन" इत्यादिना प्राणशब्दनिर्दिष्टात् प्रत्यगात्मनः ऊर्ध्वमर्थान्तरत्वेन अस्योपदेशात् ॥ ७॥ धर्मोपपत्तेश्च ॥ २“स भगवः कस्मिन् प्रतिष्ठितः...खे महिनि" इत्यादावुपदिष्टानां स्वमहिमप्रतिष्ठितत्वसर्वकारणत्वसर्वात्मकत्वादिधर्माणां परस्मिन्नेवोपपत्तेश्च भूमा परः॥८॥ ___ इंति वेदान्तसारे भूमाधिकरणम् ॥२॥ वेदान्तदीपे-भूमा सम्प्रसादादध्युपदेशात् ॥ छान्दोग्ये २“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इत्यत्र भूमशब्दनिर्दिष्टो निरतिशयवैपुल्यविशिष्टसुखखरूपः किं प्रत्यगात्मा? उत परमात्मेति संशयः। प्रत्यगात्मेति पूर्वः पक्षः, ३" तरति शोकमात्मवित्" इति प्रक्रम्य नामादिपरम्परयोत्तरोत्तरभूयस्त्वेन प्रश्नप्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राणशब्दनिर्दिष्टे प्रत्यगात्मनि समाप्तिदर्शनात्, प्रत्यगात्मन एव भूमसंशब्दनमिति निश्चीयते । राद्धान्तस्तु--यद्यपि प्रश्नप्रतिवचनाभ्यामुत्तरोत्तरभूयस्त्ववचनं प्राणे पर्यवस्थितम् तथापि प्राणवेदिनोऽतिवादित्वमुक्त्वा, ४"एष तु वा अतिवदति यस्सत्येनातिवदति" इति तुशब्देनोपासकभेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्मादाधिक्योपदेशात् , सत्यशब्दाभिधेयं परं ब्रह्मैव भूमविशिष्टमिति। सूत्रार्थस्तु-भूमगुणविशिष्टं परं ब्रह्मैव, सम्प्रसादादध्युपदेशात् ; सम्प्रसादः प्रत्यगात्मा, ५" एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य” इत्याद्युपनिषत्प्रसिद्धेः ; ४" एष तु वा अतिवदति" इति प्रत्यगात्मनोऽधिकतयोपदेशात् । अतिवादित्वं हि स्वोपास्याधिक्यवादित्वम् ॥ ७॥ धर्मोपपत्तेश्च ॥ स्वाभाविकामृतत्वस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वसर्वोत्पत्तिहेतुत्वादीनां भूग्नि श्रूयमाणानां धर्माणां परस्मिन्नेव ब्रह्मण्युपपत्तेश्च भूमा परं ब्रह्मैव ॥ ८॥ इति वेदान्तदीपे भूमाधिकरणम् ॥ २ ॥ १. छा. ७, १६.१॥ २. छा, ७. २४. १॥ । | ३.छा. ७-१-३॥ ४. छा, ७.१६॥ ५. छा. ८.३.४॥ For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् ॥ ३ ॥)---- अक्षरमम्बरान्तधृतेः। १।३।९॥ वाजसनेयिनो गार्गीप्रश्ने समामनन्ति १" सहोवाचैतद्वैतदक्षरं गानि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहखमदीर्घमलोहितमस्नेहमच्छायम्" इत्यादि । तत्र संशयः-किमेतदक्षरं प्रधानम्-जीवो वा-उत परमात्मा-इति। किं युक्तम् ? प्रधानमिति। कुतः १ २" अक्षरात्परतःपर" इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात् । ३" यया तदक्षरमधिगम्यते" इत्यादिषु परस्मिन्नप्यक्षरशब्दो हश्यत इति चेत्-न,प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीते, प्रतीतपरिग्रहे विरोधाभावात्। ३" यदुवं गार्गि दिवो,यदवाक्पृथिव्याः" इत्यारभ्य सर्वस्य कालत्रितयवर्तिनः कारणभूताकाशा. धारत्वे प्रतिपादिते ३"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्याकाशस्यापि कारणं तदाधारभूतं किमिति पृष्टे प्रत्युच्यमानमक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति प्रतीयते अतोऽक्षर प्रधानम् ॥ (सिद्धान्तः) --- इति प्राप्ते उच्यते-अक्षरमम्बरान्तधृतेः-अक्षरं-परं ब्रह्म कुतः? अम्बरान्तधृतेः; अम्बरस्य-आकाशस्य, अन्तः-पारभूतम् अव्याकृतमम्बरान्तः। तस्य धृतेः तदाधारतयाऽस्याक्षरस्योपदेशादिति यावत् । अयमर्थ:-"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्यत्राकाशशब्दनिर्दिष्टं न वायुमदम्बरम् ,अपितु तत्पारभूतमव्याकृतम् ,अतस्तस्याव्याकृतस्याप्या१. बृ. ५-८-८॥ २. मु. २-१-२॥ ४. कृ. ५-८-७ ॥ ३. मु. १-१.५॥ - For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] अक्षराधिकरणम् धारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हति - इति । नन्वाकाशशब्दनिर्दिष्टो न वायुमानिति कथमवगम्यते; उच्यते १" यदूर्ध्वं गार्गि दिवो यदवक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतंच " इत्युक्ते त्रैकाल्यवर्तिनो विकारजातस्याधारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हति; तस्यापि विकारान्तर्गतत्वात् । अतोऽवाकाशशब्दनिर्दिष्टं भूतसूक्ष्ममिति प्रतीयते। ततस्तस्यापि भूतसूक्ष्मस्याधारभूतं किमिति पृच्छयते “कस्मिन्नु खल्वाकाश ओत प्रोतश्च" इति । अतस्तदाधारतया निर्दिश्यमानमक्षरं न प्रधानं भवितुमर्हति ।। Acharya Shri Kailassagarsuri Gyanmandir यत्तु श्रुतिप्रसिद्धात्ममाणान्तरप्रसिद्धं प्रथमं प्रतीयत इति, तन्न, अक्षरशब्दस्यावयवशक्त्या स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात्ः सम्बन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम् ॥ ९ ॥ २९७ एवं तर्ह्यक्षरशब्दनिर्दिष्टो जीवोऽस्तु तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन आधारत्वोपपत्तेः अस्थूलत्वाद्युच्यमानविशेषणोपपत्तेश्व २" अव्यक्तमक्षरे लीयते" ३" यस्याव्यक्तं शरीरं... यस्याक्षरं शरीरं" ४" क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इत्यादिषु प्रत्यगात्मन्यप्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम् - १. बृ. ५-८-७ ॥ २. सुबाल. २ ख ॥ ३. सुबाल, ७ ख ॥ 38 साच प्रशासनात् । १ । ३ । १० ॥ सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते ५ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एत ४. गी. १५-१६ ॥ ५. बृ. ५-८-९ ॥ For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૧૮ श्रीशारीरकमीमांसामान्ये [अ. १. स्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति" इत्यादिना । प्रशासनम्प्रकृष्टं शासनम् । न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोमयावस्थस्यापि प्रत्यगात्मनस्सम्भवति । अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ॥१०॥ अन्यभावव्याटतेध।१।३।११॥ अन्यभावः-अन्यत्वम्, प्रधानादिभावः । अस्याक्षरस्य परमपुरुपादन्यत्वं वाक्यशेषे व्यावर्त्यते ? "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्श्रुतं शोलमतं मन्त्रविज्ञातं विज्ञात नान्यदतोऽस्ति द्रष्टु नान्यदतोऽस्ति श्रोत, नान्यदतोऽस्ति मन्त,नान्यदतोऽस्ति विज्ञात, एतस्मिन्नु खल्वक्षरे गााकाश ओतश्च प्रोतश्च" इति । अत्र द्रष्टुत्वश्रोतृत्वाद्युपदेशादस्याक्षरस्याचेतनभूतप्रधानभावो व्यावय॑ते ; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टुत्वाद्युपदेशाच प्रत्यगात्मभावो व्यावय॑ते । अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति । एवं वाऽन्यभावव्यावृत्तिः-अन्यस्य सद्भावव्यात्तिरन्यभावव्यावृत्तिः । यथैतदक्षरमन्यैरदृष्टं सदन्येषां द्रष्टु च सत्स्वव्यतिरक्तस्य समस्तस्याधारभूतम् , एवमनेनादृष्टमेतस्य द्रष्टु च सदेतस्याधारभूतमन्यन्नास्तीति वदन् १"नान्यदतोऽस्ति द्रष्टु" इत्यादिवाक्यशेषोऽन्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति । किश्च २"एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दीं पितरोऽन्वायत्ताः" इति श्रीतं स्मात च यागदानहोमादिकं सर्व कर्म यस्याऽज्ञया प्रवर्तते । तदक्षरं परब्रह्मभूतः पुरुषोत्तम एवेति विज्ञायते । अपि च ३“यो वा एतदक्षरं गार्यविदित्वा१. पृ. ५-८-११॥ ३. वृ. ५.८-१०॥ २. वृ. ५-८-९ ॥ For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] अक्षराधिकरणम्. स्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भववि यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्पैति स कृपणः, अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्मैति स ब्राह्मण "इति यदज्ञानात्संसारप्राप्तिर्यज्ज्ञानाचामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मैवेति सिद्धम् ॥ ११॥ इति श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् ॥ ३ ॥ वेदान्तसारे-अक्षरमम्बरान्तधृतेः ॥ १" एतद्वैतदक्षरं गार्गि ब्रा ह्मणा अभिवदन्ति अस्थूलमनणु" इत्यादिना अभिहितमक्षरं परं ब्रह्म, अम्बरान्तधृतेः । २'यदूर्व गार्गि दिवः" इत्यारभ्य सर्वविकाराधारतया निर्दिष्ट आकाशः २"कस्मिन्नोतश्च" इति पृष्टे १"एतद्वैतदक्षरम्" इति निर्दिष्टस्याक्षरस्य वायुमदम्बरान्तधृतेः सर्वविकाराधारो ह्ययमाकाशः वायुमदम्बरान्तकारणं प्रधानम् । तद्धारकं परं ब्रह्म ॥९॥ सा च प्रशासनात् ॥ सा धधृतिः, ३"एतस्य वाऽक्षरस्य प्रशासने गार्गि" इत्यादिना प्रकृष्टाशया क्रियमाणा श्रूयते । अत इमक्षरं प्रत्यगात्मा च न भवतीत्यर्थः ॥ १०॥ __ अन्यभावव्याहत्तेश्च ॥ अन्यभावः-अन्यत्वम् , ४'अदृष्टं द्रष्ट' इ. स्यादिना परमात्मनोऽन्यत्वं हास्याक्षरस्य व्यावर्तयति वाक्यशेषः ; अतश्च पर एव ॥ ११ ॥ इति वेदान्तसारे अक्षराधिकरणम् ॥ ३ ॥ वेदान्तदीपे-अक्षरमम्बरान्तधृतेः ॥ वाजिनां गार्गीप्रश्ने १"स हो वाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहखमदीर्घमलोहितमस्नेहमच्छायम्" इत्यत्राक्षरशब्दनिर्दिष्टं प्रधानम् , जीवो वा? उत परमात्मा-इति संशयः । प्रधानम् , जीवो वा, न परमात्मा-इति पूर्वः पक्षः। २"कस्मिनु खल्वाकाश ओतश्च प्रोतश्च' इत्युक्ते, आकाशाधारतयोच्यमा १. कृ. ५.८-८॥ २. ३. ५.८.७॥ ३. बृ. ५-८-९ ॥ ४. बृ. ५-८-११ ॥ । For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३०० श्रीशारीरकमीमांसाभाष्ये [अ. १. नमक्षरं प्रधानम्, जीवो वा; प्रधानस्य विकाराधारत्वात्, जीवस्याचिद्वस्त्वाधारत्वात् ; न परमात्मा -- इति । राद्धान्तस्तु - १ " यदूर्ध्वं गार्गि दिवः " इत्यारभ्य, कालत्रयवर्तिनः कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव ; न वायुमानाकाशः । ततः पश्चात् १ " कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इति पृष्ठे, तदाधारतयोच्यमानमेतदक्षरं न प्रधानं भवितुमर्हति; नापि जीवः २"एतस्यवा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यारभ्य प्रशासनात्सर्वाधारत्वश्रुतेः । सूत्रार्थस्तु - ३" एतद्वैतदक्षरं गार्गि" इति निर्दिष्टमक्षरं परमात्मा, अम्बरान्तधृतेः - अम्बरम् - वायुमानाकाशः, अम्बरान्तः -- अम्बरपारभूतम्, अम्बरकारणमिति यावत् ; कारणापत्तिरेव हि कार्यस्यान्तः । स चाम्बरान्तः अव्याकृतं प्रधानम्, तस्य धृतेः - धारणात् । अव्याकृतस्यापि धृतेरक्षरं परमात्मैवेत्यर्थः ॥ ९ ॥ एवं तर्हि जीवो भवितुमर्हति तस्य प्रधानधृत्युपपत्तेरित्याशङ्कयाह " सा च प्रशासनात् । सा च अम्बरान्तधृतिः, २" एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ" इति प्रशासनात् श्रूयते । प्रशासनम् - प्र. कृष्टं शासनम्, अप्रतिहताज्ञा । न चाप्रतिहताज्ञया कृत्स्नस्य चिदचिदात्मकस्य जगतो धृतिर्जीवे उपपद्यते ; अतो न जीवः ॥ १० ॥ अन्यभावव्यावृत्तेश्व ॥ अन्यभावः - अन्यत्वम्, अस्याक्षरस्य परमपुरुषादन्यत्वं व्यावर्तयति वाक्यशेषः, ४'' अदृष्टं द्रष्ट" इत्यादिना सर्वैरदृष्टमेतद्क्षरं सर्वस्य द्रष्टित्यादिप्रधानजीवा सम्भावनीयार्थप्रतिपादनात् ॥ ११ ॥ इति वेदान्तदीपे अक्षराधिकरणम् ॥ ३ ॥ (श्रीशारीरकमीमांसाभाष्ये ईक्षतिकर्माधिकरणम् ॥ ४ ॥ ०० Acharya Shri Kailassagarsuri Gyanmandir ईक्षतिकर्म व्यपदेशात्सः । १।३।१२ ॥ आथर्वणिकास्सत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदर १. बृ. ५-८-७ ॥ २. बृ. ५-८.९ ॥ ३. ब्रु. ५-८-८ ॥ ४. बृ. ५-८-११ ॥ ५. प्रश्न. ५-५॥ For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०१ पा. ३.] ___ ईक्षतिकर्माधिकरणम्. स्त्वचा विनिर्मुच्यते एवं हवै स पाप्मना विनिर्मुक्तस्ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति। अत्र ध्यायतीक्षतिशब्दावेकविषयौ, ध्यानफलत्वादीक्षणस्य ; १" यथाक्रतुरस्मिल्लोके पुरुषः" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् , २"परं पुरुषम्" इत्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च ॥ तत्र संशय्यते-किमिह "परं पुरुषम् इति निर्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुखः,उत सर्वेश्वरः पुरुषोत्तमः-इति। किं युक्तम् समष्टिक्षेत्रज्ञ इति। कुतः १ २ "स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमंभिध्यायीत कतमं वाव स तेन लोकं जयति" इति प्रक्रम्यैकमानं प्रणवमुपासीनस्य मनुष्यलोकमाप्तिमभिधाय, द्विमानमुपासीनस्य अन्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपासीनस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोक इति विज्ञायते; तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव । २"एतस्माजीवघनात्परात्परम्" इतिच देहेन्द्रियादिभ्यः परादेहेन्द्रियादिभिस्सह घनीभूताज्जीवव्यष्टिपुरुषाद्ब्रह्मलोकवासिनस्समष्टिपुरुषस्य चतुमुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषस्समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथश्चिनेतव्याः ॥ -.(सिद्धान्तः)-- इति प्राप्ते प्रचक्ष्महे-ईक्षतिकर्मव्यपदेशात्सः-ईक्षतिकर्म सः-परमात्मा।कुतः व्यपदेशात्-व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन। तथाहि-ईक्षतिकर्मविषयतयोदाहते श्लोके ३ "तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परंच" इति। परं शान्तमजरमभयममृतमिति हि पर१. छा. ३-१४-१॥ २. प्रश्न. ५-१॥ ३. प्रश्न. ५-७॥ For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ श्रीशारीरकमीमांसाभाये मात्मन एवैतद्रपम्, १"एतदमृतमेतदभयमेतद्ब्रह्म" इत्येवमादिश्रुतिभ्यः। २"एतस्माज्जीवधनात्परात्परम्" इति च परमात्मन एव व्यपदेशन चतुर्मुखस्य, तस्यापि जीवधनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्त देहित्वं स जीवधन इत्युच्यते चतुर्मुखस्यापि तच्छ्रयते ३“यो ब्रह्माणं विदधाति पूर्वम्" इत्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति ; तदयुक्तम् “यत्तच्छान्तमजरममृतमभयम्"इत्यादिनेक्षतिकर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति।किश्च ५“यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्ससामभिरुनीयते ब्रह्मलोकम्" इति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अत एव चोदाहरणश्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते ६"यत्तत्कवयो वेदयन्ते"इति । कवयः-सूरयः । सूरिभिदृश्यं च वैष्णवं पदमेव, ७"तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः, मध्ये स्वर्गलोकादीनां बहूनां सद्भावात् । अतः ६"एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कार्य ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्र प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिरूपं फलममिधाय, द्विमानमुपासीनानामामुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय, त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्व समञ्जसम् । अत ईक्षतिकर्म परमात्मा।। इति श्रीशारीरकमीमांसाभाष्ये ईक्षतिकर्माधिकरणम् ॥ ४ ॥ २, प्रश्न, ५-५॥ १. छा. ४-१५-१॥ ३. श्वे. ६-१८॥ ४. प्रश्न, ५-७॥ ५. प्रश्न. ५-२ ॥ ६. सुबाल, ६-ख ॥ ७. प्रश्न. ५-२ ॥ For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३.] ईक्षतिकर्माधिकरणम्. ३०३ वेदान्तसारे — ईक्षतिकर्म व्यपदेशात्सः ।। १" यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत" इत्यारभ्य १" स एतस्माजीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इत्यत्र ध्यायतिपूर्वकेक्षतिकर्म सः प्रशासिता परमात्मा इत्यर्थः, उत्तरत्र २' तमोङ्कारेणैवायनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्च'' इति परमपुरुषासाधारणधर्मव्यपदेशात् ; २ " यत्तत्कवयो वेदयन्ते" इति तदीयस्थानस्य सूरिभिर्दृश्यत्वव्यपदेशाच्च ॥ १२ ॥ इति वेदान्तसारे ईक्षतिकर्माधिकरणम् ॥ ४ ॥ १. प्रश्न. ५-५ ॥ वेदान्तदीपे - ईक्षतिकर्म व्यपदेशात्सः || आथर्वणिकानां सत्यकामप्रश्न १" यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत " इत्यारभ्य, १" ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते " इत्यत्र ध्यायतीक्षतिकर्मतया व्यपदिष्टः परः पुरुषः किं हि रण्यगर्भः ? उत परब्रह्मभूतः पुरुषोत्तम इति संशयः । हिरण्यगर्भ इति पूर्वः पक्षः । पूर्वत्रैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिं फलम्, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिश्च फलमभिधाय, अनन्तरं १ " यः पुनरेतं त्रिमात्रेण" इति त्रिमात्रं प्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थ पुरुषक्षेणकभूतश्चतुर्मुख एवेति विज्ञायते, मनुष्यलोकान्तरिक्षलोकसाहचर्याद्ब्रह्मलोकोSपि क्षेत्रलोक इति निश्वयात् । राद्धान्तस्तु - १ " परात्परं पुरिशयं पुरुषमीक्षते” इतीक्षतिकर्मतया निर्दिष्टपुरुषविषये लोके २" तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परञ्च" इति निरुपाधिकशान्तत्वामृतत्वादिव्यपदेशात्परमात्मैवायमिति निश्चीयते । एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभिदधातीत्यवगम्यते । तद्विषयतयोदाहृते च लोके २" यत्तत्कवयो वेदयन्ते" (३ " तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः " ) इत्येवमादिभिः सूरिभिर्दश्यत्ववचनं तदेव द्रढयति । सूत्रार्थस्तु — ईक्षतिकर्म सः - परमात्मा, ध्यायतीक्षत्योरेकविषयत्वेन ध्यायतिकर्मापि स एवेत्यर्थः; व्यपदेशात् - तद्विषयतया २" शान्तमजरममृतमभयं परश्च" इति परमात्मधर्माणां व्यपदेशात् ॥ इति वेदान्तदीपे ईक्षतिकर्माधिकरणम् ॥ ४ ॥ २. प्रश्न. ५-७ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 ३. सुबाल ६ ख ॥ For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- (श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम् ॥ ५॥)--- दहर उत्तरेभ्यः । १॥३॥१३॥ इदमामनन्ति च्छन्दोगाः१“अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इति । तत्र सन्देहः-किमसौ हृदय पुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेषः, उत प्रत्यगात्मा, अथ परमात्मा-इति । किं तावद्युक्तम् ? महाभूतविशेष इति। कुतः?आकाशशब्दस्य भूताकाशे ब्रह्मणि च प्रसिद्धत्वेऽपि भूताकाशे प्रसिद्धिप्रकर्षात् , १"तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यन्वेष्टव्यान्तरस्याधारतया प्रतीतेश्च ॥ -- (सिद्धान्तः )---- इत्येवं प्राप्तेऽभिधीयते-दहर उत्तरेभ्यः-दहराकाशः परं ब्रह्म कुतः? उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्यः । २“एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति निरुपाधिकात्मत्वमपहतपाप्मत्यादिकं सत्यकामत्वं सत्यसङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणाः दहराकाशं परं ब्रह्मेति ज्ञापयन्ति । ३"अथ य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति" इत्यादिना ४'यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते" इत्यन्तेन दहराकाशवेदिनस्सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मेत्यवगमयति। ५“यावान्वा अयमाकाशस्तावानेषोऽन्तर्हदय आकाशः" इत्युपमानोपमेयभावश्च दहराकाशस्य भूताकाशत्वे नोपपद्यते । हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत्,-तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते ।। १. छा. ८-१-१ ॥ २. छा. ८-१-५॥ ४, छा. ८-२-१० ॥ ३. छा. ८-१-६॥ ५. छा, ८-१-३॥ For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. छा. ३-१४-३ ॥ २. डा. ८-१-५ ॥ 39 पा. ३. ] दहराधिकरणम् ३०५ ननुच दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वं न सम्भवति १" ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्" इत्यादौ सर्वस्माज्जयायस्त्वश्रवणात्-नैवम्, दहराकाशस्य हृदयपुण्डरीकमध्यवर्तित्वमाप्ताल्पत्वनिवृत्तिपरत्वादस्य वाक्यस्यः यथा अधिकजवेऽपि सवितरि 'इषुवद्गच्छति सविता' इति वचनं गतिमान्द्यनिवृत्तिपरम् । अथ स्यात् - २" एष आत्माऽपहतपाप्मा ” इत्यादिना दहराकाशो न निर्दिश्यते ३" दहरोऽस्मि - अन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इति दहराकाशान्तर्वर्तिनस्ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह २ " एष आत्माऽपहतपाप्मा " इति तस्यैवान्वेष्टव्यस्य निर्देष्टुं युक्तत्वात् ; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाञ्क्ष्यत् ; व्यभाङ्गीत्तु सा ; तथाहि ३" अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मणः पुरत्वेनोपासकशरीरं निर्दिश्य तन्मध्यवर्ति च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतयाऽभिधाय सर्वज्ञ सर्वशक्तिमाश्रितवात्सल्यैकजलधिमुपासकानुग्रहाय तस्मिन् वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहराकाशशब्देन निर्दिश्य तदन्तर्वर्तिचापहतपाप्मत्वादिस्वभावतोनिरस्तनिखिलहे यत्व सत्यकामत्वादिस्वाभाविकानवधि कातिशयकल्याणगुणजातंच ध्येयं ३" तदन्वेष्टव्यम्" इत्युपदिश्यते । अत्र ३" तदन्वेष्टव्यम् " इति तच्छब्देन दहराकाशम्, तदन्तर्वर्तिगुणजातं च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते; ३ “ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्यनूद्य तस्मिन् दहर पुण्डरीकवेश्मनि यो दहराकाशः, यच्च तदन्तर्वर्तिगुणजातम्, तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थः । दहराकाशशब्दनिर्दिष्टस्य परब्रह्मत्वं ३" तस्मिन्यदन्तः " इति निर्दि ३. छा. ८-१-१ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only - Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये [म.१. ष्टस्यच तद्गुणत्वम् , तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत् तदवहितमनाश्शृणु-१“यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश:"इति दहराकाशस्यातिमहत्तामभिधाय?"उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि" इति प्रकृतमेव दहराकाशमस्मिन्निति निर्दिश्य तस्य सर्वजगदाधारत्वमभिधाय १“यचास्येहास्ति यञ्च नास्ति सर्व तदस्मिन्त्समाहितम्" इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येहलोके यद्भोग्यजातमस्ति, यच्च मनोरथमानगोचरमिह नास्ति, सर्व तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयवभूतहृदयान्तवर्तित्वेऽपि देहस्य जरामध्वंसादौ सत्यपि परमकारणतयाऽतिसूक्ष्मत्वेन निर्विकारत्वमुक्त्वा तत एव २"एतत्सत्यं ब्रह्मपुरम्"इति तमेव दहराकाशं सत्यभूतं ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य २ "अस्मिकामास्समाहिताः" इति दहराकाशमस्मिन्निति निर्दिश्य काम्यभूतांश्च गुणान्कामा इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्याऽत्मत्वंचर "एष आत्माऽपहतपाप्मा" इत्यादिना २ "सत्यसङ्कल्पः" इत्यन्तेन स्फुटीकृत्यर" यथा धेवेह प्रजा अन्वाविशन्ति" इत्यारभ्य ३"तेषां सर्वेषु लोकेष्वकामचारो भवति" इत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दिष्टमात्मानं चाविदुषामेतद्व्यतिरिक्तभोग्यसिद्धयेच कर्म कुर्वतामन्तवत्फलावाप्तिमसत्यसङ्कल्पत्वं चाभिधाय ३“अथ य इहात्मानमनुविद्य व्रजन्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति"इत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वर्तिनश्च काम्यभूतानपहतपाप्मत्वादिका१. छा. ८-१-३॥ ३. छा. ८-१-६॥ २. छा. ८-१-५॥ For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. ३. ] www.kobatirth.org ૨૦૦ दहराधिकरणम् न्गुणान्विजानताम्मुदारगुणसागरस्य तस्य परमपुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते। अतो दहराकाशः परं ब्रह्म, तदन्तर्वर्ति चापहतपाप्मत्वादि काम्यगुणजातम्, तदुभयमन्वेष्टव्यं विजिज्ञासितव्यमितिचोच्यत इति निश्चीयते । तदेतद्वाक्यकारोऽपि स्पष्टयति" तस्मिन्यदन्तरिति कामव्यपदेशः " इत्यादिना । अन एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ॥ १३ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥१३॥१४ ॥ १. वाक्यकारः ॥ २. छा. ८-३-२ ॥ ३. छा. ६-९-२ ॥ Acharya Shri Kailassagarsuri Gyanmandir इतश्च दहराकाशः परं ब्रह्म २" तद्यथा हिरण्यनिधिं निहितमक्षेज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूहाः" इति एतमिति प्रकृतं दहराकाशं निर्दिश्य तत्त्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोकशब्दनिर्देशश्च दहराकाशस्य परब्रह्मतां गमयतः । कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत आह- तथाहि दृष्टम् - इति|परस्मिन्ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम् - ३" एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य नविदुस्सति सम्पत्स्यामहे इति" इति “सत आगम्य न विदुरसत आगच्छामह इति" इति च । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मणि दृष्टः ५ " एष ब्रह्मलोकः सम्राडितिहोवाच इति । मा भूदन्यत्र ब्रह्मणि गमनदर्शनम् ; एतदेव तु दहाराकाशे सर्वेषां क्षेत्रज्ञानां मलयकाल इव निरस्तनिखिलदु:खानां सुषुप्तिकालेऽवस्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ; तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्याऽस्मिन्दहाराकाशे प्रयुज्य 11 ४. छा. ६-१०-२॥ ५. बृ. ६-३-३३ ॥ For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ श्रीशारीरकमीमांसाभाष्ये मानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं लिङ्गमित्याह-लिङ्ग च-इति। निषादस्थपतिन्यायाच षष्ठीसमासात्समानाधिकरणसमासो न्याय्यः॥ _ अथवा १“अहरहर्गच्छन्त्यः" इति न सुषुप्तिविषयं गमनमुच्यते । अपित्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन्काले वर्तमानाः तमजानत्यस्तं न विन्दन्ति-न लभन्ते; यथा हिरण्यनिधिं निहितं तत्स्थानमजानानास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते, दद्वदित्यर्थः । सेयमेवमन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहाराकाशस्य परब्रह्मतां गमयति । तथाजन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभिस्वस्मिन्वतमानाभिः प्रजाभिरवेदनं दृष्टम् । यथा अन्तर्यामिब्राह्मणेर “य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" इति, "अदृष्टो द्रष्टा अश्रुतश्श्रोता"इति च।मा भूदन्यत्र दर्शनम्। खयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानातीनां गतिरस्य परब्रह्मत्वे पर्याप्त लिङ्गम् ॥ १४ ॥ इतश्च दहराकाशः परं ब्रह्मधतेश्च महिम्नोऽस्यास्मिन्नपलब्धेः।१।३।१५॥ ४"अथ य आत्मा"इति प्रकृतं दहराकाशं निर्दिश्य ४"स सेतुर्विधूतिरेषां लोकानामसम्भदाय" इत्यस्मिञ्जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति ; जगद्विधरणं हि परस्य ब्रह्मणो महिमा ५“एष सर्वेश्वर एष सर्वभूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका१. छा, ८-३-२॥ ३. 1. ५-७-२३ ॥ २. १. ५-७-२२ मा. पा ॥ | ४. छा. ८.४.१॥ ५. १. ६.४.२२ ॥ For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] बहराधिकरणम् . नामसम्भेदाय" इति, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादिभ्यः । स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन्दहराकाश उपलभ्यते । अतो दहराकाशः परं ब्रह्म ॥१५॥ प्रसिद्धेश्च । १ ॥३॥ १६ ॥ आकाशशब्दश्च परस्मिन्ब्रह्मणि प्रसिद्धः २“को वाऽन्यात्कः पाण्यात् । यदेष आकाश आनन्दो न स्यात्" ३ "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते"इत्यादिषु, अपहतपाप्मत्वादिगुणसनाया प्रसिद्धि ताकाशपसिद्धेर्बलीयसीत्यभिप्रायः ॥ १६॥ एवं तावद्दहराकाशस्य भूताकाशत्वं प्रतिक्षितम् । अथेदानी दहराकाशस्य प्रत्यगात्मत्वमाशङ्कय निराकर्तुमुपक्रमतेइतरपरामर्शात्स इतिचेन्नासम्भवात्।।३।१७॥ ___ यदुक्तं वाक्यशेषवशादहराकाशः परं ब्रह्मेति, तदयुक्तम् ,वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्परामर्शात् ४॥ अथ य एष सम्मसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्म"इति । यद्यपि ५"दहरोऽस्मिन्नन्तर आकाशः" इति हृदयपुण्डरीकमध्यवर्तितयोपदिष्टस्याकाशस्योपमानोपमेयभावाद्यसम्भवाद्भूताकाशत्वं न सम्भवति, तथापि वाक्यशेषवशात्मत्यगात्मत्वं युक्तमाश्रयितुम् । आकाशशब्दोऽपि प्रकाशादियोगाजीव एव वर्तिष्यत इति चेत्-अत्रोत्तरं-नासम्भवात्-इति। नायं जीवः, नापहतपाप्मत्वादयो गुणा जीवे सम्भवन्ति ॥ १७ ॥ १. ३. ५.८.९ ॥ ४. छा. ८-३-४॥ २. ते, आन. ७॥ ३. छा. १-९-१॥ ५. छा. ८-१-१॥ For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० भीशारीरकमीमांसामान्ये [म.१. उत्तराच्चेदाविर्भूतस्वरूपस्तु।१।३।१८॥ उत्तरात्-प्रजापतिवाक्यात् , जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत्-एतदुक्तं भवति-प्रजापतिवाक्यं जीवपरमेव, तथाहि १“य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासिव्यस्स सर्वांश्च लोकानामोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति"इति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषेमघवते प्रजापतिर्जागरितस्वमसुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूपुयोग्यतापरीचिक्षिषयोपदिश्य तत्रतत्र भोग्यमपश्यते परिशुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते २"मघवन्मयै वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानम्" इति शरीरस्याधिष्ठानतामास्मनश्वाधिष्ठातृतामशरीरस्य च तस्यामृतत्वस्वरूपतां चोक्वा २"न ह वै सशरीरस्य सतः प्रियापिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति कारब्धशरीरयोगिनस्तदनुगुणसुखदुःखभागित्वरूपानर्थ तद्विमोक्षेच तदभावमभिधाय "एवमेवैष सम्पासादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति जीवात्मनस्वरूपमेव शरीरवियुक्तमुपदिदेश । ४"स उत्तमः पुरुषः स तत्र पर्येति जक्षकीडब्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरनिदं शरीरम्" इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम्, नितचतिरोधानस्य परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथे टभोगावाप्तिम् , प्रियाप्रियावियुक्तकर्मनिमित्तशरीराद्यपुरुषार्थाननुसन्धा नं चाभिधाय "स यथा प्रयोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो १.छा. ८.७-१॥ २. छा. ८-१२-२॥ ३. छा. ८-१२-२॥ ४. छा. ८-१२-३॥ . For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] दहराधिकरणम्. ३११ युक्तः" इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्र शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय १“अथ यौतदाकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहारय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः" इति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाय २ "स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान्पश्यत्रमते य एते ब्रह्मलोके" इति तस्यैव विधृतकर्मनिमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्त्वा २"तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामाः" इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय ३"सर्वांश्च लोकानामोतिं सर्वाश्व कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच" इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम् । अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्यवगतम् । अतो जीवस्यापहतपापत्वादयस्सम्भवन्ति । अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहतपाप्मत्वादिगुणसम्भवात्स एव दहराकाश इति निश्चीयते इति चेत् -इति ॥ ___--(सिद्धान्तः)---- सलाह-आविर्भूतखरूपस्तु-इति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकवरूपः पश्चाद्विमुक्तकर्मबन्धश्शरीरात्समुत्थितः परं ज्योतिरुपसम्पन्न आविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते ; दहरवाक्ये त्वतिरोहितस्वभावापहतपाप्मत्वादिवि.. १. छा. ८-१२.४,५॥ २. छा. ८-१२-६ ॥ - - For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૨ श्रीशारीरकमीमांसामान्ये (म.१. शिष्ट एव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्यासम्भावनीयास्सेतुत्वसर्वलोकविधरणत्वादयस्सत्यशब्दनिर्वचनावगतं चेतनाचेतनयोनियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादय आविर्भूतस्वरूपस्यापि न सम्भवन्तीति १“जगद्व्यापारवर्जम्" इत्यत्रोपपादयिष्यामः ॥ १८॥ यद्येवम्, दहरवाक्ये २“अथ य एष सम्प्रसादः"इत्यादिना जीवप्रस्तावः किमर्थः- इति चेत्-तवाह अन्यार्थश्च परामर्शः। १।३। १९ ॥ दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वादिवन्मुक्तस्य तदुपसम्पत्याऽपहतपाप्मत्वादिकल्याणगुणविशिष्ट स्वाभाविकरूपप्राप्तिकथनेन तदेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीवस्यात्र परामर्शः; प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम् । ब्रह्मप्रेप्सोहि जीवात्मनस्वस्वरूपं च ज्ञातव्यमेव; स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासंख्येयकल्याणगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात्स्वरूपयाथात्म्यविज्ञानस्य । ३" सर्वाश्च लोकानामोति सर्वांश्च कामान्" "स तत्र पर्येति जक्षत्कीडन्" इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ॥ १९ ॥ अल्पश्रुतेरितिचेत्तदुक्तम् । १।३।२०॥ ५"दहरोऽस्मिन्" इत्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत्-तत्र यदुत्तरं वक्त१. शारी. ४-४-१७॥ ३. छा. ८.१२.६ ॥ २.छा. ८.३-४॥ ४. छा. ८.१२.१ ॥ ५.छा. ८.१.१॥ For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३.] दहराधिकरणम् ३१३ व्यम्, तत्पूर्वमेवोक्तं १" निचाय्यत्वादेवम्" इत्यनेन । अतो दहराका - शोनाघाताविद्याद्यशेषदोषगन्धः स्वाभाविकनिरतिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्दिष्टस्तु २' घ्नन्ति त्वेवैनं विच्छादयन्ति इत्येवमादिभिरवगतकर्मनिमितदेहपरिग्रहः पश्चात्परञ्जयोतिरूपसम्पद्याऽऽविर्भूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ।। २० ।। इतश्चैतदेवम् Acharya Shri Kailassagarsuri Gyanmandir अनुकृतेस्तस्य च |१|३|२१॥ तस्य - दहराकाशस्य परस्य ब्रह्मणः, अनुकारात्-अयमपहतपाप्पत्वादिगुणको विमुक्तबन्धः प्रत्यगात्मा न दहराकाशः । तदनुकारःतत्साम्यम् । तथाहि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारश्श्रूयते ३ “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्दिष्टः । अनुकार्ये ब्रह्म दहराकाशः ।। २१ ।। अपि स्मर्यते । १ । ३ ॥२२॥ १. शारी. १-२-७ ॥ २. छा. ८-१०-२ ॥ ३. मु. ३-१-३ ॥ 