SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ९४ ॥ www.kobatirth.org Acharya Shri Kailashs Gyanmandir | अतएव चतुरइत्युक्तम् । एकपाकेनवसतामविभक्तानामितिकश्चित् । तत्र अस्यविभक्ताविभक्तस्यसाधारणत्वात् विभक्तानामित्यस्यानुवादकत्वेनसं कोचकत्वायोगाच्च अविभक्तेषुसंसृष्टेष्वेकेनापिकृतंतुवेतिव्यासोक्तेश्च । अतःपाकैक्यएवाविभक्तानांय शैक्यम् । नचैवंकदाचित्पाकभेदेभे | दापत्तिः । वसतामित्यनेन बहुकालिकपाकैक्योक्तेः । यद्येकस्मिन्कुलेबहुधान्नंपच्येत गृहपतिमहानसादेवतद्बलितंत्रंकुर्वीतेतिगोभिलोक्तेश्च । यत्त्वविभक्तस्य भ्रात्रधिकारेगोभिलः - यस्यत्वेषामग्रतोन्नंसिद्ध्येत्सतियुक्तमग्नौकृत्वाग्रंब्राह्मणायदत्वाभुंजीतेतितत्कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमितिपृथ्वीचंद्रः । नियुक्तंभोज्यमन्नं । अग्नौ कृत्वाहुत्वेत्यर्थः । इदमपिप्रथम मन्नसिद्धौज्येष्ठेनकृतेवैश्वदेवेपश्चात्कनिष्ठस्यपाकमेदेतेनाहुत्वै वभोक्तव्यम् । अयंचान्नप्रक्षेपस्तूष्णीमित्युक्तं चंद्रोदये । देशांतरगमनेपाकमेदेत्वेकपाकेनवासाभावात्पृथग्वैश्वदेवः । अविभक्ताविभक्तावा पृथक्पाकाद्विजातयः । कुर्युःपृथक्पृथग्यज्ञान्भोजनात्प्राग्दिनेदिने । इति प्रयोगपारिजातेआश्वलायनोक्तेः । आवृणामविभक्ता नांपृकूपाकोभवेद्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्ते वै पृथक्पृथगितिवाक्यमेतद्विषयकमेव । नचेदंनिर्मूलम् । अन्येतु वैश्वदेवासंभवेतुकुक्कुटांड | प्रमाणकम् । अन्नमग्नौ संप्रहृत्यकिल्विषातुप्रमुच्यते इतिजीवत्पितृकनिर्णये कुक्कुटांडप्रमाणान्नप्रक्षेपइत्याहुः । पाकासाध्येतुजपोपवासादाव विभक्तानां पृथगधिकारः । पृथगप्येकपाकानां ब्रह्मयज्ञोद्विजन्मनां । अग्निहोत्रंसुराचचसंध्यानित्यंपृथग्मवेदितिप्रयोग पारिजाते आश्व | लायनोतेः । यत्तु – एकपाकेनवसतां पितृदेवद्विजार्चनमेकमिति तत्रदेवार्चनंवैश्वदेवइतिपृथ्वीचंद्रः । आतॄणामविभक्तानां पृथक्पाकोभवे द्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्तेवैपृथक्पृथक् । इतिवाक्यमेतद्विषयमेव । नचेदंनिर्मूलं । एकपाकेनवसतामित्यादिवाक्यनिचये नविभक्तानामपि | पाकभेदेपंचयज्ञभेदानुक्तेरविभक्तानामपिपाकभेदेपंचयज्ञ भेदोक्तेरन्वयव्यतिरेकाभ्यांपाकभेदस्यैवपंचयज्ञाभेदानुष्ठाने प्रयोजकत्वात्पूर्वोक्तवचन नि चयविरोधाभावाञ्च । यत्त्वेकेनापीतितत्पाकभेदेइतिवयंप्रतीमः । पूज्यदेवतामूर्तिभेदेइतिवयम् । For Private And Personal वैश्वदेव. ॥ ९४ ॥
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy