Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maha Aradhana Kendra
आचाररत्नं
॥ ९४ ॥
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
| अतएव चतुरइत्युक्तम् । एकपाकेनवसतामविभक्तानामितिकश्चित् । तत्र अस्यविभक्ताविभक्तस्यसाधारणत्वात् विभक्तानामित्यस्यानुवादकत्वेनसं कोचकत्वायोगाच्च अविभक्तेषुसंसृष्टेष्वेकेनापिकृतंतुवेतिव्यासोक्तेश्च । अतःपाकैक्यएवाविभक्तानांय शैक्यम् । नचैवंकदाचित्पाकभेदेभे | दापत्तिः । वसतामित्यनेन बहुकालिकपाकैक्योक्तेः । यद्येकस्मिन्कुलेबहुधान्नंपच्येत गृहपतिमहानसादेवतद्बलितंत्रंकुर्वीतेतिगोभिलोक्तेश्च । यत्त्वविभक्तस्य भ्रात्रधिकारेगोभिलः - यस्यत्वेषामग्रतोन्नंसिद्ध्येत्सतियुक्तमग्नौकृत्वाग्रंब्राह्मणायदत्वाभुंजीतेतितत्कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमितिपृथ्वीचंद्रः । नियुक्तंभोज्यमन्नं । अग्नौ कृत्वाहुत्वेत्यर्थः । इदमपिप्रथम मन्नसिद्धौज्येष्ठेनकृतेवैश्वदेवेपश्चात्कनिष्ठस्यपाकमेदेतेनाहुत्वै वभोक्तव्यम् । अयंचान्नप्रक्षेपस्तूष्णीमित्युक्तं चंद्रोदये । देशांतरगमनेपाकमेदेत्वेकपाकेनवासाभावात्पृथग्वैश्वदेवः । अविभक्ताविभक्तावा पृथक्पाकाद्विजातयः । कुर्युःपृथक्पृथग्यज्ञान्भोजनात्प्राग्दिनेदिने । इति प्रयोगपारिजातेआश्वलायनोक्तेः । आवृणामविभक्ता नांपृकूपाकोभवेद्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्ते वै पृथक्पृथगितिवाक्यमेतद्विषयकमेव । नचेदंनिर्मूलम् । अन्येतु वैश्वदेवासंभवेतुकुक्कुटांड | प्रमाणकम् । अन्नमग्नौ संप्रहृत्यकिल्विषातुप्रमुच्यते इतिजीवत्पितृकनिर्णये कुक्कुटांडप्रमाणान्नप्रक्षेपइत्याहुः । पाकासाध्येतुजपोपवासादाव विभक्तानां पृथगधिकारः । पृथगप्येकपाकानां ब्रह्मयज्ञोद्विजन्मनां । अग्निहोत्रंसुराचचसंध्यानित्यंपृथग्मवेदितिप्रयोग पारिजाते आश्व | लायनोतेः । यत्तु – एकपाकेनवसतां पितृदेवद्विजार्चनमेकमिति तत्रदेवार्चनंवैश्वदेवइतिपृथ्वीचंद्रः । आतॄणामविभक्तानां पृथक्पाकोभवे द्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्तेवैपृथक्पृथक् । इतिवाक्यमेतद्विषयमेव । नचेदंनिर्मूलं । एकपाकेनवसतामित्यादिवाक्यनिचये नविभक्तानामपि | पाकभेदेपंचयज्ञभेदानुक्तेरविभक्तानामपिपाकभेदेपंचयज्ञ भेदोक्तेरन्वयव्यतिरेकाभ्यांपाकभेदस्यैवपंचयज्ञाभेदानुष्ठाने प्रयोजकत्वात्पूर्वोक्तवचन नि चयविरोधाभावाञ्च । यत्त्वेकेनापीतितत्पाकभेदेइतिवयंप्रतीमः । पूज्यदेवतामूर्तिभेदेइतिवयम् ।
For Private And Personal
वैश्वदेव.
॥ ९४ ॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241