Page #1
--------------------------------------------------------------------------
________________
आर्हतमतप्रभाकरस्य
- (द्वितीयो मयूखः) श्रीमदुमास्वातिवाचकवर्यप्रणीतानि
सभाष्यतत्त्वार्थाधिगमसूत्राणि
पुण्यपत्तनस्थ ओसवालवंशजश्रेष्ठिलाधाजीतनूजमोतीलाल इत्येतैः टिप्पणीभिरुपोद्घातेन च परिष्कृत्य संशोधितानि ।
-
~
--
वीरसंवत् २४५
प्रथमेयमङ्कनावृत्तिः
Page #2
--------------------------------------------------------------------------
________________
इदं पुस्तकं ' मोतीलाल लाधाजी' इत्येतैः पुण्यपत्तने
( १९६ भवानी पेठ ) प्रकाशितम् । ( अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः )
तच्च,
पुण्यपत्तने शनिवारश्रेण्यां ' गणेश काशीनाथ गोखले ' इत्यनेन ' गणेश प्रिंटिंग वर्क्स ' मुद्रणालये ( अध्यायदशकात्मको ग्रन्थभागः )
सदाशिवश्रेण्यां 'लक्ष्मण भाऊराव कोकाटे' इत्यनेन । - 'हनुमान प्रिंटिंग प्रेस ' मुद्रणालये (अवशिष्टभागः)
च मुद्रितम् ।
Page #3
--------------------------------------------------------------------------
________________
श्रीः
वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः । वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥ १ ॥
प्रास्ताविकं किंचित् ।
१ तत्त्वार्थाधिगमसूत्राणि । अयि श्रेष्ठा विद्वांसः। आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रुतानुसारं द्वितीयोऽयं किरणः 'तत्त्वार्थाधिगमसूत्राणि' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते। सूत्राणीमानि भगवानुमास्वातिवाचकमुख्यो दशभिरध्यायैः समापयामास । अयं सूत्रग्रन्थो यद्यपि श्वेताम्बराणां दिगम्बराणां चोभयेषामपि मान्यतमस्तथापि मतद्वये सूत्रसंख्याभेदो दृश्यते । तथाहिश्वेताम्बरमते ३४४ संख्याकानि सूत्राणि । दिगम्बरमते तु ३५७ संख्याकानि । कानिचित्सूत्राणि मतद्वये समानाक्षराणि । कानिचित्संप्रदायानुरोध्यक्षरविपरिवृत्तिसहितानि । कानिचित्तु संपूर्णतया नवीनानि । कानिचिदन्यतरमते परित्यक्तान्येव । अयं सूत्रभेदस्तृतीयपरिशिष्टे द्रष्टव्यः । अध्यायसाम्येऽपि दिगम्बरमते प्रत्यध्यायमाह्निकद्वयम् । श्वेताम्बरमते आह्निकानि न सन्ति । अधुना प्रत्यध्यायं विषयाः प्रोच्यन्ते। प्रथमेऽध्यायचतुष्टये जीवतत्त्वस्य वर्णनम् । ततः पञ्चमेऽध्यायेऽजीव (पुद्गल)स्य वर्णनम् । षष्ठसप्तमयोरावस्य वर्णनम् । अष्टमे बन्धस्य वर्णनम् । नवमे संवरनिर्जरयोर्वर्णनम् । दशमे मोक्षतत्त्वस्य वर्णनम् । 'स्वल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्रविदो विदुः ।। इति सर्वमान्यसूत्रलक्षणेन लक्षितानि भगवदुमास्वातिप्रणीतानीमानि सूत्राणि नांशतोऽपि पाणिन्यादिसूत्रापेक्षया न्यूनानि । अधीतेष्वेषु सूत्रेषु जैनमतं सविस्तरं यथायथमधिगतं भवेदिति पण्डिता निर्विशङ्ख वक्तुं प्रभवेयुः । यतो न कुत्राप्युपलभ्यमानग्रन्थेषु एतत्सूत्रवैमत्यमुपलभ्यते । किंतु सर्वैरपि तैर्ग्रन्थकृद्भिहरिभद्रसूरिवादिदेवसूरिहेमचन्द्रमल्लीषेणप्रभृतिभिः प्राचीनार्वाचीनः पण्डितवरेण्यैः सूत्राणामेतेषां प्रामाण्यं तत्र तत्र विषयेषूररीकृतम् । अतः प्राचीनः सूत्रमयो जैनमतस्य प्रतिपादको
Page #4
--------------------------------------------------------------------------
________________
. (२)
ग्रन्थो नाधुनोपलभ्यते तेनायमेवास्मिन् जैनमतप्रतिपादनविषये प्रामाणिकमूर्धन्यतामाटीकत इति निर्विवादम् । तस्यैतस्येदृशं माहात्म्यमालोच्यैव सुधियां प्राचीनानां प्रथितिर्यत् एषु सूत्रेषु सकृत् पठितेषु एकोपवासस्य फलं लभ्यत इति । किंच श्री उमास्वातिवाचकाचार्याणां तत्त्वप्रतिपादनं शास्त्रीयत्वाच्छ्रद्धास्पदं न केवलं किंतु आधुनिकसंशोधकवैज्ञानिकसंमतमपि । यतः श्री. प्रफुल्लचन्द्रमहाभागैस्तथा तद्वर्णनं (History of Hindu Chemistry, Vol. 2 p.178.) इत्यत्र कृतम् ।।
तथाहि . 'दशाध्यायपरिछिन्ने तत्त्वार्थे पठिते सति ।
फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥१॥' इमान्येव सूत्राणि दिगम्बरैर्मोक्षशास्त्रमित्यप्यभिधीयन्ते ।
अस्य सूत्रग्रन्थस्य बढ्यो व्याख्याः संप्रदायद्वयाचार्यप्रणीताः सन्ति । तेषां नामानि संप्रदायभेदप्रदर्शनपूर्वकमभिधीयन्ते । तथाहि
श्वेताम्बरसंप्रदायेग्रन्थनामानि
__कर्तनामानि १गजगन्धहस्तिमहाभाष्यम्।
(पं. सुखलालबेचरदासयोर्मतेन वि.
