Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
વિચાર. આપણે ત્યાં આવેલા ત્યારે આપણે તેમનું સન્માન-ભક્તિ કરેલી તેથી આપણા ઉપર પ્રીતિ કરે છે. બાકી આવા મહાન, રાજવીના મનમાં આવું કંઈ જ ના હેય. આ તે તેમને આપણા ઉપર પવિત્ર સ્નેહ છે, માટે તારે તારા મનમાં જરાયે ચિંતા કરવી નહી તેમ છતાં ઈંદુપ્રભાએ પિતાના પતિને વારંવાર આજીજી કરવા છતાં હેમરથે ચેડા રક્ષક અને દાસી સાથે દુખભાને ત્યાં મૂકીને અપશુકને થવા છતા વટપુર તરફ પ્રયાણ કર્યું. हेमरथे महीपाले, प्रस्थिते स्वपुरं प्रति । उवाच मधुभूपालो, मंत्रिणं स्मरपीडितः ॥७५।। हेमरथस्त्वितोऽचाली-न्मया संतोषितो भृशं । धीसख त्वं ममोपांत-मिंदुप्रभामथानय ॥७६॥ मंत्र्यवोचन्महीपाल, यावत्समेति शर्वरी । विधाय चेतसो दाढर्थ, तावत्त्वया प्रतीक्ष्यत ॥७७॥ प्रधानवचनं श्रुत्वा, मोदमानो महीपतिः । स्वकीयकामनासिद्धि, जानन् सुखेन तस्थिवान्।।७८॥ मधाविंदुप्रभायोगो, निशायां शर्मणे भवेत् । इतीवास्तमितो भानु-रुभयोविघ्नभीतितः ॥७९॥ अथवा परकामिन्या, समं रिरंसया निशि । लुपत्येष कुलाचारं, भूपोऽपीति गतोऽर्यमा ॥८॥ संकोचितानि वक्त्राणि, सरसीषु सरोरुहैः । दुःखादिव परित्यक्ता, क्रीडा विहंगमैरपि ॥८१।। मय्यस्ति क्षणिको रागः, पंचवर्णात्मको यथा । तथा सांसारिको ज्ञेयः, संध्येत्यदर्शयन्मधोः ८२॥ तत्स्वरूपं समीक्ष्यापि, तेन भूपेन चेतसः । लग्नोरागो विमुक्तो न, दुर्मोच्यः कामिनां स हि।८३। संध्यारागोपमं रागं, संसारिकं समीक्ष्य यः । मोहमाप्स्यति कालिम्ना शीघ्रं तस्य भविष्यति ।८४॥ इति दर्शयितुं राज्ञः, समेतेव विभावरी । कामिनां, कामवाणानां प्रसरप्रविधायिनी ॥८५॥ दुःखितं विरहवद्भि-मुदितं तस्करैनैरः । धूणितं लोचनाभ्यां च, प्रसृतं तामसोत्करैः ॥८६॥ नभोमरकतस्थालं, भृत्वोद्यत्तारकाक्षतैः । वर्धापयितुमायाता, स्वामिनं शशिनं निशा ।।८७॥ यथा यथा शशांकेशो-दयोऽजायत पुष्करे । तथा तथा मधुक्ष्मापः स्मरवाणैरपीडयत ॥८८॥ प्रजल्पितुमशक्तोऽपि, जजल्प धीसखं नृपः । कथं समानये द्याप्यमात्येंदुप्रभा स्त्रियं ॥८९॥ मंत्रिणा भूपवाक्येन, प्रथमे प्रहरे निशः। दूती संप्रेषिता पार्श्वे, पत्न्या हेमरथेशितुः ॥९॥ गत्वा तदंतिके साप्य-बोचन्मधुरया गिरा । इंदुप्रभे यदुक्तं ते, मधुभूपेन तच्छृणु ॥९१॥ जगाद सापि भो दूति, यदुक्तं मधुभूभुजा । उपविश्यात्र सौख्येन, निशंक वदतान्मम ॥९२॥ इत्युदिते तया दूती, जजल्प विनयान्विता । मार्गात्ते पतिना दूतः, प्रेषितोऽस्ति मधुप्रभोः ॥९३॥ मया साकं दृढा मैत्री, यौष्माकीना भवेद्यदि।मज्जाया द्राक् तदा प्रेष्या, भूषयित्वा सुभूषणैः ॥१४॥ दूतेन सह ते भा, प्रोक्तमस्तीति भूरिशः । तेन श्रीमधुभूपाल—स्त्वामाकारयति द्रुतं ॥१५॥ प्रमदानां स्वकीयानां, तवापि च मृगेक्षणे । भूषणानि च वस्त्राणि, नृपोऽद्य निशि दास्यति ॥९६॥ प्रदाय तव नाथस्य, समीपे प्रातरादरात् । प्रेषयिष्यति भूपाल-स्ततस्त्वमेहि सत्वरं ॥९७॥

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322