40 संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारः स्मर्यते ४ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च " इति ॥ केचित् - 'अनुकृतेस्तस्यच'' अपि स्मर्यते ' इति सूत्रद्वयमधिकरणान्तरं ५“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इत्यस्याश्श्रुतेः परब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु - ६ "अदृश्यत्वादिगुणको धर्मो ४. गी. १४-२ ॥ ५. मु. २-२-१० ॥ ६. शारी. १-२-२२ ॥ For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ वेदान्तसारे [म.१. ते" १"धुभ्वाद्यायतनं खशब्दात्" इत्यधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् "ज्योतिश्चरणाभिधानात्" इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्:सूत्राक्षरश्वैरूप्यं च ॥ इति श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम् ॥ ५ ॥ वेदान्तसारे-दहर उत्तरेभ्यः॥ ४"अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिशासितव्यम्" इत्यत्र दहराकाशशब्दनिर्दिष्टः परमात्मा, उत्तरेभ्यः वाक्यगतेभ्यः तदसाधारणधर्मेम्यः । उत्तरत्र दहराकाशस्य सर्वाधारतयाऽतिमहत्वमभिधाय, एतत्सत्यं ब्रह्माख्यं पुरमिति निर्दिश्य,तस्मिन् ब्रह्मास्ये दहराकाशे का. मास्समाहिताः इत्युक्ते कोऽयं दहराकाशकेच कामाः? इत्यपेक्षायाम्, ५"एष आत्मा अपहतपाप्मा" इत्यारभ्य ५"सत्यकामस्सत्यसङ्कल्पः" इत्यन्तेन दहराकाशः आत्मा; कामाश्च अपहतपाप्मत्वादयः तद्विशेषणभूतगुणा इति हि शापयति। ४"दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यत्र दहराकाशस्तदन्तर्वर्तिच यत्, तदुभयमन्वेष्टव्यमित्युक्तमिति विज्ञायते; ६“अथ य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान् कामान्" इतिहि व्यज्यते ? ॥ १३ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गश्च।। ७"एवमेवेमास्सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति" इत्यहरहस्सर्वासां प्रजानामजानतीनां दहराकाशोपरि गतिः - वर्तनम्, दहराकाशसमानाधिकरणो ब्रह्मलोकशब्दश्च दहराकाशः परं ब्रह्मेति शापयति । तथाह्यन्यत्र सर्वासां परमात्मोपरि वर्तमानत्वं दृष्टम् ,"तस्मिन् लोकाश्रितास्सर्वे'९"तदक्षरे परमे प्रजाः" इत्या. दौ। ब्रह्मलोकशब्दश्च १."एष ब्रह्मलोकः"इत्यादौ । अन्यत्र दर्शनाभावेऽपि इदमेव पर्याप्तम् अस्य परमात्मत्वे लिङ्गम्, यहहराकाशोपरि सर्वस्य वर्तमानत्वम् , ब्रह्मलोकशब्दश्च ॥ १४॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥ ११"अथ य आत्मा स सेतु. १.शारी. १.३-१॥ २. शारी. १-१-२५॥ ७. छा. ८-३-२ ॥ ८. कठ. २-६-१ ॥ ३. वरुप्याच्च. पा॥ ४. छा, ८-१-१॥ .९ ते. नारायण, ६.१.३॥ ५. छा. ८-१-५॥ ६. छा. ८.१-६॥ १....२-३-३३॥ ११. छा, ८.४.२॥ For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दहराधिकरणम् विधृतिः" इति जगद्धतेः परमात्मनो महिनोऽस्मिन् दहराकाशे उपलब्धेश्चायं परः; सा हि परमात्ममहिमा, १ "एष सेतुर्विधरणः” इत्यादिश्रुतेः ॥ १५ ॥ प्रसिद्धेश्व ॥ आकाशशब्दस्य २"यदेष आकाश आनन्दः" इति परमा. स्मन्यपि प्रसिद्धश्चायं परः; सत्यसङ्कल्पत्वादिगुणवृन्दोपबृंहिता प्रसिद्धिः भूता. काशप्रसिद्धर्बलीयसीत्यर्थः॥१६॥ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ ३“अथ य एष सम्प्रसादः" इतीतरस्य जीवस्य परामर्शात् प्रकृताकाशस्स इति चेत्-नैतत् , उक्तगुणानां तत्रासम्भवात् ॥१७॥ उत्तराच्चेदाविर्भूतखरूपस्तु ।। उत्तरत्र"य आत्मा अपहतपाप्मा"इति जीवस्य अपहतपाप्मत्वादिश्रवणान्नासम्भवः, जागरितस्वप्नसुषुप्तवाद्यवस्थासु वर्तमानत्वात् स हि जीव इति चेत् नैतत् , आविर्भूतखरूपस्तु-कर्मारब्धशरीरसम्बन्धित्वेन तिरोहितापहतपाप्मत्वादिकः पश्चात् परं ज्योतिरुपसम्पद्याऽविर्भूतखरूपः तत्र अपहतपाप्मत्वादिगुणको जीवः प्रतिपादितः। दहरा. काशस्तु अतिरोहितकल्याणगुणसागर इति नायं जीवः ॥१८॥ ___ अन्यार्थश्च परामर्शः ॥ ३ "अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते' इति जीवात्मनो दहराकाशोपसम्पत्त्या खरूपाविर्भावापादनरूपमाहात्म्यप्रतिपादनार्थोऽत्र जीवपरामर्शः॥ १९॥ __अल्पश्रुतेरिति चेत्तदुक्तम् ।। अल्पस्थानत्वस्वरूपाल्पत्वश्रुतेर्नायं परमा. स्मेति चेत्-तत्रोत्तरमुक्तम् ५“निचाय्यत्वादेवं व्योमवञ्च" इति ॥ २० ॥ ___ अनुकृतेस्तस्यच ॥ तस्य दहराकाशस्य परअयोतिषः, अनुकरणश्रवणाच जीवस्य न जीवो दहराकाशः, ६“स तत्र पर्येति जक्षत् क्रीडन् रममा. णः" इत्यादि स्तदुपसम्पत्त्या स्वच्छन्दवृत्तिरूपस्तदनुकारश्श्रूयते ॥२१॥ अपि स्मयते ॥ ७"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्तिच" इति ॥ २२ ॥ इति वेदान्तसारे दहराधिकरणम् ॥ ५ ॥ १... ६-४-२२॥ २. ते.आन. ७-१॥ ३. . ८-३-४॥ ४. छा. ८-७-१॥ ५. शारी. १.२-७ ॥ ६. छा. ८-१२-३ ॥ ७.मी. १४.३॥ For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३१६ वेदान्तदीपे [अ. १ वेदान्तदीपे - दहर उत्तरेभ्यः।। छान्दोग्ये १ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इत्यत्र हृदयपुण्डरीकमध्यवर्ती दहराकाशश्श्रूयमाणः किं भूताकाशः ? उत जीवः ? अथ परमात्मा - इति संशयः । प्रथमं तावद्भूताकाश इति युक्तमाश्रयितुमिति पूर्वः पक्षः, आकाशशब्दस्य भूताकाशे प्रसिद्विप्राचुर्यात्, आकाशान्तर्वर्तिनो ऽन्यस्यान्वेष्टव्यताप्रतीतेश्च । राद्धान्तस्तु२" किं तदत्र विद्यते यदन्वेष्टव्यम्" इति चोदिते, ३" यावान्वा अयमाकाशः" इत्यारभ्य, ४ " एतत्सत्यं ब्रह्मपुरम्" इत्यन्तेन दहराकाशस्यातिमहत्त्व सर्वाश्रयत्वाजरत्व सत्यत्वाद्यभिधाय, ४' अस्मिन्कामास्समाहिताः" इत्याकाशान्तर्वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाशशब्दनिर्दिष्टः ? के तदाश्रयाः कामाः ? इत्यपेक्षायाम्, ४" एष आत्माऽपहतपाप्मा" इत्यारभ्य, ४" सत्यसङ्कल्पः" इत्यन्तेन आकाशशब्दनिर्दिष्टः आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रतिपादयद्वाक्यमपहतपाप्मत्वादिविशिष्टपरमात्मानमाह । उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात आकाशः आत्मा, एतद्विशेषणभूताः अपहतपाप्मत्वादयः कामा इति वाक्यं ज्ञापयत् ५ " अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति" इत्युपसंहरति । अतोऽयं दहराकाशोऽपहतपाप्मत्वादिविशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिरिति । एवं तर्ह्यस्मिन्वाक्ये ६ "अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय " इति प्रत्यगात्मप्रतीतेः, तस्य चोत्तरत्र प्रजापतिवाक्ये ऽपहतपाप्मत्वादिगुणकत्वावगमात् प्रत्यगात्मैव दहराकाश इति पूर्वपक्षी मन्यते । राद्धान्ती - प्रत्यगात्मा कर्मपरवशतया जागरितस्वप्नसुषुत्याद्यवस्थाभिः तिरोहितापहतपाप्मत्वादिकः परमात्मानमुपसम्पन्नः तत्प्रसादादाविर्भूतगुणकः प्रजापतिवाक्ये प्रतिपादितः । दहराकाशस्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिकः प्रत्यगात्मन्यसम्भावनीयजगद्विधरणसमस्तचिदचिद्वस्तु नियमनाद्यनन्तगुणकः प्रतिपन्न इति नायं प्रत्यगात्मा दहराकाशः, अपितु परमात्मैवेति म न्यते । सूत्रार्थस्तु — दहराकाशः परं ब्रह्म, उत्तरेभ्यः- उत्तरवाक्यगतेभ्यो ऽपहतपाप्मत्वादिपरमात्मा साधारणधर्मेभ्यो हेतुभ्यः ॥ १३ ॥ १. छा. ८-१-१॥ २. छा. ८-१-२ ॥ ३. छा. ८-१-३ ॥ www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir ४. छा. ८-१-५ ॥ ५. छा. ८-१-६ ॥ ६. छा. ८-३-४ ॥ For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दहराधिकरणम्. ३१७ ___ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गश्च ॥ अस्मिन्दहराकाशे सर्वासां प्रजानामजानतीनामहरहर्या गतिश्श्रूयते, यश्च दहराकाशावमर्शरूपैतच्छन्दसमानाधिकरणतया प्रयुक्तो ब्रह्मलोकशब्दः, ताभ्यां दहराकाशः परं ब्रह्मेत्यवगम्यते,"तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" इति । तथाहि दृष्टम्-तथाह्यन्यत्र परस्मिन्ब्रह्मण्येवंरूपं गमनं दृष्टम्२"एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुस्सति सम्पत्स्यामह इति" इति; ३"सत आगम्य न विदुस्सत आगच्छामह इति" इति । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मण्येव दृष्टः-४"एष ब्रह्मलोकस्सम्राडिति होवाच"इति । लिङ्गश्चमा भूदन्यत्र दर्शनम्,अस्मिन् प्रकरणे सर्वासां प्रजानां श्रू. यमाणमहरहर्गमनं, ब्रह्मलोकशब्दश्च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम् । चशब्दोऽवधारणे । एतदेव पर्याप्तमित्यर्थः ॥ १४॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥ अस्य धृत्याख्यस्य परमात्मनो महिम्नः अस्मिन् दहराकाशे उपलब्धेरयं परमात्मा । धृतिः --जगद्विधरणं परमात्मनो महिमेत्यन्यत्रावगम्यते । ५"एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इति । सा चास्मिन्दहराकाशे उपलभ्यते ६"अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय' इति ॥ प्रसिद्धेश्च।। ७'को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्"८"सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिष्वाकाशशब्दस्य परस्मिन्ब्रह्मणि प्रसिद्धः । आकाशशब्द एव परमात्मधर्मविशेषितो भूताकाशशङ्कां निवर्तयतीत्यर्थः ॥१६॥ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ परमात्मन इतरः जीवः ; ९"अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय” इति जीवस्य परामर्शात्स एव दहराकाश इति चेत् तन्न, पूर्वोक्तानां गुणानां तस्मिन्नसम्भवात् ॥१७॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ उत्तरात् - प्रजापतिवाक्यात् , अपह१. छा ८-३.२॥ २. छा. ६-९-२॥ ६. छा. ८-४-१॥ ३. छा. ६-१०-२ ॥ ७. ते. आन. ७ ॥ ४. . ६-३-३३ ॥ ५. र.६-४-२२॥ ८. छा. १-९-१॥ १.छा. ८-३-४॥ For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ भीशारीरकमीमांसामान्ये [... तपाप्मत्वदिगुणको जीवोऽवगम्यत इति चेत्-तन्न,जागरिताद्यवस्थामिरनादि. कालप्रवृत्ताभिः पुण्यपापरूपकर्ममूलाभिः तिरोहितगुणकः परब्रह्मोपासनजनिततदुपसम्पत्त्याऽऽविर्भूतस्वरूपोऽसौ जीवः तत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपोऽपहतपाप्मत्वादिगुणक इत्यस्मिन्दहराकाशे न जीवशङ्का ॥ १८ ॥ दहरवाक्ये जीवपरामर्शः किमर्थ इति चेत् तत्राह अन्यार्थश्च परामर्शः॥ १"अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इति परंज्योतिस्वरूपदहराकाशोपसम्पत्त्या ऽस्य जीवस्यानृततिरोहितस्वरूपस्य खरूपाविर्भावो भवतीति दहराकाशस्य जगद्विधरणादिवजीवस्वरूपाविर्भावापादनरूपसम्पद्विशेषप्रतिपादनार्थो जीवपरामर्शः ॥ १९ ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ।। २"दहरोऽस्मिन्" इत्यल्पपरिमाणश्रुतिरारामोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माजथायसो ब्रह्मण इति चेततत्र यदुत्तरं वक्तव्यम् , तत्पूर्वमेवोक्तम्-३"निचाय्यत्वात्" इत्यनेन ।। २०॥ अनुकृतेस्तस्यच ॥ अनुकृतिः - अनुकारः; तस्य परमात्मनोऽनुकाराद्धि जीवस्याविर्भूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम् ; अतोऽनुकर्तुः जीवादनुकार्यः परब्रह्मभूतो दहराकाशोऽर्थान्तरभूत एव । तदनुकारश्च तत्साम्या. पत्तिः श्रूयते ४"यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति ॥ २१॥ अपि स्मयते ॥ स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकृति वस्य, ५"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥२२॥ ___ इति वेदान्तदीपे दहराधिकरणम् ॥ ५ ॥ ---(श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम् ॥ ६॥).-.. शब्दादेव प्रमितः ॥१॥३॥२३॥ १. छा. ८-३-४॥ २. डा. ८-१-१॥ ३. शारी. १-२.७॥ ५.गी. १४.२ ॥ For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] प्रमिताधिकरणम् . कठवल्लीषु श्रूयते" अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत् " २“अष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वैतत् " ३" अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्महेन्मुञ्जादिवैषीकां धैर्येण । तं विद्याच्छुक्रममतम्" इति । तत्र सन्दिह्यते-किमयमङ्गष्ठमात्रपमितः प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम्? प्रत्यगात्मेति। कुतः? जीवस्यान्यनाष्ठमात्रत्वश्रुतेः *"प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः" इति । नचान्यत्रोपासनार्थतयाऽपि परमात्मनोअष्ठमात्रत्वं श्रूयते । एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति ॥ ---(सिद्धान्तः)-..-. इति प्राप्ते ब्रूमः-शब्दादेव प्रमितः-अगष्ठप्रमितः परमात्माः कुतः? २"ईशानो भूतभव्यस्य" इति शब्दादेव न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते ॥ २३॥ ___ कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राहहृद्यपेक्षया तु मनुष्याधिकारत्वात्। १ । ३॥२४॥ परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याअष्ठप्रमाणत्वात्तदपेक्षयेदमङ्गष्ठप्रमितत्वमुपपद्यते,जीवस्याप्यङ्गष्ठप्रमितत्वं हदयान्तर्वर्तित्वात्तदपेक्षमेवः तस्याराग्रमात्रत्वश्रुतेः। मनुष्याणामेवोपासकत्वसम्भावनया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्यहृदयस्य च तत्तदङ्गुष्ठ१. कठ. २.४.१२ ॥ ३. कठ. २६-१७॥ २. कठ. २-४-१३॥ | ४.वे. ५-८.७॥ "विश्वाधिप' इत्वपि पा॥ For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२० [अ. १. प्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्विदोषः स्थितं तावदुत्तरत्नसमापयिष्यते ॥ २४ ॥ वेदान्तदीपे Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे - शब्दादेव प्रमितः ॥ १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य" इत्यदौ अङ्गष्टप्रमितः परमात्मा, १ " ईशानो भूतभव्यस्य " इति सर्वेश्वरत्ववाचिशब्दादेव ॥ २३ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ अनवच्छिन्नस्यापि उपासकष्टदि वर्तमानत्वापेक्षष्ठप्रमितत्वम् । मनुष्यानामेवोपासनसंभावनया तद्विषयत्वाश्च शास्त्रस्य मनुष्यहृदयापेक्षयेदमुक्तम् । स्थितं तावदुत्तरत्र समापयिष्यते ॥ वेदान्तदीपे - शब्दादेव प्रमितः । कटवल्ली वाम्नायते १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत्”, उत्तरत्र च २“ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ", तथोपरिष्टात् ३" अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः” इति । अत्राङ्गुष्ठप्रमितो जीवात्मा, उत परमात्मेति संशयः । जीवात्मेति पूर्वः पक्षः, अन्यत्र स्वीकृतस्पष्टजीवभावे पुरुषे अङ्गष्टप्रमितत्वश्रुतेः ४ " प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः” इति । राद्धान्तस्तु – तत्र “स्वकर्मभिः” इति जीवभावनिश्चयवदत्रापि, १" ईशानो भूतभव्यस्य " इति भूतभव्येशितृत्वदर्शनात् परमात्मैव - इति । सूत्रार्थस्तु - शब्दादेव प्रमितः - अङ्गुष्ठप्रमितः परमात्मैव, १" ईशानो भूतभव्यस्य " इति परमात्मवाचिशब्दात् ॥ २३ ॥ कथमनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठप्रमितत्वमित्याशङ्कयाहहृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ उपासनार्थमुपासकहृदये वर्तमानत्वात्, उपासकहृदयस्याङ्गुष्ठमात्रत्वात् तदपेक्षयेदमङ्गुष्ठप्रमितत्वम् । मनु ४. श्वे. ५-७-८॥ + 'विश्वाधिप' इत्युपनि उभयत्र प्रमिताधिकर णस्यासमाप्तत्वात् तदवसानसूचनं नकृतम् ॥ १. कठ. २-४- १२॥ षत्पाठो दृश्यते ॥ २. कठ, २-४ १३॥ ३. कठ. २-६-१७॥ For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] देवताधिकरणम् ३२१ याणामेवोपासकत्वसम्भावनया मनुष्यानधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य मनुष्यह. दयापेक्षयेदमुक्तम्। स्थितं तावदुत्तरत्र समापयिष्यते ॥२४॥ ---(श्रीशारीरकमीमांसाभाष्ये एतद्गर्भे देवताधिकरणम् ॥७॥)-n. तदुपर्यपि बादरायणस्सम्भवात् । १॥३॥२५॥ परस्य ब्रह्मणोऽङ्गुष्ठममितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम् । तत्प्रसङ्गेनेदानी ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते । किं तावद्युक्तम् ? नास्ति देवादीनामधिकार इति। कृतः सामर्थ्याभावात्, नह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यमस्ति । नच देवादीनां सशरीरत्वे प्रमाणमुपलभामहे । यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रहवत्त्वप्रतिपादनपरं न किंचिदपि वाक्यमुपलभ्यते। मन्त्रार्थवादास्तु कर्मविधिशेषतयाऽन्यपरत्वान देवादिविग्रहसाधने प्रमवन्ति । कर्मविधयश्च खापेक्षितोद्देश्यकारकत्वातिरेकि देवतागतं किमपि न साधयन्ति । अतएव तासामर्थित्वमपि न सम्भवति । अतस्सामर्थ्यार्थित्वयोरभावाद्देवादीनामनधिकार इति ॥ ----(सिद्धान्तः).... एवं प्राप्ते प्रचक्ष्महे-तदुपर्यपि बादरायणस्सम्भवात्-तदुपर्यपि-तत् ब्रह्मोपासनम्, उपरि-देवादिष्वपि,सम्भवतीति भगवान्बादरायणो मन्यते,तेषामर्थित्वसामर्थ्ययोस्सम्भवात्। अर्थित्वं तावदाध्यात्मिकादिदुर्विषहदुःखाभितापात्परस्मिन्ब्रह्मणि च निरस्तनिखिलदोषगन्धेऽनवधिकातिशयासहधेयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच सम्भवति । सामाध्यमपि पडतरदेहेन्द्रियादिमत्तया सम्भवति। देहेन्द्रियादिमखंचव For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ श्रीशारीरकमीमांसाभाष्ये [अ. १. ह्मादीनां सकलोपनिषत्सु सृष्टिप्रकरणेषूपासनप्रकरणेषु च श्रूयते । तथाहि १“सदेव सोम्येदमग्र आसीत् " १" तदैक्षत बहु स्यां प्रजायेयेति ततेजोऽ सृजत" इत्यारभ्य सर्वमचेतनं तेजोबनप्रमुखावस्थाविशेषवव्याकृत्य २ “अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि" इति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक्चायमकरोदित्युक्तम् । एवं सर्वत्र सृष्टिवाक्येषु देवतिर्य मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते। देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दशलोकस्थफलभोगयोग्यदेहेन्द्रियादियोगायत्तः, आत्मनां स्वतो देवादित्वाभावात् । तथा ३" तद्धोभये देवासुरा अनुबुबुधिरे ते होचुः...इन्द्रो हवै देवानामभिप्रववाज विरोचनोऽसुराणां तो हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः"४"तो ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः तौ ह प्रजापतिरुवाच" इत्यादिना स्पष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते।कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि५ "वज्रहस्तः पुरन्दरः" ६" तेनेन्द्रो वज्रमुदयच्छत्" इत्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्पमेयमेव । नचानुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्याधुपयोगित्वात्तेन विना स्तुत्याउनुपपत्तेश्व। गुणकथनेन हि स्तुतित्वम्।गुणानामसद्भावे स्तुतित्वमेव हीयेत । नचासता गुणेन कथितेन प्ररोचना जायते। अतः कर्म प्ररोचयन्तो गुणसद्भाव बोधयन्त एवार्थवादाः। मन्त्राच कर्मसु विनियुक्तास्तत्रतत्र किश्चित्करत्वायानुष्ठेयमर्थ प्रकाशयन्तो देवतादिगतविग्रहादिगुणविशेषमभिदधत एव तत्र किश्चित्कुर्वन्ति, अन्यथेन्द्रादिस्मृत्यनुपपत्तेः । नच निर्विशेषा देवता धियमधिरोहति । तत्र १. छा, ६-२-१, ३ ॥ ४. छा. ८-७-३ ॥ २. छा. ६-३-२ ॥ ५. अष्टक. २. प्रश्न, ६. अनु. ७. पं. ३४॥ ३. छा. ८-७-२॥ ६. काण्ड. २. प्रश्न, ४. अनु. १२ ॥ For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३ पा. ३.] देवताधिकरणम् प्रमाणान्तराप्राप्तान्गुणान् स्वयमेव बोधयित्वा तैः कर्म प्ररोचयन्तिः गुणविशिष्टं वा प्रकाशयन्ति प्राप्तांश्चानूध तैः प्ररोचनप्रकाशने कुर्वन्ति विरुद्धत्वे तु तद्वाचिभिश्शब्दैरविरुद्धान्गुणान् लक्षयित्वा कुर्वन्ति। कर्मविधेश्च देवताया ऐश्वर्यमपेक्षितमेव । कामिनः कर्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविनः फलस्य वर्गादेस्साधकमपेक्षते । मन्त्रार्थवादयोश्च १"वायुर्वं क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति"२“यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम्" इत्यादिषु देवतायाः कर्मणाऽऽराधितायाः फलदायित्वं तदनुगुणं चैश्वर्य प्रतीयमानमपेक्षितत्वेन वाक्यार्थे समन्वीयते । देवपूजाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते । तदेवं कृत्स्नवाक्यपालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्यतया वाऽऽश्रयितव्यम्। तथा सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रेतिहासपुराणेषु ब्रह्मादीनां देवासुरप्रभृतीनां च देहेन्द्रियादयस्वभावभेदाः स्थानानि भोगाः कृत्यानिचेत्येवमादयस्सुव्यक्ताः प्रतिपाधन्ते। अतो विग्रहादिमत्त्वाद्देवानामप्यधिकारोऽस्त्येव ।। २५ ॥ विरोधः कर्मणीति चेन्नानेक प्रतिपत्तेर्दर्शनात् । १।३।२६ ॥ देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते,बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवत्त्वे३ "अग्निमग्न आवह" ४"इन्द्रागच्छ हरिव आगच्छ” इत्यादिना आहूतस्य तस्य सन्निधानानुपपत्तेः। दर्शयति चाग्न्यादीनां तत्रतत्रागमनं५ "कस्य वाह देवा यज्ञमागच्छन्ति कस्य १. यजु. काण्ड, २-प्रश्न.१-अनु.१-पं.१॥ ४. यजु, आरण, प्रश्न. १. अनु. १२ ॥ २.अष्ट.प्रश्न.२॥ ३. यजु, अष्ट. ३.प्रश्न.५॥। ५. यजु. का. १.प्रश्न. ६. अनु.७. पं.२१॥ For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ श्रीशारीरकमीमांसामाग्ये वा न बहूनां यजमानानां यो वै देवताः पूर्वः परिगृहाति स एनायो भूते यजते" इति। अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत्, तन-अनेकप्रतिपत्तेर्दर्शनात्-दृश्यतेहि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ॥ २६ ॥ शब्द इति चेन्नातःप्रभवा प्रत्यक्षानुमानाभ्याम् ॥ १।३।२७॥ विरोध इति वर्तते। मा भूत्कर्माण विरोधोऽनेकशरीरप्रतिपत्तेः। शब्दे तु वैदिके विरोधःप्रसज्यते, अनित्यार्थसंयोगात्। विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनिवार्यम् । ततो देवदत्तादिशब्दवदिन्द्राद्यर्थजन्मनः प्राग्विनाशार्ट्सचेन्द्रादिशब्दानां वैदिकानामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादितिचेत्-तन, अतः प्रभवात्-अस्मादिन्द्रादिशब्दादेव पुनःपुनरिन्द्राद्यर्थस्य प्रभवात् । एतदुक्तं भवति-नहि देवदत्तादिशब्दवदिन्द्रादिशब्दा वैदिका व्यक्तिविशेषमाने सङ्केतपूर्वकाः प्रवृत्ताः अपि तु स्वभावत एव गवादिशब्दवदाकृतिविशेषवाचित्वेन । ततश्चैकस्यामिन्द्रव्यक्ती विनष्टायामत एव वैदिकादिन्द्रशब्दान्मनसि विपरिवर्तमानादवगततद्वाच्यभूतेन्द्राधाकारो धाता तदाकारमेवापरमिन्द्रं सृजति ; यथा कुलालो घटशब्दान्मनसि विपरिवर्तमानात्तदाकारमेव घटम्-इति। कथमिदमवगम्यते? प्रत्यक्षानुमानाभ्यां-श्रुतिस्मृतिभ्यामित्यर्थः। श्रुतिस्तावत "वेदेन रूपे व्याकरोत्सतासती प्रजापतिः"इति; तथा २"स भूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत" इत्यादि । वाचकशब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशिष्टं तंतमर्थ सृष्टवानित्यर्थः। स्मृतिरपि ३" अनादिनिधना ह्येषा वागुत्सृष्टा १. अष्ट. २. प्रश्न. ६. अनु. २. पं. ७ ॥ ३, मनु. भ. १. लो. २१ ॥ २. अE, २. प्रम. २. अनु. ४. पं. २२॥ For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] देवताधिकरणम् ३२५ स्वयंभुवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः" इति १"सर्वेषां तु स नामानि कर्माणिच पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममें" इति। संस्थाः संस्थानानि रूपाणीति यावत् तथा २" नामरूपंच भूतानां कृत्यानांच प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः" इति । अतो देवादीनां विग्रहवत्त्वेऽपि वैदिकशब्दानामानर्थक्यं, वेदस्यादिमत्त्वंच न प्रसज्यते ॥२७॥ अत एव च नित्यत्वम् । १।३।२८॥ ___यत एवेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां तत्तदाकारवाचित्वं, तत्तच्छब्देन तत्तदर्थस्मृतिपूर्विकाच तत्तदर्थसृष्टिः, तत एव ३ "मन्त्रकृतो वृणीते" "नम ऋषिभ्यो मन्त्रकृद्भयः" ५“अयं सो अग्निरिति विश्वामित्रस्य सूक्तं भवति" इत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्त्वकाण्डकृत्त्वऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते। एभिरेव ३" मन्त्रकृतो वृणीते” इत्यादिभिर्वेदशब्देस्तत्तत्काण्डसूक्तमन्त्रकृतामृषीणामाकृतिशतयादिकं परामृश्य तत्तदाकारान् तत्तच्छक्तियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मन्त्रादिकरणे नियुते। तेऽपि प्रजापतिना आहितशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान्पूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीननधीत्यैव खरतो वर्णतश्चास्खलितान्पश्यन्ति । अतश्च वेदानां नित्यत्वमेपांच मन्त्रकृत्त्वमुपपद्यते ॥ २८ ॥ अथ स्यात्-नैमित्तिकमलयादिष्विन्द्राद्युत्पत्ती वेदशन्देभ्यः पूर्वपूर्वेन्द्रादिस्मरणेन प्रजापतिना देवादिसृष्टिरुपपद्यतां नामः प्राकृतपलये तु स्रष्टः प्रजापतेर्भूताद्यहङ्कारपरिणामशब्दस्यच विनष्टत्वात्कथं प्रजापतेश्शन्दपूर्विका सृष्टिरुपपद्यते ; कथन्तरां विनष्टस्य वेदस्य नित्यत्वम् । अतो १. २. वि. पु. अं. १. ४. आरण, प्रश्न. ७. अनु. १. पं. १ ॥ म. ५.लो. ६३॥ ३. ५. यजु. का. ५. प्र. २. अनु.३.पं. ३॥ For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ श्रीशारीरकमीमांसाभाष्ये वेदनित्यत्ववादिना देवादीनां विग्रहवत्त्वाभ्युपगमेऽपि लोकव्यवहारस्य प्रवाहानादिताऽऽश्रयणीयेति । अत्रोत्तरं पठतिसमाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च । १।३।२९॥ कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तासमाननामरूपत्वादेव न कश्चिद्विरोधः। तथाहि-स भगवान्पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् १" बहु स्याम्" इति सङ्कल्प्य भोग्यभोक्तृजातं स्वस्मिन् शक्तिमात्रावशेषं प्रलीनं विभज्य महदादिब्रह्माण्डं हिरण्यगर्भपर्यन्तं यथापूर्व सृष्ट्वा वेदांश्च पूर्वानुपूर्वीविशेषसंस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य स्वयमपि तदन्तरात्मतयाऽवतस्थे । अतो यथोक्तं सर्वमुपपन्नम् । एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वं च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेष स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु विशेषः-संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोतमः । कुत इदं यथोक्तमवगम्यत इति चेत् तत्राह-दर्शनात् स्मृतेश्च । दर्शनं तावत् २“यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च पहिणोति तस्मै" इति । स्मृतिरपि मानवी ३"आसीदिदं तमोभूतम्" इत्यारभ्य "सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥ तदण्डमभवबै सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः" इति । तथा पौराणिकी ४" तत्र सुप्तस्य देवस्य नाभौ पद्ममजायत। तस्मिन्पझे महाभाग वेदवेदाङ्गपारगः।। ब्रह्मोत्पन्नस्स तेनो | ३. मनु. १.५-८, ९॥ १. छा. ६-२-३ ॥ २. श्वे. ६.१८॥ For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३.] देवताधिकरणम् क्तः प्रजास्सृज महामते " ; तथा १" परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः" इति । तथा २" आदिसर्गमहं वक्ष्ये" इत्यारभ्योच्यते - ३ “सृष्ट्वा नारं तोयमन्तस्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पेकल्पे तत्र शयामि भूयस्सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम् । एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्पन्नस्स मया चोक्तः प्रजास्सृज महामते " इति ॥ Acharya Shri Kailassagarsuri Gyanmandir अतो देवादीनामप्यर्थित्व सामर्थ्ययोगाद्ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम् ।। २९ ॥ इति श्रीशारीरकमीमांसाभाष्ये देवताधिकरणम् ॥ ७ ॥ २. " वेदान्तसारे - तदुपर्यपि बादरायणस्सम्भवात् । तत् ब्रह्मोपासनम् ; उपरि देवादिष्वप्यस्ति, अर्थित्वसामर्थ्यसम्भवादिति भगवान् बादरायणः मेने; सम्भवश्च पूर्वोपार्जितज्ञानाविस्मरणात् मन्त्रार्थवादेषु विग्रहादिमत्तया स्तुतिदर्शनात् तदुपपत्तये तत्सम्भवे तेषामेव प्रामाण्येन विग्रहादिमत्त्वाच्च ॥ २५॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । विग्रहादिमत्वे एकस्यानेकत्र युगपत्सान्निध्यायोगात् कर्मणि विरोधः - इति चेन्न, शक्तिमत्सु सौभरि प्रभृतिषु युगपदनेकशरीरप्रतिपत्तिदर्शनात् ॥ २६ ॥ " ३२७ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्।। वैदिके तु शब्दे विरोधप्रसक्तिः देहस्य सावयवत्वेनोत्पत्तिमत्वादिन्द्रादिदेवोत्पत्तेः प्राकू विनाशादूर्ध्वञ्च वैदिकेन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादितिचेन, अतः वैदिकादेवेन्द्रादिशब्दादिन्द्राद्यर्थसृष्टेः । नहीन्द्रादिशब्दाः व्यक्तिवाचकाः ; अपि तु गवादिशब्दवदाकृतिवाचिनः पूर्वस्मिन्निन्द्रादौ विनष्टे वैदिकेन्द्रादिशब्दादेव ब्रह्मा पूर्वेन्द्राद्याकृतिविशेषं स्मृत्वा तदाकारमपरम् इन्द्रादिकं कुलालादिवि घटादिकं सृजतीति नकश्चिद्विरोधः । कुत इदमवगम्यते ? श्रुतिस्मृतिभ्याम् । श्रुतिः ४'वेदेन रूपे व्याकरोत् सतासती प्रजापतिः” ५'स भूरिति व्याहरत् स ४. अष्ट. २. प्र. ६. अनु २ ॥ ५. अष्ट. २. प्र, २ ॥ For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ श्रीशारीरकमीमांसामाध्ये भूमिमसृजत" इत्यादिः। स्मृतिरपि-१"सर्वेषां तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे" इत्यादिः ॥ २७॥ ____ अत एव च नित्यत्वम् ॥ यतो ब्रह्मा वैदिकाच्छब्दादर्थान् स्मृत्वा सृजति; अत एव २"मन्त्रकृतो वृणीते" ३" विश्वामित्रस्य सूक्तं भवति" इति विश्वामित्रादीनाम्मन्त्रादिकृत्त्वेऽपि मन्त्रादिमयवेदस्य नित्यत्वं तिष्ठति । अनधीतमन्त्रादिदर्शनशक्तान् पूर्वविश्वामित्रादीन् तत्तद्वैदिकशब्दैः स्मृत्वा, तदाकारा नपरान् तत्तच्छक्तियुक्तान् सृजति हि ब्रह्मा नैमित्तिकप्रलयानन्तरम् । ते चानधीत्यैव तानेव मन्त्रादीन् अस्खलितान् पठन्ति । अतस्तेषां मन्त्रादिकृत्त्वं वेदनि स्यत्वं च स्थितम् ॥ २८॥ प्राकृतप्रलये तु चतुर्मुखे वेदाख्यशब्दे च विनष्टे कथं वेदस्य नित्यत्वमित्यत आह समाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ अत एव सृज्यानाम् समाननामरूपत्वात् प्राकृतप्रलयावृत्तावपि न विरोधः । आदिकर्ता, परमपुरुषो हि पूर्वरूपसंस्थानं जगत् स्मृत्वा तदाकारमेव जगत् सृजति, वेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृत्य चतुर्मुखाय ददातीति, श्रुतिस्मृतिभ्यामादिकर्ता पूर्ववत्सृजतीत्यवगम्यते। श्रुतिस्तावत् ४"सूर्याचन्द्रमसौधाता यथापूर्वमकल्पयत्" इत्यादिका, ५“यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति च। स्मृतिरपि-६"यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु" इति । वेदस्य नित्यत्वं च पूर्वपूर्वोचारणक्रमविशिष्टस्यैव सर्वदोश्चार्यमाणत्वम् ॥२९॥ ___ इति वेदान्तसारे देवताधिकरणम् ॥ ५ ॥ वेदान्तदीपे-तदुपर्यपि बादरायणस्सम्भवात् ॥ मनुष्याधिकार ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेन देवादीनामपि ब्रह्मविद्यायामधिकारोऽस्ति नवेति चिन्त्यते । न देवादीनामधिकारोऽस्तीति पूर्वः पक्षः, परिनिष्पन्ने ब्र. मणि शब्दस्य प्रामाण्यसम्भवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात् मन्त्रा. र्थवादानामपि विधिशेषतया विग्रहादिसद्भावपरत्वाभावात् विग्रहवनिर्वा. १. मनु. १-२१॥ २. । ४. ते, नारायण. ६.१-३८ ॥ ३, का, ५.प्र. २. अनु. ४ ॥ । ५, थे. ६.१८॥ For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२९ पा..] देवताधिकरणम्. हरहरनुष्ठीयमानविवेकादिसाधनसप्तकसंस्कृत मनोनिष्पाद्योपासन निर्वृत्तौ तेषां सामर्थ्याभावात्। राद्धान्तस्तु-जगत्सृष्टिप्रकरणेषु नामरूपव्याकरण श्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति।देवादीनां देहेन्द्रियादिकरणमेवहि नामरूपव्याकरणम् मन्त्रार्थवादयोश्च तदुपलब्धेः तयोरनुष्ठेयप्रकाशनस्तुतिपरत्वेऽपि त. दुपपत्तये तत्सद्भावे प्रमाणत्वाद्देवादीनां विग्रहादिमत्त्वसिद्धिः नहि विग्रहादिमतया स्तुतिः प्रकाशनं च तदभावे सम्भवति । अतस्सामर्थ्यसम्भवादस्त्येवाधिकारः-सूत्रार्थस्तु। तदुपर्यपि-तेभ्यः मनुष्येभ्यः उपरिवर्तमानानां देवादीना मप्यधिकारोस्ति, यद्वा। तत्-ब्रह्मोपासनम् , उपरि देवादिष्वपि सम्भवति; तेषामपि ब्रह्मवरूपतदुपासनप्रकारज्ञानतदर्थित्वतदुपादानसामर्थ्यसम्भवात् ; पूर्वोपार्जितज्ञानाविस्मरणात् ज्ञानसम्भवः तापत्रयाभिहतिपूर्वकब्रह्मगुणज्ञानाचार्थित्व सम्भवः, सृष्टिवाक्यमन्त्रार्थवादेषु विग्रहवत्त्वादिदर्शनात् सामर्थ्यसम्भवश्चेति भगवान् बादरायणः मन्यते ॥ २५ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ कर्मणि - यागादी, विग्रहवत्त्वे सति एकस्य युगपदनेकयागेषु सन्निधानानुपपत्तेः विरोधः प्रसज्यत इति चेत्-तन्न, शक्तिमतां सौभरिप्रभृतीनां युगपदनेकशरीरप्रतिपत्तिदर्श. नात् ॥ २६॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ विरोध इति वर्तते ; माभूत्कर्मणि विरोधः, शब्दे तु वैदिके विरोधः प्रसज्यते, विग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्तिविनाशयोगादुत्पत्तेः प्राक् विनाशादूर्ध्व च, वैदिकानामिन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादिति चेत् तन्न, अतः प्रभवात्-अतः वैदिकादेव शब्दात् इन्द्रादेः प्रभवात् ; पूर्वपूर्वेन्द्रादौ विनष्टे वैदिकादिन्द्राद्याकृतिविशेषवाचिनश्शब्दादिन्द्राद्याकृतिविशेषं स्मृत्वा तदाकारमपरमिन्द्रादिकं सृजति प्रजापतिरिति वैदिकस्य शब्दस्य न कश्चिद्विरोधः। न हि देवदत्तादिशब्दवदिन्द्रादिशब्दाः व्यक्तिविशेषे सङ्केतपूर्वकाः प्रवृत्ताः,अपि तु गवादिशब्दवदाकृतिविशेषवाचिन इति तेषामपि नित्य एव वाच्यवाचकभावः। वैदिकादिन्द्रादिशब्दात्तदर्थविशेषं स्मृत्वा कुलालादिरिव घटादिकं प्रजापतिस्सृजतीति कुतोऽवगम्यते प्रत्यक्षाऽनुमानाभ्यां-श्रुतिस्मृतिभ्यामित्यथः। श्रुतिस्तावत्-१"वेदेन रूपे व्याकरोत्सतासती प्रजापतिः" तथार “स भू१. यजु. अष्टके. २-प्र, ६-अनु. २॥ २. यजु. अष्टके. २-प्र. २-अनु. ४॥ 4" For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० वेदान्तदीपे [अ.१. रिति व्याहरत् स भूमिमसृजत" इत्यादिका स्मृतिरपि-"सर्वेषाच स ना. मानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे" २" नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनाशकार सः" इत्यादिका ॥२७॥ ___ अत एव च नित्यत्वम् ॥ यतः प्रजापतिः वैदिकाच्छब्दादकारं स्मृत्वा तदाकारं सर्व सृजति, अतश्च वसिष्ठविश्वामित्रादीनां मन्त्रसूक्तादिकत्वेऽपि मन्त्रादिमयस्य वेदस्य नित्यत्वं तिष्ठत्येव ; प्रजापतिर्हि नैमित्तिकप्रलयानन्तरम् ३" मन्त्रकृतो व्रणीते" ४"विश्वामित्रस्य सूक्तं भवति" इत्यादिवेदशब्दभ्योऽनधीतमन्त्रादिदर्शनशक्तवसिष्ठाद्याकृतिविशेषं स्मृत्वा , वसिष्ठत्वादिपदप्राप्तयेऽनुष्टितकर्मविशेषांश्चानुस्मृत्य, तदाकारविशेषांस्तान्वसिष्ठादीन् स. जति ; ते चानधीत्यैव वेदैकदेशभूतमन्त्रादीन् स्वरतो वर्णतश्चास्खलितान्पठन्ति तदेषां मन्त्रादिकृत्वेऽपि वेदनित्यत्वमुपपद्यते ॥ २८॥ प्रजापतिप्रभृतिषु सर्वेषु तत्त्वेष्वव्याकृतपर्यन्तेषु अव्याकृतपरिणामरूपेषु शब्दमयेषु वेदेषु च विनष्टेष्वव्याकृतसृष्टयावृत्तौ कथं वेदस्य नित्यत्वमित्यत आह समाननामरूपत्वाच्चासत्तावप्यविरोधो दर्शनात स्मृतेश्च॥ अव्याकृतस. ष्टयावृत्तावपि सृज्यानां समाननामरूपत्वादेव न कश्चिद्विरोधः। आदिसर्गेऽपि हि परमपुरुषः पूर्वसंस्थानं जगत्स्मरन् तथैव सृजति; वेदांश्च पूर्वानुपूर्वीविशिटानाविष्कृत्य हिरण्यगर्भाय ददाति इति पूर्वसंस्थानमेव जगत्सृजतीति कथमवगम्यते-दर्शनात् स्मृतेश्च--दर्शनं - श्रुतिः, ५“अहोरात्राणि विदधद्विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चा. न्तरिक्षमथो सुवः” इति, ६" यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति च; स्मृतिरपि-७“यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु"इति।एतदेव वेदस्य नित्यत्वम्-यत्पूर्वपूर्वोच्चारणक्रमविशेषं स्मृत्वा तेनैव क्रमेणोश्चार्यत्वम् , परमपुरुषोऽपि ख१. मनु. १-२१॥ ५. ते. नारा. ६-१-३८॥ २. वि. पु. १.५-६३ ॥ ६. थे, ६-१८॥ ३. आपस्तम्बप्रवरखण्ड. १-७॥ ७. वि. पु. १-५.६५॥ ४, का, ५, प्र. २. अनु. ४॥ For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मष्वधिकरणम्. Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] ३३१ स्वरूपस्वाराधनतत्फलयाथात्म्यावबोधिवेदं स्वस्वरूपवन्नित्यमेव पूर्वानुपूर्वीषि - शिष्टं स्मृत्वाऽविष्करोति । अतो देवादीनां ब्रह्मविद्याधिकारे न कश्चिद्विरोधः ॥ इति वेदान्तदीपे देवताधिकरणम् ॥ ७ ॥ (श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम् ॥। ८ ।।) ० ( पूर्वपक्ष सू० ) - मध्वादिष्वसम्भवादनधिकारं जैमिनिः | १|३ | ३० ॥ ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीत्युक्तम् ; इदमिदानीं चिन्त्यते येषूपासनेषु या देवता एवोपास्यास्तेषु तासामधिकारोऽस्ति न इति; किं प्राप्तम् ? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते ; कुतः असम्भवात्-नह्यादित्यवस्वादिभिरूपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति । नच वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात् ; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपा स्यत्वं वस्वादित्वंच प्राप्यं श्रूयते : “ असौ वा आदित्यो देवमधु" इत्युपक्रम्य २" तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति" इत्युक्त्वा ३" स य एतदेवममृतं वेद सूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति" इत्यादिना ।। ३० ।। ज्योतिषि भावाच्च । १ । ३ । ३१ ॥ ४" तं देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम्” इति ज्योतिषि - परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते । देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरोपासननिवृत्तिं द्योतयति । अत एy वस्वादीनामनधिकारः ॥ ३१ ॥ १. छा. ३-१-१ ॥ २. छा. ३-६-१ ॥ ] ३. छा. ३-६-३ ॥ ४. बृ. ६-४-१४ ॥. For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ श्रीशारीरकमीमांसाभाष्ये [म... ---(सिद्धान्त सू०) --- इति प्राप्तेऽभिधीयतेभावं तु बादरायणोऽस्ति हि । १।३।३२॥ आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते। अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वखादित्वमाप्तिपूर्वकब्रह्मप्रेप्सासम्भवः । इदानीं वस्तादीनामपि सतां कल्पान्तरेऽपि वखादित्वप्राप्तिश्चापेक्षिता भवति। अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते १“असौ वा आदित्यो देवमधु" इत्यारभ्य २“अथ तत ऊर्ध्व उदेत्य" इत्यतः प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; २“अथ तत ऊर्ध्व उदेत्य" इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते। तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीवः कल्पान्तरे वस्खादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवानोति । ३"न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद" इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्खादित्वफलस्य श्रवणाच वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते। अत एवंविधमुपासनमादित्यवस्वादीनामपि सम्भवति । एवञ्च ब्रह्मण एवोपास्यत्वात् ४"तं देवा ज्योतिषां ज्योतिः" इत्यप्युपपद्यते। तदाह वृत्तिकारः ५"अस्ति हि मध्वादिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात्" इति।। इति श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम् ॥ ८॥ । १, छा. ३.१-१॥ १, छा, ३.११-१॥ ६.का. ३.११-३॥ ४. ६. ६-४-१६ ।। ५. बोधायनवृत्तिः ॥ For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] मवधिकरणम् वेदान्तसारे-मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥ मधुविद्यादिषु वस्खादिदेवानामेव उपास्यत्वात् , प्राप्यत्वाच, तत्र वखादीनां कर्मकर्तृभापविरोधेन उपास्यत्वासम्भवात्, वसूनां सतां वसुत्वं प्राप्तमिति प्राप्यत्वासम्भवाच तत्र वस्वादीनामनधिकारं जैमिनिमने ॥ ३०॥ ज्योतिषि भावाच ॥१"तं देवा ज्योतिषां ज्योतिरायुर्योपासतेऽमृतम्" इति ज्योतिषि परस्मिन् ब्रह्मणि देवानां साधारण्येन प्राप्तत्वेऽपि अधिकारमा प्रवचनात् अन्यत्र वस्वाद्युपासने अनधिकारो न्यायसिद्धोगम्यते ॥ ३१ ॥ भावंतु बादरायणोऽस्ति हि ॥ मधुविद्यादिवपि वस्वादीनामधिकारभा भगवान् बादरायणो मन्यते । अस्तिहि वस्वादीनां सतां स्वावस्थब्रह्मण उपास्यत्वसम्भवः, कल्पान्तरे वसुत्वादेः प्राप्यत्वसम्भवश्व। २"एकल एव मध्ये स्थाता" इत्यादिना आदित्यस्य कारणावस्थां प्रतिपाद्य, ३“य एतामेवं ब्रह्मोपनिषदं वेद" इति मधुविद्यायाः ब्रह्मविद्यात्वमाह । अतः कार्यकारणोभयावस्थं तत्रोपास्यम् ; कल्पान्तरे वस्खादित्वमनुभूय अधिकारावसाने ब्रह्मप्राप्तिन विरुद्धा ॥ ३२॥ इति वेदान्तसारे मध्वधिकरणम् ॥ ८॥ वेदान्तदीपे-मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ छान्दोग्ये ४"असौ वा आदित्यो देवमधु" इत्युपक्रम्य ५“तद्यत्प्रथममृतं तद्वसव उपजीवन्ति" इत्युक्त्वा,६"स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदे. वामृतं दृष्ट्रा तृप्यति" इत्यादिना ऋग्यजुस्सामादिवेदोदितकर्मसम्पायरसाधारतया मधुमयस्यादित्यस्य पूर्वदक्षिणपश्चिमोत्तरोशिान्वसुरुद्रादित्यमरुत्साध्यनाम्नां देवगणानां भोग्यत्वेनाभिधाय, तैर्भुज्यमानाकारणादित्यांशानुपास्यानुपदिश्य, तानेवाऽदित्यांशान् तथाभूतान्प्राप्यानुपदिशति । एवमादिषपासनेषु वस्खादित्यादीनामधिकारोऽस्ति,न वेति संशयः । नास्त्यधिकार इति पूर्वः पक्षः, वस्वादीनामुपास्यान्तर्गतत्वेन कर्मकर्तृभावविरोधात् , प्राप्यस्य वसुत्वादेः प्राप्तत्वाश्च । राद्धान्तस्तु-ब्रह्मण एव तदवस्थस्योपास्यत्वाद्वस्वादीनां सतां खावस्थब्रह्मानुसन्धानाविरोधात् , कल्पान्तरे वसुत्वादेः प्राप्यत्वाविरोधाच १.१. ६-४-१६॥ ४. छा. ३-११-१॥ २. छा. ३-११.१॥ ५. छा. ३-६-१॥ ३.छा. ३-११-१॥ ६. छा. ३.६-३॥ For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामाग्ये [म. १. वस्खादीनामधिकारस्सम्भवति-इति। सूत्रार्थस्तु-मधुविद्यादिषु वखादीनाम नधिकारं जैमिनिर्मन्यते, असम्भवात्-वस्वादीनामेवोपास्यानामुपासकत्वासम्भवात् , वसुत्वादेः प्राप्तत्वादेव प्राप्यत्वासम्भवाश्च ॥ ३०॥ ज्योतिषि भावाच।। १"तं देवा ज्योतिषां ज्योतिरायुहोपासतेऽमृतम्" इति ज्योतिषि परस्मिन् ब्रह्मणि देवमनुष्ययोरधिकारसाधारण्ये सत्यपि, ज्योतिषां ज्योतिः परं ब्रह्म देवा उपासते इति विशेषवचनं वस्खादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योतयति । देवाः इति सामान्यवचनश्च वखादिविशेषविषयमित्यवगम्यते, अन्येषामविरोधात् ॥ ३१ ॥ भावंतु बादरायणोऽस्ति हि ॥ तुशब्दः पक्षं व्यावर्तयति । वस्खादीनां मधुविद्यादिष्वधिकारसद्भावं भगवान् बादरायणो मन्यते, अस्ति हि वखादीनामेवोपास्यत्वं प्राप्यत्वञ्च । इदानीं वसूनामेव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्वसम्भवात्प्राप्यत्वं सम्भवति । स्वात्मनां ब्रह्मभावानुसन्धानसम्भवादुपा स्यत्वश्च सम्भवति। २“य एतामेवं ब्रह्मोपनिषदं वेद" इति हि कृत्स्नाया मधु विद्यायाः ब्रह्मविद्यात्वमवगम्यते ॥ ३२॥ इति वेदान्तदीपे मध्वधिकरणम् ॥ ८ ॥ --(श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम् ॥ ९ ॥)... शुगस्य तदनादरश्रवणात्तदाद्रवणा त्सूच्यते हि । १ । ३ । ३३ ॥ ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति नवेति विचार्यते किं युक्तम्? अस्तीति। कुतः? अर्थित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्सम्भवात्। यद्यप्यग्निविद्यासाध्येषु कर्मखनग्निविद्यत्वाच्छूद्रस्यानधिकार, तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधिकारोऽस्त्येव. शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वाच्छ् १.१.६.४-१६॥ २. छा. ३-११-१॥ For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३५ पा.३.] मपराद्राधिकरणम्. द्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति।१"तस्माच्छूद्रो यझेऽनवकृप्तः इत्यप्यग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते। नन्वनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्मस्वरूपतदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं सम्भवति उच्यते-अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापीतिहासपुराणश्रवणेनापि ब्रह्मस्वरूपतदुपासनज्ञानं सम्भवति। अस्तिच शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा २"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः"इत्यादौ। दृश्यन्तेचेतिहासपुराणेषु विदुरादयो ब्रह्मनिष्ठाः। तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्मविद्याधिकारः प्रतीयते-शुश्रूषं हि जानश्रुतिमाचार्यो रैकश्शूद्रेत्यामन्त्रय तस्मै ब्रह्मविद्यामुपदिशति३" आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः" इत्यादिना । अतश्शूद्रस्याप्यधिकारस्सम्भवति ॥ ___---(सिद्धान्तः).-.इति प्राप्त उच्यते-न शुद्रस्याधिकारस्सम्भवति, सामर्थ्याभावात् । नहि ब्रह्मस्वरूपतदुपासनप्रकारमजानतस्तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्योपासनोपसंहारसामर्थ्यसम्भवः; असमर्थस्य चार्थित्वसद्भावे ऽप्यधिकारो न सम्भवति; असामर्थ्य च वेदाध्ययनाभावात् , यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसम्पाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीनपरान स्वीकुर्वन्ति तथा ब्रह्मोपासनविषयोऽपि । अतोऽध्ययनविधिसिद्धस्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वा - च्छूद्रस्य ब्रह्मोपासनसामर्थ्यासम्भवः । इतिहासपुराणे अपि वेदोपबृंहण कुर्वती एवोपायभावमनुभवतः न खातन्त्रयेण शूद्रस्येतिहासपुराणश्रवणानुज्ञानं, पापक्षयादिफलार्थम् नोपासनार्थम् । विदुरादयस्तु भवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम् ॥ १. या. का. ७-१-१-१॥ २. मारते. शान्ति. मोक्ष॥ ३. छा, ४.२-५॥ For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३६ www.kobatirth.org श्रीशारीरकमीमांसाभाष्ये [अ. १. यश्व-संवर्गविद्यायां शुश्रूषोश्शूद्रेति सम्बोधनं शूद्रस्याधिकारं मचयति - इति; तनेत्याह-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिशुश्रूषोजनश्रुतेः पौत्रायणस्य ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्र वणात्तदैव ब्रह्मविदो रैकस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति हि सूच्यते ; अतस्स शूद्रेत्यामन्त्रयते, न चतुर्थवर्णत्वेन । शोचतीति हि शूद्रः १" शुचेर्दश्व" इति रप्रत्यये धातोश्च दीर्घे चकारस्य च दकारे शूद्र इति भवति । अतश्शोचितृत्वमेवास्य शूद्रशब्दप्रयोगेन सूच्यते; न जातियोगः। जानश्रुतिः किल पौत्रायणो बहुद्रव्यप्रदो बहनप्रदश्च बभूव । तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन्महात्मनोरस्य ब्रह्मजिज्ञासामुत्पिपादयिषतोः हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमुवाच - २" भो भोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाहीस्तत्त्वा मा प्रधाक्षीत्" इति । एवं जानश्रुतिमर्शसारूपं वाक्यमुपश्रुत्य परो हंसः प्रत्युवाच - ३ “कम्बर एनमेतत्सन्तंसयुग्वानमिव रैकमात्थ" इति । कं सन्तमेनं जानश्रुतिं सयुग्वानं रैकं ब्र afra गुणश्रेष्ठमेतदात्थ ; स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः महता धर्मेण संयुक्तस्याप्यस्य जानश्रुतेरब्रह्मज्ञस्य को गुणः, यद्गुणजनितं तेजो रैकतेज इव मां दहेदित्यर्थः । एवमुक्तेन परेण कोऽसौ रैंक इति पृष्टः लोके यत्किंचित्साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्तर्भूतम् स रैक इत्याह । तदेतद्धंसवाक्यं ब्रह्मज्ञानविधुरतया आत्मनिन्दागर्भ तद्वत्तया च रेकप्रशंसारूपं जानश्रुतिरुपश्रुत्य तत्क्षणादेव क्षत्तारं रैकान्वेषणाय प्रेष्य तस्मिन्विदित्वा आगते स्वयमपि रैकमुपसद्य गवां षट्छतं निष्कमश्वतरी रथं च रैकायोपहृत्य रैकं प्रार्थयामास ५" अनुम एतां भगवो देवतां शाधि यां देवतामु १. उदिषु ॥ २. छा. ४-१-२ ॥ Acharya Shri Kailassagarsuri Gyanmandir ३. छा. ४-१-३॥ ४. मासाब. पा ॥ ५. छा, ४-२-२ ॥ For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] अपशूद्राधिकरणम् ३३७ " पास्से” इति त्वदुपास्यां परां देवतां ममानुशाधीत्यर्थः । स च रैकस्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्यायोग्यतामभिज्ञाय चिरकालसेवां विना द्रव्यप्रदानेन शुश्रूषमाणस्यास्य यावच्छक्तिप्रदानेन ब्रह्मविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन् तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिकां शूद्रशब्देनामन्त्रणेन ज्ञापयन्निदमाह - १" अहहारे त्वा शूद्र तवैव सह गोभिरस्तु ” इति। सह गोभिरयं रथस्तवैवास्तुः नैतावता मह्यं दत्तेन ब्रह्मजिज्ञासया शोकाविष्टस्य तव ब्रह्मविद्या प्रतिष्ठिता भवतीत्यर्थः । स च जानश्रुतिर्भूयोऽपि स्वशक्त्यनुगुणमेव गवादिकं धनं कन्यां च प्रदायोपससाद । स रैकः पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्रयाह२" आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः " इति । इमानि धनानि शत्यनुगुणान्याजहर्थः अनेनैव द्वारेण चिरसेवया विनाऽपि मां त्वदभिलषितं ब्रह्मोपदेशरूपवाक्यमालापयिष्यसीत्युक्त्वा तस्मा उपदिदेश । अतश्शूद्रशब्देन विद्योपदेशयोग्यताख्यापनार्थ शोक एवास्य सूचितः न चतुर्थवर्णत्वम् ॥ ३३ ॥ क्षत्रियत्वगतेश्च । १ । ३ । ३४ ॥ Acharya Shri Kailassagarsuri Gyanmandir ४ ' ' बहुदायी" इति दानपतित्वेन ४ " बहुपाक्यः" इत्यादिना ४" सर्वत एवमेतदन्नमत्स्यन्ति" इत्यन्तेन बहुतरपकान्नमदायित्वमतीतेः ५" सहसञ्जिहान एव क्षत्तारमुवाच " इति क्षतृप्रेषणाद्व हुग्रामप्रदानावगतजनपदाधिपत्याच्चास्य जानश्रुतेः क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् ॥ ३४ ॥ १. छा-४-२-३ ॥ २. छा-४-२५॥ ३. सूचितो भवति. पा॥ 43 ४, छा-४-१-१ ॥ ५. छा-४-१-५ ॥ For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ श्रीशारीरकमीमांसाभाष्ये तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्याहउत्तरत्र चैत्ररथेन लिङ्गात् १ । ३ । ३५॥ अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेनाभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वं गम्यते । कथम् ? १“अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनि परिविष्यमाणौ ब्रह्मचारी बिभिक्षे" इत्यादिना २ "ब्रह्मचारिनेदमुपास्महे" इत्यन्तेन कापेयाभिप्रतारिणोभिक्षमाणस्य ब्रह्मचारिणश्च संवर्गविद्यासम्बन्धित्व प्रतीयते । तेषुचाभिप्रतारी क्षत्रियः,इतरौ ब्राह्मणौः अतोऽस्यां विद्यायां ब्राह्मणस्य तदितरेषु च क्षत्रियस्यैवान्वयो दृश्यते न शूद्रस्य । अतोऽस्यां विद्यायामन्वितारैकाड्राह्मणादन्यस्य जानश्रुतेरपि क्षत्रियत्वमेव युक्तम् न चतुर्थवर्णत्वम्। नन्वस्मिन्प्रकरणेऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम् । तत्कथमस्याभिप्रतारिणश्चैत्ररथत्वम् ? कथं वा क्षत्रियत्वम् ? तत्राह-लिङ्गात्-इति। १“अथह शौनकंच कापेयमभिप्रतारिणं च काक्षसेनिम्" इत्यभिप्रतारिणः कापेयसाहचर्याल्लिङ्गादस्याभिप्रतारिणः कापेयसम्बन्धः प्रतीयते; अन्यत्र च ३"एतेन वै चैत्ररथं कापेया अयाजयन्" इति कापेयसम्बन्धिनश्चैत्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वं ४"तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत" इतिः अतोऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च गम्यते ॥ ३५ ॥ तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्ग नोपलभ्यत इत्युक्तम्, इदानी न्यायसिद्धश्शूद्रस्यानधिकारश्श्रुतिस्मृतिभिरनुगृह्यत इत्याह१. छा-४.३-५॥ ३. ताज्य-२-१२-५॥ २.छा-४-३-७॥ ४. शतपथ, ११.५-३.१९॥ For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. अपशद्राधिकरणम्. संस्कारपरामर्शात्तदभावाभिलापाच्च । १।३ । ३६ ॥ ब्रह्मविद्योपदेशेषूपनयनसंस्कारः परामृश्यते-१"उप त्वा नेष्ये" २"तं होपनिन्ये"इत्यादिषु। शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते -३"न शुढे पातकं किञ्चिन्न च संस्कारमर्हति" ४"चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हति" इत्यादिषु ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः। १।३।३७॥ १"नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर"इति शुश्रूषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् १।३।३८॥ शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानि प्रतिषिध्यन्ते ५“पा ह वा एतच्छमशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्" ६"तस्माच्छद्रो बहुपशुरयज्ञीयः" इति। बहुपशुः पशुसदृश इत्यर्थः।अनुपशृण्वतोऽध्ययनतदर्थज्ञानतदर्थानुष्ठानानि न सम्भवन्ति अतस्तान्यपि प्रतिषिद्धान्येव॥३८॥ स्मृतेश्च । १।३। ३९॥ स्मयते च श्रवणादिनिषेधः ॥ अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां शोनप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति, "न चास्योपदिशेद्धर्म नचास्य व्रतमादिशेत्" इति च; अतश्शूद्रस्यानधिकार इति सिद्धम् ।। ३९ ॥ १. छा-४.४-५॥ २. आपस्त. औत॥ ३. मनु-१०-१२६॥ ४. गोत. १०.अ. ९-सू॥ २. २-१२-३॥ ८. मनु. ४-८०॥ For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૦ श्रीशारीरकमीमांसाभाग्ये [अ. १. ये तु निर्विशेषचिन्मानं ब्रह्मैव परमार्थ: : अन्यत्सर्वं मिथ्याभूतम् ; बन्धश्वापारमार्थिकः स च वाक्यजन्य वस्तुयाथात्म्यज्ञानमात्रनिवर्त्यः; तन्निवृत्तिरेव मोक्षः - इति वदन्ति; तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारो वक्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात्क - स्मादपि निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थोऽन्यत्सर्वं तस्मिन्परिकल्पितं मिथ्याभूतमिति वाक्याद्वस्तुयाथात्म्यज्ञानोत्पत्तेः, तावतैव बन्धनिवृत्तेश्व । न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्तिः कार्या न वाक्यान्तरेणेति नियन्तुं शक्यम् ; ज्ञानस्यापुरुषतन्त्रत्वात्, सत्यां सामग्रयामनिच्छतोऽपि ज्ञानोत्पत्तेः । नच वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्धनिवृत्तिर्भवतीति शक्यं वक्तुम्, येनकेनापि वस्तुयाथात्म्यज्ञाने सति भ्रान्तिनिवृत्तेः पौरुयादपि निर्विशेषचिन्मात्रं ब्रह्म परमार्थोऽन्यत्सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्तेस्तावतैव भ्रमनिवृत्तेश्च । यथा पौरुषेयादप्याप्तवाक्याच्छुक्तिकारजतादिभ्रान्तिर्ब्राह्मणस्य शूद्रादेरपि निवर्तते, तद्वदेव शूद्रस्यापि वेदवित्सम्प्रदायागतवाक्याद्वस्तुयाथात्म्यज्ञानेन जगद्भमनिवृत्तिरपि भविव्यतिः १ " नचास्योपदिशेद्धर्मम्" इत्यादिना वेदविदश्शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्, तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वर्तमानतया दग्धाखिलाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात्, अतिक्रान्तनिषेधैर्वा कैश्चिदुक्ताद्वाक्याच्छूद्रादेः ज्ञानमुत्पद्यत एव न च वा - शुक्तिकादौ रजतादिभ्रमनिवृत्तिवत्पौरुषेयवाक्य जन्यतत्त्वज्ञानसमनन्तरं शूद्रस्य जगद्भमो न निवर्तत इति तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगद्भमानिवृत्तेः । निदिध्यासनेन द्वैतवासनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञानमुत्पादयतीतिचेत् - पौरुषेयमपि वाक्यं शूद्रास्तथैवेति न कश्चिद्विशेषः । निदिध्यासनं हि नाम ब्रह्मा १. मनु. ४-८० ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४१ पा. ३.] अपशूद्राधिकरणम् . त्मभावाभिधायि वाक्यं यदर्थप्रतिपादनयोग्यम् , तदर्थभावना; सैव विपरीतवासनां निवर्तयतीति दृष्टार्थत्वं निदिध्यासनविधेब्रूषे, वेदानुवचनादीन्यपि विविदिषोत्पत्तावेवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायां जातायां पौरुषेयवाक्यानिदिध्यासनादिभिर्विपरीतवासनायां निरस्तायां ज्ञानमुत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवतिष्यते; अथवा तर्कानुगृहीतात्प्रत्यक्षादनुमानाच निर्विशेषस्वप्रकाशचिन्मानप्रत्यग्वस्तुन्यज्ञानसाक्षित्वं, तत्कृतविविधविचित्रज्ञातृज्ञेयविकल्परूपं कृत्स्नं जगचाध्यस्तमिति निश्चित्यैवम्भूतपरिशुद्धप्रत्यग्वस्तुन्यनवरतभावनया विपरीतवासनां निरस्य तदेव प्रत्यग्वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्याभूतविचित्रैश्वर्यविचित्रसृष्टयाद्यलौकिकानन्तविशेषावलम्बिना वेदान्तवाक्येन न किञ्चित्प्रयोजनमिह दृश्यत इति शूद्रादीनामेव ब्रह्मविद्यायामधिकारस्सुशोभनः । अनेनैव न्यायेन ब्राह्मणादीनामपि ब्रह्मवेदनसिद्धरुपनिषच्च तपस्विनी दत्तजलाञ्जलिस्स्यात्। नच वाच्यं नैसर्गिकलोकव्यवहारे भ्राम्यतोऽस्य केनचिदयं लौकिकव्यवहारो भ्रमः, परमार्थस्त्वेवमिति समर्पिते सत्येव प्रत्यक्षानुमानवृत्तबुभुत्सा जायत इति तत्समर्पिका श्रुतिरप्यास्थेयेति । यतो भवभयभीतानांसाङ्ख्यादय एव प्रत्यक्षानुमानाभ्यां वस्तुनिरूपणं कुर्वन्तः प्रत्यक्षानुमानवृत्तबुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्यामेव विविक्तखभावाभ्यां नित्यशुद्धस्वप्रकाशाद्वितीयकूटस्थचैतन्यमेव सत्, अन्यत्स4 तस्मिन्नध्यस्तमिति सुविवेचम् । एवम्भूते स्वप्रकाशे वस्तुनि श्रुतिसमधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रपनिवर्तिनी हि श्रुतिरपि त्वन्मते। न च सत आत्मन आनन्दरूपताज्ञानायोपनिषदास्थया, चिद्रूपताया एव सकलेतरातद्रूपव्याहत्ताया आनन्दरूपत्वात् । यस्य तु मोक्षसाधनतया वेदान्तवाक्यविहितं ज्ञानमुपासनरूपम्, तच्च परब्रमभू For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४२ बेदान्तसारे [म.१. तपरमपुरुषप्रीणनम्, तच्च शास्त्रैकसमधिगम्यम्,उपासनशास्त्रं चोपनयनादिसंस्कृताधीतस्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव खोपायतया स्वीकरोति, एवंरूपोपासनप्रीतः पुरुषोत्तम उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाशयन्बन्धान्मोचयतीति पक्षः तस्य यथोक्तया नीत्या शूद्रादेरनधिकार उपपद्यते ॥ इति श्रीशारीकमीमांसाभाष्ये अपशूद्राधिकरणम् ॥ वेदान्तसारे-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥ १"आज. हारेमाश्शूद्र" इत्यादौ ब्रह्मोपदेशे शिष्यं प्रति शूद्रेत्यामन्त्रणेन शिष्यस्य ब्रह्मशानापास्या शुक्सातेति सूच्यते । शोचनाच्छूद्रः, न जातियोगेन । कुतः तदनादरश्रवणात्-ब्रह्मविद्यापैकल्येन स्वात्मानं प्रति हंसोक्तानादरवाक्यश्रव. णात् । तदैवाचार्य प्रति आद्रवणात्: हिशब्दो हेतौ; यतश्शूद्रेत्यामन्त्रणं न जातियोगेन; अतश्शूद्रस्य ब्रह्मोपासनाधिकारो न सूच्यते ॥ ३३॥ ___ क्षत्रियत्वगतेश्च ॥ शुश्रूषोः क्षत्रियत्वगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम् ; उपक्रमे २" बहुदायी" इत्यादिना दानपतित्वबहुपक्वान्नदायित्वबा. प्रामप्रदानैरस्य हि क्षत्रियत्वं गम्यते ॥ ३४॥ उत्तरत्र चैत्ररथेन लिङ्गात् ॥ उपरिष्टाश्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवाग्वयो दृश्यते ३"अथह शौनकञ्च कापेयमभिप्रतारिणश्च" इत्यादौ । अभिप्रतारी हि चैत्ररथः ; अभिप्रतारिणः चैत्ररथत्वम् , क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते । प्रकरणान्तरे हि कापेयसहचारिणश्चैत्ररथत्वम् , क्षत्रियत्वं चावगतम् , ४" एतेन चैत्ररथं कापेया अयाजयन्" इति । ५"तस्माचैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतश्च अयं शिष्यः न चतुर्थः ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच।। विद्योपक्रमे ६"उप त्वा नेप्ये" इत्युपनयनपरामर्शात् शूद्रस्य तदभावाभिलापाच न शूद्रस्य ब्रह्मविघाधि१. छा-४.२-५॥ २. छा.४-१-१॥ ५. शत११-५-३-१३॥ ३. छा-४-३-५॥ ४. ताण्ड्य -१२-५॥ ६. छा-४-४.५ ॥ For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] भपशूद्राधिकरणम् . कारः । १"न शूद्रे पातकं किञ्चित् न च संस्कारमहति" इति संस्कारो हि निषिदः ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः।। २"नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर” इति शूद्रत्वाभावनिश्चय एव उपदेशप्रवृत्तेश्च नाधिकारः॥ श्रवणाध्ययनार्थप्रतिषेधात् ॥ शुद्रस्य भवणाध्ययनादीनि हि निषिध्यन्ते, ३"तस्माच्छूद्रसमीपे नाध्येतव्यम्' इति । अनुपशृण्वतोऽध्ययनादि च न सम्भवति ॥ ३८॥ स्मृतेश्च ॥ स्मर्यते हि शूद्रस्य वेदश्रवणादौ दण्डः४"अथहास्य घेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् , उदाहरणे जिह्वाच्छेदः, धारणे शरीरभेदः" इति ॥ ३९॥ इति वेदान्तसार अपशूद्राधिकरणम् ॥ - वेदान्तदीपे-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिब्रह्म विद्यायां शूद्रस्याप्यधिकारोऽस्ति नेति संशयः। अस्तीति पूर्वः पक्षः, अर्थित्वसामर्थ्यसम्भवात् ,शुद्रस्यानग्नि५विद्यत्वेऽपि मनोवृत्तिमात्रत्वादुपासनस्य सम्भवति हि सामर्थ्यम्।ब्रह्मस्वरूपतदुपासनप्रकारज्ञानश्च इतिहासपुराणश्रवणादेव निष्प चते। अस्ति हि शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा "श्रावयेश्चतुरो वर्णान्कृत्वा प्राङ्गणमग्रतः" इति । तथा तत्रैव विदुरादीनां ब्रह्मनिष्ठत्वं दृश्यते। उपनिषत्स्वपि ७"आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः" इति शूद्रशब्देनामन्त्र्य ब्रह्मविघोपदेशदर्शनाच्छद्रस्यापीहाधिकारस्सूच्यते। राद्धान्तस्तु-उपासनस्य मनोवृ. त्ति८मात्रत्वेऽप्यनधीतवेदत्य शूद्रस्य उपासनोपायभूतज्ञानासम्भवात् न साम र्थ्यसम्भवः । कर्मविधिवदुपासनाविधयोऽपि त्रैवर्णिकविषयाध्ययनगृहीतस्वा. भ्यायोत्पन्नशानमेवोपासनोपायतया स्वीकुर्वते । इतिहासादयोऽपि स्वाभ्यायसिद्वमेव ज्ञानमुपव्हयन्तीति ततोऽपि नास्य ज्ञानलाभः। श्रवणानुक्षातु पापक्षयादिफला । विदुरादीनां तु भवान्तरवासनया ज्ञानलाभाब्रह्मनिष्ठत्वम्। शुद्रेत्या. मन्त्रणमपि न चतुर्थवर्णत्वेन; अपितु ब्रह्मविद्यावैकल्याच्छुगस्य संजातेति। अतो १. मनु-१०-१२६ ॥ ५. अननिमत्त्वेऽपि. पा॥ २, छा-४.४.५॥ ६. भारते. शा. मो॥ ७. छा-४.१.५॥ ४. गौ-१२-१॥ ८. मनोवृत्तिमात्रनिलंसेऽपि पा For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ घेदान्तदीपे न शूद्रस्याधिकार सूत्रार्थस्तु-ब्रह्मविद्यावैकल्येन हंसोक्तानादरवाक्यश्रवणात् तदैवाचार्य प्रत्याद्रवणाचाचार्येण तस्य शुश्रूषोर्विद्याऽलाभकृता शुक्सूच्यते । हिशब्दो हेतौ । यस्मादस्य शुक्सूच्यते, अतश्शोचनाच्छूद्रइति कृत्वा आचार्यो रैकः जानश्रुति शूद्रेत्यामन्त्रयते; न जातियोगेनेत्यर्थः ॥ ३३ ॥ क्षत्रियत्वगतेश्च ॥ अस्य शुश्रूषोः क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम् ; प्रकरणप्रक्रमे हि १"बहुदायी'इत्यादिना दानपतित्वबहुतर. पक्कानदायित्वक्षत्तृप्रेषणबहुग्रामादिप्रदानैरस्य जानश्रुतेश्शुश्रूषोः क्षत्रियत्वं प्रतीतम् ॥ ३४॥ उत्तरत्र चैत्ररथेन लिङ्गात्।। उपरिष्टाचास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते २" अथह शौनकं च कापेयमभिप्रतारिणश्च" इत्यादिना । अभिप्रतारी हि चैत्ररथः क्षत्रियः१ अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं व कापेयसाहचर्याल्लिङ्गावगम्यते; प्रकरणान्तरे हि कापेयसहचारिणः चैत्ररथत्वं क्षत्रियत्वञ्चावगतम् ३"एतेन वै चैत्ररथं कापेया अयाजयन्” इति ४"त. स्माश्चैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतोऽस्यां विद्यायामन्वितो ब्राह्मणादितरो जानश्रुतिरपि क्षत्रियो भवितुमर्हति ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच॥ विद्योपदेशे५ "उप त्वा नेप्ये" इत्युपनयनसंस्कारपरामर्शात् , शूद्रस्य तदभाववचनाच्चानधिकारः । ६"न शूद्रे पातकं किञ्चिन्न च संस्कारमहति" इति हि निषिध्यते ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ५ " नैतब्राह्मणो विवक्तुमर्हति समिधं सौम्याहर" इति शुश्रूषोर्जाबालेश्शूदत्वाभावनिश्चय एवोपदेशे प्रवृ. तेनाधिकारः ॥ ३७॥ श्रवणाध्ययनार्थप्रतिषेधात्।।शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिभ्यन्ते ७'तस्माच्छद्रसमीपे नाध्येतव्यम्" इति। अनुपशृण्वतोऽध्ययनादिर्न सम्भवति ॥ ३८॥ स्मृतेश्च ॥ स्मर्यते च शूद्रस्य वेदश्रवणादौ दण्डः ८"अथहास्य वेदमुप१. छा-४-१-१॥ ४. शत-११-५-३-१३॥ २. छा ४-३-५॥ ५. छा ४-४.५॥ ६. ममु.१०.१२.६॥ १. ताण्ख्य -२-१२-५ ८. गौत-१२-३ ॥ For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.३.] प्रमिताधिकरणशेषः. शृण्वतः पुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति ॥ ३९॥ इति वेदान्तदीपे अपशूद्राधिकरणम् ॥ ९॥ ---(श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणशेषः ॥ )... तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगतपरब्रह्मभावोत्तम्भनं हेत्वन्तरमाह कम्पनात् । १।३।४०॥ १“अष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति" २“अष्ठमात्रः पुरुषोऽन्तरात्मा" इत्यनयोर्वाक्ययोर्मध्ये ३“यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम्।महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः" इति कृत्वस्य जगतोऽग्निसूर्यादीनां चास्मिन्नष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्स्तानां तस्मात्सञ्जातमहाभयनिमित्तम् एजन कम्पनं श्रूयते। तच्छासनातिवृत्तौ कि भविष्यतीति महतो भयाद्वजादिवोघतात्कृत्स्नं जगत्कम्पत इत्यर्थः। ३"भयादस्याग्निस्तपति"इत्यनेनैकार्थ्यात् ३"महद्भयं वज्रमुद्यतम्"इति पञ्चम्यर्थे प्रथमा। अयश्च परस्य ब्रह्मणस्खभावः ४"एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतै तिष्ठतः" ५"भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः" इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवंविधैश्वर्यावगतः।। __इतश्चाङ्गष्ठपमितः पुरुषोत्तमः१. कठ. २.४.१२॥ २.कठ. २-६-१७॥ ४. इ. ५-८-९ ॥ ५. ते. आ. ८.१॥ ३. पा. २-६-३, २॥ 44 For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घेदान्तसारे [म. १. ज्योतिर्दर्शनात् १।३।४१॥ तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्योतिदृश्यते-१“न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति। अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते । परज्योतिष्ठं च सर्वत्र परस्य ब्रह्मणश्श्रूयते। यथा-२"परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिपद्यते" ३"तं देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम्"४“अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यादिषु। अतोऽङ्गष्ठप्रमितः परं ब्रह्म ॥४१॥ इति श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणशेषः ॥ ६ ॥ वेदान्तसारे-५प्रासङ्गिक परिसमाप्य प्रकृतमनुसरति कम्पनात् ॥ अङ्गष्टप्रमितप्रकरणमध्ये ६"यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम्" इत्यादिना अभिहिताङ्गुष्ठप्रमितप्राणशब्दनिर्दिष्टजनितभयात् वज्रादिवोद्यतात् अग्निवायुसूर्येन्द्रप्रभृतिकृत्स्नजगत्कम्पनात् अङ्गुष्ठप्रमितः परमपुरुष इति निश्चीयते ॥ ४० ॥ ज्योतिदशनात् ।। तत्प्रकरणे?"न तत्र सूर्यो भाति" इत्यारभ्यर "तस्य भासा सर्वमिदं विभाति" इति भाश्शब्दाभिहितस्य अनवधिकातिशयज्योतिषो दर्शनाञ्च अङ्गुष्ठप्रमितः परमपुरुषः ॥ ४१ ॥ इति वेदान्तसारे प्रमिताधिकरणशेषः ॥ ६ ॥ वेदान्तदीपे-प्रासङ्गिक परिसमाप्य प्रकृतं परिसमापयति१. कठ, २-५-१५॥ ४. छा. ३-१३.७॥ ५.स्थितादुत्तरं. पा। २. छा, ८-१२-२॥ ६. काठ.२-६-२॥ ३.३.६-४-१६ ॥ For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] मर्थान्तरत्वादिव्यपदेशाधिकरणम्. ३४७ कम्पनात् ।। अङ्गुष्ठप्रमितप्रकरणमध्ये १ "यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्” २" भयादस्याग्निस्तपति" इत्यादी प्राणशब्दनिर्दिष्ठाङ्गुष्ठप्रमितजनितभयनिमित्तादग्निवायुसूर्यप्रभृतिकृत्स्नजगत्क परमात्मैवेति निश्चीयते ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir स्पनाच्छ्रयमाणादङ्गुष्ठप्रमितः ज्योतिर्दर्शनात्।। अस्मिन्नेव प्रकरणे तत्सम्बन्धितया ३ "न तत्र सूर्यो भाति" इत्यारभ्य ३" तस्य भासा सर्वमिदं विभाति" इति सर्वेषां छादकस्यानवधि कातिशयस्य भारशब्दाभिहितस्य ब्रह्मभूतस्य परस्य ज्योतिषो दर्शनाच्च अङ्गुष्ठप्रमितः परमात्मा ॥ ४१ ॥ इति वेदान्तदीपे प्रमिताधिकरणशेषः || ६ || १. कठ. २-६-२ ॥ २. कठ. २-६-३ ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात्। १।३।४२ ॥ , छान्दोग्ये श्रूयते ४" आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा" इति । तत्र संशयः - किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा - इति । किं युक्तं मुक्तात्मेति । कुतः १५“अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि " इति मुक्तस्यानन्तरप्रकृतत्वात्, ४' ४" ते यदन्तरा" इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात् ४" नामरूपयोर्निर्वहिता " इति च स एव पूर्वावस्थयोपलिलक्षयिषितः; स एव हि देवादिरूपाणि नामानि च पूर्वमविभः तस्यैव नामरूपविनिर्मुक्ता साम्प्रतिक्यवस्था ४" तद्ब्रह्म तदमृतम् ” इत्युच्यते । आकाशशब्दच तस्मिन्नप्यसङ्कुचितप्रकाशयोगादुपपद्यते । ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते। तस्य च परमात्मत्वं निर्णीतम् । मैवं, प्रजापतिवाक्यव्यवधानात् । प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तं " ३. कठ. २५-१५॥ ४. छा. ८-१४-१॥ For Private And Personal Use Only ५. छा. ८-१३-१॥ Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ श्रीशारीरकमीमांसामान्ये (म... रूपमभिहितम् । अनन्तरं च १"विधूय पापम् " इति स एव मुक्तावस्थः प्रस्तुतः । अतोऽत्राकाशो मुक्तात्मा ॥ --(सिद्धान्तः).. इति प्राप्त उच्यते-आकाशोऽर्थान्तरत्वादिव्यपदेशात्-इति। आकाशः परं ब्रह्मः कुतः? अर्थान्तरत्वादिव्यपदेशात्। अर्थान्तरत्वव्यपदेशस्तावत् २"आकाशो ह वै नामरूपयोर्निर्वहिता" इति नामरूपयोर्निोद्वत्वं बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वमाकाशस्योपपादयति। वदावस्थस्वयं कर्मवशानामरूपे भजमानो न नामरूपे निर्वोतुं शक्नुयातः मुक्तावस्थस्य जगद्व्यापारासम्भवात् ननितरां नामरूपनिर्वोतृत्वम् ईश्वरस्य तु सकलजगन्निर्माणधुरन्धरस्य नामरूपयोर्निर्वोदृत्वं श्रुत्यैव पतिपन्नम् ४" अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि" ५“यस्सर्वज्ञस्सर्वविधस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" ६"सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" इत्यादिषु । अतो निर्वाह्यनामरूपात्प्रत्यगात्मनो नामरूपयोर्निर्वोढाऽयमाकाशोऽर्थान्तरभूतः परमेव ब्रह्म। तदेवोपपादयति २" ते यदन्तरा" इति। यस्मादयमाकाशो नामरूपे अन्तरा-ताभ्यामस्पृष्टोऽर्थान्तरभूतः, तस्मात्तयोनिर्वोढा अपहतपाप्मत्वात्सत्यसङ्कल्पत्वाच निर्वहितेत्यर्थः। आदिशब्देन ब्रह्मत्वात्मत्वामृतत्वानि गृह्यन्ते। निरुपाधिकबृहत्त्वादयो हि परमात्मन एव सम्भवन्ति; तेनात्राकाशः परमेव ब्रह्म । यत्पुनरुक्तं २"धूत्वा शरीरम्" इति मुक्तोऽनन्वरप्रकृतः-इति तन्न,२ "ब्रह्मलोकमभिसम्भवामि"इति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात्। यद्यप्यभिसम्भवितुर्मुक्तस्याभिसम्भाव्यतया परं ब्रह्म निर्दिष्टम् , तथाप्यभिसम्भवितुर्मुक्तस्य नामरूपनिर्वोदृत्वा१. छा. ८-१३-१॥ । ४. छा. ६-३-२॥ २. छा...१४-१॥ ३. नसरां. पा॥ ५. मु. १.१.९॥ ६.ते. ॥ For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] अर्थान्तरत्वादिव्यपदेशाधिकरणम् . असम्भवादभिसम्भाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम्।किश्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात, प्रजापतिवाक्यस्याप्युपासकखरूपकथनार्थत्वादुपास्य एव दहराकाशःप्राप्यतयेहोपसंहियत इति युक्तम्। आकाशशन्दश्च प्रत्यगात्मनि न कचिद्दष्टचरः। अतोऽत्राकाशः परं ब्रह्म। अथ स्यात्-प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति, ऐक्योपदेशात्, द्वैतप्रतिषेधाच; शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते अतः प्रकृतान्मुक्तात्मनोऽभिसम्भवितुर्नार्थान्तरमभिसम्भाव्यो ब्रह्मलोकः अतो नामरूपयोर्निवहिता आकाशोऽपि स एव भवितुमर्हति-इति; अत उत्तरं पठति सुषुप्त्युत्कान्त्योर्भेदेन । १।३।३४॥ व्यपदेशादिति वर्तते, सुषुप्त्युत्क्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तरभूतः परमात्माऽस्त्येव। तथाहि-वाजसनेयके १"कतम २आत्मा योऽयं विज्ञानमयः प्राणेषु" इति प्रकृतस्य प्रत्यगात्मनस्सुषुप्त्यवस्थायामकिश्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते-३"प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किश्चन वेद नान्तरम्"इति तथोत्क्रान्तावपि ४"प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जन्याति" इति। न च स्वपत उत्क्रामतो वा किश्चिज्ज्ञस्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्वङ्गान्वारोही सम्भवतः न च क्षेत्रज्ञान्तरेण, तस्यापि सर्वज्ञत्वासम्भवात् ॥ इतश्च प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याह पत्यादिशब्देभ्यः । १।३।४४॥ अयं परिष्वञ्जकः परमात्मा उत्तरत्न पत्यादिशब्दैर्व्यपदिश्यते१. न. ६-३-७॥ २. आत्मेति योऽयं पा॥ ३. इ. ६-३-२१॥ ४. . ६-३-३५ ।। For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५० वेदान्तसारे [भ. १. १" सर्वस्याधिपतिस्सर्वस्य वशी सर्वस्येशानः । स न साधुना कर्मणा भूयानो एवासाधुना कनीयान् । एष सर्वेश्वर एष भूताधिपति - रेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति एतमेव विदित्वा मुनिर्भवति । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति” २' स वा एष महानज आस्मान्नादो वसुदानः " ३" अजरोऽमृतोऽभयो ब्रह्म" इति। एते च पतित्वजगद्विधरणत्व सर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चित्सम्भवन्ति । अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोर्निर्वहिताऽऽकाशः । ऐक्योपदेशस्तु सर्वस्य चिदचिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति ४" सर्वे खल्विदं ब्रह्म तज्जलान् " इत्यादिभिर्वाक्क्यैः प्रतिपाद्यत इति पूर्वमेव समर्थितम् । द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम् ॥ ४३ ॥ इति श्रीशारीरकमीमांसाभाष्ये अर्थान्तरत्वादिव्यपदेशाधिकरणम् || इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य तृतीयः पादः ।। ३ ।। शङ्कयाह Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे-अकाशोऽर्थान्तरत्वादिव्यपदेशात् ।। ५'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म" इत्यादिना निर्दिष्ट आकाशः, ६ " धूत्वा शरीरमकृतं कृतात्मा ” इति प्रकृतात्प्रत्यगात्मनः परिशुद्धादर्थान्तरभूतः परमपुरुषः, नामरूपयोः निर्वोदृत्व तदस्पर्शरूपार्थान्तरत्वामृतत्वादिव्यपदेशात् ॥ ४२॥ तत्त्वमस्यादिनैक्योपदेशात् प्रत्यगात्मनो नार्थान्तरभूतः परमपुरुष इत्या सुषुप्त्युत्क्रान्त्योर्भेदेन || ७" प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं कि १. ६-४-२२॥ सर्वस्यवशी सर्वस्येशा- | इति मुद्रितकोशे दृश्यते ॥ ४, छा. ३-१४- १॥ नस्सर्वस्याधिपतिः पा २. ब्रु. ६.४-२४॥ ५. छा. ८-१४- १॥ ६. छा.८-१३-१॥ ३. इ. ६-४-२५॥ अजरामरोमृतोभयो ब्रह्म ७. ६-३-२१ For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थान्तरत्वादिव्यपदेशाधिकरणम् । ३५१ अन वेद नान्तरम्" १"प्राशेनाऽत्मनाऽन्वारूढः" इति सुषुप्त्युत्क्रान्स्योः बाह्यान्तरविषयानभिज्ञात्प्रत्यगात्मनः तदानीमेव प्राशतया भेदेन व्यपदेशादर्थान्तर भूत एव ॥ ४३॥ पत्यादिशब्देभ्यः ॥ परिष्वञ्जके प्राक्षे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्वायमर्थान्तरभूतः; २"सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः" इति उत्तरअश्रूयते; ऐक्योपदेशोऽपि ३"अवस्थितेरिति काशकृत्स्नः' इत्यनेन जीवस्य शरीरभूतस्याऽत्मतया अवस्थितेरिति स्वयमेव परिहरिष्यति॥४४॥ ___ इति वेदान्तसारे अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य तृतीयः पादः॥३॥ वेदान्तदीपे-आकाशोऽर्थान्तरत्वादिव्यपदेशात्।। छान्दोग्ये "माकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्म तदमृतं स आत्मा" इस्यप्राकाशशब्दनिर्दिष्टः किं मुक्तात्मा!, उत परमात्मा-इति संशयः । मुक्त इति पूर्वः पक्षः, ५“धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि"इति मुक्तस्यानन्तरप्रकृतत्वात् । राद्धान्तस्तु ४"नामरूपयोर्निर्वहिता ते यदन्तरा" इति खयमस्पृष्टनामरूपतया नामरूपयोर्निोदृत्वेन श्रूयमाणोऽयमाकाशो बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वात्परमात्मैव। सूत्रार्थस्तु-आकाशः परमात्मा, तस्य नामरूपयोर्निर्वोदृत्वतदस्पर्शलक्षणार्थान्तरत्वव्यपदेशात् ; प्रत्यगात्मनो ह्यर्थान्तरभूत एव नामरूपयोर्निर्वोढा । बद्धावस्थस्तावन्नामरूपाभ्यां स्पृष्टस्तत्परवशश्चेति न निर्वोढा ; मुक्तस्यापि जगद्यापाररहितत्वान्न निर्वोदत्वम् । आदिशब्देन निरुपाधिकब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते; तानि निरुपाधिकानि मुक्तस्यापि न सम्भवन्ति ॥ ४२ ॥ ननु तत्त्वमस्यादिनैक्यव्यपदेशात्,६"नेह नानाऽस्ति" इति भेदप्रतिषेधाघन प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याशङ्कयाह सुषुप्त्युत्क्रान्त्योर्भेदेन।। 'व्यपदेशात्' इति वर्तते । ७"प्राज्ञेनाऽत्मना १. वृ. ६-३-३५॥ ५. छा. ८-१३.१॥ २. १. ६-४-२२॥ १. शा. १.४.२१॥४.छा.८.१४-१॥ ७.1.1.1-२१॥ For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये सम्परिष्वक्तः" १"प्रार्थनाऽत्मनाऽन्वारूढः" इति सुषुप्त्युत्क्रान्त्योः लुप्तसकल. विशेषविज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदव्यपदेशात्प्रत्यगात्मनोऽर्थान्तरभूत एव परमात्मा ॥ ४३॥ पत्यादिशब्देभ्यः॥ परिष्वञ्जके प्राशे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्वायं प्रत्यगात्मनोर्थान्तरभूतः परमात्मा, २"सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः" इत्यादौ । ऐक्योपदेशभेदप्रतिषेधौ तु ब्रह्मकार्यत्वनिबन्धनाविति ३"तजलानिति-सर्व खल्विदं ब्रह्म" इत्यादिश्रुतिभिरेव व्यक्तौ॥४४॥ इति वेदान्तदीपे अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥ इति श्रीभगद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥ - ३. छा-३-१४-१ ॥ १. १. ६-३-३५ ॥ ३५० पुटे. १. सं. इवाम् ॥ २... ६.४.२२॥ । For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः. श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-चतुर्थपादे-आनुमानिकाधिकरणम् ॥ १॥)... आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्य स्तगृहीतेर्दर्शयति च । १।४।१॥ उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगजन्मादिकारणं ब्रह्माचिद्वस्तुनः प्रधानादेश्वेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कशैश्वर्यमिति । इदानीं कापिलतन्त्रसिदाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशझ्य ब्रह्मैककारणत्वस्थेने तन्निराक्रियते । कठवल्लीष्वाम्नायते १“इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान परं कि १. क. १-३-१०, ११॥ 45 For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ श्रीशारीरकमीमांसाभाष्ये [अ. १. | चित्सा काष्ठा सा परा गतिः" इति । तत्र सन्देहः - किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिहाव्यक्तशब्देनोच्यते, उत न - इति । किं युक्तम् प्रधानमिति । कुतः ? १"महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति तन्त्रसिद्धतत्त्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः, “पुरुषान्नपरं किञ्चित्सा काष्ठा सा परा गतिः" इति पञ्चविंशक पुरुषातिरिक्ततत्त्वनिषेधाच्च । अतोऽव्यक्तं कारणमिति प्राप्तम् । तदिदमुक्तम्- आनुमानिकमप्येकेषामिति चेत् इति । एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत्( सिद्धान्तः ) -- अत्रोत्तरं - नेति । नाव्यक्तशब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते। कुतः शरीररूपकविन्यस्तगृहीतेः - शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीतेः । आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथिरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्यात्ताव्यक्तशब्देन ग्रहणादित्यर्थः । एतदुक्तं भवति - पूर्वत्र हि २" आत्मानं रथिनं विद्धि शरीरं रथमेवच । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेवच । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्" इत्यादिना, ३" सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यन्तेन संसाराध्वनः पारं वैष्णवं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनिच रथरथाङ्गत्वेन रूपयित्वा यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वनः पारं वैष्णवं पदमानोतीत्युक्त्वा, तेषु रथादिरूपितश रादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते ४ " इन्द्रिये - भ्यः पराः" इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषयाः वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् । तेभ्योऽपि परं प्रग्रहरूपितं मनः, मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धि: परा, अध्यवसायाभावे मनसोऽप्यकिञ्चित्करत्वात् । तस्या १. कठ, १-३-११॥ २. कठ. १-३-३ ॥ ३. कठ. १-३-९॥ ४. कठ. १-३-१० ॥ For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५५ पा. ४.] आनुमानिकाधिकरणम् . अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यात्परः; सर्वस्यचास्यात्मेच्छायत्तत्वादात्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् , तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम् । तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः, यथोक्तस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः। १“परातु तच्छ्रुतेः" इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते२ "पुरुषान्न परं किश्चित्सा काष्ठा सा परा गतिः" इति। तथाचान्तर्यामिब्राह्मणे, ३“य आत्मनि तिष्ठन्" इत्यादिभिस्सर्व साक्षात्कुर्वन्त्सर्व नियमयतीत्युक्त्वा "नान्योऽतोऽस्ति द्रष्टा" इति नियन्त्रन्तरं निषिध्यते । भगवद्गीतासुच ५“अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाच पृथक्चेष्टा देवं चैवात्र पश्चमम्" इति । दैवमत्र पुरुषोत्तम एव ६" सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च" इति वचनात् । तस्यच वशीकरणं तच्छरणागतिरेव। यथाह ७"ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ” इति । तदेवम् ८"आत्मानं रथिनं विद्धि" इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादयः "इन्द्रियेभ्यः परा ह्याः" इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते।अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति। नचात्र तत्तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा ९"इन्द्रियेभ्यः परा ह्याः"इतीन्द्रियेभ्योऽर्थानां शब्दादीनां १. शारी. २-३-४० ॥ ५. गी. १८-१४ ॥ २. कठ. १-३-११॥ ६. गी. १५-१५॥ ७. गी. १८-६१, ६२ ॥ ८.कठ. १-३-३॥ ९. कठ. १-३-१०॥ ३. वृ. ५-७-२२ ॥ मा. पा॥ ४. १. ५-७-२३ ॥ For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये [भ. १. परत्वकीर्तनात् । नहि शब्दादय इन्द्रियाणां कारणभूतास्तदर्शने। १"अर्थेभ्यश्च परं मनः"इत्यपि न तत्तन्त्रसङ्गतम्, अकारणत्वादेव तथा “बुद्धेरात्मा महान्परः"इत्यप्यसङ्गतम्, बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात्। नहि महतो महान्परस्सम्भवति । महत आत्मशब्देन विशेषणं च न सङ्गच्छते। अतो रूपकविन्यस्तानामेव ग्रहणम्। दर्शयति च तदेवर "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वरयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः"३"यच्छेवाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति । अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते। ३"यच्छेवाङ्मनसी"वाचं मनसि नियच्छेत्-वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः। वाक्छन्दे द्वितीयायाः" "सुपां सुलुक" इति लुक् । 'मनसी' इति सप्तम्याश्छान्दसो दर्घिः। ३"तद्यच्छेत् ज्ञान आत्मनि"तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते। ३"ज्ञान आत्मनि" इति व्यधिकरणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः।३ "ज्ञानमात्मनि महति नियच्छेत्" बुद्धिं कर्तरि महत्यात्मनि नियच्छेत्। ३"तद्यच्छेच्छान्त आत्मनि" तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलिङ्गता। एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः॥१॥ अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राहसूक्ष्मं तु तदर्हत्वात् । १।४।२॥ भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति; तदव्या१. कठ. १-३-१०॥ ३. कठ. १-३-१३ ॥ २, कठ, १-३-१२॥ ४. पाणिनि. ७-१-३९॥ For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] आनुमानिकाधिकरणम् . ३५७ कृतमिह शरीरावस्थमव्यक्तशब्देनोच्यते । तदर्हत्वात्-तस्याव्याकृतस्याचिद्वस्तुन एव विकारापन्नस्य रथवत्पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ॥ २॥ यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः, तत्रापिहि भूतकारणमेवाव्यक्तमित्युच्यते; तलाह तदधीनत्वादर्थवत् । १।४।३॥ परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भतसूक्ष्मम् । एतदुक्तं भवति-न वयमव्यक्तं तत्परिणामविशेषांश्च स्वरूपेण नाभ्युपगच्छामः; अपितु परमपुरुषशरीरतया तदात्मकत्वविरहेण । तदात्मकत्वेनैव हि प्रकत्यादयस्वप्रयोजनं साधयन्ति; अन्यथा वरूपस्थितिप्रवृत्तिभेदास्तेषां न स्युः; तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रियानिरसनम्-इति। श्रुतिस्मृत्योहि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीर्त्यन्ते; यथा १“पृथिव्यप्सु लीयते" इत्यारभ्य "तन्मात्राणि भूतादौ लीयन्ते। भूतादिमहति लीयते। महानव्यक्ते लीयते। अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते। तमः परे देव एकीभवति", तथार “यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुशरीरं यस्याकाशश्शरीरं यस्याहङ्कारश्शरीरं यस्य बुद्धिश्शरीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः",तथा ३ "भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः ३. गी. ७-४, ५, ६, ७ ॥ १. सुबाल. २. ख ॥ २. सुवाल. ७. खं ॥ For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ श्रीशारीरकमीमांसाभाज्ये [अ.१. प्रभवः मलयस्तथा ॥ मत्तः परतरं नान्यत्किश्चिदस्ति धनञ्जय । मयि सर्वमिदं पोतं सूत्रे मणिगणा इव" इति, १" व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च" इति,२ "प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः" इति च ॥३॥ ज्ञेयत्वावचनाच्च । १।४।४॥ यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, ज्ञेयत्वमवक्ष्यत् ३व्यक्ताव्यक्तज्ञविज्ञानात् मोक्षं वदद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात्, न चास्य ज्ञेयत्वमुच्यते; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ ४ ॥ वदतीतिचेन्न प्राज्ञो हि प्रकरणात् ।।४।५॥ ___४"अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते" इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरितिचेत्-तन्न, प्राज्ञः-परमपुरुष एव ह्यत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते "विज्ञानसारथिर्यस्तु मनःग्रहवानरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया मूक्ष्मया सूक्ष्मदर्शिभिः"इति प्राज्ञस्यैव प्रकृतत्वात्। अत एव ७"पुरुषान परं किञ्चित्" इति न पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधः। तस्य च परमपुरुषस्याशब्दत्वादयो धर्माः “यत्तदद्रेश्यमग्राह्यम्" इत्यादिश्रुतिप्रसिद्धाः । ८"महतः परम्" इत्यपि ९ "बुद्धरात्मा महान्परः"इति पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते ॥५॥ १. वि. १-२-१८ ॥ ५. कठ. १-३.९ ॥ ६. कठ. १-३-१२॥ २. वि, ६-४-३९, ४० ॥ ७. कठ. १-३-११॥ ३.सांस्यतत्त्वकारिका।। ४.कठ.१-३-१५॥ ८. मु. १-६ ॥ ९. कठ. १-३-१० ॥ For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५९ आनुमानिकाधिकरणम् . त्रयाणामेवचैवमुपन्यासः प्रश्नश्च । १।४।६॥ अस्मिन्प्रकरणे ह्यपायोपेयोपेतॄणां त्रयाणमेव चैवमुपन्यासः-जेयत्वेनोपन्यासः, तद्विषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादेः । तथाहिनचिकेता मुमुक्षुस्सन्मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मनः पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य द्वितीयेन वरण मोक्षोपायभूतां नाचिकेताग्निविद्यां वत्रे-१"सत्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतदितीयेन वृणे वरेण" इति । स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते, १"अमृतत्वं भजन्ते"इति तत्रस्थस्य जननमरणाभावश्रवणादुत्तरत्र क्षयिफलकर्मनिन्दादर्शनाचा २"त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू" इति च प्रतिवचनात्। तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयखरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम्-३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः" इति । एवं मोक्षे पृष्टे तदुपदेशयोग्यता परीक्ष्योपदिदेश-४"तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति" इति । तदेवं सामान्येनोपदिष्टे नचिकेताः प्रीतस्सन् ४"देवं मत्वा" इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य ४"अध्यात्मयोगाधिगमेन" इति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश्च४"मत्वा धीरो हर्षशोको जहाति" इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविशोधनाय पुनः पप्रच्छ५"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच्च १. कठ. १.१-१३ ॥ ४. कठ. १-२-१२॥ २. कठ, १-१-१७॥ ५. कठ, १-२-१४॥ ३. कठ.१.१.२०॥ For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० श्रीशारीरमीमांसाभाज्ये [अ. १. यत्तत्पश्यसि तद्वद" इति । एवं सकलेतरातीतानागतवर्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे प्रथम प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं, तदन्तर्गतं च प्राप्तस्वरूपं वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन्त्रणवं तावदुपदिदेश-१"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्" इति । एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत्माप्नुः प्रत्यगात्मनस्स्वरूपमाह--२"न जायते म्रियते वा विपश्चित्" इत्यादिना । प्राप्यस्य परस्य ब्रह्मणो विष्णोस्वरूपम् ३"अणोरणीयान्" इत्यादिना ४"क इत्था वेद यत्र सः"इत्यन्तेनोपदिशन्मध्ये ५"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन" इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह। ६"ऋतं पिबन्तै"इति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्त्वा ७"आत्मानं रथिनं विद्धि" इत्यादिना "दुर्ग पथस्तत्कवयो वदन्ति" इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय ९"अशब्दमस्पर्शम्" इत्यादिनोपसंहृतम् । अतस्त्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्च ; तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम्।। महहच्च १॥४७॥ यथा १०"बुद्धरात्मा महान्परः" इत्यत्रात्मशब्दसामानाधिकरण्यान तन्त्रसिद्धं महत्तत्त्वं गृह्यते; एवमव्यक्तमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ॥७॥ इति श्रीशारीरकमीमांसाभाष्ये आनुमानिकाधिकरणम् ॥ १ ॥ १. कठ. १-२-१५ ॥ २. कठ, १-२-१८ ॥ ३. कठ, १-२-२० ॥ ४. कठ. १-२-२५॥ ५. कठ. १-२-२३ ॥ ६. कठ. १-३-१॥ ७ कठ. १-३-३ ॥ ८. कठ. १-३-१४॥ ९. कठ.१-३-१५॥ १०. कठ. १-३-१०॥ For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६१ पा. ४.] मानुमानिकाधिकरणम् वेदान्तसारे-आनुमानिकमप्येकेषामितिचेन शरीररूपकविन्यस्तगृहीतेदर्शयति च ॥ एकेषां कठानां शाखायाम् , आनुमानिकं प्रधानमपि,जगत्कारणत्वेन? "महतः परमव्यक्तम्" इत्युच्यते इति चेत्-न,पूर्ववर "आस्मानं रथिनं विद्धि" इत्यादिष्पासनोपायेषु वशीकार्यत्वाय रथिरथादिरूपकविन्यस्लेषु शरीराख्यरूपकविन्यस्तस्यात्राव्यक्तशब्देन गृहीतेः।३"इन्द्रियेभ्यः प. राहाः " इत्यादिनाहि वशीकार्यत्वेनहि परा उच्यन्ते। तथाचोत्तरत्र श्रुतिरेष दर्शयति ४"यच्छेद्वाङ्मनसी प्राशः" इत्यादिना ॥१॥ सूक्ष्मन्तु तदर्हत्वात् ।। सूक्ष्मम् अव्यक्तमेव शरीरावस्थं कार्याईमिस्यव्यक्तशन्देन शरीरमेव गृह्यते ॥२॥ यदि रूपकविन्यस्तानामेव ग्रहणम् , किमर्थम् १"अव्यक्तात्पुरुषः परः" इत्यत आह तदधीनत्वादर्थवत् ॥ पुरुषाधीनत्वादात्मशरीरादिकम् अर्थवत्-उपासननिर्वृत्तये भवति । पुरुषो ह्यन्तर्यामी सर्वमात्मादिकं प्रेरयन् उपासनोपा. यत्वेन वशीकार्यकाष्ठा प्राप्यश्चेति । “सा काष्ठा सा परा गतिः" इत्युच्यते ॥ ३ ॥ ज्ञेयत्वावचनाच ॥ अत्राव्यक्तस्य शेयत्वावचनाश्च न कापिलमव्यक्तम्॥ वदतीतिचेन प्राज्ञो हि प्रकरणात् ॥ ५"अशब्दमस्पर्शम्'इस्यारभ्य ५"निचाय्य तम्" इति वदतीति चेन्न, ६"तद्विष्णोः परमं पदम्" "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते" इत्यादिना प्रकृतः प्राशो हि ५"निचाय्य तम्". ति क्षेय उच्यते ॥५॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ उपास्योपासनोपासकानान्त्रयाणामेवास्मिन्प्रकरणे शेयत्वेन उपन्यासः प्रश्नश्च, न प्रधानादेः । ८"अध्यात्मयोगाधिगमेन देवम्मत्वा" इत्यादिः उपन्यासः;"येयं प्रेते विचिकित्सा मनुम्ये अ. स्तीत्येके" इत्यादिकश्च प्रश्नः॥६॥ १. कठ. १-३-११॥ ५. कठ. १-३-१५॥ २. कठ. १-३-३॥ ६. कठ. १.३.९ ॥ ३. कठ. १-३.१०॥ ७. कठ, १-३.१२॥ ४. कठ. १-३-१३॥ ८. कठ, १.२.१२॥९.कर,१-१-२.॥ 46 For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६२ www.kobatirth.org वेदान्तदीपे [म. २. महद्वच्च ॥ १" बुद्धेरात्मा महान्परः" इत्यात्मशब्दाद्यथा न तान्त्रिको महान्, तथाऽव्यक्तमपीति ॥ ७ ॥ इति वेदान्तसारे आनुमानिकाधिकरणम् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 वेदान्तदीपे - आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।। कठवल्लीषु १ " इन्द्रियेभ्यः परा ह्यर्था अर्थभ्यश्च परं म नः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः" इत्यत्र किं साङ्ख्योक्तं प्रधानमव्यक्तशब्दाभिधेयम् ? उत नेति संशयः । प्रधानमिति पूर्वः पक्षः २ " महतः परम्" इत्यादितत्तन्त्रप्रक्रियाप्रत्यभिज्ञानात् २" पुरुषान्न परं किञ्चित्" इ ति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च । राद्धान्तस्तु-नाव्यक्तशब्देन प्रधानमिह गृह्यते, पूर्वत्र ३ " आत्मानं रथिनं विद्धि शरीरं रथमेवच" इत्यादिना उपासनानिर्वृत्तये वश्येन्द्रियत्वापादनाय, ये आत्मशरीरबुद्धिमनइन्द्रियविषयाः, रथिरथसारथिप्रग्रहहयगोचरत्वेन रूपिताः; तेषु वशीकार्यत्वे पराः १ इन्द्रियेभ्यः पराः" इत्यादिनोच्यन्ते तत्रचेन्द्रियादयः स्वशब्देनैव गृह्यन्ते रथत्वेन रूपितं शरीरमिहाव्यक्तपरिणामत्वेनाव्यक्तशब्देन गृह्यत इति नेह तत्तन्त्रप्रक्रियाप्रत्यभिज्ञागन्धः । २" अव्यक्तात्पुरुषः परः" इति च न पञ्चविंशकः; अपि तु प्राप्यः परमात्मैव । अन्तर्यामितयोपासनस्याप्युपायभूत इति स इह वशीकार्यकाष्ठात्वेन २' पुरुषान परं किश्चित्" इत्युक्तः ॥ १. कठ. १-३-१० ॥ २. कठ. १-३-११ ॥ सूत्रार्थस्तु - एकेषां कठानां शाखायाम्, आनुमानिकं प्रधानं जगत्कारणत्वेन १' महतः परमव्यक्तम्" इत्याम्नायते इतिचेत्-तन, अव्यक्तशब्देन शरीराक्यरूपकविन्यस्तस्य गृहीतेः पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्तशब्देन गृहीतेरित्यर्थः । अतो वशीकार्यत्वे परा इहोच्यन्ते । दर्शयति च एनमर्थे वाक्यशेषः, इन्द्रियादीनां नियमनप्रकारं प्रतिपादयन् ४" यच्छेद्वाङ्मनसी" इत्यादिः ॥ कथमव्यक्तशब्दस्य शरीरं वाच्यं भवतीत्याशङ्कयाह ३. कठ. १-३-३ ॥ ४. काठ. १-३-२३ ॥ For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] अनुमानिकाधिकरणम्. सूक्ष्मन्तु तदईत्वात् ।। तुशब्दोऽवधारणे । सुक्ष्मम् अव्यक्तमेवावस्थाम्तरापनं शरीरं भवति, तदवस्थस्यैव कार्यार्हत्वात् ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे पराः १ " इन्द्रियेभ्यः परा:" इत्यादिना गृह्यन्ते; तर्हि २" अव्यक्तात्पुरुषः परः । पुरुषान परं किञ्चित्" इति पुरुषग्रहणं किमर्थमित्यत आह १. कठ. १-३-१० ॥ २. कठ. १-३-११ ॥ तदधीनत्वादर्थवत् || अन्तर्यामिरूपेणावस्थित पुरुषाधीनत्वादात्मादिकं सर्व रथिरथत्वादिना रूपितम् अर्थवत् प्रयोजनवद्भवति । अत उपासननिर्वृत्तौ वशीकार्यकाष्ठा परमपुरुष इति तदर्थमिह रूपकविन्यस्तेषु परिगृह्यमाणेषु ३ पुरुषस्यापि ग्रहणम् । उपासननिर्वृत्त्युपायकाष्ठा पुरुषः प्राप्यश्चेति २" पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिः" इत्युक्तम् । भाष्यप्रक्रियया वा नेयमिदं सूत्रम् परमपुरुषशरीरतया तदधीनत्वाद्भूतसूक्ष्ममव्याकृतमर्थवदिति तदिद्दाव्यक्तशब्देन गृह्यते; नाब्रह्मात्मकं स्वनिष्ठं तन्त्रसिद्धम् इति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ यदि तन्त्रसिद्ध प्रक्रियेहाभिप्रेता; तदाऽव्यक्तस्यापि शेयत्वं वक्तव्यम् । ४'' व्यक्ताव्यक्तज्ञविज्ञानात्" इति हि तत्प्रक्रिया । नाव्यक्तमिह शेयत्वेनोक्तम्, अतश्चात्र न तन्त्रप्रक्रियागन्धः ॥ ४ ॥ वदतीतिचेन प्राज्ञो हि प्रकरणात् ॥ ५" अशब्दमस्पर्शम्" इत्युपक्रम्य ५ " महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति प्रधानस्य शेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् तन्न, ५ " अशब्दमस्पर्शम्" इत्यादिना प्राशः परमपुरुष एव ह्यत्रोच्यते ६" सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" ७"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते " इति प्राज्ञस्यैव प्रकृतत्वात् ॥ ३. परस्यापि पुरुषस्य पा ॥ ४. सांख्यतत्त्वकारिका २ - को ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। अस्मिन्प्रकरणे ८" येयं प्रेते विचिकित्सा मनुष्ये” इत्यारभ्याऽसमाप्तेः परमपुरुषतदुपासनोपासकानां त्रयाणामेवैवं ज्ञेयत्वेन उपन्यासः प्रश्नश्च दृश्यते, न प्रधानादेस्तान्त्रिकस्यापि । अतश्च न प्रधानमिह ज्ञेयत्वेनोक्तम् ॥ ६ ॥ महद्वच्च ॥ यथा १" बुद्धेरात्मा महान्परः" इत्यात्मशब्द सामानाधिकर ३६३ ५. कठ. १-३-१५ ॥ ६. कठ. १-३-९ ॥ ७. कठ. १-३-१२ ॥ ८. कठ, १-१-२०॥ For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये म. १. ण्यान्महच्छब्देन न तान्त्रिकं महत्तत्त्वं गृह्यते, एवमव्यक्तशब्देनापि न ताधिकं प्रधानम् ॥७॥ इति वेदान्तदीपे आनुमानिकाधिकरणम् ॥ १॥ --(श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २॥) . चमसवदविशेषात् । १॥४॥८॥ अत्रापि तन्त्रसिद्धमक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहकारादीनां स्वरूपम् , श्रुतिस्मृतिभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनाव। यथा आथर्वणिका अधीयते-१"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च रक्ता च सर्वकामदुधा विभोः। पिबन्त्येनामविषमामविझाताः कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् । ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसभं विभुः। सर्वसाधारणी दोग्धीं पीज्यमानां तु यज्वभिः""चतुर्विंशतिसङ्ख्यातमव्यक्तं व्यक्तमुच्यते" इति। अत्र प्रकृत्यादीनां स्वरूपमभिहितम् यदात्मकायैते प्रकृत्यादयः,स परमपुरुषोऽपि १"तं षड़िशकमित्याहुस्सप्तविंशमथापरे । पुरुषं निर्गुणं सावयमथर्वशिरसो विदुः" इति प्रतिपाद्यते; अपरे चाथर्वणिकाः २'अष्टौ प्रकृतयषोडश विकाराः" इत्यधीयते; श्वेताश्वतराश्चैवं प्रकृतिपुरुषेश्वरखरूपमामनन्ति ३"संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अनीशश्वात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपापैः।४"ज्ञानी १. मन्त्रिकोपनिषदि. ___३. ४. श्रे, १-८, ९॥ For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४. ] ३६५ खमसाधिकरणम्. द्वावजावीशनीशावजा होका भोक्तभोगार्थयुक्ता । अनन्तश्वात्मा विश्वरूपो झकर्ता वयं यदा विन्दते ब्रह्ममेतत् " "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्वभावाद्भयश्चान्ते विश्वमायानिवृत्तिः " इति तथा २ "छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्वान्यो मायया सनिरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" इति; तथोत्तरत्रापि ३" प्रधान क्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः" इति । स्मृतिरपि ४" प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांच गुणांश्चैव विद्धि प्रकृतिसम्भवान् । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । पुरुषः प्रकृतिस्थोऽपि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु " ५" सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् "; तथा ६" सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् " " मयाऽध्यक्षेण प्रकृतिस्तूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते " इति । तस्मादब्रह्मात्मकत्वेन कापि - लतन्त्रसिद्धाः प्रकृत्यादयो निरस्यन्ते । श्वेताश्वतरोपनिषदि श्रूयते " अजामेकां लोहितशुक्लकृष्णां बहीः प्रजास्सृजमानां सरूपाः । अजो को जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" इति । तत्र सन्देह :- किमस्मिन्मन्त्रे केवला तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिका - इति । किं युक्तम् ? केवलेति । कुतः ? " अजामेकाम्" इत्यस्याः प्रकृतेरकार्यत्व १. वे. १ - १० ॥ २. वे. ४ ९, १० ॥ ३. वे. ६-१६ ॥ ४.गी. १३-१९, २० Acharya Shri Kailassagarsuri Gyanmandir ५. गी. १४-५ ॥ ६. गी. ९-७, ८ ॥ ७.गी. ९-१० ॥ For Private And Personal Use Only ८. वे. ४-५ ॥ Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौशारीरकमीमांसामान्ये [म. १. श्रवणात, १"वहीः प्रजास्सृजमानां सरूपाः" इति स्वातन्त्र्येण सरूपाणां बहीनां प्रजानां स्रष्टत्वश्रवणाच्च-इति ॥ ८॥ एवं प्राप्तेऽभिधीयते-चमसवदविशेषात्-न जायत इत्यजेत्यजात्वमानप्रतिपादनात्तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीतेः चमसवत्-यथा २"अर्वाग्विलश्चमस ऊर्ध्वबुध्नः" इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमसविशेषप्रतीतिः, यौगिकशब्दानामर्थप्रकरणादिभिर्विनाऽर्थविशेषनिश्चयायोगातः तत्र २" यथेदं तच्छिरः एष हर्वाग्विलश्चमस ऊर्ध्वबुध्नः" इत्यादिना वाक्यशेषेण शिरसश्चमसत्वनिश्चयः; तथाऽत्राप्यर्थप्रकरणादिभिरेवाजा निर्णेतव्या; नचात्र तन्त्रसिद्धाजाग्रहणहेतवोऽर्थप्रकरणादयो दृश्यन्ते नचास्यास्वातन्त्रयेण स्रष्टत्वं प्रतीयते, " बढीः प्रजास्सृजमानाम्" इति स्रष्टत्वमात्रप्रतीतेः। अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाऽभिधीयते ॥ __ ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याहज्योतिरुपक्रमा तु तथाह्यधीयत एके। १॥४॥९॥ तुशब्दोऽवधारणार्थः; ज्योतिरुपक्रमैवैषाऽजा; ज्योतिः ब्रह्मरे "तं देवा ज्योतिषां ज्योतिः" "अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यादिश्रुतिपसिद्धेः ज्योतिरुपक्रमा ब्रह्मकारणिकेत्यर्थः। तथाह्यधीयत एके-हीति हेतो,यस्मादस्या अजाया ब्रह्मकारणकत्वमेके शाखिनः तैत्तिरीया अधीयते-५ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति हृदयगुहायामुपास्यत्वेन सनिहितं ब्रह्माभिधाय "सप्त प्रा१.श्रे. ४-५ ॥ ४. छा.३-१३-७॥ ५. तै-नारा. १२॥ २.१.४-२.३ ॥ For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४. बमसाधिकरणम् . ३६७ णाः प्रभवन्ति तस्मात्" इत्यादिना सर्वेषां लोकानां ब्रह्मादीनां च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाऽभिधीयते १"अजामेकां लोहितशुक्लकष्णां बहीं प्रजां जनयन्ती सरूपाम् । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः"इति । सर्वस्य तद्यतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वामाणसमुद्रपर्वतादिवदेषाऽप्यजा बहीनां सरूपाणां प्रजानां स्रष्ट्री कर्मवश्येनाऽत्मना भुज्यमाना अन्येन विदुषाऽऽत्मना त्यज्यमानाच ब्रह्मण उत्पना ब्रह्मात्मिकाऽवगन्तव्येत्यर्थः । अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयादेतत्सरूपात्मत्यभिज्ञायमानार्थाद्वाक्यानियमिताऽजा ब्रह्मात्मिकेति निश्रीयते। इहापि प्रकरणोपक्रमे २"किं कारणं ब्रह्म"इत्यारभ्य ३"ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निरूढाम्" इति परब्रह्मशतिरूपाया अजाया अवगतः,उपरिष्टाच "अस्मान्मायी सृजते विश्वमेतत्तमिवान्यो मायया सनिरुद्धः" ५'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" ६"यो योनिॉनिमधितिष्ठत्येकः"इति च तस्या एव प्रतीते - मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्धः॥ कथं तर्हि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्याः प्रकृतेरजात्वम् , अजाया वा कथं ज्योतिरुपक्रमात्वमित्यवाहकल्पनोपदेशाच्च मध्वादिवदविरोधः।१।४।१०॥ प्रसक्ताशज्ञानिवृत्त्यर्थश्वशब्दः । अस्याः प्रकृतेरजात्वं ज्योतिरुपकमात्वं च न विरुध्यते; कुतः? कल्पनोपदेशात् । कल्पनं कुप्तिः सुष्टिः जगत्सृष्टयुपदेशादित्यर्थः। यथा 'सूर्याचन्द्रमसौ धाता यथापूर्वम१. ने. नारा. १२ ॥ ५. ६. वे. ४.१०, ११॥ २.. १.१॥ ७. ते. नारा, १-१३॥ For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये कल्पयत्" इति कल्पनं सृष्टिः। अत्रापि १“अस्मान्मायी सृजते विश्वमेतत्" इति जगत्सृष्टिरुपदिश्यते । खेनाविभक्तादस्मात्सूक्ष्मावस्थात्कारणान्मायी सर्वेश्वरस्सर्व जगत्सृजतीत्यर्थः। अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्यकारणरूपेणावस्थाद्वयान्वयोऽवगम्यते । सा हि प्रलयवेलायां ब्रह्मतापना अविभक्तनामरूपा सूक्ष्मरूपेणावतिष्ठतेः सृष्टिवेलायां तूतसत्त्वादिगुणा विभक्तनामरूपाऽव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते । अतः कारणावस्थाऽजा, कार्यावस्था ज्योतिरुपक्रमेति न विरोधः । मध्वादिवत्-यथेश्वरेणादित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्यावस्थायामृग्यजुस्सामाथर्वप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पनमुदयास्तमयकल्पनं च न विरुध्यते । तदुतं मधुविद्यायाम् २" असौ वा आदित्यो देवमधु" इत्यारभ्य ३"अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता" इत्यन्तेन । एकलः एकस्वभावः। अतोऽनेन मन्त्रेण ब्रह्मात्मिकाऽजैवाभिधीयते, न कापिलतन्त्रसिद्धेति सिद्धम् ॥ __अन्ये त्वस्मिन्मन्त्रे तेजोबनलक्षणाऽजैकाभिधीयत इति ब्रुवते । ते प्रष्टव्याः-किं तेजोबनान्येव तेजोबन्नात्मिकाऽजैका; उत तेजोबनरूपं ब्रह्मैव किं वा तेजोबन्नकारणभूता काचित्-इति । प्रथमे कल्पे तेजोबनानामनेकत्वात् “अजामेकाम्" इति विरुध्यते । न च वाच्यं तेजोबनानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति। त्रिवृत्करणेऽपि बहुत्वानपगमात्, ५"इमास्तिस्रो देवताः" ६"तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति प्रत्येकं त्रिवृत्करणोपदेशात् । द्वितीयः कल्पो विकल्प्यः१.थे, ४.९॥ ४, वे, ४-५ ॥ २. छा. ३-१-१॥ ५. छा. ६-३-२ ॥ २.छा. ६.३.३॥ ३. छा, ३-११-१॥ For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] चमसाधिकरणम् . किं तेजोबन्नरूपेण विकृतं ब्रह्मेवाजैकाः किंवा स्वरूपेणावस्थितमविकृतमिति । प्रथमः कल्पो बहुत्वानपायादेव निरस्तः । द्वितीयेऽपि १" लोहितशुक्लकृष्णाम् " इति विरुध्यते । स्वरूपेणावस्थितं ब्रह्म तेजोवनलक्षणमिति वक्तुमपि न शक्यते । तृतीये कल्पेऽप्यजाशब्देन तेजोबनानि निर्दिश्य तैस्तत्कारणावस्थोपस्थापनीयेत्यास्थेयम्। ततो वरमजाशब्देन तेजोबन्नकारणावस्थायाः श्रुतिसिद्धाया एवाभिधानम् । यत्पुनरस्याः प्रकृतेरजाशब्देन च्छागत्वपरिकल्पनमुपदिश्यत इति; तदप्यसङ्गतम्, निष्प्रयोजनत्वात्। यथा २" आत्मानं रथिनं विद्धि" इत्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते ; यथाचादित्ये बखादीनां भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते; तद्वदस्यां प्रकृतौ च्छागत्वपरिकल्पनं कोपयुज्यते; न केवलमुपयोगाभाव एव, विरोधश्वः कृत्स्नजगत्कारणभूतायाः स्वस्मिन्ननादिकालसम्बद्धानां सर्वेषामेव चेतनानां निखिलसुखदुःखोपभोगापवर्गसाधनभूतायाः अचेतनाया: अत्यल्पप्रजास १. वे. ४. ५॥ 47 Acharya Shri Kailassagarsuri Gyanmandir " करागन्तुकसङ्गमचेतनविशेषैकरूपात्यल्पप्रयोजनसाधनस्वपरित्यागाहेतुभूतस्वसम्बन्धिपरित्यागसमर्थचेतनविशेषरूपच्छागस्वभावख्यापनाय तद्रूपत्वकल्पनं विरुद्धमेव । १" अजामेकाम् ” १" अजो ह्येकः " " अजो। ' ऽन्यः" इत्यत्वाजाशब्दस्य विरूपार्थकल्पनं च न शोभनम् । सर्वत्र च्छागत्वं परिकल्प्यत इति चेत् ?" जहात्येनां भुक्तभोगामजोऽन्यः इति विदुष आत्यन्तिकप्रकृतिपरित्यागं कुर्वतोऽनेनवाऽन्येनवा पुनरपि सम्बन्धयोग्यच्छागत्व परिकल्पनमत्यन्तविरुद्धम् ॥ १० ॥ इति श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २ ॥ २. कठ, १.३.३ ॥ For Private And Personal Use Only K Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir o वेदान्तदीपे [म... वेदान्तसारे-चमसवदविशेषात्।।१"अजामेकां...बहीः प्रजास्सृजमानाम्" इत्यत्र न तन्प्रसिद्धा प्रकृतिः कारणत्वेनोक्ता ; जन्माभावयोगमात्रेण न तस्या एव प्रतीतिः२ "अर्वाग्विलश्चमसः"इतिवत् प्रकरणे विशेषकाभावात् । २"यथेदन्तच्छिरः" इति हि चमसो विशेष्यते । यौगिकशब्दाद्विशेषप्रतीतिर्हि विशेषकापेक्षा ॥ ८॥ ज्योतिरुपक्रमा तु तथाह्यधीयत एके॥ज्योतिः ब्रह्म ब्रह्मकारणिका इयमजा । तथाहि ब्रह्मकारणिकाया एव प्रतिपादकमेतत्सरूपमन्त्रञ्च तैत्तिरीयाः अधीयते; ३"अणोरणीयान्महतो महीयान्" इत्यारभ्य ४"अतस्समुद्रा गिरयश्च" इत्यादिना सर्वस्य ब्रह्मण उत्पत्त्या तदात्मकत्वप्रतिपादनसमये५"अजामेकाम्" इति पठन्ति । अतस्तत्प्रत्यभिज्ञानादियं ब्रह्मकारणिकेति निश्चीयते ॥९॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः।। कल्पना सृष्टिः, यथा “सू. र्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इति। "अस्मान्मायी सृजते विश्वमेतत्" इत्यादिना सृष्ट्युपदेशात् अजात्वब्रह्मकार्यत्वयोरविरोधश्च; प्रलयकाले नामरूपे विहायाचिद्वस्त्वपि सूक्ष्मरूपेण ब्रह्मशरीरतया तिष्ठतीत्यजात्वम् । स्ष्टिकाले नापरूपे भजमाना प्रकृतिः ब्रह्मकारणिका, यथा आदित्यस्य सृष्टिकाले वस्वादिभोग्यरसाधारतया मधुत्वं कार्यत्वञ्च, तस्यैव प्रलयकाले मध्वादिव्यपदेशानहसूक्ष्मरूपेणावस्थानमकार्यत्वञ्च मधुविद्यायां प्रतीयते ८"असौ वा आदित्यो देवमधु" ९"नैवोदेता नास्तमेता एकल एव मध्ये स्थाता" इति; तद्वत् ॥१०॥ इति वेदान्तसारे चमसाधिकरणम् ॥ २ ॥ वेदान्तदीपे-चमसवदविशेषात्।। श्वेताश्वतरे १ "अजामेकां लोहितशुक्लकृष्णां बहीः प्रजास्सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" इत्यत्र किमजाशब्देन तन्त्रसिद्धा प्रकृतिरमिधीयते,उत ब्रह्मात्मिका--इति संशयः। तन्त्रसिद्धति पूर्वः पक्षः,१"अजामेका. म्" इत्यस्या अकार्यत्वप्रतीतेः, बहीनां प्रजानां स्वातम्येण कारणत्वश्रवणाच, १, श्वे. ४-५ ॥ २.. ४-२-३ ॥ ६. तै. नारा. ६-१-३८ ॥ ३. तै. नारा, ६-१०-१॥ ४.ते.नारा, ७. श्वे, ४.९ ॥ ६.१०.३॥ ५. ते. नारा. ६.१०-५॥ । ८. छा. ३.१.१॥९, छा. ३.११-१॥ For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] चमसाधिकरणम्. ३७५ राधान्तस्तु-न तन्त्रसिद्धायाः प्रकृतेरत्र ग्रहणम् , जननविरहश्रवणमात्रेण तन्त्रसिद्धायाः प्रकृतेः प्रतीतिनियमाभावात् , नहि यौगिकानां शब्दानामर्थप्रकरणादिभिर्विशेष्यव्यवस्थापकैर्विना विशेषे वृत्तिनियमसम्भवः, नचास्यास्वातब्येण सृष्टिहेतुत्वमिह प्रतीतम्, अपितु सृष्टिहेतुत्वमात्रम् तद्ब्रह्मात्मिकायाश्च न विरुद्धम् ; अत्र तु ब्रह्मात्मिकाया एव शाखान्तरसिद्धायाः एतत्सरूपमन्त्रो. दितायाः प्रत्यभिज्ञानात्सैवेति निश्चीयते ॥ सूत्रार्थस्तु-नायमजाशब्दस्तन्त्रसिद्धप्रधानविषयः, कुतः? चमसवदवि. शेषात् । यथा १"अर्वाग्बिलश्चमसः" इति मन्त्रे चमनसाधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि प्रवृत्तौ १"यथेद तच्छिर एष हर्वाग्विलश्चमसः" इति वाक्यशेषे विशेषो दृश्यते तथा २"अजामेकाम्" इत्यजाशब्दस्य तन्त्रसिद्धप्रधाने वृत्तौ विशेषाभावान्न तद्रहण न्याय्यम् ॥ ८॥ अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्याह ज्योतिरुपक्रमा तु तथाह्यधीयत एके ॥ ज्योतिः ब्रह्म यस्याः उपक्रमः कारणम् , सा ज्यातिरुपक्रमा । तुशब्दोऽवधारणे । ब्रह्मकारणि कैवैषाऽजा; तथाह्यधीयत एके, यथारूपोऽयमजायाः प्रतिपादको मन्त्रः; तथारूपमेव मन्त्रं ब्रह्मात्मिकायाः तस्याः प्रतिपादकमधीयत एके शाखिनः ३"अणोरणीयान्महतो महीयान्'इत्यादिना ब्रह्म प्रतिपाद्य "सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिधस्सप्तजिहाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहितास्सप्तसप्त। अतस्समुद्रा गिरयश्च सर्व" इत्यादिना ब्रह्मण उत्पन्नत्वेन ब्रह्मात्मकतया सर्वानुसन्धानविधानसमये५'अजामेकां लोहितशुक्लकृष्णां बहीं प्रजां जनयन्ती सरूपाम्" इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्प्रत्यभिज्ञानादिहाप्यजा ब्रह्मात्मि. कैवेति निश्चीयते ॥९॥ अजात्वं ज्योतिरुपक्रमात्वं च कथमुपपद्यते इत्यत आह___ कल्पनोपदेशाच्च मध्वादिवदविरोधः। कल्पना सृष्टिः,६'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इत्यादिदर्शनात् । ७"अस्मान्मायी सृजते विश्वमेतत् "इति हि सृष्टिरिहोपदिश्यते । प्रलयवेलायामेषा प्रकृतिः परम१. उ. ४-२-३॥ ४. ते. नारा. ६-१०-२, ३ ॥ २.श्रे. ४-५॥ ५. ते. नारा. ६-१०-५॥ ३. ते. नारा. ६-१०-१॥ ६. ते.नारा, ६-१-३८॥ ७.४.९॥ For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीशारीरकमीमांसाभाग्ये पुरुषाभवा कारणावमा अतिसूक्ष्मावयवा शक्तिरूपेणावतिष्ठते; तदवसाभिप्रायेणास्या भजात्वम् । राष्टिवेलायां पुनस्लच्छरीराब्रह्मणः स्थूलावस्था जायते; सदवला ज्योतिरुपक्रमेति न कश्चिद्विरोधः । मन्वादिवत्-यथा आदित्यस्यैकस्यैव कार्यावस्थायाम्-१"असौ वा आदित्यो देवमधु" इति वस्खादिभोम्यरसाधारतया मधुत्वम्, तस्यैवर "अथ तत ऊर्ध्व उदत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता" इत्यादिना नामरूपप्रहाणेन कारणावस्थायां सूक्ष्मस्यैकस्यैवापखानं न विरुभ्यते, तद्वत् ॥ १०॥ इति वेदान्तदीपे चमसाधिकरणम् ॥ २ ॥ ...(श्रीशारीरकमीमांसाभाष्ये संख्योपसंग्रहाधिकरणम्॥३॥... न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च। १।४।११॥ वाजसनेयिनस्समामनन्ति ३"यस्मिन्पश्च पश्चजना आकाशश्च प्रतिष्ठितः। तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" इति । किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः,उत नेति सन्दियताकि युक्तम्। तन्त्रसिदतत्त्वप्रतिपादनपर इति । कुतः? पञ्चशब्दविशेषितात्पश्चजनशदात्पञ्चविंशतितत्त्वप्रतीतेः। एतदुक्तं भवति ३“पञ्चजनाः" इति समासस्समाहारविषयः पश्चानां जनानां समूहाः पञ्चजनाः पञ्चपूल्य'इतिवत्। पञ्च जनाइति लिङ्गव्यत्ययश्छान्दसः । ते च समूहाः कतीत्यपेक्षायां पवजनशन्दविशेषणेन प्रथमेन पञ्चशन्देन समूहाः पञ्चेति प्रतीयन्ते यथा पश्च पञ्चपूल्य इति। अतः३“पञ्च पश्चजनाः"इतिपञ्चविंशतिपदार्थावगतो ते कतम इत्यपेक्षायां मोक्षाधिकारान्ममुक्षुभिः ज्ञातव्यतया स्मृतिप्रसिदाः प्रकत्यादय एव शायन्ते । "मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकतय१. ..१-२ ॥२. छा. ३-११-१॥ | ३. स. ६.४.१७॥ ४. सांस्यतत्त्वकारिका॥ For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७३ पा..] संख्योपसनहाधिकरणम्. स्सप्ताषोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः"इतिहि कापिलानां प्रसिद्धिः । अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपरः॥ (सिद्धान्तः).-..इति प्राप्ते प्रचक्ष्महे-न सङ्खयोपसङ्ग्रहादपि-इति“पञ्च पश्चजना" इति पञ्चविंशतिसक्लयोपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः। कुतः नानाभावात् एषां पञ्चसङ्ख्याविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तवेभ्यः पृथग्भावात् । १“यस्मिन् पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्मकत्वं हि प्रतीयते "तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् "इत्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते । अतस्तेभ्यः पृथग्भूताः पञ्चजना इति न तन्त्रसिदा एते । अतिरेकाच-तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति । यच्छन्दनिर्दिष्ट आत्मा आकाशश्चात्रातिरिच्यते । अतः २"तं षड़िशकमित्याहुस्सप्तविंशमथापरे" इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतस्सर्वेश्वरः परमपुरुषोऽत्राभिधीयते । 'न सङ्ख्योपसङ्घहादपि' इत्यपिशब्दस्य १“पञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतितत्त्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्रायः । कथम् ? पञ्चभिरारब्धसमूहपञ्चकासम्भवात् । नहि तन्त्रसिद्धतत्वेषु पञ्चसु पश्चस्वनुगतं तत्सङ्खयानिवेशनिमित्तं जात्याद्यस्ति ; नच वाच्यं-पश्च कर्मेन्द्रियाणि, पश्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि पञ्च- इत्यवान्तरसङ्ख्यानिवेशनिमित्तमस्त्येव-इति; आकाशस्य पृथनिर्देशेन पञ्चभिरारब्धमहा भूतसमूहासिद्धेः। अतः १“पञ्चजनाः" इत्ययं समासो न समाहारविषयः; अयं तु ३"दिक्सङ्खये संज्ञायाम्"इति संज्ञाविषयः, अन्यथा पञ्चजनाः इति लिाव्यत्ययश्च । पञ्चजना नाम केचित्सन्ति; तेच पञ्चसङ्ख्यया विशेष्यन्ते, पञ्च पञ्चजनाः इति; सप्त सप्तर्षय इतिवत् ॥ ११ ॥ १. १. ६.४.१७॥ २. मन्त्रिकोपनिषदि ॥ ३. पाणिनि-२-१-५०॥ For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३७४ www.kobatirth.org श्रीशारीरकमीमांसाभाष्ये के पुनस्ते पञ्चजनाः इत्यत आहप्राणादयो वाक्यशेषात् । १ । ४ । १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १" प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो ये मनो विदुः" इति वाक्यशेषाद्रह्माश्रयाः प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥ १२ ॥ १. ब्रु. ६-४-१८ ॥ २. ब्रु. ६-४-१७ H अथ स्यात् काण्वानां माध्यन्दिनानां च २' यस्मिन् पञ्च पञ्च जनाः" इत्ययं मन्त्रस्समानः ; "प्राणस्य प्राणम्" इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते ; तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुम् — इति; अत्रोत्तरम् - [म. १० ज्योतिषैकेषामसत्यन्ने । १ । ४ । १३ ॥ एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजनाः इन्द्रियाणीति ज्ञायन्ते;तेषां वाक्यशेषः प्रदर्शनार्थः। एतदुक्तं भवति - २" यस्मिन् पञ्च पञ्चजनाः" इत्यस्मात्पूर्वस्मिन्मन्त्रे “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषां ज्योतिष्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीन - स्वकार्याणि कानिचिज्ज्योतींषि प्रतिपन्नानि तानि च विषयाणां प्रकाशकानीन्द्रियाणीति २ यस्मिन् पञ्च पञ्चजनाः" इत्यनिर्धारितविशेषनिर्देशेनावगम्यन्ते — इति । १ " प्राणस्य " इति प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते, वायुसम्बन्धित्वात्स्पर्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोतेन्द्रियम्, अन्नस्येति घ्राणरसनयोस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसम्बन्धित्वाद्वाणेन्द्रियमनेन गृह्यते ; अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते । मनस इति मनः । - ३. बृ. ४-१६ ॥ For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] संख्योपसनहाधिकरणम् . ३७५ घाणरसनयोस्तन्त्रेणोपादानमिति पञ्चत्वमप्यविरुद्धम् ।प्रकाशकानि मन:पर्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि तदविरोधाय घ्राणरसनयोस्तन्त्रेणोपादानम्।तदेवम् १"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति पश्चजनशब्दनिर्दिष्टानीन्द्रियाण्याकाशशब्दमदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्त्वानां ब्रह्माश्रयत्वप्रतिपादनान तन्त्रसिद्धपञ्चविंशतितत्त्वप्रसङ्गः । अतस्सर्वत्र वेदान्ते सङ्खयोपसङ्घहे तदभावे वा न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम् ॥ ____ इति श्रीशारीरकमीमांसाभाष्ये सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ वेदान्तसारे-न सङ्खयोपसङ्घहादपि नानाभावादतिरेकाच॥ यस्मिपञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतिसङ्खयोपसङ्ग्रहादपि न तान्त्रिकाण्येतानि, 'यस्मिन्' इति यच्छब्दनिर्दिष्टब्रह्माधारतया तेभ्यः पृथग्भावात् एतेषान्तत्त्वातिरेकाच; यच्छन्दनिर्दिष्टमाकाशश्चेति द्वयमतिरिक्तम् । 'संख्योपसंग्रहादपि' इत्यपिशब्दान्नात्र पञ्चविंशतिसख्यासङ्ग्रहः, २ "दिक्संख्ये संशायाम्" इति संशाविषयोऽयं पञ्चजना इति । पञ्चजना नाम केचित्,ते पञ्च पञ्चजनाः इत्युच्यन्ते, 'सप्त सप्तर्षयः' इतिवत् ॥ प्राणादयो वाक्यशेषात्।।पञ्चजनसंक्षिताः प्राणादयः पञ्चेन्द्रियाणीति ३"प्राणस्य प्राणमुत चक्षुषश्चक्षुः" इत्यादिवाक्यशेषादवगम्यते चक्षुश्श्रोत्रसाहचर्यात् प्राणानशब्दावपि स्पर्शनादीन्द्रियविषयौ ॥१२॥ __ ज्योतिषैकेषामसत्यने । एकेषां शाखिनां काण्वानाम् ३"अन्नस्यानम्" इत्यसति, ४"तन्देवाज्योतिषां ज्योतिः" इत्युपक्रमगतेन ज्योतिश्शब्देन पञ्च पञ्चजनाः इन्द्रियाणीति शायन्ते। ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकं ब्रह्मेत्युक्त्वा, अनन्तरं १"पञ्च पञ्चजनाः" इत्युक्तेः प्रकाशकानि पञ्चेन्द्रियाणीति गम्यते ॥ १३॥ इति वेदान्तसारे संख्योपसङ्ग्रहाधिकरणम्. वेदान्तदीपे-न सङ्खयोपसङ्ग्रहादपि नानाभावादतिरेकाच्च।।वाजसनेयके?"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवंमन्य आत्मानं विद्वान्त्र१. 1. ६. ४-२७॥ ३. इ. ६-४-१८॥ २. पाणिनि. २-१-५०॥ For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे मामृतोऽमृतम्" इत्यत्र किं साङ्खयोक्तानि पञ्चविंशतितत्त्वानि प्रतिपाद्यन्ते, उत नेति संशयः। तान्येवेति पूर्वः पक्षः । १“पञ्च पञ्चजनाः" इति हि पञ्चसक्लचा. विशिष्टाः पञ्चजनाः पञ्चविंशतिस्सम्पद्यन्ते । कथम् ? पञ्चजना इति समहारविषयोऽयं समासः; 'पञ्चपूल्यः' इतिवत्।पञ्चभिर्जनैरारन्धस्समूहः पञ्चजनः। पञ्चजनीत्यर्थः । लिङ्गव्यत्ययश्छान्दसः। पञ्चजनाः' इति बहुवचनात्समूहबहुत्वं चावगम्यते । तेच कतीत्यपेक्षायां १"पञ्च पञ्चजनाः" इति पञ्चशब्दविशेषिताः पञ्चजनसमूहा इति पञ्चविंशतिस्तत्त्वानि भवन्ति । मोक्षाधिकारात्तान्त्रिकाण्येवेति निश्चीयन्ते । एवं निश्चिते सति "तमेवं मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृ. तम्" इति २पञ्चविंशकमात्मानं ब्रह्मभूतं विद्वानमृतो भवतीति।राद्धान्तस्तु१"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति यच्छन्दनिर्दिष्टब्रह्माधारत्वात्सदाधयानां तत्त्वानां ब्रह्मात्मकत्वमवगम्यते । यच्छन्दनिर्दिष्टं च १"तमेवं मन्य आत्मानम्"*(इति तच्छब्देन परामृश्य,१ "ब्रह्मामृतोऽमृतम्)" इति नि. देशाद्रह्मेति निश्चीयते अतो न तान्त्रिकप्रसङ्गः ॥ सूत्रार्थस्तु-१"पञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतिसमयोपसङ्ग्रहादपिन तान्त्रिकाणीमानि तत्त्वानि, यस्मिन्निति यच्छन्दनिर्दिष्टब्रह्माधारतया तान्त्रिकेभ्यो नानाभावात्-एषांतत्त्वानां पृथग्भावादित्यर्थः। अतिरेकाच-तान्त्रिकेभ्यस्तत्त्वातिरेकप्रतीतेश्च; यस्मिन्निति निर्दिष्टमतिरिक्तमाकाशश्च । न सहयोपसङ्गहादपि' इत्यपिशब्देन सङ्खयोपसहो न सम्भवतीत्याह, आकाशस्य पृथङ्गिदें। शाताअतः पञ्चजनाः इति न समहारविषयः, अपि तु ३"दिक्सङ्खये संज्ञायाम्" इति संज्ञाविषयः; पञ्चजनसंशिताः केचित्, ते च पञ्चैवेति; 'सप्त सप्तर्षयः' इतिवत् ॥११॥ प्राणादयो वाक्यशेषात् ॥ पञ्चजनसंज्ञिताः पञ्च पदार्थाः प्राणादय इति वाक्यशेषादवगम्यते । ४"प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम मस्याग्नं मनसो ये मनो विदुः” इति ब्रह्मात्मकानीन्द्रियाणि पञ्च पञ्चजना इति निर्दिष्टानि । जननाञ्च जनाः॥ १२॥ १. कृ. ६.४-१७॥ *कुण्डलितं क्वचिन्नदृश्यते ॥ २. तच्छब्देन परामृश्य "ग्रमामृतम्" ३. पाणिनि. २-१.५० ॥ इति निर्देशात् . इत्यधिकः पाठः कचिद् ४. पृ. ६.४.१८ ॥ मा. पाठः ॥ दृश्यते ॥ For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. ४. ] www.kobatirth.org संख्योपसङ्ग्रहाधिकरणम् काण्वपाठेऽन्नवर्जितानां चतुर्णां निर्देशात् पञ्चजनसंशितानीन्द्रियाणीति कथं ज्ञायत इत्यत्राह १. बृ. ६-४-१६ ॥ * ज्योतिषि ब्रह्मणि. पा ॥ २. Acharya Shri Kailassagarsuri Gyanmandir ज्योतिषैकेषामसत्यने ॥ एकेषां काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्योपक्रमगतेन तं देवा ज्योतिषां ज्योतिः" इति ज्योतिश्शब्देन पञ्चजनाः इन्द्रियाणीति विज्ञायन्ते । कथम् १ "ज्योतिषां * ज्योतिः" इति ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मेति प्रतीयते । के ते प्रकाशका इत्यपेक्षायां२ "पञ्च पश्चजनाः" इत्यनिर्ज्ञातविशेषाः पञ्चसंख्यासंख्याताः प्रकाशकानि पञ्चेन्द्रियाणीत्यवगम्यते । अतः २' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः " इतीन्द्रि याणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिकतत्त्वगन्धः ॥ १३ ॥ इति वेदान्तदीपे सङ्ख्योपसङ्ग्रहाधिकरणम् || ३ | ( श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥ - कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । १।४।१४ ॥ पुनः प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिरानायत इति जगतो ब्रह्मैककारणत्वं न युज्यते । कथम् तथाहि ३" सदेव सोम्येदमग्र आसीत् " इति सत्पूर्विका सृष्टिरान्नायते ; ४" असद्वा इदमग्र आसीत्" इत्यसत्पूर्विका चः अन्यत्र ५ " असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्" इति च। अतो वेदान्तेषु स्त्रष्टरव्यवस्थितेर्जगतो ब्रमैककारणत्वं न निवेतुं शक्यम् ; प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते ६“तद्धेदं तर्ह्यव्याकृतमासीत्" इत्यव्याकृते प्रधाने जगतः प्रलयमभिधाय ६" तन्नामरूपाभ्यां व्याक्रियत" इत्यव्याकृतादेव जगतस्सृष्टि ६-४-१७ ॥ ३. का. ६-२-१॥ 48 ३७७ ४. तै. आ. ७ ॥ ५. छा. ३-१९-१ ॥ ६. बु. ३-४-७ ॥ For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ श्रीशारीरकमीमांसामान्ये [म. १. वाभिधीयते। अव्याकृतं ह्यव्यक्तम् , नामरूपाभ्यां न व्याक्रियते-न व्यज्यत इत्यर्थः। अव्यक्तं प्रधानमेव। अस्य च स्वरूपनित्यत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते। एवमव्याकृतकारणत्वे निश्चिते सतीक्षणादयः कारणगतास्सटयोन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्तेते। अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं वेदान्तवाक्यैः प्रतिपाद्यते ॥ ..(सिद्धान्तः)...इति प्राप्ते प्रचक्ष्महे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेःचशब्दस्तुशब्दार्थे ; सर्वज्ञात्सर्वेश्वरात्सत्यसङ्कल्पानिरस्तनिखिलदोषगन्धात्परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते। कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः-सर्वज्ञत्वादिविशिष्टत्वेन ? “जन्माद्यस्य यतः" इत्येवमादिषु प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैवाकाशादिषु कारणत्वेनोक्तेः। २ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" ३"तत्तेजोऽसृजत" इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते। तथाहि २ "सत्यं ज्ञानमनन्तं ब्रह्म"२ "सोऽश्नुते सर्वान्कामान्त्सह ब्रह्मणा विपश्चिता"इति प्रकृतं विपश्चिदेव ब्रह्म २ "तस्माद्वा एतस्मात्" इति परामृश्यते। तथा ३“तदैक्षत बहु स्याम्"इति निर्दिष्टं सर्वज्ञं ब्रह्मैव ३"तत्तेऽजोऽमृजत"इति परामृश्यते।एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम्।अतो ब्रह्मैककारणं जगदिति निश्चीयते ॥ ननु ४"असदा इदमग्र आसीत्" इत्यसदेव कारणत्वेन व्यपदिश्यते । तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह१. शारी, १-१-२ ॥ ३. छा. ६-२-३ ॥ २. ते, आ.१॥ । ४. ते. आ. ७-१॥ For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. ४.] कारणत्वाधिकरणम् • समाकर्षात् । १ । ४ । १५॥ 1266 १" असा इदमग्र आसीत्" इत्यत्रापि विपश्चिदानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते । कथम् ? २" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः " ३" सोऽकामयत । बहु स्यां प्रजायेयेति" ३" इदं सर्वमसृजत । यदिदं किंच तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य । सच्च त्यचाभवत् " इत्यादिना ब्राह्मणेनाऽनन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्त्रष्ट सर्वानुप्रवेशेन सर्वात्मभूतमभिधाय ३ " तदप्येष श्लोको भवति' इत्युक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोकः ४ " असद्वा इदमग्र आ सीत्" इति। तथोत्तरत्र " भीषाऽस्माद्वातः पवते" इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते । अतोऽयं मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्सम्बन्धितयाऽस्तित्वाभावाद्ब्रह्मैवासच्छब्देनोच्यते । ६" असदेवेदमग्र आसीत्" इत्यत्राप्ययमेव निर्वाहः । यदुक्तं तद्धेदं तर्ह्यव्याकृतमासीत्” इति प्रधानमेव जगत्कारणत्वेनाभिधीयत इति; नेत्युच्यते, तत्राप्यव्याकृतशब्देनाच्याकृतशरीरं ब्रह्मैवाभिधीयते स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यं ५ www.kobatirth.org १. तै. आ. ७-१ ॥ तै. आ. ६ ॥ तै. आ. ८ ॥ ५. ६. छा. ३-१९-१ ॥ ३. क्षुः शृण्वत्र श्रोतं मन्वानो मन आत्मेत्येवोपासीत" इत्यत्र " स एषः " इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशासितृत्वेनानुकर्षात्, “ तत्सृष्ट्वा तदेवानुप्राविशत् " " अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति स्रष्टस्सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । १० “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" २. तै. आ. ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir ४. तै. आ. ७ ॥ ७. बृ. ३४-७ ॥ ८, तै. आ. ६ ॥ ९. छा. ६-३-२ ॥ १०. मारणे. १ ३.२१ ॥ For Private And Personal Use Only ३७९ Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० वेदान्तदीपे [म. १. इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवरूपोऽनुप्रवेशो न सम्भवति । अतः अव्याकृतम्-अव्यकृतशरीरं ब्रह्म १ "तन्नामरूपाभ्यां व्याक्रियत" इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं खेनैव विभक्तनामरूपं स्वयमेव व्याक्रियतेत्युच्यते।एवं च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथंचिदुपपद्यते। अतो ब्रह्मैककारणं जगदिति स्थितम्॥ इति श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥ वेदान्तसारे-कारणत्वेनचाकाशदिषु यथाव्यपदिष्टोक्तेः॥ आकाशादिषु कार्यवर्गेषु कारणत्वेन सर्वत्र वेदान्तवाक्येषुर "असता इदमग्र आसीत्" १“तद्धेदन्तहव्याकृतमासीत्" इत्यादिष्वनितिविशेषेषु ३"आत्मा वा इदमेक एवान आसीत् स ईक्षत लोकान्नु सृजै" इति विशेषवाचिवाक्यनिर्दिष्टस्यैवोक्तेः न तान्त्रिकाव्याकृतादिकारणवादप्रसङ्गः ॥१४॥ समाकषोत्।। ४"सोऽकामयत । बहु स्यां प्रजायेय"इति पूर्वनिर्दिष्टस्यैव सर्वज्ञस्य २"असद्वा इदमग्र आसीत्" इत्यत्र समाकर्षाश्च स एवेति गभ्यते। १"तद्धेदं तमुव्याकृतमासीत्" इति निर्दिष्टस्यैव १"स एष इह प्रविष्ट आनखाग्रेभ्यः" ५"पश्यत्यचक्षुः” इत्यत्र समाकर्षात् एष एवाव्याकृत इति निश्चीयते । असदव्याकृतशब्दौ हि तदानीनामरूपविभागाभावादुपपद्यते ॥१५॥ इति वेदान्तसारे कारणत्वाधिकरणम् ॥ ४॥ - -- वेदान्तदीपे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः॥ जगकारणवादीनि वेदान्तवाक्यानि किं प्रधानकारणतावादैकान्तानि, उत ब्रह्मकारणतावादैकान्तानीति संशयः । प्रधानकारणतावादैकान्तानीति पूर्वः पक्षः, ६"सदेव सोम्येदमग्र आसीत्" इति क्वचित्सत्पूर्विका सृष्टिराम्नायते ; अन्यत्र ६"असदेवेदमग्र आसीत्"७"असद्वा इदमग्र आसीत्" तथा१"तद्धेदं तीव्या१. वृ. ३-४-७॥ ४. ते. आ. ६.२ ॥ २. ते. आ. ७-१॥ ५. श्वे. ३-१९ ॥ ६. छा. ६-२-१॥ ३. ऐतरेये. १-१॥ ७. ते. आ. ७-१॥ For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] जगद्वाचित्वाधिकरणम् . ३८१ कृतमासीत्तन्नामरूपाभ्यां न्याक्रियत" इति । अव्याकृतं हि प्रधानम् । अतः प्रधानकारणतावादनिश्चयात्तदेकान्तान्येव । राद्धान्तस्तु-१"सत्यं ज्ञानमनन्तं ब्रह्म" इत्युपक्रम्य१ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः"२ "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादिषु सर्वक्षस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात्तस्यैव ब्रह्मणः कारणावस्थायां नामरूपविभागसम्बन्धितया स. द्भावाभावात् असदव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणतावादैकान्तान्येव । सूत्रार्थस्तु-आकाशादिपदचिह्नितेषु "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” इत्यादिषु सर्वशस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात् , सर्वेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्तेः ब्रह्मकारणतावादैकान्तानि । यथाव्यपदिष्टं सार्वात्म्यादियुक्ततयाऽस्माभिर्व्यपदिष्टम् ॥ १४ ॥ तथा सति ३ "असद्वा इदमग्र आसीत्" इति किं ब्रवीतीत्यत आह समाकांत-४"सोऽकामयताबहुस्यां प्रजायेयेति" इति बहुभवनसङ्कल्पपूर्वकं जगत्सृजतो ब्रह्मणस्सर्वज्ञस्य३ "असद्वा इदमग्र आसीत्" इस्यत्र समाकर्षात् कारणावस्थायां नामरूपसम्बन्धित्वाभावेन असदिति ब्रवीति । एवं ५"तद्धदं तीव्याकृतमासीत्" इत्यादिषु५ स एष इहानुप्रविष्ट आनखाग्रेभ्यः"६ "पश्यत्यचक्षुः” इत्यादिपूर्वापरपालोचनया तत्रतत्र सर्वशस्य समाकर्षो द्रष्टव्यः॥ इति वेदान्तदीपे कारणत्वाधिकरणम् ॥ ४ ॥ ..( श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥५॥).. जगद्दाचित्वात् । १।४।१६ ॥ पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति,तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु १. ते. आ. १॥ ४. तै. आ..६-२ ॥ २. छा. ६-२-३॥ ५. कृ. ३-४-७ ॥ ३. ते. आ. ७-१॥ । ६. श्रे. ३-१९॥ For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ श्रीशारीरमीमांसाभाग्ये [अ. १. --- जगत्कारणं वेद्यतया न तेभ्यः प्रतीयते । तथाहि - भोक्तारमेव पुरुष कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे १" ब्रह्म ते ब्रवाणि” इत्युपक्रम्य : “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः " इति । उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तं ब्रह्माजानते तस्मा एवाजातशत्रुणा " स वै वेदितव्यः" इति ब्रह्मोपदिश्यते । “यस्य वैतत्कर्म " इति कर्मसम्बन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्युपगमात्। कर्मच पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति । नच वाच्यम् — क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म, स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयते - इति; १ “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म” इति पृथन्ङिन्देशवैयर्थ्यात् कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः । तत्तद्भोक्तृकर्मनिमित्तत्वाज्जगदुत्पते रेतेषां पुरुषाणां कर्तेतिच भोक्तुरेवोपपद्यते । तदयमर्थः - एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य, स वै वेदितव्यःतत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यम् - इति । तथोत्तरत्र १ " तौ ह सुप्तं पुरुषमाजग्मतुः तं यष्टिना चिक्षेप" इति सुप्तपुरुषागमनयष्टिघातोत्थापनादीनि च भोक्तृप्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते २" तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वास्श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनं भुञ्जन्ति" इति । तथा १" - एतद्वाला पुरुषोऽशयिष्टक वा एतदभूत्कुत एतदागात्" इति पृष्टममजानते तस्मै स्वयमेवाजातशत्रुरुवाच ३" हिता नाम नाड्यस्तासु तदा 46 १. कौषीतकी. ४. १८ ॥ २. कौषी ४-२० ॥ ३. कौषी. ४-१९ ॥ For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४] जगद्वाचित्वाधिकरणम् . भवति यदा सुप्तस्स्वमं न कथंचन पश्यत्यथास्मिन्माण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिस्सहाप्येति मनस्सर्वानस्सहाप्येति स यदा प्रतिबुध्यते यथाग्नेज्वलतस्सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरनेवमेवैतस्मादास्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः" इति । सुषुप्त्याधारतया स्वमसुषुप्तिजागरितावस्थासु वर्तमानं वागादिकरणाप्ययोद्गमस्थानमेव जीवात्मानम् ? "अथास्मिन् प्राण एवैकधा भवति" इत्युक्तवान्।अस्मिन् जीवात्मनि प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः १"स यदा प्रतिबुध्यते" इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्राणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात्। अथवा १“अस्मिन्प्राणे" इति व्यधिकरणे सप्तम्यौ अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति । प्राणशब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन्प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात् । अतो वक्तव्यतयोपक्रान्त ब्रह्म पुरुष एवेति तद्व्यतिरिक्तेश्वरासिद्धिः । कारणगताश्वेक्षणादयश्चेतनधर्मा अस्मिन्नेवोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ॥ -(सिद्धान्तः).-..__ इति प्राप्त प्रचक्ष्महे-जगद्वाचित्वात्-अत्र पुण्यापुण्यपरवशः क्षुद्रः क्षेत्रज्ञस्स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते; अपितु निरस्तसमस्ताविद्यादिदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणनिधिनिखिल जगदेककारणभूतः पुरुषोत्तमोऽभिधीयते।कुतः? २“यस्य वैतत्कर्म"इत्यत्रैतच्छन्दान्वितस्य कर्मशब्दस्य परमपुरुषकार्यभूतजगद्बाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कचितवृत्तिरविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः । नच पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं २"ब्रह्म ते ब्रवाणि" इत्युपक्रम्य ब्रसत्वेन बालाकिना निर्दिष्टानामादित्यमण्डलायधिकरणानां पुरुषाणाम१. कौषी. ४-१९॥ २. कौषी. ४-१८ ॥ For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८४ श्रीशारीरकमीमांसाभाष्ये [अ. १. ब्रह्मत्वेन १ " मृषा वै खलु मा संवादयिष्ठाः " इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञानायाजातशत्रुणेदं वाक्यमवतारितं २" यो वै बालके " इत्यादि। पुण्यापुण्यलक्षणकर्मसम्बन्धिन आदित्याद्यधिकरणास्तत्सजातीया पुरुषास्तेनैव विदिता इति तदविदित पुरुषविशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची; क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविक स्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, १" यस्य वैतत्कर्म " इत्येतच्छन्दवैयर्थ्य च। १ य एतेषां कर्ता यस्य वैतत्कर्म" इति पृथङ्गिर्देशस्य चायमभिप्रायः - ये त्वया ब्रह्मत्वेन निर्दिष्टाः पुरुषाः, तेषां यः कर्ता, ते यत्कार्यभूताः, किं विशिष्याभिधीयते कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्थ यत्कार्यत्वे तुल्याः, स परमकारणभूतः पुरुषोत्तमो वेदितव्यः - इति । जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवस्वभोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मागुण्येश्वरसृष्टं सर्व भुते; अतो न तस्य पुरुषान्मति कर्तृत्वमुपपद्यते । अतस्सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मवात्र वेदितव्यतयोपदिश्यते ।। १६ ।। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वयाख्यातम् । १।४।१७ ॥ अथ यदुक्तम् - जीवलिङ्गान्मुख्यप्राणसङ्कीर्तनाच्च लिङ्गाद्भोक्तैवास्मिन्प्रकरणे प्रतिपाद्यते, न परमात्मा - इति; तव्याख्यातम् — तस्य नि १. कौषी. ४-१८ ॥ For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] जगद्वाचित्वाधिकरणम्. , " र्वाहः प्रतर्दनविद्यायामभिहितः । एतदुक्तं भवति — यत्त्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितम् तत्त्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानीति तत्र प्रतिपादितम् । अत्राप्युपक्रमे २" ब्रह्म ते ब्रवाणि " इति ब्रह्मोपक्षिप्तम् ; मध्ये च १" यस्य वैतत्कर्म " इति निर्दिष्टं न पुरुषमात्रम्, अपि तु निखिलजगदेककारणं ब्रह्मैवेत्युक्तम् । उपसंहारे च २" सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद ” इति ब्रह्मोपासनैकान्तं सर्वपापापहतिपूर्वकं स्वाराज्यं च फलं श्रुतम् ; अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानि - इति । प्रातर्दने छुपासावैविध्येन जीवमुख्यमाणलिङ्गानां ब्रह्मपरत्वमुक्तम् ; अत्रापि ३" अथास्मिन्प्राण एवैकधा भवति " इति सामानाधिकरण्यसम्भवे वैयधिकरण्यसमाश्रयणायोगाद्ब्रह्मण्येव प्राणशब्दप्रयोगनिश्वयेन च प्राणशरीरकब्रह्मोपासनार्थ प्राणसङ्कीर्तनं लिङ्गं युज्यते ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir १. कौषी. ४-१८ ॥ २. कौषी. ४-२० 49 जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह - अन्यार्थ त जैमिनिः प्रश्नव्याख्यानाभ्यामपि तु चैवमेके । १ । ४ । १८ ॥ ३८५ तुशब्दो जीवसङ्कीर्तनेन वाक्यस्य तत्परत्वसम्भावनाव्यावृत्त्यर्थः । अन्यार्थे जीवसङ्कीर्तनं जीवातिरिक्तब्रह्मखरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः ? प्रश्न व्याख्यानाभ्याम् ; प्रश्नस्तावत् १" तौ ह सुप्तं पुरुषमाजग्मतुः" इत्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनाभ्यां प्राणादिव्यतिरिक्तं जीवं प्रतिबोध्य ३. कौष. ४-१९ ॥ For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८६ श्रीशारीरकमीमांसाभाग्ये [.. पुनर्जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरो दृश्यते १"कैष एतद्वालाके पुरुषोऽशयिष्ट क वा एतदभूत्कुत एतदागात्" इति । व्याख्यानमपि २"यदा सुप्तस्वमं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका" इति जीवादर्थान्तरभूतपरमात्मपरमेव । सुषुप्तस्य हि जीवस्य यत्रोषितस्य जागरितस्वमदशासम्बन्धिविचित्रसुखदुःखानुभवकालुष्यविरहेण संप्रसन्नस्य स्वस्थतापत्तिः, पुनरप्यस्य यस्माद्भोगाय निष्क्रमणम् , सोऽयं परमात्मा। तथाहि ३"सता सोम्य तदा सम्पन्नो भवति" ४"प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति सुषुप्तयाधारतया प्रसिद्धो जीवादर्थान्तरभूतः प्राज्ञः परमात्मा । अतः प्रश्नपतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूतपरमात्मप्रतिपादनार्थमिति निश्चीयते । यदुक्तं प्रश्नव्याख्याने जीवपरे सुषुप्तिस्थानं च नाड्य एव, करणग्रामश्च प्राणशब्दनिर्दिष्टे जीव एवैकधा भवति-इति; तदयुक्तम् , नाडीनां स्वमस्थानत्वात् , उक्तरीत्या ब्रह्मण एव सुषुप्तिस्थानत्वाच्च । प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादिकरणग्रामस्य चै कतापत्तिविभागवचनाचाअपिचैवमेके-वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाद्भेदेन तदाश्रयभूतं परमात्मानमामनन्ति ५ य एष विज्ञानमयः पुरुषः कैष तदाऽभूत्कुत एतदागात्""यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते"इति । आकाशशब्दश्च परमात्मनि प्रसिद्धः ७"दहरोऽस्मिन्नन्तर आकाशः" इति । अतोऽत्र जीवसङ्कीर्तनं तस्मादर्थान्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थमित्यवगम्यते। १. कौषी. ४-१८ ॥ ४. वृ. ६-३-२१॥ २. कौषी, ४-१९ ॥ ५. ६. बृ. ४-१-१६-१७ ॥ ३. छा. ६-८-१॥ ७. छा. ८-१-१॥ For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] जगद्वाचित्वाधिकरणम्. ३८७ तस्मादस्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिदस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं कचिदपि वेदान्ते प्रतीयत इति स्थितम् ॥ १८ ॥ इति श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तसारे-जगदाचित्वात् ॥ १" ब्रह्म ते ब्रवाणि " इत्युपक्रम्य १"यो वै बालाक एतेषां पुरुषाणां कतो यस्य वैतत्कर्म स वै वेदितव्यः इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरण्येन क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तयाख्यातम् ॥ २"एतैरात्मभि " ३" अथास्मिन्प्राण एवैकधा भवति" इति च जीवादिलिङ्गान पर इति चेत्एतत् प्रतर्दनविद्यायामेव परिहृतम्-पूर्वापरपर्यालोचनया ब्रह्मपरत्वे निश्चिते तदनुगुणतया नेयमन्यल्लिङ्गम् इति ॥ १७ ॥ ____ अन्यान्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ १"तौ ह सुप्तं पुरुषमाजग्मतुः” इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं तदतिरिक्तपरमात्मसद्भावशापनार्थमिति, "क्कैष एतद्वालाके पुरुषोऽशयिष्ट" इति प्रश्नात् , ३"अथास्मिन्प्राण एवैकधा भवति" ४ 'सता सोम्य तदा सम्पन्नो भवति" इति वाक्यसमानार्थकात् प्रतिवचनाचावगम्यते। एके वाजसनेयिनोऽपि एतत्प्रतिवचनसरूपं वाक्यं स्पष्टमधीयते च, १ "कैष एतत्" इत्यादि, ५“य एषोऽन्तर्हृद्य आकाशस्तस्मिञ्च्छेते" इत्यन्तम् ॥ १८ ॥ इति वेदान्तसारे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तदीपे-जगदाचित्वात् ॥ कौषीतकिना १ "ब्रह्म ते ब्रवाणि" इत्युपक्रम्य १“यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदित१. कौषी. ४-१८॥ ४. छा. ६-८-१ ॥ ५.१ ४-१-१७ ॥ ३. कौषी. ४-१९ ॥ For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [म... १८८ वेदान्तदीपे व्यः" इत्यत्र वेदितव्यतयोपदिष्टः सालथतन्त्रसिद्धः पुरुषः, उत परमात्मेति संशयः।पुरुषएव प्रकृतिवियुक्त इति पूर्वः पक्षः १ “यस्य वैतत्कर्म"इति पुण्यपापरूपकर्मसम्बन्धितयोपलक्षितत्वात्। राद्धान्तस्तु १“यस्य वैतत्कर्म"इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् कृत्स्नं जगद्यस्य कार्यम्, स परमपुरुष एव वेदितव्यतयोपदिष्टो भवतीति । सूत्रमपि व्याख्यातम् ॥१६॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्याख्यातम् ।। २"एवमेवैष प्रज्ञात्मै तैरात्मभिर्मुझे" इत्यादिभोक्तृत्वरूपजीवलिङ्गात् , ३"अथास्मिन्प्राण एवैकधा भवति" इति मुख्यप्राणलिङ्गाच्च नायं परमात्मेति चेत्-तस्य परिहारः प्रतर्दनविद्यायामेव व्याख्यातः-पूर्वापरप्रकरणपर्यालोचनया परमात्मपरमिदं वाक्यमिति निश्चिते सति भन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थः ॥ १७ ॥ ननु १"तौ ह सुप्तं पुरुषमाजग्मतुः" इति प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियप्राणाद्यतिरिक्तजीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्यवगम्यत इत्यत उत्तरं पठति अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ तुशब्दश्शङ्कानिवृत्त्यर्थः । जीवसङ्कीर्तनम् अन्यार्थम्-जीवातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते । प्रश्नस्तावजीवप्रतिपादनानन्तरं १ "वैष एतद्वालाके पुरुषोऽशयिष्ट' इत्यादिकः सुषुप्तजीवाश्रयविषयतया परमात्मपर इति निश्चितः। प्रतिवचनमपि३ “अथास्मिन्प्राण एवैकधा भवति" इत्यादिकं परमात्मविषयमेव । सुप्तपुरुषाश्रयतया हि प्राणशब्दनिर्दिष्टः परमा. स्मैव४"सता सोम्य तदा सम्पन्नो भवति" इत्यादिभ्यः। जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वाय । अपिचैवमेक-एके वाजसनेयिनः इदमेव बालाक्यजातशत्रुसंवादगतं प्रश्नप्रतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते? "कैष एतत्" इत्यादि ५'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते” इत्येतदन्तम् ॥ १८ ॥ इति वेदान्तदीपे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ १. कौषी, ४-१८ ॥ ४. छा. ६-८-१॥ ५. न. ४-१-१७॥ ३. कौषी. ४-१९॥ For Private And Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. बृ. ६-५-६ ॥ २. ब्रु. ४-४-१२ ॥ (श्रीशारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम् ||६|| ) -•• वाक्यान्वयात् । १ । ४ । १९ ॥ अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं कचिद्दश्यत इति तदरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्कय निराकरोति । बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते "न वा अरे पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य ?" न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खबरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इति । तत्र संशयः - किमस्मिन्वाक्ये द्रष्टव्यतयोपदिश्यमानस्तन्त्रसिद्धः पुरुष एव अथवा सर्वज्ञस्सत्यसङ्कल्पस्सर्वेश्वरः? इति । किं युक्तम् ? पुरुष इति । कुतः ? आदिमध्यावसानेषु पुरुषस्यैव प्रतीतेः उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोगाज्जीवात्मैव प्रतीयते मध्येऽपि २ "विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" इत्युत्पत्तिविनाशयोगात्स एवावगम्यते तथाऽन्तेच ३ " विज्ञातारमरे केन विजानीयात् " इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, नेश्वरः । अतस्तन्त्रसिद्ध पुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते । नतु " अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इत्युपक्रमादमृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते। तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य तदुच्यते-अत एव ह्यत्र पुरुषप्रतिपादनम् । तन्त्रे ह्यचिद्धर्माध्यासवियुक्त पुरुष स्वरूपयाथात्म्यविज्ञानमेवामृतस्वहेतुत्वोनोच्यते। अतो जीवात्मनः प्रकृतिवियुक्तं स्वरूपमिहामृतत्वाय १" आत्मा वा अरे द्रष्टव्यः" इत्यादिनोपदिश्यते । सर्वेषामात्मनां प्रकृतिवियुक्तस्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मवि ३. . ६-५-१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० श्रीशारीरकमीमांसामाग्ये [म. १. ज्ञानेन सर्वविज्ञानमुपपभम् ; देवादिस्थावरान्तेषु सर्वेषु भूतेष्वात्मस्वरूपस्य ज्ञानैकप्रकारत्वात् १इदं सर्व यदयमात्मा" इत्यैकात्म्योपदेशः देवाद्याकाराणामनात्माकारत्वात् १"सर्व तं परादात्" इत्यादिनाऽन्यत्वनिषेधश्व; २“यत्र हि द्वैतमिव भवति" इति च नानात्वनिषेधेनैकवरूपे यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते; ३"तस्य ह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्याद्यपि प्रकृतेरधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते । एवमस्मिन्वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात्सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम्, नेश्वरः-इति । ..(सिद्धान्तः)...एवं प्राप्ते प्रवक्ष्महे-वाक्यान्वयात्-इति। सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते कुतः?एवमेवहि वाक्यावयवानामन्योन्यान्वयस्समञ्जसो भवति । ४"अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इति याज्ञवल्क्येनाभिहिते "येनाहं नामृता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे ब्रूहि" इत्यमृतत्वानुपायतया वित्ताद्यनादरेणामृतत्वप्राप्त्युपायमेव प्रार्थयमानायै मैत्रेस्यै तदुपायतया द्रष्टव्यत्वेनोपदिष्टोऽयमात्मा परमात्मैव ५"तमेव विदित्वाऽतिमृत्युमेति" ६"तमेवं विद्वानमृत इह भवति नान्यः पन्थाः"इत्यादिभिरमृतत्वस्य परमपुरुषवेदनकोपायतया प्रतिपादनात् । परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनस्वरूपयाथात्म्यमपवर्गसाधनपरमपुरुषवेदनोपयोगितयाऽवगन्तव्यम् न स्वत एवोपायत्वेन । अतोऽत्र परमात्मैवामृतत्वोपायतया "द्रष्टव्यः"इत्यादिनोपदिश्यते । तथा "तस्य ह वा एतस्य १. पृ. ६-५-७ ॥ ५. श्वे. ३.८ ॥ २.. ६-५-१५॥ ६. पुरुषम् ॥ ३.६.६५-११ ॥ ७. १.६-५-६ ॥ ४. १.६-५-३,४॥ ८. बु. ६-५-११॥ For Private And Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९१ पा. ४.] वाक्यान्षयाधिकरणम् . महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्यादिना कृत्स्नस्य जगतः कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति । तथा १"आत्मनो वा अरे दर्शनेन" इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते । यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति ; तदयुक्तम् , अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च २“इदं ब्रह्मेदं क्षत्रम्" इत्युपक्रम्य २ "इदं सर्वे यदयमात्मा" इति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चम् 'इदम्' इति निर्दिश्य 'एतदयमात्मा' इत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते । नहींदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्यमुपगच्छति । अतएव २ "सर्व तं परादायोऽन्यत्राऽत्मनस्सर्व वेद" इति व्यतिरिक्तत्वेन सर्ववेदननिन्दा च; तथा प्रथमेच मैत्रेयीब्राह्मणे ३“महद्भतमनन्तमपारम्" इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति । अतस्स एवात्र प्रतिपाद्यते । यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमितिः तदयुक्तम्, ४"आत्मनस्तु कामाय" इत्यात्मशब्देन जीवात्मसंशब्दने तस्य “आस्मा वा अरे द्रष्टव्यः" इत्यनेनानन्वयप्रसङ्गात्। ४"आत्मा वा अरे द्रष्टव्यः" इत्यात्मनो द्रष्टव्यत्वोपयोगितया ४"आत्मनस्तु कामाय" इत्युपदिष्टमिति प्रतीयते। आत्मनस्तु कामाय-आत्मनः कामसम्पत्तये काम्यन्त इति कामाः आत्मन इष्टसम्पत्तय इति यावत्।नच-जीवात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति-इत्युक्ते सति तस्य जीवस्य स्वरूपमन्वेष्टव्यं भवति । ३. बु. ४-४-१२ ॥ ४. इ. ६-५-६॥ २.१.६.५-७॥ For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org urth.org Acharya Shri Kailassagarsuri Gyanmandir ३९२ श्रीशारीरकमीमांसाभाष्ये प्रियमेव ह्यन्वेष्टव्यम् ; नतु प्रियं प्रति शेषिणः प्रियवियुक्तं स्वरूपम् । यस्मादात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति, तस्मात्पत्यादि प्रियं परित्यज्य तद्वियुक्तमात्मस्वरूपमन्वेष्टव्यमित्यसङ्गतं भवति । प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम् ; अपित्वात्मनश्शेषतया पत्यादीनां प्रियत्वमित्युक्ते स्वशेषतया त एवोपादेयास्स्युः। १“आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यस्य परेणानन्वये वाक्यभेदः प्रसज्यते । अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते । अतः पत्यादि सर्व प्रियं परित्यज्यात्मन एवान्येष्टव्यत्वं यथा प्रतीयते,तथा वाक्यार्थो वर्णनीयः सोऽयमुच्यते-२"अमृतत्वस्य तु नाशाऽस्ति वित्तेन"इति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्तयनुपायतामुक्त्वा वित्तपुत्रपतिजायादीनां सातिशयदुःखमिश्रकादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्वरूपप्रयुक्तम् , अपितु निरतिशयानन्दस्वभावपरमात्मप्रयुक्तम् । अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वमापादयति,स परमात्मैव द्रष्टव्य इत्युपदिश्यते।तदयमर्थः-१"न वा अरे पत्युः कामाय पतिः प्रियो भवति"न हि पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्य प्रियस्स्यामिति स्वसङ्कल्पापिया भवन्तिः अपि वात्मनः कामाय परमात्मनस्वाराधकप्रियप्रतिलम्भनरूपेष्टनिवृत्तय इत्यथैः । परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति३"एष ह्येवानन्दयाति" इति श्रुतेः। न तु तत्तद्वस्तु स्वरूपेण प्रियमप्रियंवा। यथोक्तं४"तदेव प्रीतये भूत्वा पुनदुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्मादःखात्मकं नास्ति न च किश्चित्सुखात्मकम्"इति । ३. तै. आ. ७ ॥ १. वृ. ६-५-६ ॥ २.१६.५.३ ॥ For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] वाक्यान्वयाधिकरणम्. १“आत्मनस्तु कामाय" इत्यस्य जीवात्मपरत्वेऽपि १"आत्मा वा अरे द्रष्टव्यः"इति तु परमात्मविषयमेवातत्रायमर्थः-यस्मात्पत्यादीनामिष्टसम्पतये तत्परवशेन पत्यादयः प्रियत्वेन नोपादीयन्ते, अपित्वात्मेष्टसम्पत्तये स्वतन्त्रण स्वप्रियत्वेनोपादीयन्ते ; तस्माद्य एवाऽत्मनो निरुपाधिकनिर्दोपनिरवधिकप्रियः परमात्मा स एवहि द्रष्टव्यः न दुःखमिश्राल्पमुखदुःखोदर्काः परायत्ततत्तत्स्वभावाः पतिजायापुत्रवित्तादयो विषयाः-इति । अस्मिंस्तु प्रकरणे जीवात्मवाचिशब्देनापि परमात्मन एवाभिधानात् १"आत्मनस्तु कामाय" १“आत्मा वा अरे द्रष्टव्यः" इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ ॥१९॥ मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाहप्रतिज्ञासिद्देलिङ्गमाश्मरथ्यः । १।४।२०॥ ___ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेरिदं लिङ्गम् , यज्जीवात्मवाचिशब्दैः परमात्मनोऽभिधानम्-इत्याश्मरथ्य आचार्यों मन्यतेस्म । यद्ययं जीवः परमात्मकार्यतया परमात्मैव न भवेत् तदा तद्यतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति।२ "आत्मा वा इदमेक एवाग्र आसीत्" इति प्राक्रसृष्टेरेकत्वावधारणात् , ३ "यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति" इत्यादिभिर्ब्रह्मणो जीवानामुत्पत्तिश्रवणात्तस्मिन्नेव लयश्रवणाञ्च जीवानां ब्रह्मकार्यत्वेन ब्रह्मणैक्यमवगम्यते।अतो जीवशब्देन परमात्माभिधानमिति ॥ २० ॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥४॥२१॥ ३. मु. २.१-१॥ २. ऐतरेये. १-१-१॥ 50 For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९४ श्रीशारीरकमीमांसाभाष्ये (अ. १. यदुक्तं जीवस्य ब्रह्मकार्यतया ब्रह्मणैक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थ ब्रह्मणो जीवशब्देन प्रतिपादनमिति, तदयुक्तं १"नजायते म्रियते वा विपश्चित् " इत्यादिनाऽजत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय जगत्सृष्ट्यभ्युपगमाच्च, अन्यथा विषमसृष्ट्यनुपपत्तेश्व, ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशादिवदर्जनीय इति तदुपायविधानानुष्ठानानर्थक्याच्च, घटादिवत्कारणमाप्तेर्विनाशरूपत्वेन मोक्षस्या पुरुषार्थत्वाच्च । जीवात्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते । अतः २ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " ३" यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ” इत्युत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन परमात्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यतेस्म ॥ २१ ॥ " Acharya Shri Kailassagarsuri Gyanmandir अवस्थितेरिति काशकृत्स्नः । १ । ४ । २२ ॥ यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमितिः तदप्ययुक्तम्, विकल्पासहत्वात् । अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवम्भावः किं स्वाभाविकः उतौपाधिक; तत्त्रापि पारमार्थिकः, अपारमार्थिको वेति । स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात् । अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्मभावः, अपुरुषार्थत्वादिदोषप्रसङ्गश्व | पारमार्थिकोपाधिकत्वे प्रागपि ब्रह्मैवेति 'उत्क्रमिष्यत एवम्भावात्' इति विशेषो न युज्यते वक्तुम् । अस्मिन्पक्षेऽह्युपाधिब्रह्मव्यतिरेकेण वस्त्वन्तराभावान्निरवयवस्य ब्रह्मण उपाधिना च्छेदाद्यसम्भवाश्वोपाधिगत एव भेद इत्युत्कान्तेः प्रागपि ब्रह्मैव । औपाधिकस्य भेदस्यापारमार्थि 1 १. कठ. १-२-१८ ॥ २. छा. ८-३-४ ॥ For Private And Personal Use Only ३. मु. ३-२-८ ॥ Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९५ पा. ४.] वाक्यान्वयाधिकरणम् कत्वे कस्यायमुत्क्रान्तो ब्रह्मभाव इति वक्तव्यम् ब्रह्मण एवाविद्योपाधितिरोहितखखरूपस्येति चेन, नित्यमुक्तस्वप्रकाशज्ञानस्वरूपस्याविद्योपाधितिरोधानासम्भवात्। तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्तिः । प्रकाश एव वस्तुस्वरूपमित्यङ्गीकारे तिरोधानाभावस्वरूपनाशो वा स्यात् । अतो नित्याविर्भूतखखरूपत्वात्तस्योकान्तौ ब्रह्मभावे न कश्चिद्विशेष इति 'उत्क्रमिष्यतः' इति विशेषणं व्यर्थमेव । १" अस्माच्छरीरात्समुत्थाय" इति पूर्वमनेवंरूपस्य न तदानी ब्रह्मतापत्तिमाहः अपितु पूर्वसिद्धस्वरूपस्याविर्भावम्। तथाहि वक्ष्यते २ "सम्पद्याविर्भावस्खेनशब्दात्" इत्यादिभिः! अतः ३"अनेन जीवेनाऽत्मनाsनुपविश्य" ४" य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" ५“योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" ६" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्यों मन्यते स्म। जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तम् ३"नामरूपे व्याकरवाणि" इत्यत्र । एवमात्मशरीरभावेन तादात्म्योपपादने परस्य ब्रह्मणोऽपहतपाप्मत्वसर्वज्ञत्वादिगोचरा जीवस्याविदुषश्शोचतो ब्रह्मोपासनान्मोक्षवादिन्यो जगत्सृष्टिप्रलयाभिधायिन्यो जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाश्श्रुतयस्सम्यगुपपादिता भवन्तीति काशकृत्स्नीयमेव मतं सूत्रकारस्वीकृतवान्।अयमत्र वाक्यार्थ: १. छा. ८-३-४॥ २. शारी. ४-४-१॥ ३. छा. ६.३.२॥ ४, बृ. ५-७-२२ ॥ मा. पा॥ ५. सुबाल, ७॥ ६. आर. १-३-२१ ॥ For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ भीशारीरकमीमांसामाग्ये [... अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्यः -१"आत्मा वा अरे द्रष्टव्यः" इत्यादिना परमात्मोपासनममृतत्वोपायमुक्त्वा १"आत्मनि खल्वरे दृष्टे" इत्यादिनोपास्यलक्षणम् , दुन्दुभ्यादिदृष्टान्तश्चोपासनोपकरणभूतमन:प्रभृतिकरणनियमनं च सामान्येनाभिधाय २“स यथाऽऽधाग्नेः" इत्यादिना ३"स यथा सर्वासामपां समुद्र एकायनम्" इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वम्, सकलविषयप्रवृत्तिमूलकरणग्रामनियमनं च विस्तीर्णमुपदिश्य ४" स यथा सैन्धवघनः" इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्मस्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्नज्ञानेकाकारतामुपपाद्य तस्यैवापरिच्छिन्नज्ञानैका - कारस्य संसारदशायां भूतपरिणामानुत्तिं ५" विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति" इत्यभिधाय ५“न प्रेत्य संज्ञाऽस्ति" इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातेनैकीकृत्याऽत्मनि देवादिरूपज्ञानाभावमुक्त्वा पुनरपि ६“यत्र हि द्वैतमिव भवति" इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिलाज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददर्शनं निरस्य ६"येनेदं सर्व विजानाति तं केन विजानीयात्" इतिच जीवात्मा स्वात्मतयाऽवस्थितेन येन परमात्मना आहितज्ञानस्सनिदं सर्व विजानाति, अयं तं केन विजानीयात्, न केनापीति परमात्मनो दुरवगमत्वमुपपाद्य ७“स एष नेतिनेति" इत्यादिनाऽयं सर्वेश्वरस्खेतरसमस्तचिदचिद्वस्तुविलक्षणस्वरूप एव सर्वशरीरस्सर्वस्याऽत्मतयाऽवस्थित इति स्वशरीरभूतचिदचिद्वस्तुगतैर्दोषैर्न स्पृश्यत इत्य २. ३. ४-४-१०॥ ३. बू, ४-४-११॥ ४.स. ६.५-१६॥ ५. बृ. ४.४-१२ ॥ ६. वृ. ४-४-१४ ॥ ७. वृ. ६-५-१५॥ For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] वाक्यान्धयाधिकरणम्. ३९७ भिधाय १"विज्ञातारमरे केन विजानीयादित्युक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वम्" इति समस्तवस्तुविसजातीयं निखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारादुपासनाहते केन विजानीयादितीदमेवोपासनममृतत्वोपायः; ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयतेइत्युक्तवान्। अतः परं ब्रह्मैवास्मिन्वाक्ये प्रतिपाद्यत इति परमेव ब्रह्म जगत्कारणम्, न पुरुषस्तदधिष्ठिता च प्रकृतिरिति स्थितत ॥ इति श्रीशारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम् ॥ ६ ।। वेदान्तसारे-वाक्यान्वयात् ।। २"न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय' इत्यारभ्य, २ ''आत्मा वा आरे द्रष्टव्यः" इस्यादिनोपदिष्टः परमात्मा३'अमृतत्वस्य तु नाशाऽस्ति वित्तेन"इत्यारभ्य,२ "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इत्यादि, ४"येनेदं सर्व विजानाति" इत्यन्तस्य कृत्स्नस्य वाक्यस्य परमात्मन्येवान्वयात् ॥ १९॥ ___ अस्मिन्प्रकरणे प्रकरणान्तरे च जीववाचिशब्देन परमात्मनोऽभिधाने, तत्सामानाधिकरण्ये च कारणम्मतान्तरेणाह प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः ॥ २"आत्मनि खल्वरे दृष्टे” इत्यादिना परमात्मज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये जीवस्य तत्कार्यतया तस्मादनतिरिक्तत्वं ज्ञापयितुं जीवशब्देन परमात्माभिधानमिति आश्मरथ्यः ॥ २०॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ उत्क्रमिष्यतः मुक्तस्य परमात्मस्वरूपभावादात्मशब्देन परमात्माभिधानमिति औडुलोमिः ॥२१॥ अवस्थितेरिति काशकृत्स्नः ॥ ५“य आत्मनि तिष्ठनात्मनोऽन्तरः" इत्यादिना जीवात्मनि परमात्मन आत्मतया अवस्थितेरिति काशकृत्स्न आचार्यों मन्यते । इदमेव मतं सूत्रकारस्स्वीकृतवानिति, मतद्वयमुपन्यस्य तद्विरोध्येतद. भिधानात् , अन्यस्यानभिधानाञ्च निश्चीयते ॥ २२॥ इति वेदान्तसारे वाक्यान्वयाधिकरणम् ॥ ६ ॥ १. पृ. ६-५-१५ ॥ २. १. ६-५-६ ॥ ३.३.४.४.२॥ ४.बु. ४-४-१४॥ ५. वृ. ५-७-२२ ॥ मा. पा॥ For Private And Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९८ वेदान्तदीपे वेदान्तदीपे-वाक्यान्वयात् ॥ बृहदारण्यके मैत्रेयीब्राह्मणे १"नषा भरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय" इत्यारभ्य,"आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादौ द्रष्टव्यतया निर्दिष्टः पुरुषः तन्त्रसिद्धः, उत परमात्मेति संशयः। तन्त्रसिद्धः पञ्चविंशक एवेति पूर्वः पक्षः। पतिजायापुत्रवित्तमित्रपश्वादिप्रियसम्बन्ध्यात्मा न परमात्मा भवितुमर्हति। स एवहि १"आत्मा वा अरे द्रष्टव्यः" इति प्रतिपाद्यते। राद्धान्तस्तु-न पत्यादीनां कामाय प्रत्यादयः प्रिया भवन्ति १"आत्मनस्तु कामाय" इत्युसवा, १"आत्मा वा अरे द्रष्टव्यः" इति निर्दिष्ट आत्मा, जीवातिरिक्तस्सत्यसङ्कल्पस्सर्वशः परमात्मैव; यत्सङ्कल्पायत्तं पत्यादीनां स्वसम्बन्धिनः प्रति प्रियत्वम्, सहि सत्यसङ्कल्पः परमात्मा। आत्मशानेन सर्वज्ञानादयोऽपि वक्ष्यमाणाः परमात्मन्येव सम्भवन्ति ॥ सूत्रार्थस्तु-वाक्यस्य कृत्स्नस्य परमात्मन्येवान्वयादृष्टव्यतया निर्दिष्ट आत्मा परमात्मैव २"अमृतत्वस्य तु नाशाऽस्ति वित्तेन" १"आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" ३"इदं सर्व यदयमात्मा" ४"तस्यह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" ५"येनेदं सर्व विजानाति तं केन विजानीयात्” इति हि कृत्स्नस्य वाक्यस्य परमात्मन्यन्वयो दृश्यते ॥१९॥ ६"एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति" इति जीवलिङ्गस्य मतान्तरेण निर्वाहमाह प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥ एकविज्ञानेन सर्वविज्ञानप्रतिक्षासिद्धये जीवस्य परमात्मकार्यतया परस्मादात्मनोऽनन्यो जीव इति जीवशब्देन परमात्मनोऽभिधानमित्याश्मरथ्यमतम् ॥ २०॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ ७"परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते” इति शरीरात् उत्क्रमिष्यतः अस्य जीवस्य परमात्मभावाजीवशब्देन परमात्मनोऽभिधानमिति औडुलोमिराचार्यो मेने ॥ २१॥ अवस्थितेरिति काशकृत्स्नः।। "य आत्मनि तिष्ठन्" इत्यादिभिर्जीवा. १. वृ. ६-५-६॥ २. बु ४-४-२ ॥ ६. वृ. ४-४-१२ ।। ७. छा. ८.३-४॥ ३. वृ. ६-५-७॥ ४. ३. ४-४-१०॥। ८.१. ५-७-२२ ।। मा. पा ।। For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम् . ३९९ स्मन्यन्तरात्मतया परमात्मनः अवस्थितेः जीवात्मशब्दस्य परमात्मनि पर्यवसानाजीवात्मशब्देन परमात्मनोऽभिधानमिति काशकृत्स्न आचार्यों मन्यते । इदमेव सूत्रकाराभिमतमित्यवगम्यते, त्रयाणामन्योन्यविरोधात् , इतः परमवचनाच ॥ २२॥ इति वेदान्तदीपे वाक्यान्वयाधिकरणम् ॥ ६ ॥ --- --(श्रीशाररिकमीमांसाभाष्ये प्रकृत्यधिकरणम् ॥ ७ ॥)--- प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । १॥४॥२३॥ एवं निरीश्वरसाङ्खये निरस्ते सति सेश्वरसाङ्ख्यः प्रत्यवतिष्ठते-यघपीक्षणादिगुणयोगात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रदिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते । नहि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वमवगमयन्ति । तथाह्यपरिणामिनमेनं प्रकृतिं चैतदधिष्ठितां परिणामिनीमधीयते-१"निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्"२"स वा एष महानज आत्माऽजरोऽमरः" ३"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्" ३"ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवा सा जनित्री भूतभाविनी" इति । तथा प्रकृतिमुपादानभूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति श्रूयते ४"अस्मान्मायी सृजते विश्वमेतत्" ४“मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" इति । स्मृतिरपि ५"मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्" इति । एवमश्रुतेऽपि १. श्वे. ६-१९॥ ४. श्वे. ४-५, १०॥ २. १. ६-४-२५॥ ५. गी. ९-१०॥ ३. मन्त्रिकोपनिषदि । For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० श्रीशारीरकमीमांसाभाष्ये [अ. १. प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानखरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिद्ध्यति । एवमेवहि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते । मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेनिमित्तत्वं च नियतमुपलभ्यते । कार्यनिष्पत्तिश्च नियमेनानेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोर्भेदनियम कार्यनिष्पत्तेरनेककारकसव्यपेक्षत्वनियमं चातिक्रम्यैकमेव ब्रह्मोपादानं निमित्तं च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि । अतो ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानंतु तदधिष्ठितं प्रधानमेव-इति ॥ --(सिद्धान्तः).-..एवं प्राप्तेऽभिधीयते-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्-इति। प्रकृतिश्च-उपादानंच । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणं च ब्रझैवेत्यर्थः । कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवमेवहि प्रतिज्ञादृष्टान्तौ नोपरुध्येते। प्रतिज्ञा तावत् १"स्तब्धोऽस्युत तमादेशमपाक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्" इत्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च २“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्" ३“यथा सोम्यैकेन लोहमणिना" ४'यथा सोम्यैकेन नखनिकुन्तनेन" इति कारणविज्ञानात्कार्यविज्ञानविषयः। यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं स्यात् । नहि कुलालादिविज्ञानेन घटादिर्विज्ञायते । अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमकुटवासीपरश्वथादितत्कायविज्ञानवनिखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्य निखिलं जगद्विज्ञातं स्यात्। कारण१. छा, ६-१-३ ।। ३. छा. ६-१.५ ॥ २. छा. ६.१.४॥ ४. छा. ६-१-६॥ For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] प्रकृत्यधिकरणम् . मेवावस्थान्तरापनं कार्यम्, न द्रव्यान्तरमिति कार्यकारणरूपेणावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनाद्ब्रह्म जगदुपादानं चेति निश्चीयते । यतु निमित्तोपादानयोर्भेदश्श्रुत्यैव प्रतीयत इति तदसत्, निमित्तोपादानयोरैक्यप्रतीतेः १ “उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति" इति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, २" एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः । साधकतमत्वेन कर्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति, येनादेष्टाऽधिष्ठात्रा श्रुतेनाश्रुतमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते, ३" सदेव सोम्येदमग्र आसीदेकमेव " इति प्राक्सृष्टेरेकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति ४" विकारजननीम् " ४ "गौर नायन्तवती " इत्यादिभिः प्रकृतेराद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं कथमुपपद्यते । तदुच्यते तत्राप्यविभक्तनामरूपं कारणावस्थं ब्रह्मैव प्रकृतिशब्देनाभिधीयते ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । तथाहि श्रुतयः ५" सर्वे तं परादाद्योऽन्यत्त्राऽत्मनस्सर्व वेद" ६ "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्" इत्याद्याः ; ७" सर्व खल्विदं ब्रह्म" " ऐतदात्म्य - मिदं सर्वम्" इति कार्यावस्थं कारणावस्थं च सर्व जगद्ब्रह्मात्मकमिति श्रवणाच्च । एतदुक्तं भवति - ९ “ यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य ९ “ योऽव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद ” १०" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य ११ “य ८ १. छा. ६-१-३ ॥ २. बृ. ५-८-९ ॥ ३. छा. ६-२-१॥ ४ मन्त्रिकोपनिषदि ॥ ५. बृ. ६-५-७ ॥ ६ . ६-५-१५ ॥ 51 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४०१ ७. छा. ३-१४-१ ॥ ८. छा. ६-८-७ ॥ ९. सुबा. ७ ॥ १०. बृ. ५-७-३ ॥ ११. बु. ५-७-२२ ॥ Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०२ श्रीशारीरकमीमासामाग्ये [म. १. आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति च सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं परं ब्रह्म कदाचिद्विभक्तनामरूपम् , कदाचिच्चाविभक्तनामरूपम् ; यदा विभक्तनामरूपं तदा तदेव बहुत्वेन कार्यत्वेन चोच्यते ; यदा चाविभक्तनामरूपं तदैकमद्वितीयं कारणमिति च । एवं सर्वदा चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणोऽविभक्तनामरूपा या कारणावस्था सा १“गौरनाद्यन्तवती" १"विकारजननीमज्ञाम्"२ "अजामेकाम्"इत्यादिभिरभिधीयते-इति। ननु च ३"महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते" इति प्रलयश्रुतेरव्यक्तस्योत्पत्तिप्रलयौ प्रतीयेते; तथा च महाभारते ४"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" ५'अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते" इति । नैष दोषः, अचिद्वस्तुशरीरस्य ब्रह्मणोऽव्यक्तशब्दवाच्यायास्त्रिगुणावस्थायाः कार्यत्वात् । ६“यदा तमस्तन्न दिवा न रात्रिः" इति कृत्स्नप्रलयदशायामपि ब्रह्मात्मकस्यातिसूक्ष्मस्याचिद्वस्तुनस्स्थित्यभिधानाज्जगत्कारणस्य परस्य ब्रह्मणः प्रकारभूतमतिसूक्ष्मं चाचिद्वस्तु नित्यमेवेति तत्पकारं ब्र झैव ७"गौरनाद्यन्तवती" इत्यादिष्वभिधीयते । अत एव च ८"अक्षरं तमसि लीयते तमः परे देव एकी भवति" इति तमस एकीभावमात्रमेव श्रूयते ; न तु लयः। एकीभाव इति तमोभिधानातिसूक्ष्माचित्पकारस्य ब्रह्मणोऽविभक्तनामरूपतयाऽवस्थानमभिधीयते । ९"तम आसीत्तमसा गूढमग्रे प्रकेत तमसस्तन्महिनाजायतैकम्" इत्याद्यप्येतदेव वदति । तथा च मानवं वचः १०"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतय॑मवि१, मन्त्रिकोप ॥ २. थे. ४-५ ॥ ७. मन्त्रिकोप।। ८. सुवा. २॥ ३. सुबा. २ ॥ ४,५. भारते. शान्ति, मोक्ष. ८-१३,१४॥। १०. ममुः.१.५॥ For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] प्रकृत्यधिकरणम्. ज्ञेयं प्रसुप्तमिव सर्वतः" इति। १“अस्मान्मायी सृजते विश्वमेतत्" इत्याचनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च । यत्त्वेकस्य निमित्तत्वमुपादानत्वं च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य ; लोके तथा नियमदर्शनात् । अतोऽग्निना सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति । अत्रोच्यते-सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सर्वमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलालादेविचित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः । अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ २३ ॥ अभिध्योपदेशाच्च । १।४।२४ ॥ इतश्चोभयं ब्रह्मैव, २ “सोऽकामयत बहु स्यां प्रजायेयेति" ३ "तदैक्षत बहु स्यां प्रजायेय"इति स्रष्टुब्रह्मणस्वस्यैव बहुभवनसङ्कल्पोपदेशात्। विचित्रचिदचिद्रपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ २४ ॥ साक्षाच्चोभयाम्नानात् । १।४।२५॥ न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमों निश्चीयते,ब्रह्मण एव निमित्तत्वमुपादानत्वं च साक्षादाम्नायते ४"किं विद्वनं क उस वृक्ष आसीद्यतो द्यावापृथिवी निष्टतथुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टताः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भ१. श्वे ४.९॥ ३. छा. ६-२-३ ॥ २.ते. भा. ६.२ ॥ | ४. अष्ट. २-प्र. ८. अनु. ७-५-८ ॥ For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ भीशारीरकमीमांसाभाग्ये वनानि धारयन्" इति । अत्र हि स्रष्टब्रह्मणः किमुपादानं कानि चोपकरणानीति लोकदृष्टया पृष्टे सकलेतरविलक्षणस्य ब्रह्मणस्सर्वशक्तियोगो न विरुद्ध इति ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् । अतश्चोभयं ब्रह्म ॥ २५॥ आत्मकृतेः।१।४।२६ ॥ १" सोऽकामयत बहु स्यां प्रजायेय" इति सिमुक्षुत्वेन प्रकृतस्य ब्रह्मणः २"तदात्मानं स्वयमकुरुत" इति सृष्टेः कर्मत्वं कर्तृत्वं च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वं च प्रतीयते । अविभक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूपः कार्यमिति कतत्वकर्मत्वयोर्न विरोधः। स्वयमेवाऽत्मानं तथाऽकुरुतेति निमित्तमुपादानं च ॥२६॥ ३"सत्यं ज्ञानमनन्तं ब्रह्म" ४'आनन्दो ब्रह्म" ५“अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" ६"निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जनम्" ७"स वा एष महानज आत्माऽजरोऽमरः" इति स्वभावतो निरस्तसमस्तचेतनाचेतनवर्तिदोषगन्धस्य निरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदचिदचिन्मिश्रप्रपञ्चरूपेणाऽत्मनो बहुभवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्कयाह परिणामात् । १।४।२७॥ परिणामस्वाभाव्यात् नानोपदिश्यमानस्य परिणामस्य परस्मिन्ब१. ते. भा. ६-२ ॥ ५. छा. ८-१-५॥ २. ते. आ. ७-१॥ ६. श्वे. ६-१९ ॥ ३. ते. आ. १.१॥ ७. १. ६-४-२५ ॥ ४. ते भृ. ६॥ For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] प्रकृत्यधिकरणम् . ४०५ मणि दोषावहत्वं स्वभावः,प्रत्युत निरङ्कशैश्वर्यावहत्वमेवेत्यभिप्रायः । एवमेव हि परिणाम उपदिश्यते; अशेषहेयप्रत्यनीककल्याणैकतानं खेतरसमस्तवस्तुविलक्षणं सर्वशं सत्यसङ्कल्पमवाप्तसमस्तकाममनवधिकातिशयानन्दं स्खलीलोपकरणभूतसमस्तचिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहकारादिकारणपरम्परया तमशब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति, तमसि च खशरीरतयापि पृथनिर्देशानातिसूक्ष्मदशापत्त्या स्वस्मिन्नेकतामापन्ने सति, तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीवि सर्वेषु वेदान्तेषु परिणामोपदेशः । तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते १" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इत्यारभ्य १“यस्यापश्शरीरम् १"यस्याग्निशरीरं" १“यस्यान्तरिक्षं शरीरम्" १“यस्य वायुश्शरीरम्" १“यस्य धौश्शरीरम्॥१“यस्यादित्यश्शरीरम्" १“यस्य दिशश्शरीरम् " १“यस्य चन्द्रतारकं शरीरम्" १“यस्याकाशश्शरीरम्" १" यस्य तमश्शरीरम्" १“ यस्य तेजश्शरीरम्" १“यस्य सर्वाणि भूतानि शरीरम्" १“ यस्य प्राणश्शरीरम्"? “यस्य वाक्छरीरम्"१“यस्य चक्षुश्शरीरम्"१ “यस्य श्रोलं शरीरम्" १“यस्य मनश्शरीरम्" १“यस्य त्वक्छरीरम्" १“यस्य विज्ञानं शरीरम्" १" यस्य रेतश्शरीरम्" इत्येवमन्तेन काण्वपाठे माध्यन्दिने तु पाठे विज्ञानस्थाने 'यस्याऽत्मा शरीरम्' इति विशेषः । लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम् । सुबालोपनिषदि च पृथिव्यादीनां तत्त्वानां परमात्मशरीरत्वमभिधाय वाजसनेयकेऽनुक्तानामपि तत्त्वा १. इ.५-७-३ वाक्यमारभ्य २३ वाक्यपर्यन्तम् ॥ For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०६ श्रीशारीरकमीमांसाभाष्ये [म. १. नां शरीरत्वं ब्रह्मण आत्मत्वं च श्रूयते । “यस्य बुद्धिश्शरीरम्” १ “यस्याहङ्कारश्शरीरम् " ? “यस्य चित्तं शरीरं ", " यस्याव्यक्तं शरीरम्", "यस्याक्षरं शरीरम् यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " इति । अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तु तमश्शब्दवाच्यमभिधीयते, २" अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते" इति तस्यामेवोपनिषदि क्रममत्यभिज्ञानात् । सर्वेषामात्मनां ज्ञानावरणानर्थमूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम् | सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते २" पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकी भवति" इति । अविभागापत्तिदशायामपि चिदचिद्रस्त्वतिसूक्ष्मं सकर्म संस्कारं तिष्ठतीत्युत्तरत्र वक्ष्यते - ३ "न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच " इति । एवं स्वस्माद्विभागव्यपदेशानईतया परमात्मनैकीभूतात्यन्तसुक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीया १. सुबा ७ ॥ २. सुबा. २ ॥ ३. शारी. २- १०३५ ॥ ४.तै, आ. १-१ ॥ Acharya Shri Kailassagarsuri Gyanmandir न्निरतिशयानन्दात्सर्वज्ञात्सत्यसङ्कल्पाब्रह्मणो नामरूपविभागार्हस्थूलचिदचिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामश्वयते । ४" सत्यं ज्ञानमनन्तं ब्रह्म " ५ " तस्माद्वा एतस्माद्विज्ञानमयात् । अन्यो1 ऽन्तर आत्माऽऽनन्दमयः” ६" एष ह्येवानन्दयाति "७" सोऽकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं कि ५. तै. आ. ५-२ ॥ ६. तै. आ. ७-७॥ ७. तै. आ. ६-२ ॥ For Private And Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम्. ४०७ ञ्च तत्सृष्ट्वा तदेवानुपाविशत् तदनु प्रविश्य सच त्यच्चाभवत् निरुक्तं चानिरुक्तंच निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्" इति। अत्र तपश्शब्देन प्राचीनजगदाकारपालोचनरूपं ज्ञानमभिधीयते १“यस्य ज्ञानमयं तपः" इत्यादिश्रुतेः प्राक्सृष्टं जगत्संस्थानमालोच्येदानीमपि तत्संस्थानं जगदसृजदित्यर्थः तथैव हि ब्रह्म सर्वेषु कल्पेध्वेकरूपमेव जगत्सृजति २ "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।दिवं च पृथिवीं चान्तरिक्षमथो सुवः"३"यथर्तुष्टतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु" इति श्रुतिस्मृतिभ्यः। तदयमथ:-स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्खलीलोपकरणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तकीडनकोपादित्सया स्वशरीरभूतप्रकृतिपुरुषसमष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्यच्छब्दवाच्यविचिलचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रपोऽभवत्-इति। ४"तदेवानुपाविशतदनुपविश्य"इति कारणावस्थायामात्मतयाऽवस्थितः परमात्मैव कार्यरूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सवातरूपजगदाकारपरिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थाः; तथाभूताचिदंशगताश्च सर्वे विकाराः; परमात्मनि कार्यत्वम् । तदवस्थयोस्तयोनियन्तृत्वेनात्मत्वम् । परमात्मा तु तयोस्स्वशरीरभूतयोनियन्तृतयात्मभूतस्तद्गतापुरुषार्थैर्विकारैश्च न स्पृश्यते अपरिच्छिन्नज्ञानानन्दमयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह ४"सत्यं चानृतं च सत्यमभवत्" इति । विचित्रचिदचिद्रपेण विक्रियमाणमपि ब्रह्म सत्यमेवाभवत्-निरस्तनिखिलदोषगन्ध १. मु. १.१-९॥ २. ते. नारा. ६-२४॥ । । ३. वि. पु-१-५-६५ ॥ ४. तै. आ. ६.३॥ For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ श्रीशारीरकमीमांसाभाग्ये [अ. १. मपरिच्छिन्नज्ञानानन्दमेकरूपमेवाभवदित्यर्थः। सर्वाणि चिदचिद्वस्तूनि सूक्ष्मदशापन्नानि स्थूलदशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानिःसृष्टयादयश्च लीलेति भगवद्वैपायनपराशरादिभिरुक्तम्? "अव्यक्तादिविशेषान्तं परिणामधिसंयुतम्।क्रीडा हरेरिदं सर्व क्षरमित्युपधार्यताम्" २“क्रीडतो बालकस्येव चेष्टां तस्य निशामय"३"बालः क्रीडनकैरिव" इत्यादिभिः। वक्ष्यतिच ४'लोकवत्तु लीलाकैवल्यम्" इति। ५"अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्वान्यो मायया सनिरुद्धः"इति ब्रह्मणि जगद्रपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्तत्प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तुं प्रकृतिपुरुषयोब्रह्मशरीरभूतयोस्तदानी तथा निर्देशानर्हातिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेशः, ६'तदात्मानं स्वयमकुरुत" इत्यादिभिरैकार्थ्यात् । तथाच मानवं वचः "सोऽभिध्याय शरीरात्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससजर्जादौ तासु वीर्यमपासृजत्" इति । अत एव ब्रह्मणो निर्दोषत्वनिर्विका रत्वश्रुतयश्चोपपन्नाः । अतो ब्रह्मैव जगतो निमित्तमुपादानश्च ॥२७॥ योनिश्चहि गीयते। १।४।२८॥ इतश्च जगतो निमित्तमुपादानश्च ब्रह्म,यस्माद्योनित्वेनाप्यभिधीयते ८ "कर्तारमीशं पुरुषं ब्रह्म योनिम्" इति। ९"यद्भतयोनि परिपश्यन्ति धीराः" इति चायोनिशब्दश्वोपादानवचन इति १० “यथोर्णनाभिस्सृजते गृह्णते च" इति वाक्यशेषादवगम्यते ॥ २८ ॥ इति श्रीशारीरकमीमांसाभाष्ये प्रकृत्यधिकरणम् ॥ ७॥ १. २. वि. पु. १-२-१८॥ ३. वायुपु. उत्तरखं. ३६.९६ ॥ ४. शारी. २-१-३३ ॥ ५. श्वे. ४-९. ६. तै. आ. ७॥ ७. मनु. १-८॥ ८.मु. ३.१.३॥ ९,१०. मु. १-१-६,७॥ For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] वेदान्तसारे वेदान्तसारे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ जगदुपादानकारणमपि परं ब्रह्म,न निमित्तमात्रम्,१"स्तब्धोऽस्युत तमादेशमप्राश्यः येनाश्रुतं श्रुतं भवति" इति येन आदेष्ट्रा निमित्तभूतेन विज्ञातेन चेतनाचेतनात्मकं कृत्वं जगद्विज्ञातं भवतीति आदेष्टविक्षानेन सर्वविज्ञानप्रतिज्ञातदुपपादमरूपमृत्कार्यदृष्टान्तानुपरोधात्मादिश्यते अनेनेति आदेशः-इत्यादेशशब्देमादेष्टामिधीयते । आदेशः प्रशासनम् , २"एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः ॥२३॥ ___ अभिध्योपदेशाच्च ॥ ३"तदैक्षत बहु स्यां प्रजायय" इति निमित्तभूतस्पेक्षितुः विचित्रचिदचिद्रूपेण जगदाकारेणाऽत्मनो बहुभवनसङ्कल्पोपदेशाच उपादानमपीति विज्ञायते ॥२४॥ साक्षाच्चोभयानानात् ॥ ४"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्...ब्रह्माभ्यतिष्ठद्भुवनानि धारयन्" इति उपादानं निमित्तञ्च ब्रह्मैवेति स्वशब्देन उभयामानाथ ॥२५॥ • आत्मकृतेः ॥ ५"सोऽकामयत" इति निमित्तभूतस्य स्वस्यैव जगदाकारेण कृतेः ६"तदान्मानं स्वयमकुरुत" इत्युपदिश्यमानायाः परमपुरुषो जग. निमित्तमुपादानश्चेति विज्ञायते ॥ २६ ॥ परस्य ब्रह्मणो निरवद्यत्वसत्यसङ्कल्पत्वादेः तद्विपरीतानन्तापुरुषार्थाश्रयजगदाकारेण आत्मकृतेश्चाविरोधः कथमित्याशङ्कयाह परिणामात् ॥ अत्रोपदिश्यमानात् परिणामात् तदविरोध एव । अविभक्तनामरूपातिसूक्ष्मचिदचिद्वस्तुशरीरकः कारणावस्थः परमपुरुषस्वयमेव ५"सोऽकामयत बहु स्यां प्रजाय" इति विभक्तनामरूपचिदचिद्वस्तुशरीरको भवेयमिति सङ्कल्प्य५''इदं सर्वमसृजत यदिदं किञ्च"इति स्वशरीरभूतमतिसूस्मचिदचिद्वस्तु स्वस्माद्विभज्य ५"तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्वस्माद्विभक्त चिदचिवस्तुनि स्वयमेवात्मतयाऽनुप्रविश्य५"सच त्यचाभवत्। निरुक्तञ्चानिरुका। निलयनञ्चानिलयनश्च । विज्ञानञ्चाविज्ञानश्च । सत्यञ्चानृतश्च सत्यमभवत्" इति हि स्वस्य बहुभवनरूपपरिणाम उपदिश्यते; अतो न कश्चिद्विरोधः। १. छा, ६-१-३॥ ४. अष्ट. २-प्र. ८-अनु. ७-८ ॥ २. स. ५-८-९ ॥ ५. ते. आ. ६-२॥ ३. छा. ६२-३॥ ६. ते. आ. ७-१॥ 52 For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१० बेदान्तदीपे [म.. अविभागावस्थायामपि जीवस्तत्कर्म च सूक्ष्मरूपेण तिष्ठतीति वक्ष्यति "न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति ॥ २७ ॥ योनिश्च हि गीयते ॥ २"यद्भूतयोनिम्" इत्यादिषु योनिश्च गीयते ; अतश्वोपादानमपि ॥ २८ ॥ ___ इति वेदान्तसारे प्रकृत्यधिकरणम् ॥ ७ ॥ वेदान्तदीपे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।।परं ब्रह्म किं जगतो निमित्तकारणमात्रम् ,उतोपादानकारणमपीति संशयः। निमित्तकारणमात्रमिति पूर्वः पक्षः, मृत्कुलालादौ निमित्तोपादानयोर्भेददर्शनात् ; ३"अस्मान्मायी स्जते विश्वमेतत्" इत्यादिभिर्भेदप्रतिपादनात्, ब्रह्मणोऽषिकारत्वश्रुतिविरोधाच । राद्धान्तस्तु-'येनाश्रुतं श्रुतम्" इति ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिक्षानान्यथानुपपत्त्या ५“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयम्" इति मृत्तकायदृष्टान्तेन तदुपपादनाच जगदुपादानकारणमपि ब्रह्मैवेति विज्ञायते । प्रमाणान्तरावसितसकलवस्तुविलक्षणस्य शास्त्रैकसमधिगम्यस्य परस्य ब्रह्मणस्सवक्षस्य सर्वशक्तेः कार्यकारणोभयावस्थायामपि स्वशरीरभूतचिदचित्प्रकारतयाऽवस्थितस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम् । शरीरभूताचिद्वस्तुगतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिणः परमात्मनोऽविकारित्वं सिद्धमेव । चिदचिद्वस्तुशरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थवि. कारास्पर्शप्रदर्शनाय हि ३"अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सनिरुद्धः" इति व्यपदेशः । प्रतिज्ञादृष्टान्तानुपरोधात् उपादानं च ब्रह्मैवेति सूत्रार्थः ॥२३॥ अभिध्योपदेशाच्च ॥ ६"सोऽकामयत बहु स्याम्""तदक्षत बहु स्यां प्रजायेय" इति स्रष्टब्रह्मणस्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदेशाञ्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते ॥ २४ ॥ साक्षाच्चोभयानानात् ॥ ८"किं स्विद्वनं क उ स वृक्ष आसीत्"इस्यादिना जगदुपादाननिमित्तादौ पृष्टेः"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्"८"ब्रह्माध्य१. शारी. २-१-३५॥ । ५. का ६,१-४ ॥ २. मु. १-१-६॥ ६.ते. आ. ६.२ ॥ ३. श्वे. ४-९ ॥ ७.छा. ६-२-३ ॥ ४. डा. ६-१-३॥ ८. अष्ट. २-प्र. ८.अनु. ७-८॥ For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम्. ४११ तिष्ठत्" इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादानायते ; अतश्चोभये ब्रह्म ॥२५॥ आत्मकृतेः ॥ १"तदात्मानं स्वयमकुरत" इति स्रष्टुरात्मन एव जगदाकारेण कृतिरुपदिश्यते ; अतश्चोभयं ब्रह्मैव । नामरूपभावावाभ्याम् एकस्य कर्मकर्तृभावो न विरुद्धः॥२६॥ ____यद्यात्मानमेव ब्रह्म जगदाकारं करोति, तर्हि ब्रह्मणोऽपहतपापत्वादि. कमनवधिकातिशयानन्दस्वरूपत्वं सर्वशत्वमित्यादि सर्व विरुध्यते, अज्ञत्वासु. खित्वकर्मवश्यत्वादिविपरीतरूपत्वाजगत इत्यत उत्तरं पठति परिणामात् ।। अक्षब्रह्मविवर्तवादे हि तद्भवत्येव, अज्ञानस्य तत्कार्यरूपानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्येवान्वयात् , तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताश्च । अविभक्तनामरूपसूक्ष्मचिचिवस्तुशरीरकस्य ब्रह्मणः विभक्तनामरूपस्थूलचिदचिवस्तुशरीरत्वेन परिणामो हि वेदान्तेभूपदिश्यते, २"तद्धेदं त_व्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इत्येवमादिभिः । अपुरुषार्थाश्च विकाराश्शरीरभूतचिदचिवस्तुगताः । कारणावस्थायां कार्यावस्थायां चात्मभूतं ब्रह्म अपहतपाप्मत्वादिगुणकमेव । स्थूलसूक्ष्मावस्यस्य कृत्स्नस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम् ३"यः पृथिव्यां तिष्ठन्" "यस्य पृथिवी शरीरम्” इत्यारभ्य ४'यस्याव्यक्तं शरीरम् यस्याक्षरं शरीरम् यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देवः” इत्येवमादिश्रुतिशतसमधिगतम् । अतस्सर्वमनवद्यम् ॥ २९ ॥ योनिश्च हि गीयते ॥ ५"यद्भतयोनि परिपश्यन्ति धीराः'६"कर्तारमीशं पुरुषं ब्रह्मयोनिम्" इत्यादिषु सर्वस्य भूतजातस्य परमपुरुषः योनि. त्वेन गीयते । हिशब्दो हेतौ। यस्माद्योनिरिति गीयते,तस्माश्चोपादानमपि ब्रह्म। योनिशब्दश्वोपादनकारणपर्यायः ।। २८ ॥ इति वेदान्तदीपे प्रकृत्यधिकरणम् ॥ ७ ॥ १. ते. आ. ७-१ ।। २. १. ३-४-७ ॥ ३. १. ५-७.३ ॥ ४. सुबाल, ७॥ ५. मु. १-१-६॥ ६. मु. ३.१-३॥ For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - (श्रीशारीरकमीमांसामाध्ये सर्वव्याख्यानाधिकरणम् ॥९॥). एतेन सर्वे व्याख्याताव्याख्याताः । १॥४॥२९॥ एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणमतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रमप्रतिपादनपरा व्याख्याताः । 'व्याख्याताः'इति पदाभ्यासोऽध्यायपरिसमाप्तियोतनार्थः ॥ २९ ॥ इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसामान्ये प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥ ॥ समाप्तश्चाध्यायः॥ वेदान्तसारे-एतेन सर्वे व्याख्याताव्याख्याताः॥ १"जन्माचस्य यतः" इत्यादिना एतदन्तेन न्यायेन सर्वे वेदान्ताः ब्रह्मपरा व्याख्याताः। द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय ॥ २९ ॥ इति वेदान्तसारे सर्वव्याख्यानाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याभ्यायस्य चतुर्थःपादः॥४॥ ॥समाप्तश्चाध्यायः॥ वेदान्तदीपे-एतेन सर्वे व्याख्याताव्याख्याताः॥ २"यतो वा इ. मानि" इत्यादिष्दाहतेषु वाक्येषु १"जन्माद्यस्य यतः" इस्यादिनोकन्यायकला. पेन सर्वे वेदान्ताः ब्रह्मपरा ब्याख्याताः । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ २९॥ इति वेदान्तदीपे सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः ॥४॥ ॥ समाप्तश्चाध्यायः॥ १. शारी. १-१-२ ॥ २. ते. भू. १॥ For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः अधिकरणसारावली. श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों मे सन्निधत्तां सदा हृदि । स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥ श्रीमद्भयां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेन सर्वसहनिशितधिया वेङ्कटेशेन कुप्तः । सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः॥ त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुत्योक्तबाधौ मन्दत्वासङ्गतत्वे विशयमफलतां मानवाधं च मन्तॄन् । दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥ ३ गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं ? दिङ्मातं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः । मा भूनिश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरने मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥ ४ १. वेदिन्य इति पा. For Private And Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. १. वेदार्थन्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्टया। तत्राशेषैविशेषैस्तदनु तदनुवयूहतः प्राप्तबाधैः तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था । प्रारधर्मेऽल्पास्थिरार्थे प्राशमितविशये तादृशाराध्ययुक्तेऽथातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् । कृत्स्नस्वाध्यायसागाध्ययनसमुदितापातबुद्ध्यैव कर्म । त्यक्त्वाऽऽदो ब्रह्मचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात्।। प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच मुख्यक्रमेण । मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो दृष्टान्तश्थोपमेयाद्यदि मधु सविधे यातु चादि किमर्थः॥ व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलन्तत् । साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादेरौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः॥ ८ नित्यपाप्तस्य कण्ठस्थितकनकनयानिर्विशेषस्य लब्धिमिथ्याभूतं निवर्त्य श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः। कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वत्ततोक्तिर्मदुक्ते प्राप्तात्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण ॥ मीमांसायाः कबन्ध कतिचन जगृहराहुकल्पं शिरोऽन्ये किन्तैरन्तर्विरोधप्रमुषितमतिभिर्बाह्यकल्पैर्ऋमद्भिः । स्वाध्यायायायकात्स्न्र्ये स्वविधिपरविधिप्रेरणा तावदास्तां कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान कुर्युः ॥ १० For Private And Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] शास्त्रावतारः. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकाराविद्यास्थानैक्यसिद्धौ क्रमनियतियुताकायैकप्रबन्ध्यम् । अध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्ती तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥ ११ तत्तद्वैशिष्टयभेदाद्यदगणि भिदुरा देवता पूर्वभागे संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः । उद्देश्याकारभेदोऽस्त्ययमिह हविषामुक्तिभिन्ने प्रयोगे दौर्बल्यं त्वक्षवेधान्मितिचरमतया द्रव्यतो देवतायाः॥ १२ जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं मूत्राकारैस्तस्मादत्रैकशास्त्र्यं हठकृतमिति न ब्रह्मसंवाददाढात् । तन्नस्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात् बाह्यक्षेपार्थगूढाशयवचनभवद्धान्तिशान्त्यादिसिद्धेः॥ १३ आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः केचिद्युत्पादनीयाः कचिदषवदनं ख्याप्यमौत्सर्गिकस्य । इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्टया शास्त्रैक्ये पौनरुत्यप्रभृतिपरिहतिस्सावधानैर्विभाव्या ॥ १४ वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्त्वरत्नाकरोक्तिः । अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हा निर्वाहस्तूपचारात् कचिदिह घटते ह्येकतात्पर्ययोगः॥ १५ सौत्री सङ्ख्या १शुभाशीरधिकृतिगणना २चिन्मयी ब्रह्मकाण्डे तादत्र्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या। १. शुभाशी:-५४५. । २. चिन्मयी-१५६. For Private And Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ.१. ३अक्षोाशाहिकाष्ठाद्विरदमुनिवसूयंद्रितत्त्वातिशकर्य रक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः॥ शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैरद्ध्यायैष्षोडशाजिद्विकयुगभिदुरं षट्कभेदादिनीत्या । तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्रियुग्मं खप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम्॥१७ तलायेऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः। दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथोपासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥ १८ स्रष्टा देही स्वनिष्ठो निरवधिमहिमापास्तबाधश्रिताप्तः खात्मादेरिन्द्रियादेरुचितजननकृत्संमृतौ तन्त्रवाही। निदोषत्वादिरम्यो बहुभजनपदं स्वाहकर्मप्रसाद्यः पापच्छिब्रह्मनाडीगतिकृदतिवहन् साम्यदश्वान वेद्यः ॥ १९ विध्युक्त्याऽधीत्य वेदान्विधिवलविरतावन्यजादेव रागात् कृत्स्नं मीमांसमानाः क्रमत इति परब्रह्मचिन्तान्तरन्ति । प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्टया कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते ॥ २० रागान्मीमांसते चेत् स्खयमिह यततां किं गुरूक्त्येतिचेन्न ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् । सद्विद्याचार्यवत्वे प्रथयति च परब्रह्मवित्तिन्तथान्याप्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥२१ ३. अक्ष-११. ऊर्मि-६. आशा-१०. अ- ८. ऊर्मि-६. अद्रि-८. तत्त्व-२६. अतिशक्करीहि-८. काठा-१०. द्विरद-८. मुनि-७. वसु- | १५. अक्षैः-११.अक्षैः-११. प्रयाजैः-५.रसै-६. For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रावतारः. सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यतेऽस्मिन् किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात् । ब्रह्मण्येवन मानान्युपनिषद इति स्तम्भिते तद्विचारे शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैन्ययभेदैश्चतुर्भिः ॥ सिद्धे व्युत्पत्त्यभावे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं ब्रह्मान्योक्त्यानुमानममितमपि भवत्वंशतश्शास्त्रवेद्यम् । विध्यर्थत्वेऽप्यवाधात्परविषयवचस्स्वार्थमानं भवेदित्यन्वारुह्याक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः ॥ द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्ध्योः । औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं शास्त्रारम्भार्थमेकं त्रितयमपि परं शास्त्रमित्याहुरेके || यत्तत्सेनेश्वरायैरगणि वकुलभृत्किङ्करैरङ्गयकारि व्यासार्यैर्न्यासि च द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवत्रे । अश्रौषं शेषकल्पादहमपि विदुषो वादिहंसाम्बुवाहात् अद्धा निर्द्धार्यतेऽतश्चतुरधिकरणी ब्रह्मचिन्तोषयुक्ता ॥ व्युत्तरयात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत् बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात् । मध्यौ द्वौ रूपनामप्रजननविषयो यद्विदुस्तच्च मन्दं सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे ।। इति शास्त्रावतारः ॥ For Private And Personal Use Only २२ २३ २४ २५ २६ Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ... ---( अथ जिज्ञासाधिकरणम् )---- कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरमायतैव । नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह ॥ २७ अङ्गल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः। सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेन कल्प्या॥२८ संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्युस्संस्कारोद्धोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात् । तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः तद्वत्स्याच्छिक्षकादिव्यवहतिषु शिशोरैदमादिबोधः॥ २९ दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः । तस्मात्सार्थो मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पतेऽन्योऽपि मार्गः॥ कस्मैचित्सिद्धमर्थ कमपि कथयितुं चेष्टया चोद्यमानः तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचोऽन्यः । आदिष्टो बोधनार्थ यदिह वितनुते तत्तदर्थ हि युक्तं तद्वाक्यात्सिद्धवेदी प्रयततइति चेदस्त्वनादेशिकन्तत् ॥ ३ पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गः तद्योग्यार्थन्तदूचं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात् । For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्माद्यधिकरणम् . आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत् भूयोदृष्टयादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम् ॥ ३२ कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि । स्थाप्याऽतोऽनन्यथासिघ्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः कोऽसौ पाश्चालइत्याधुचितविरतिकं सिद्धमात्रेऽपि वाक्यम्॥३३ दुःखासंभिन्नदेशप्रभृतिफलतया चोदनाखेव सिद्धं श्रीतत्वादार्थवादिक्यपि भवति फलं रात्रिसत्रे प्रतिष्ठा । अङ्गीकुमो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्रह्मधारर्थवादैः॥ इति जिज्ञासाधिकरणम् ॥१॥ 3 . मा५. ...( अथ जन्माद्यधिकरणम् )-..जन्मायैश्चेद्विशेष्यं भवति बहुलताथोपलक्ष्यं ब्रवीषि ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा। उदिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिब्रह्मशब्दार्थ उक्तः॥ ३५ नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये खण्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दकताऽत्र । तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्यवच्छेद्यहानेः खण्डत्वादिक्रमाचेत्यसदविहतितः खण्डतादेर्विशेषात् ॥ ३६ तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम् । For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ अधिकरणसारावल्याम् प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृति(महिम्ने संभूयाप्याहुरेके फलमपि च तदाङ्कितार्थव्युदासः॥ ३७ ज्ञातं चेन्नोपलक्ष्यनच यदि नतरां लक्ष्मयोगाप्रतीतेः ज्ञाताज्ञातांशभेदस्त्विह दुरभिलपो लक्षणेनैव वेद्ये । ब्रह्मत्वं ब्रह्मशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्रह्मतोक्तेः॥ यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम् । तस्माद् द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोय । मोक्षार्थोपास्यभेदे ह्यभयमपि समन्वेति विद्याविकल्पात् ॥ ३९ चन्द्रे शाखेव शान्ते महसि तटगत लक्षणं कारणत्वं सत्यज्ञानादिवाक्यैरपमृदितगुणन्तद्विभातीति डिम्भाः। एकत्रार्थो विशेष्ये प्रतिपदनियतावय॑तत्तनिमित्तद्वारात्तिं पदानामिह विदुररुणायुक्तिवन्यायवृद्धाः॥ इति जन्माद्यधिकरणम् ॥ २॥ पटवा ॥ ४० ....( अथ शास्त्रयोन्यधिकरणम् )--- वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत् सर्वज्ञेन प्रकृतं गमयति विफलस्त्वत्र शास्त्रैर्विचारः । इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम् ॥ ४१ क्षित्याचं कार्यतायैः कटकमकुटवत् कर्तृपूर्व स कर्ता सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम् । For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org समन्वयाधिकरणम्. 2 श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृश व्याप्त्यभावात् सर्व हेतुन पश्येत् घटकूदिह न चाकर्तृता तावताऽस्य || कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्व यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात् । हे तावेतादृशात्मन्यविदुरभिदुरं व्याप्तसिद्ध्यादिदौःस्थ्यन्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे || यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि प्रत्यक्षव्याप्तिशैली न खलु शिथिलता कुत्रचित्पक्षभेदे | आम्नाये त्वद्भतोक्तिर्न भवति वितथा तादृशाप्तोक्तनीत्या बाधाभावादिसाम्याद्विहतिमति भवेल्लोकवत् गौणतादिः । ४४ नन्वाम्नायप्रधानाः क्वचिदनुकथयन्त्यस्मदादेरशक्यः कार्यैः कर्ताऽनुमेयः पर इति तदभिमैतु जन्मादिवाक्यम् । तस्मादीशानुमान त्यजनमनुचितं वैदिकस्येति चेन्न काप्यौचित्योपदेशाद्यत इति च सदायक्तिसिद्धानुवादात् ॥ ४५ इति शास्त्रयोन्यधिकरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४२ अथ समन्वयाधिकरणम् ॥ ४ ॥ ) - कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात् प्रीत्या साफल्यप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम् । विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावीत्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह ॥ तात्पर्यं ब्रह्मतत्वेऽप्यविहतविधिनाऽप्येकवाक्यत्वपक्षे भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम् । स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगाद्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद्ध्यैव हर्षः || ४६ ४३ ४७ Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. १. यत्पीत्यर्थ वचस्तनिखिलमनृतमित्यर्भकपायवाक्यं सत्योक्त्यानन्ददृष्टेन च विहतिरिहाध्यक्षतश्शास्त्रतो वा । तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम् ॥ ४८ ब्रह्मैके निष्पपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति । तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि ॥ कन्यार्था ह्यर्थवादस्तुतिमुखमुखतः स्थापितः प्रागिदानी स्वातन्त्र्येण प्रमाणी क्रियत इति ततः काण्डयोस्स्याद्विरोधः। न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थ केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे ॥ ५० त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यशभेदैचत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः। अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत् सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तिः ॥ ५१ आम्नातैरौहिकाथै रविगुणसफलैशाकुनज्यौतिषाद्यैः पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ । शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्यापलापः॥ ५२ शास्त्रारम्भोपपत्त्यै चतुरधिकरणीपेटिकेयं प्रवृत्ता लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि । सब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे वक्ष्यत्यस्य द्विलिङ्गायधिकृतिषु पुनस्तादृशानन्दतादीन् ॥ ५३ For Private And Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] आनन्दमयाधिकरणम् आत्मन्येवं परस्मिन्न कृत इति मते विश्वहेतुत्वलक्ष्ये शास्त्रकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते । ईदृक्त्वं स्याद्यथा प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ दुःखास्पृष्टौ च तावित्यथ परकथनं दोषवीति क्रमेण ॥ इति समन्वयाधिकरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir - ( अथानन्दमयाधिकरणम् ॥ ७ ॥ ) मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतवे सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम् । For Private And Personal Use Only ११ • ( अथेक्षत्यधिकरणम् ॥ ५ ॥ - गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तं । सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं श्रुत्याऽन्येषां निरोधाच्चदभिमततिरस्कारिलिङ्गादिभिश्च ।। ५५ ज्ञाते कa सर्व विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा मृत्तत्कार्यादयश्च वय इह कथितास्तस्य दृष्टान्तभेदाः । तेनाव्यक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्तेस्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः ॥ आदेशात्मस्वशब्दैरनितरशरणैस्त्वन्तदैक्योपदेशाज्जीवेन खेन साकरणमनहमोऽचिद्गणस्य प्रवेशात् । एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः ॥ इतक्षत्यधिकरणम् ॥ ५ ॥ ५४ ५६ ५७ Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. १. इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र ॥ ५८ दृष्टः पूर्व विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं मधे तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात् । आनन्दमाचुरी च प्रकृतपरसुखाल्पत्वलब्धावधित्वादःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात् ॥ ५९ आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः । शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्र प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ ॥ ६० निर्देहेऽस्मिनिरंशे न हि भवति शिरःपक्षपुच्छादि किश्चितस्मात्पुच्छं प्रतिष्ठेत्युदितमिह परं ब्रह्म भातीति चेन्न । सोढापुच्छत्वकृप्तियदि कथमितरन्नानुमन्येत कल्प्यं ब्रह्मण्यात्मप्रतिष्ठा वचनमनितराधारताख्यापनाय ॥ ६१ इत्यानन्दमयाधिकरणम् ॥ ६ ॥ -- --...(अथान्तरधिकरणम् ॥ ७॥)...भूयिष्ठानन्तपुण्योपचयबलसमुद्धपूर्वोक्तभूम्नां शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः। तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां नित्यश्रीध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः॥ ६२ सर्वेभ्यः कल्मषेभ्यो ह्यदित इति वदत्यन्तरादित्यविद्या तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगोऽस्तु मैवम् । For Private And Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्तरधिकरणम् आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान् स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः।। ६३ प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्यद्र रूपमैश दिवि कनति तथा शेषशेषाशनाद्यैः । नित्यं तत्सुरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः पुंसां संसारशान्त्यै विपरिणमयति व्यूहपूर्वैर्विभागैः ॥ देहत्वात् सप्तधातुत्रिमलमघभवन्दुःखकृन्नाशयुक्तं सांशत्वादेव हेतोरिति यदि तदसद्धर्मिमानेन बाधात् । arasarahar कचिदपि न भवेदन्यथाऽतिप्रसङ्गात् यत्तु स्वेच्छावतारेष्वभिनयति तदप्यारोपलवार्थम् || इत्थं विद्यraण स्थिरचरचिदचिद्देहिनस्सर्वहेतोव्यक्ताज्जीवतत्वादपि समधिकता यद्यपि स्यात्तथापि । उत्थानद्वारभेदात् क्रमत इह मृदूपक्रमान् क्रूरनिष्ठान् अद्ध्यायेऽस्मिन्निरुन्धन्नधिकरणगणैस्तद्गुणानुद्गणाति ॥ ६५ शब्दैस्सब्रह्ममुख्यैश्श्रुतिशिरसि मितं कारणं किश्चिदेकं सङ्कल्पाभ्यासरूपैरतदननुगुणैश्चिन्तितश्चिद्विशेषः । भूताकाशादिशङ्काजननसमुचितैर्नामभिः कारणस्थैः For Private And Personal Use Only १३ ६४ ६६ ६७ क्षिप्त्वा तत्पादशेषश्रुतिसमुदयनासम्भवोक्त्या भुनक्ति ॥ आकाशप्राणशब्दावनितरगतिको रूढिभङ्गेन नेयौ ज्योतिश्शब्दस्तु रूढया प्रथयति पुरुषं दिव्यतेजोविशिष्टम् । प्रख्यातेन्द्रादिशब्दस्तदनु नियमितस्तद्विशिष्टप्रवृत्त्येत्येवं स्यात् पेटिकैषाद्विकयुगलवती शब्दवृत्तिक्रमेण ॥ ६८ इत्यन्तरधिकरणम् ॥ ७ ॥ Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org अधिकरणसारावल्याम् Acharya Shri Kailassagarsuri Gyanmandir [अ- १. - ( अथाकाशाधिकरणम् ॥। ८ ।। ) .. अत्राकाशस्त्व शेषप्रभवविलयभूस्सानि दृष्टस्वनाम्ना निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्वात्मनस्सम्भवोक्त्या । मैं सिद्धानुवादो यमथ च परप्राप्यतादिर्न तस्मि - स्तत्कर्तात्मा विपरिचच्छ्रुत इति विहता स्वात्मनस्तत्प्रसूतिः।। ६९ इत्याकाशाधिकरणम् ॥ ८ ॥ ( अथ प्राणाधिकरणम् ।। ९ ।। ) ००प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्वयोमवत् साधनीयम् । तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववचानुवादात् आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः ॥ ७० नोक्ति व्याहन्ति लिङ्गं किमपि भवति तु ख्याततश्वानुकूलं शब्दश्चानन्यनिष्ठश्रुत इति न परो ज्योतिराद्यक्तिवेधः । विश्वोत्पत्त्युक्तत्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्तया ॥ ७१ इति प्राणाधिकरणम् ॥ ९ ॥ For Private And Personal Use Only • ( अथ ज्योतिरधिकरणम् ॥ १० ॥ ) - कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वोपादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु । मैवं पुंसूक्तवाक्यादितपरपुरुषप्रत्यभिज्ञप्तचबाधात् गायत्र्युक्तस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः || उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गादित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात् । Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] इन्द्रप्राणाधिकरणम् . इत्थं विश्वादिलिङ्ग सदिह न तु पराभीष्टलिङ्ग समस्तीत्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्कया ॥७३ इति ज्योतिरधिकरणम् ॥ १० ॥ ---- (अथेन्द्रप्राणाधिकरणम् ॥ ११॥... विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न । ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ्चकं स्वात्मना च प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघटयभग्नः॥ ७४ यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्त प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः। अप्राप्ते तद्विमर्श प्रकृतशिथिलता नेति चेत्सत्यमेतत् विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का ॥ ७५ ज्योतिःप्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मादित्येतत्साध्वमीषां बहुविहतिमती ख्यातमाते तु वृत्तिः। तत्कौलेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै मुख्यमाणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय ॥ ७६ कार्य यत्कर्मवश्यं यदपि दृढमितं तन्निरूद्वैस्तु शब्दैः निर्दिष्टे ब्रह्मणि स्यात्कचिदगतिहता रूढिरैन्द्रीनयेन । तल्लिङ्गानन्यथासियधिगमनबलात्तद्विशिष्टे विवक्षा स्यादीशे ज्योतिरिन्द्रायभिलपनपदेऽहंत्वमादीरिते च ॥ ७७ स्वेच्छातस्सर्वहेतुश्शुभगुणविभवानन्तनिस्सीमहर्षश्शुद्धाकर्मोत्थनित्याकृतिरनुपधिकाकाशनादिखभावः । For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. अधिकरणसारावल्याम् सप्राणाप्राणभेदव्यतिभिदुरजगत्माणनो दिव्यदीप्तिः प्राणेन्द्राधन्तरात्मा प्रभुरधिकरणैस्सप्तभिः प्रत्यपादि ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्या प्रथमस्याध्यायस्य प्रथमः पादः. ७८ -...(अथ प्रथमस्याद्धयायस्य द्वितीयः पादः ॥).-.. अनायोगान्ययोगव्यपनयननयैब्रह्मपादत्रिपादीभागारूद्वैर्मृदूपक्रमकठिनपरैः प्राय आये प्रसाद्धयम् । कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तस्त्रिपादी काचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता ॥ अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्याचिन्ता भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्मवृत्ता त्रिपाद्याम् । अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित् तवेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः॥ पूर्वतासिद्धरूपैस्वमतिविरचितोन्नीतिभिः पूर्वपक्षस्सिटैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये । स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति । न्यायकत्रिंशदत्र प्रतिचरणविभक्त्यन्वितान्वेषणीया । विश्वं पादे द्वितीये वपुरिति कथयश्चिन्त्यते वाक्यवर्गो विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये । तुर्ये साङ्खयादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीयेत्येवं केचित्तिपादी जगदुरयमपि श्रोतबुद्धेस्समाधिः॥ For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. २. ] www.kobatirth.org सर्वत्रप्रसिद्ध्यधिकरणम् . अथ सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १२ ॥ यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्तस्तस्मिञ्जीवत्वशङ्कां जगदुपजनके सौति शाण्डिल्यविद्या | पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्येत्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति ॥ अन्वारुह्यात भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं विद्यैकत्वेऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम् । सत्यं ब्रह्मानुमत्य कचिदुपनिषदि कापि कल्प्ये विवादे चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या ॥ ६ सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽवचैवे - त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न । तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादेस्स्वारस्यादप्यणुत्वं ह्यपधिकृतमिहोपास्तये ज्यायसि स्यात् ॥ ७ इति सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १२ ॥ 3 Acharya Shri Kailassagarsuri Gyanmandir ( अथाधिकरणम् ।। १३ ।। ) ००अता खल्वोदनादेर्भवगिति कठश्रुत्यधीतोऽप्यसौ स्यान स्यान्मृत्युपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः । जीवन्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात् ॥ ८ सत्वं स्वाद्वश्यनश्नन् ज्ञ इति विभजनात्पङ्गयधीतन्तु सत्वं बुद्धिः प्राणोऽथवेति तमिह पिवतोर्जीव एकस्तयोश्चेत् । मैवं जन्तौ तु सवश्रुतिरियमुचिता कर्मभुङ्गाप्यनश्नन् तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः || इत्यत्त्रधिकरणम् ।। १३॥ For Private And Personal Use Only १७ ९ Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् ----( अथान्तराधिकरणम् ॥ १४ ॥)....... यद्वत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न । एतद्ब्रह्मैतदेवामृतमभयमिदं के खमित्यावधीतेस्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिरायुक्तितश्च ॥ १० स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः कल्याणालोकनादेरिव विधिवलतो वेदनस्यार्थवत्त्वात् । तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूया ॥ ११ पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मातद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या । मैवं विच्छित्तिरङ्गैन हि भवति मिता चाङ्गताऽनेकधाऽस्याः प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं प्राक्तु न ब्रह्मदृष्टिः॥ १२ इत्यन्तराधिकरणम् ॥ १४ ॥ ----(अथान्तर्याम्यधिकरणम् ॥ १५॥)... अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनुक्तेर्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात् । द्रष्टत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम् ॥ १३ स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दावेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः । लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम् ॥ इत्यन्तर्याम्यधिकरणम् ।। १५ ॥ For Private And Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] वैश्वानराधिकरणम्. (अथादृश्यत्वादिगुणकाधिकरणम् ॥ १६॥)... दृश्यत्वादेनिषेधो विकृतिमति भवत्यक्षरे सनिकर्षात् पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत् । सर्वज्ञत्वादिदृष्टेः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः॥ ___ इत्यदृश्यत्वादिगुणकाधिकरणम् ।। १६ ।। १५ -.( अथ वैश्वानराधिकरणम् ॥ १७॥)..... स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्दादिकृप्त्या ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात् । मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो वैशिष्टयादा क्रियाङ्गं स्ववपुषि परधीार्हपत्यादिधीश्च ॥ १६ अन्यस्मिन्नन्यदृष्टया न भवति विदुषां कापि निश्श्रेयसाप्तिस्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वनसिद्ध्यादि मैवम् ।। ब्रह्मैव ह्यन्यदृष्टयन्वितघटितमिह ब्रह्मशब्दाद्यभावात् सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम् ॥ १७ त्रिष्वनोपासितृणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो विश्वान्वयमितादेविपुलपरिमितश्चिन्तनीयस्त्रयेऽथ । षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्चव्यावृत्ते विश्वहेतौ प्रकरणनियमानामवृत्त्या नमन्ति ॥ १८ तज्जत्वादेहि सर्व जगदभिगदितं ब्रह्मभावेन पूर्व सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतदेहता च । तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्याणक्षुद्रक्षीबोक्तिनालं निखिलमिह नयैस्सूत्रकारो निरास ॥ १९ For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [म. १. खाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन् प्रस्ताशेषोऽक्षिनित्यस्थितिरखिळतनुः कल्पितामयादिगात्रः। खर्लोकायगवैश्वानर'पदविषयो लक्षणस्यादिमस्य प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः॥ २० इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य द्वितीयः पादः ॥२॥ --(अथ प्रथमस्याध्यायस्य तृतीयः पादः॥).-..-. स्पष्टै वादिलिङ्गैर्युतमिह हि वचस्साड्यो ब्रह्मनिष्ठं मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः। किश्चास्यामधलोकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च ॥ १ न्यायास्सप्रैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः । तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम् ।। सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदैभेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि । सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ्का प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः ॥ यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना नाड्याधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेत्र । विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात् प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः॥ ४ १. मति. पा॥ २. र्युतमथाह. पा For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पा. ३. ] www.kobatirth.org भूमाधिकरणम् १व्याप्ते तत्राक्षमतं यदि किमिह ततो जन्म चास्येच्छयोक्तनाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन् । निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभर्विग्रहैरस्ति लोके सौबालाम्नातद्वा चरणमिदमपि स्यादधिष्ठानमात्त्रम् ॥ इति भ्वाद्यधिकरणम् ॥ १ ॥ १. व्याप्तेस्मिन्नक्ष पा ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only २१ ६ • ( अथ भूमाधिकरणम् ॥ २ ॥ ) - आत्मज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं माणे सानत्कुमारं विरमति वचनं हिंसनाईस्स जीवः । अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्यपात्तम् ॥ नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतचाधिकोक्ते प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः । मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः स्वस्मादित्यत्र तत्स्यादिति न विघटनात् स्वारसिक्या विभक्तेः ॥ प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवादस्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न । एष त्वित्यन्यतोक्तेरतिवदनकृतः प्राक्तनादस्य तद्वन् नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तिः ॥ ८ नामादौ वाक्च तस्योपरि तदनु मनवाथ सङ्कल्पनामा चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम् । अन्नं तोयं च तेजो गगनमपि ततो मन्मथस्स्यात्तथाशा प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये || इति भूमाधिकरणम् ॥ २ ॥ ५ Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मधिकरणसारावल्याम् --(अथाक्षराधिकरणम् ॥ ३॥)..प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधान तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात् । मैवन्द्रष्टत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या किश्च द्रष्टन्तरस्य व्युदसनमिह तत्तुल्यतद्दष्टपोहः॥ १० इत्यक्षराधिकरणम् ।। ३ ॥ .(अर्थक्षतिकर्माधिकरणम् ॥ ४॥)-..लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्व क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ । नो चेद्भौमादिभोगप्रकरणविहतिर्वोभवीतीत्ययुक्तं तस्मिञ् शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात् ॥ ११ नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्षप्रत्यासत्त्या निवासस्सरसिजवसतेब्रह्मलोकोऽस्तु मैवम् । पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्व सोढव्यो मद्ध्यलोकैर्व्यवधिरिति समस्तत्समाधानमार्गः॥ १२ इतीक्षतिकर्माधिकरणम् ।। ४ ।। ---- (अथ दहराधिकरणम् ॥ ५॥)...दहं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ यच्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम् । भूताचं तत् प्रसिद्धेमहिमत इति न प्रत्यनीकैरनेकैः श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवगैस्सनाथा ॥ बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमाशे सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति । For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] प्रमिताधिकरणम्. कामाधारश्च योऽसौ समगणि दहराकाशवाचाऽत्र नित्यस्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः ॥ सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः । आपस्तम्बश्च वैभाजनपुर मवदद्ब्रह्म सर्वात्मभूतं पुस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात् || जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टेरल्पत्वाशुक्तितश्चेत्यसदनुपधिकात्सत्यसङ्कल्पतादेः । विश्वकाधारतादेरपि स खलु परो दहतौपाधिकी स्यात् प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते ॥ aaratasyaर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम् । आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम् ॥ इति दहराधिकरणम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ प्रमिताधिकरणम् ॥ ६ ॥ प्राणेशोऽङ्गुष्ठमात्रः कचिदनुकथितस्सञ्चरन् कर्मभिः स्वैरन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम् । तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम् || नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मिन्व्याप्ते तन्मानतोक्तिः कचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे । For Private And Personal Use Only २३ १४ १६ १७ १८ Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. अधिकरणसारावल्याम् सूत्रद्वन्द्वद्वयान्तनिभिरधिकरणैश्चिन्त्यते तद्विशेषस्ताीयैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र ।। १९ इति प्रमिताधिकरणम् ।। ६ ॥ ---( अथैतद्गर्भे देवताधिकरणम् ॥ ७॥)...शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या ब्रह्मोपासेत्यनार्ष श्रुतपरिहरणं कल्पनं चाश्रुतस्य । विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रैनिर्बाधैस्स्थापितः प्राक्स्वयमपि विभुना नैव शक्यापलापः॥ सामर्थ्य देवतानामुचिततनुभृतामर्थिता तापभाजां सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः। ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधायभावे मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति ॥ २१ द्वेधा वृत्तिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदा निर्धायः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः। रुच्यायां च तस्यामनृतकथनतो रोचना नामुग्धे भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेनिवृत्त्यै ॥ २२ नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनहींस्तत्तद्वत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात् । काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धेरीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान् ॥ २३ वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात् । इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतानः॥ २४ For Private And Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. अपशूद्राधिकरणम् . सौक्ष्म्यात्तुल्याभिघारात् 'सहकदपनयाच्छादकादान्यपर्यादत्यासत्त्याऽतिदूरादलवदभिभवानुद्भवाक्षोपघातैः । नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः प्रख्यातास्सिद्धिभेदा अपि जननतपोयोगमन्त्रौषधीभ्यः॥ २५ इत्येतद्ग देवताधिकरणम् ॥ ७ ॥ ---( अथैतद्गर्भे मध्वधिकरणम् ॥ ८॥)...स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथापि स्वस्यैवाराद्ध्यभावस्वपदमपि फलं यत्र नानाधिकारः। मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ ॥ २६ इत्येतद्गर्भे मध्वधिकरणम् ॥ ८ ॥ -nn( अथैतद्गर्भे अपशूद्राधिकरणम् ॥९॥)...जैमिन्युक्तापशूद्राधिकरणसरणे स्ति विद्याग्निलब्धिः शूद्रादीनान्तथापि स्मृतपरभजनाधिक्रिया जाघटीति । श्रोतृत्वाद्भारतादेस्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं प्राप्ते ब्रह्मोपदेशे ह्यपनयनपरामर्शनादि प्रसिद्धम् ॥ शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै वेदार्थापातबुद्धिर्यदनधिकरणा नोपद्येत सैस्सः। विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ताप्यस्पष्टव्यानि तस्मान्नहि विकलधियां स्यादुपासाधिकारः॥२८ गीतं शूद्रादिकानामपि परभजनं केवलं स्वाहधर्मेंधर्मव्यावस्तुलाधुग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः। १. सहकृदपगमात्. पा॥ For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [म. १० वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य ॥ २९ धृत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा बन्धेऽसौ नामरूपे वहति तदनु च ब्रह्मभावे जहाति । इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्युपात्तो ब्रह्मत्वन ह्यवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिविभक्तः॥ ३० विश्वात्मानन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो दहस्वाधारसर्वो हृदयपरिमितावस्थया सर्वयन्ता । देवादीनामुपास्यो वसुमुखविबुधैस्वात्मभावेन सेव्यइशूद्राद्योपास्त्यनहः प्रभुरिह बुबुधे नामरूपैककर्ता ॥ ३१ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥ (अथ प्रथमस्याध्यायस्य चतुर्थः पादः॥)-- निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे । षड्भिाभ्यां च तत्र प्रशमयति नयैस्सालययोगोक्तशङ्कां घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदुचुः॥ द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्त्या । शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ शेषन्तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन् ॥ अक्षाघव्यक्तनिष्ठं जडमथ पुरुषन्तवकाष्ठां विविच्य ब्रूते वल्ली कठानां परमतपठितां प्रक्रियामित्ययुक्तम् । For Private And Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सहयोपसहाधिकरणम् . सवस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्तेश्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च ॥ ३ नह्या इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषानचेष्टं बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः । भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्यात्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा ॥ ४ इत्यानुमानिकाधिकरणम् ॥ १ ॥ ---(अथ चमसाधिकरणम् ॥ २॥)---- स्वातन्त्रयेण ह्यजाया निखिलजनकता सूच्यते कापि वाक्ये बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः । इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधानादस्वातन्त्रयप्रसिद्धस्मृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात् ॥ ५ इति चमसाधिकरणम् ॥ २ ॥ --( अथ संख्योपसंग्रहाधिकरणम् ॥ ३॥) . यस्मिन् २पश्चेति वाक्ये परपरिगणिता विंशतिः पश्चयुक्ता पोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम् । आकाशस्य स्वनाम्ना पृथगनुकथनात् सप्तमीशक्त्यवाधात् षड्रिंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः॥ ६ संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या प्राणायन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम् । ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगथेः॥ ७ इति सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ३ ॥ १. तत्रत्यानेक. पा॥ २. पञ्चेतिमन्त्रे पा॥ For Private And Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसाराषल्याम् [अ. १. - अथ कारणत्वाधिकरणम् ॥ ४॥)--- विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते छव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमतिचेन्न । यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताचं लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः ॥८ आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामालमुक्तं नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यतादेनिषेधात् । सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद् द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृतायुक्तिवाच्यः॥ ९ इति कारणत्वाधिकरणम् ॥ ४ ॥ ---(अथ जगद्वाचित्वाधिकरणम् ॥ ५॥)--- यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः कर्ता पुंसां सएव स्वकृतपरिणतेरित्युपक्रान्तिभनम् । बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रोस्तज्ज्ञातोक्तिनिरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः॥ १० एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्यप्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे धुपासा । प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी ॥ ११ इति जगद्वाचित्वाधिकरणम् ॥ ५॥ -..( वाक्यान्वयाधिकरणम् ॥ ६॥).-..-- पत्यादीनां प्रियत्वं श्रुतिरनुवदति यात्मनः कामसिद्ध्यै तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीपम् । For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा, ४] प्रकृत्यधिकरणम् . तत्तभोगप्रदातुः प्रथयति हि विभोः कामतस्तत्मियत्वं दृष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र ॥ १२ व्युत्पत्या ह्यात्मशब्दः प्रथयति परमं ब्रह्म यद्वा समासात् सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः। व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमिस्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद ॥ १३ भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं नित्यन्त ददृष्टेरतिपतितभवे साम्यसाधर्म्यनन्दात् । मृत्तकार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे तत्स्थत्वात्काशकृत्स्नो यदिह निरवहयाससिद्धान्त एषः॥ १४ इति वाक्यान्वयाधिकरणम् ॥ ६ ॥ -- (अथ प्रकृत्यधिकरणम् ॥ ७॥) . मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात् । मृदृष्टान्तादिमात्रानच विकृतिरसौ स्यात् परस्य स्वरूपे देहद्वारोर्णनाभिप्रभृतिविकृतिवद्यापृतेर्दर्शितत्वात् ॥ १५ स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीशस्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यानिमित्तं क्रियातः । एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात् ॥ १६ कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः: स्रष्टस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति । आत्मानं चैष एव स्वयमकुरुत तद्भतयोनित्वमुक्तं तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा ॥ १७ For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विनो ... यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम् । इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुमृतिः पाकचिन्ताविपाकः ॥ १८ उक्त्वा तत्त्वान्तराणां विलयमय तमस्येकतामात्रमुक्तं प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यः । लीयेते तो परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची ॥ १९ इति प्रकृत्यधिकरणम् ।। ७ ॥ --(अथ सर्वव्याख्यानाधिकरणम् ॥ ८ ॥)अग्रे संवर्तनं भात्यवितथवचसि कापि हैरण्यगर्भ । प्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति । एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थ पागुक्तानीतिभेदानतिदिशति परं शिष्यशिक्षकचित्तः॥ २० विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ लाणमालाधिकारी दूरं गत्वापि दुःख्यविधिशिवतुलया घट्टकुटयां प्रभातम् । मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेतब्रह्मेशस्त्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः॥ २१ साङ्खयोक्तपक्रियोक्तेस्तदभिमतसृजेस्तत्मसङ्ख्यानकुलेस्तत्मोक्ताव्याकृतैक्यात्स्वजिनवचनात्तत्फलावद्ययोगात् । भेदात्कर्तप्रकृत्योहिणशिवमुखानेकहेतुश्रुतेश्च क्षिसं पादत्रयोक्तं श्रुतिहृदयसमुद्घाटनादन्वरक्षत् ॥ २२ For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सर्वव्याख्यानाधिकरणम् . जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे श्रुत्याधैरेव सूक्ता स्वरसगतिरिय कारणाम्नायवाचाम् । बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या निष्काल्येरन्परस्तानिषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ॥ २३ आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः मृष्यामश्शास्त्रयोनिमलपितमपि वस्स्यात् समन्वित्यपोक्तिः। सूत्रैरेतैस्स्फुटाथैस्सविषयवचनैर्निर्विशेषैक्यपक्षे मुख्येक्षायैस्वधर्मः प्रकृतिपुरुषतो भेदवादः कथं स्यात् ॥ २४ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ ॥समाप्तश्चाध्यायः॥ For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 093980 asma cirukobatirth.org For Private And Personal Use Only