प्रथमशताब्दी) (पं. नाथूरामप्रेमिमतेन वि. पञ्चमशताब्दी)
(पं. सतीशचन्द्र इ. स. ४८० मध्ये जन्म) २व्याख्या
श्रीसिद्धसेनगणिप्रणीता [श्लो. १८२८२] ३ व्याख्या
श्रीहरिभद्रसूरिरचिता [श्लो. ११०००]
किमतेन वि. सं. ५८५, डॉ. सतीशचन्द्रमतेन वि. सं. ५३५, विचार
श्रेण्यां वीरसं. १०५५. ४ व्याख्या
श्रीयशोविजयजीविरचिता
(वि. सं. १७ शताब्दी) ५ टिप्पणकम्
चिरन्तनमुनिरचितं श्रीहेमचन्द्रादनन्तरं __ यतः ५-३१ टिप्पणके टिप्पनककारस्य
उक्तिः 'अत एव हेमचन्द्राचार्यपादाःअपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशत्वं बुधरूपवेद्यम् ॥ इति स्याद्वा
Page #5
--------------------------------------------------------------------------
________________
(३)
दमार्यां ' इति हेमचन्द्रनामघटित
स्याद्वादमअरिग्रन्थनिर्देशात् । ६ स्वोपज्ञभाष्यम् । भगवानुमास्वातिवाचकमुख्यः । [ श्लो. २२००]
दिगम्बरमतेन वीरसं. ७१४-७९८ पिटर्सन् वीरसंवत् ३०० नन्तरम् पं. हिरालालमतेन वीरात् २००-९०० जै. सा. सं. व. ३ अं. १ इत्यत्र श्री. चिम
णलालशहा निर्दिशति-श्रीउमास्वातिवाचकाचार्या उच्चनागरीशाखास्था आसन । इयं शाखा आर्यदिन्नसरिशिष्याणामार्यशान्तिसूरीणां समये प्रादुरभूत् । आर्यदिन्नसरीणां समयः ४२१ वीरसंवत् । अनेनेदं प्रतीयते यदिमे श्रीउमा स्वातिवाचकाचार्या न ४२१ संवतः पूर्वे संबभूवुरिति । श्री. प्रफुल्लचंद्ररायमतेन ऐशवीयप्रथमशताब्दी श्रीउमास्वातिवाचकाचार्याणां
कालः । ७व्याख्या
श्री मलयगिरिसूरिविरचिता हरिभद्राद
नन्तरम् दिगम्बरसंप्रदाये
__ ग्रन्थकून्नामानि १ गन्धहस्तिमहाभाष्यम् । श्रीसमन्तभद्रस्वामिविरचितम् । (श्लो. ८४०००)
जै. साहित्यसंशोधकमतेन विक्रमद्वितीयशताब्द्याम् । डॉ. सतीशचन्द्रमतेन इ. स. ६००, श्री. दोशीमतेन वि. द्वितीया वा
तृतीया शताब्दी। २ सर्वार्थसिद्धिव्याख्या श्रीपूज्यपादस्वामिनः वि.सं.३०८.
