Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१५१
अष्टमोऽध्यायः ।
सप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकार्थप्राप्तिरिति, पश्चाद्विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रत्येकं द्वादश विकल्पाः, एवं च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः । सत्त्व १मसत्त्वं सदसत्वं३अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७ मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एव आद्या विकल्पाः, तद्यथा-सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति । विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि वाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वा अनया ज्ञातया ? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभंग्याश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं १ स्वरूपमात्रापेक्षया त्वसत्त्वं २ तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवत्वादिनादिष्टस्य सत्त्वात्तथा घटादिद्रव्यदेशस्यापरस्य बुध्नादेरसद्भावपर्यायेण वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वात् वस्तुनः सदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभियुगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वम् ४ तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यमिति ५ तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६ तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७ इह च प्रथमाद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथान्यैस्तृतीयोऽपि विकल्पो खण्डवस्त्वाश्रित एवोक्तः, तथाहि-अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अतएवाभिहितमाचारटीकायाम् ‘इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावात्' इति, एवमज्ञानिकानां सप्तषष्टिर्भवति इति । वैनयिकानां च द्वात्रिंशत् सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति ते चैकत्र मीलिता द्वात्रिंशादिति, सर्वसंख्या पुनरेतेषां त्रीणि शतानि त्रिषष्टयधिकानीति ।

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282