(श्लो. ५५००) ३ राजवार्तिकालङ्कारः
श्रीभट्टाकलंकदेवः (श्लो. १६०००)
(षष्ठी शताब्दी विक्रमसंवत्) ४ श्लोकवार्तिकालङ्कारः
श्रीविद्यानन्दी वि. सं. ६८१ (श्लो. १८०००) ५ श्रुतसागरीटीका (श्लो. ८०००) श्रीश्रुतसागरसूरिः वि.सं. १५५० ६ सुखबोधिनीटीका
द्वितीयश्रुतसागराख्यः पण्डितः ७ व्याख्या (श्लो. ३२५०) - श्रीविबुधसेनाचार्यः। ८ तत्त्वप्रकाशिका
- श्रीयोगीन्द्रदेवः।
ग्रन्थाः
Page #6
--------------------------------------------------------------------------
________________
(४)
९ तत्त्वार्थवृत्तिः
श्रीयोगदेवः। १० तत्त्वार्थटीका
. श्रीलक्ष्मीदेवः। ११ तात्पर्यतत्त्वार्थटीका
श्रीअभयनन्दिसूरिः (तृतीयः )
वि. सं. ७७५ एतदतिरिक्ता अन्या अपि बढ्यो व्याख्या देशभाषामया विद्यन्ते । अनुपयोगान्नास्माभिस्ताः संगृहीताः।
तत्त्वार्थाधिगमसूत्रभाष्यम् । इदं भाष्यं स्वोपझं स्वयं सूत्रकृद्भिर्भगवदुमास्वातिवाचकमुख्यैरेव प्रणीतम् । अत्र श्वेताम्बराणां न विमतिः। यतः सर्वैस्तत्संप्रदायस्थैारव्याकृद्भिरनेन भाष्येण सहैव सूत्राणां व्याख्यानं कृतम् । किंच प्रथम संबन्ध. कारिकासु वक्ष्यामि (२२ का.) प्रवक्ष्यामि (का. ३१) इत्युक्तम् । तच्च सूत्रकारिकाकृतोरैक्य एव संभवति । तथैव वक्ष्यामः (५-३७) इत्युक्त्वा सूत्राणि प्रणीतानि । तेनापि सूत्रभाष्यकृतोरैक्यमेव ज्ञायते । यतो वक्ष्यामि (सं. का. २२) प्रवक्ष्यामि (३१ का.) वक्ष्यामः (५-३७) इत्यादिषु उत्तमपुरुषप्रयोगेषु अस्मत्पदबोध्य एव कर्ता ग्राह्यो भवति । तेन सूत्रभाष्यकृतोरैक्यमेवोररीकर्तव्यम् । दिगम्बरमतानुयायिव्याख्यातृभिः सूत्रभाष्यकृतोभदमालम्ब्य नेदं स्वोपज्ञमिति संधार्य भाष्यं न व्याख्यातम् । तत्र मूलं न पश्यामः। प्रत्युत यदि न स्याद्भाष्यं स्वोपज्ञं तहि भाष्यसमाप्तौ ये श्लोकाः भगवतामुमास्वातिवाचकानां नामग्रामादिकं बोधयन्ति । ते केवलं भाष्यकृतां नामादिबोधका भवेयुः। सूत्रकृतां नामग्रामादिकं कस्मात् ज्ञायेत । अन्तिमश्लोकाः सूत्रकाराणां कृतिरित्यपि वक्तुं न शक्यते । यतः कुत्रापि संप्रदाये शास्त्रीयसूत्रग्रन्थे वा सूत्रकाद्भः श्लोकानां नामग्रामादिबोधकानां प्रणयनं कृतं न दृश्यते । अतः सर्वसंमतपद्धतिमाहत्यैवमेव वक्तव्यं यच्छोका ग्रन्थान्तस्था भाष्यकारप्रणीता एव। सूत्रकृतो भगवदुमास्वातिवाचकमुख्या इत्यत्र सूत्रनिर्देशपुरःसरं श्रीहरिभद्रसूरिवादिदेवसूरिहेमचन्द्राचार्यादीनां संमतिदर्शिता । भाष्यकृतोऽपि वाचकमुख्या इत्यत्र स्याद्वादमञ्जरीप्रणेतृणां श्रीमल्लिषेणसूरीणां संमतिः । तथाहि-न भवति० २९ इयं संबन्धकारिका भाष्यगता ३ श्लोकव्याख्यायाम् । श्लो. २८ व्याख्यायां भाष्यं गृहीतम्। __ एवं च सिद्धं निर्विवादं यदेतद्भाष्यं संबन्धकारिकान्तिमश्लोकसहितं सूत्रकारप्रणीतम् । एते सूत्रभाष्यकृतः श्रीभगवदुमास्वातिवाचकमुख्याः। एतेषां जन्मस्थानं न्यग्रोधिकाग्रामः । एतेषां माता वत्सगोत्रजा उमा
Page #7
--------------------------------------------------------------------------
________________
(५)
पिता च कौभीषणिगोत्रजः स्वातिसंज्ञकः । एतेषां शाखा नागरसंशिका। एते वाचकमुख्यस्य शिवधियः प्रशिष्याः। घोषनन्दिश्रमणस्य शिष्याः। वाचनया तु मुण्डपादस्य प्रशिष्याः । एतेषामवतारकालो दिगम्बरमतेन वैक्रमप्रथमशतकम् । तदेतत् ग्रन्थान्तश्लोकेभ्यो ज्ञायते । तथाहिवाचकमुख्यस्य शिवश्रियःप्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ।। २॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥ ३॥ अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य ।। दुःखात्तं च दुरागमविहतमतिं लोकमवलोक्य ॥ ४॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ यस्तत्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् ।
सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ।। ६ ।। एते पूर्व शिवभक्ता आसन् । पश्चाजिनदर्शनाजिनधर्मानुयायिनोऽभवनिति भक्तामरस्तोत्रवृत्तितो ज्ञायते । । एतेषां ग्रन्थाः-१ तत्त्वार्थाधिगमसूत्राणि । २ तत्त्वार्थाधिगमसूत्रभाष्यम् । ३ प्रशमरतिप्रकरणम् । ४ जम्बूद्वीपसमासप्रकरणम् । ५ पूजाप्रकरणम् । ६ श्रावकप्रज्ञप्तिः । ७ क्षेत्रविचारः ।
श्रीजिनप्रभसूरिकृततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रटीकायां चैवं निर्देशो यत् श्रीउमास्वातिमहर्षिभिः प्रकरणपञ्चशती प्रणीतेति । तत एव श्वेता. म्बरसंप्रदाये एतेषां पञ्चशतप्रकरणप्रणेतृत्वेन प्रसिद्धिः। तथा चोक्तं वादिदेवसूरिभिः स्याद्वादरत्नाकरे प्रथमपरिच्छेदे तृतीयसूत्रे (पृ.४४ पं.१०) 'पञ्चशतीप्रकरणप्रणयनप्रवीणैरत्र भवद्भिरुमास्वातिवाचकमुख्यैः' इति । ___ अथ प्रकृततत्त्वार्थाधिगमसूत्रभाष्यविषय उच्यतेइदं भाष्यं सरलसरसपद्घाटतं
'सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः ।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥१॥' इति लक्षणानुसारि सर्वव्याख्यातिशयोति प्रतिपदमनुभूतमस्माभिः ।
अत्र भाष्ये पूर्वेषां ग्रन्थकृतां न कुत्रापि निर्देशः । केवलं मतभेदप्रदर्शन
Page #8
--------------------------------------------------------------------------
________________
समये केचित्, एके इत्यादिसामान्यनिर्देशः क्वचिद् दृश्यते । तथापि इन्द्रियमिन्द्रलिङ्गमित्यादि (२-१५) द्रव्यं च भव्ये (१-५) इति व्याकरणविषये पाणिनिसूत्रादिकं दृश्यते ।
पेडा (१०-६ ) अनुवीचि (७-३) इति शब्दौ भाष्ये देशीभाषास्थावुपयोजितौ दृश्यते । यतः संस्कृतभाषायां पेडाशब्दो न लभ्यते कोशेषु । तथा अनुवीचिशब्दो देशीभाषास्थ इति सिद्धसेनगणिटीकायां प. ४३५ पं. २ निर्देशः।
तन्मध्ये मेरुरित्यादि ३।९ सूत्रे भाष्ये यश्च संख्यानिर्देशः स गणितशास्त्राविरुद्ध इति सिद्धसेनगणिटीकायां निरदेशि ।
३ प्रकाशनपरिचयः । आर्हतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तथैवैतस्य सभाष्यतत्त्वाधिगमसूत्रग्रन्थस्य पूर्वमन्यत्र मुद्रितस्यापि विशेषसंस्करणघटितस्य प्रकाशनं यावच्छक्ति कृतम् । तथा चात्र सूत्रभाष्यविषयकमन्तरङ्गबहिरङ्गपरीक्षणं कृतम् । तथाऽधोभागेऽर्थदर्शिकाः पारिभाषिकशब्दानां यथायथं स्वरूपस्य बोधिकाष्टिप्पन्यः सविस्तरं मुद्रापिता येन जैनमतजिज्ञासूनां विशेषतः सौकर्य स्यात् । अत्र १ हरिभद्रसूरिव्याख्या ( भां. ई. लिखितपुस्तकम् ) २ सिद्धसेनगणिव्याख्या ( भां. इं. लिखितपुस्तकम् ) ३ यशोविजयजीटीका ४ तत्त्वार्थटिप्पणकम् ५ जैनतत्त्वप्रदीपः (न्यायविशारदेत्यादिविरुदभूषितमुनिश्रीमंगलविजयजीकृतः ) ६ पं. सुखलालजी अनूदिताश्चत्वारः कर्मग्रन्थाः ७ विविधोपोद्धातादयश्च सविस्तरमुपयोजिता अतस्तत्तेषां ग्रन्थकृतां महाभागानां पुस्तकप्रदायिनां पण्डितवरेण्यानां प्रतिछन्दकसामग्रीप्रदायिनां मुनिश्रीदर्शनविजयजी-श्रेष्ठिजीवनचन्द्रसाकरचन्द्र-कुंवरजी आनन्दजी इत्येतेषां महाशयानां चानुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । यदि न साहाय्यमेतेषां तर्हि नैतत्कार्यं निर्वोढुं पारयेयेति सुदृढं प्रत्योमि । अर्जुनचोरादीनां मरुदेवीकरकण्डुचरितं प्रतिमादीनां विशदवर्णनं च विस्तरभयादत्र न संगृहीतं तथापि तत्तत्स्थलीयटिप्पन्यां तद्विषया ग्रन्था निर्दिष्टास्तेभ्यो विज्ञेयं जिज्ञासुभिः । अत्र पञ्च परिशिष्टानि सन्ति । प्रथमं परिशिष्टं सूत्रदशाध्यायी। केवलसूत्रपाठेनोपवासफलं लभ्यते श्रद्धालुभिस्ततस्तदुपयोगाय दशाध्याय्याः प्रथमं निर्देशः। सूत्राणामकारादिक्रमसचिः द्वितीयं परिशिष्टम् । ३ तृतीयपरिशिष्टं सूत्रपाठे श्वेताम्बरदिगम्बरवैमत्यम् । ४ चतुर्थपरिशिष्टं उपयोजितग्रन्थानां सूचिः। ५ पञ्चमपरिशिष्टं पारिभाषिकशब्दानामकारादिक्रमेण सूचिः । एवं रीत्या संमुद्य विदुषां पुरतो निधीयते ।
Page #9
--------------------------------------------------------------------------
________________
प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपाह्वश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात् साहाय्यमेतेषां तर्हि प्रकाशनकार्य विशदार्थकारिटिप्पनीयुतं प्रास्ताविकं च सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशन्नाहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानास्त्रुटीविज्ञाप्यानुग्रा. ह्योऽयं जन इति संप्रार्थकः
पुण्यपत्तनम्। आश्विनशुक्ल प्रतिपद् वीरसंवत् २४५२.
विद्वद्वशंवदः मोतीलाल लाधाजी.
Page #10
--------------------------------------------------------------------------
________________
१ प्रथमं परिशिष्टम् । प्रथमोऽध्यायः ।
-woसम्यग्दर्शनशानचारित्राणि मोक्षमार्गः ॥ १॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥
तन्निसर्गादधिगमाद्वा ॥३॥' जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः॥५॥
प्रमाणनयैरधिगमः ॥६॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८॥ मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥९॥
तत्प्रमाणे ॥१०॥
आद्ये परोक्षम् ॥११॥
प्रत्यक्षमन्यत् ॥ १२॥ मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥
तदिन्द्रियानिन्द्रियनिमित्तम् ।। १४ ॥
अवग्रहहापा(वा)यधारणाः ॥ १५ ॥ बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥
अर्थस्य ।। १७ ॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ न चक्षुरनिन्द्रियाभ्याम् ।। १९॥ श्रुतं मतिपूर्व यनेकद्वादशभेदम् ॥२०॥ द्विविधोऽवधिः ॥२१॥
भवप्रत्ययो नारकदेवानाम् ।। २२॥ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ २३ ॥ ऋजुविपुलमती मनःपर्यायः ॥२४॥
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥२५॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥२६॥ मतिश्रुतयोनिबन्धः सर्वद्रव्यष्वसर्वपर्यायेषु ॥२७॥
Page #11
--------------------------------------------------------------------------
________________
(९)
रूपिष्ववधेः ॥२८॥ तदनन्तभागे मनःपर्यायस्य ॥ २९॥
सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३०॥ एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः ॥ ३१॥
मतिश्रुतावधयो विपर्ययश्च ॥ ३२॥ सदसतोरविशेषाद्यदृच्छोपरब्धेरुन्मत्तवत् ॥ ३३॥ नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४॥
आद्यशब्दौ द्वित्रिभेदौ ॥ ३५ ॥ इति प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ।
औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपा
रिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥
सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्र
संयमासंयमाश्च ॥५॥ गतिकषायलिङ्गामथ्यादर्शनासानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकै
कैकैकषट्भेदाः॥६॥ जीवभव्याभव्यत्वादीनि च ॥ ७॥
उपयोगो लक्षणम् ॥ ८॥ स द्विविधोऽष्टचतुर्भेदः॥९॥
संसारिणो मुक्ताश्च ॥ १०॥ समनस्कामनस्काः ॥११॥
संसारिणस्त्रसस्थावराः ॥ १२ ॥ पृथिव्यब्वनस्पतयः स्थावराः॥ १३ ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ॥ १४॥
पश्चेन्द्रियाणि ॥ १५॥
- द्विविधानि ॥ १६॥ निर्वृत्त्युपकरणे द्रव्योन्द्रियम् ॥ १७॥
Page #12
--------------------------------------------------------------------------
________________
(१०)
लब्ध्युपयोगी भावेन्द्रियम् ।। १८ ॥ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शनरसनबाणचक्षुःश्रोत्राणि ॥ २० ॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१ ॥
श्रुतमनिन्द्रियस्य ।। २२॥
वाय्वन्तानामेकम् ॥ २३॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४॥
संशिनः समनस्काः ॥२५॥ विग्रहगतौ कर्मयोगः ॥२६॥
अनुश्रोणि गतिः॥२७॥
आविग्रहा जीवस्य ॥२८॥ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २९ ॥
एकसमयोऽविग्रहः ॥ ३०॥ एक द्वौ वानाहारकाः॥३१॥
सम्मूर्छनगर्भोपपाता जन्म ॥ ३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः॥ ३३॥
जरायवण्डपोतजानां गर्भः॥३४॥ नारकदेवानामुपपातः॥ ३५ ॥
शेषाणां सम्मूर्छनम् ॥ ३६॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
तेषां परं परं सूक्ष्मम् ॥ ३८॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥
अनन्तगुणे परे ॥ ४०॥ अप्रतिघाते ॥४१॥
अनादिसम्बन्धे च ॥४२॥
__ सर्वस्य ॥ ४३॥ , तदादीनि भाज्यानि युगपेदकस्याचतुर्यः॥४४॥
निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसम्मईनजमाद्यम् ॥ ४६॥ वैक्रियमोपपातिकम् ॥४७॥
लब्धिप्रत्ययं च ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥
नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
Page #13
--------------------------------------------------------------------------
________________
(११)
न देवाः ॥५१॥ औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षा युषोऽनपवायुषः ॥५२॥
इति द्वितीयोऽध्यायः॥२॥
अथ तृतीयोऽध्यायः।
रत्नशर्करावालुकापङ्कधमतमोमहातमःप्रभाभूमयो घनाम्बुवाता
काशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः॥१॥
__तासु नरकाः॥२॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥
परस्परोदीरितदुःखाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः॥६॥ जम्बूद्वीपलवणादय शुभनामानो द्वीपसमुद्राः ॥७॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥ ८॥ तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो
जम्बूद्वीपः ॥९॥ तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरा
वतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः॥११॥ द्विर्धातकीखण्डे ॥१२॥
पुष्करार्धे च ॥ १३॥ प्राग्मानुषोत्तरान्मनुष्याः॥१४॥
आयो ग्लिशश्च ॥ १५॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः॥१६॥
नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥१७॥ तिर्यग्योनीनां च ॥१८॥
इति तृतीयोऽध्यायः ॥३॥
Page #14
--------------------------------------------------------------------------
________________
(१२) अथ चतुर्थोऽध्यायः।
देवाश्चतुर्निकायाः ॥१॥
तृतीयः पीतलेश्यः॥२॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः॥३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः॥४॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिषकाः॥५॥
पूर्वयोर्दीन्द्राः ॥६॥
पीतान्तलेश्याः ॥७॥
कायप्रवीचारा आ ऐशानात् ॥ ८॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः॥९॥
परेऽप्रवीचाराः॥१०॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधि
द्वीपदिक्कुमाराः ॥ ११ ॥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूत
पिशाचाः॥१२॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ॥ १३ ॥ मेरुप्रदक्षिणानित्यगतयो नृलोके ॥१४॥
तत्कृतः कालविभागः॥१५॥ बहिरवस्थिताः॥१६॥
वैमानिकाः ॥१७॥ कल्पोपपपन्नाः कल्पातीताश्च ॥ १८॥
उपर्युपरि ।। १९ ॥ सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोगरणाच्युतयोर्नवसुप्रैवेयेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥ २० ॥ स्थितिप्रभावसुखातिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२१॥
गतिशरीरपरिग्रहाभिमानतो हीनाः॥२२॥ पीतपद्मशक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥
प्राग्वेयकेभ्यः कल्पाः॥२४॥
Page #15
--------------------------------------------------------------------------
________________
( १३ )
ब्रह्मलोकालया लोकान्तिकाः ।। २५ ।। सारस्वतादित्यवह्नथरुणगर्दतोय तुषिताव्याबाधमरुतोऽरिष्ठाच ||२६|| विजयादिषु द्विरमाः ॥ २७ ॥ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ स्थितिः॥ २९ ॥
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ शेषाणां पादोने ॥ ३१ ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥ सागरोपमे ॥ ३४ ॥ अधिके च ॥ ३५ ॥
सप्त सनत्कुमारे || ३६ ॥
विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चद्शभिरधिकानि च ॥ ३७ ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ३८ ॥
अपरा पल्योपममधिकं च ॥ ३९ ॥
सागरोपमे ॥ ४० ॥ अधिके च ॥ ४१ ॥
परतः परतः पूर्वा पूर्वानन्तरा ॥ ४२ ॥ नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ भवनेषु च ॥ ४५ ॥ व्यन्तराणां च ॥ ४६ ॥ परा पल्योपमम् ॥ ४७ ॥ ज्योतिष्काणामधिकम् ॥ ४८ ॥ ग्रहाणामेकम् ॥ ४९ ॥ नक्षत्राणामर्धम् ॥ ५० ॥ तारकाणां चतुर्भागः ॥ ५१ ॥ जघन्या त्वष्टभागः ॥ ५२ ॥ चतुर्भागः शेषाणाम् ॥ ५३ ॥ इति चतुर्थोऽध्यायः ॥ ४॥
Page #16
--------------------------------------------------------------------------
________________
(१४) अथ पंचमोऽध्यायः ।
अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥
द्रव्याणि जीवाश्च ॥२॥ नित्यावस्थितान्यरूपाणि ॥३॥ रूपिणः पुद्गलाः॥४॥ आ (आ-आ )काशादेकद्रव्याणि ॥५॥ निष्क्रियाणि च ॥ ६॥ असंख्येयाः प्रदेशा धर्माधर्मयोः॥७॥
जीवस्य च ॥ ८॥
आकाशस्यानन्ताः॥९॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥
नाणोः॥११॥ लोकाकाशेऽवगाहः ॥१२॥
धर्माधर्मयोः कृत्स्ने ॥ १३॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥१६॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥१७॥
आकाशस्यावगाहः ॥१८॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २०॥
परस्परोपग्रहो जीवानाम् ॥२१॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥
अणवः स्कन्धाश्च ॥ २५॥ संघातभेदेभ्य उत्पद्यन्ते ॥२६॥
भेदादणुः॥२७॥ भेदसंघाताभ्यां चाक्षुषाः ॥२८॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २९॥ तद्भावाव्ययं नित्यम् ॥ ३०॥
Page #17
--------------------------------------------------------------------------
________________
(१५)
अर्पितानर्पितसिद्धेः॥३१॥ स्निग्धरूक्षत्वाद्वन्धः ॥ ३२॥ न जघन्यगुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ॥ ३४॥ यधिकादिगुणानां तु ॥ ३५॥ बन्धे समाधिको पारिणामिको ॥३६॥ गुणपर्यायवद् द्रव्यम् ॥ ३७॥
कालश्चेत्यके ॥ ३८॥ सोऽनन्तसमयः ॥ ३९॥ द्रव्याश्रया निर्गुणा गुणाः॥४०॥ तद्भावः परिणामः॥४१॥ अनादिरादिमांश्च ॥४२॥ . रूपिष्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४४॥
इति पञ्चमोऽध्यायः॥५॥
अथ षष्ठोऽध्यायः।
कायवाङ्मनःकर्म योगः॥१॥
स आस्रवः॥२॥ शुभः पुण्यस्य ॥३॥
अशुभः पापस्य ॥४॥ सकषायाकषाययोः साम्परायिके-पथयोः ॥५॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्या:
पूर्वस्य भेदाः॥६॥ तीव्रमन्दज्ञाताज्ञातभाववी-धिकरणविशेषेभ्यस्तद्विशेषः ॥७॥
__ अधिकरणं जीवाजीवाः ॥८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत. कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः॥९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ १० ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः॥११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ १२ ॥
Page #18
--------------------------------------------------------------------------
________________
(१६)
भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः शान्तिः
शौचमिति सद्वेद्यस्य ॥ १३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥१४॥ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥
माया तैर्यग्योनस्य ॥ १७॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥ १८॥
निःशीलवतत्वं च सर्वेषाम् ॥ १९॥ सरागसंयमसंयमासंयमाकामानिर्जराबालतपांसि दैवस्य ॥ २० ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः॥२१॥
विपरीतं शुभस्य ॥२२॥ दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीषणं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥२४॥
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥ विघ्नकरणमन्तरायस्य ॥२६॥
इति षष्ठोऽध्याय ॥६॥
अथ सप्तमोऽध्यायः।
--06
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्वतम् ॥ १॥
देशसर्वतोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥ हिंसादिविहामुत्र चापायावद्यदर्शनम् ॥४॥
दुःखमेव वा ॥५॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमाना विनेयेषु ॥६॥
जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥७॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥८॥
असदभिधानमनृतम् ॥९॥ __ अदत्तादानं स्तेयम् ॥१०॥
Page #19
--------------------------------------------------------------------------
________________
(१७) मैथुनमब्रह्म ॥११॥ मूर्छा परिग्रहः ॥१२॥ निःशल्यो व्रती ॥ १३॥ अगार्यनगारश्च ॥१४॥
अणुव्रतोऽगारी ॥१५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगातिथिसंविभागवतसंपन्नश्च ॥ १६ ॥ मारणान्तिकीं संलेखनां जोषिता ॥१७॥
सम्यग्दृष्टरतिचाराः॥१८॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥
बन्धवधविच्छेदातिभारारोपणानपाननिरोधाः॥२०॥ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥२१॥ - स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः॥२२॥ ___परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेशाः॥ २३ ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः॥२४॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥२५॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः॥२६॥ कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥२७॥
योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥
सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः॥३१॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२॥
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः॥ ३४॥
इति सप्तमोऽध्यायः॥ ७॥
Page #20
--------------------------------------------------------------------------
________________
(१८).
अष्टमोऽध्यायः ।
मिथ्यादर्शनाविरतिप्रमादकषाययोगां बन्धहेतवः ॥ १ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥ स बन्धः ॥ ३ ॥
प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः॥
४ ॥
आद्यो ज्ञानदर्शनावरणवेदनीय मोहनीयायुष्कनामगोत्रातन्तारायाः ॥ ५॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंश द्विपञ्चभेदा यथाक्रमम् ॥ ६ ॥ मत्यादीनाम् ॥ ७ ॥
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगुद्धिवेदनीयानि च ॥ ८ ॥
सदसद्वेद्ये ॥ ९ ॥
दर्शनचारित्रमोहनीयकषायनाकषायवेदनीयाख्यास्त्रिद्विषोडशनव
भेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्ता नुबन्ध्य-: प्रत्याख्यानाप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः क्रोधमान. मायालोभाः हास्य रत्यरतिशोकभयजुगुप्सा स्त्रीपुंनपुंसकवेदाः ॥१०॥ नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥
गतिजातिशरीराङ्गोपाङ्गनिर्माण बन्धनसङ्घातसंस्थान संहननस्पर्शरसगन्धवर्णानुपूर्व्य गुरुलधूपघात पराघातातपोद्योतोच्छ्वासविहायोग
प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि
उच्चैर्नीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥
आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ।। १५ ।।
तयः
सेतराणि तीर्थकृत्यं च ॥ १२ ॥
सप्ततिर्मोहनीयस्य ॥ १६ ॥ नामगोत्रयोविंशतिः ॥ १७ ॥
त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥
शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥
विपाकोऽनुभावः ।। २२ ॥
Page #21
--------------------------------------------------------------------------
________________
( १९)
स यथानाम ॥२३॥
ततश्च निर्जरा ॥२४॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२५॥ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥२६॥
इति अष्टमोऽध्यायः॥८॥
अथ नवमोऽध्यायः ।
आस्रवनिरोधः संवरः॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः॥२॥
तपसा निर्जरा च ॥३॥
सम्यग्योगनिग्रहो गुप्तिः॥४॥ ईर्याभाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि कर्मः॥६॥
अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वानवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः॥७॥ __मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥८॥
क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचयानिषाद्यशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥९॥ सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥
एकादश जिने ॥११॥ । बादरसंपराये सर्वे ॥ १२॥ ज्ञानावरणे प्रज्ञाज्ञान ॥१३॥
दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः॥१५॥
वेदनीये शेषाः ॥१६॥ एकादयो भाज्या युगपदेकोनविंशतेः॥ १७ ॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ॥१८॥ _अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः॥ १९॥ .............
Page #22
--------------------------------------------------------------------------
________________
(२०) प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
नवचर्तुदशपंचद्विभेदं यथाक्रमं प्रारध्यानात् ॥ २१॥ आलोचनप्रतिमऋणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥
ज्ञानर्शनचारित्रोपचाराः॥२३॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानम् ॥२४॥
वाचनाप्रच्छनानुप्रेक्षानायधर्मोपदेशाः ॥ २५॥
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्यैकाप्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥
आमुहूर्तात् ॥ २८॥ आर्तरौद्रधर्मशुक्लानि ॥ २९॥
परे मोक्षहेतू ॥३०॥ आर्तममनोशानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१॥
वेदनायाश्च ॥ ३२॥ विपरीतं मनोज्ञानाम् ॥ ३३॥
* निदानं च ॥ ३४॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमावरतदेशविरतयोः॥३६॥ आशापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ॥ ३७॥
उपशान्तक्षीणकषाययोश्च ॥ ३८॥ शुक्ले चाद्ये पूर्वविदः ॥ ३९ ॥
परे केवलिनः॥४०॥ - पृथक्त्वैकत्ववितर्कसूक्ष्माक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥४१॥ तत्त्येककाययोगायोगानाम् ॥४२॥
एकाश्रये सवितर्के पूर्वे ॥४३॥ अविचारं द्वितीयम् ॥४४॥ वितर्कः श्रुतम् ॥४५॥
विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४६॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमाहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः॥४७॥
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निम्रन्थाः॥४८॥
Page #23
--------------------------------------------------------------------------
________________
(२१) संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥४९॥
इति नवमोऽध्यायः ॥९॥
अथ दशमोऽध्यायः।
मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥
बन्धहेत्वभावनिर्जराभ्याम् ॥२॥
कृत्स्नकर्मक्षयो मोक्षः॥३॥ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसि. द्धत्वेभ्यः ॥४॥
- तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वाइन्धच्छेदात्तथागतिपरिणामाचं तद्गतिः॥६॥
क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतःसाध्याः॥७॥
इति दशमोऽध्यायः॥१०॥
Page #24
--------------------------------------------------------------------------
________________
२ द्वितीयं परिशिष्टम् ।
अ।
९२४
अ. सू.
आ । ३२ आकाशस्यानन्ताः
३३ आकाशस्यावगाहः ५२५ । ३४ आकाशादेकद्रव्याणि ७ १५. ३५ आचार्योपाध्याय ७ १० / ३६ आदितस्तिसृणामन्तरायस्य० ८ १५
३७ आद्य संरम्भ.
३८ आद्यशब्दौ द्वित्रिभेदौ ४ ४१ ३९ आये परोक्षम्
.१११ ४० ४. आद्यो ज्ञानदर्शनावरण. - ८ ५ १९ ४१ आनयनप्रेष्यप्रयोग ४२ आमुहूर्तात् ..
९ २८ ४३ आरणाच्युतात्० ४४ आर्तरौद्रधर्मशुक्लानि
४५ आर्तममनोज्ञानां० ९३१ २२७ ४६ आर्या म्लिशश्च ४ ३९ ४७ आलोचनप्रतिक्रमण ८ १९ ४८ आस्रवनिरोधः संवरः २ ४१ ४९ आज्ञापायविपाक. ७ २९ ११७ ५० इन्द्रसामानिक०
م ه م م
م ه
२४२
ه م ه ه
१ अगार्यनगारश्च २ अजीवकाया. ३ अणवः स्कन्धाश्च ४ अणुव्रतोऽगारी ५ अदत्तादानं स्तेयम् । ६ अधिकरणं जीवाजीवाः ७ अधिके च ८ अधिके च. ९ अनन्तगुणे परे १० अनशनावमौदर्य. ११ अनादिरादिमांश्च १२ अनादिसम्बन्धे च १३ अनित्याशरण. १४ अनुग्रहार्थ. १५ अनुश्रेणि गतिः १६ अपरा पल्योपममधिकं च १७ अपरा द्वादशमुहूर्ता १८ अप्रतिघाते १९ अप्रत्यवेक्षिता० २० अर्थस्य २१ अर्पितानर्पितसिद्धेः २२ अल्पारम्भपरिग्रहत्वं. २३ अवग्रहहापायधारणाः २४ अविग्रहा जीवस्य २५ अविचारं द्वितीयम् २६ अव्रतकषायेन्द्रियक्रिया:० २७ अशुभः पापस्य २८ असङ्खयेयाः प्रदेशा० २९ असङ्खयेयभागादिषु० ३० असदभिधानमनृतम् ३१ असुरेन्द्रयोः०
३१५
م
م س
،
م
२२८
م
६१८ ५१ ई-भाषेषणा. ११५ ५२ उच्चैर्नीचैश्च
८१३ ५३ उत्तमः क्षमा०
५४ उत्तमसंहननस्यै० ६ ४ ५५ उत्पादव्ययध्रौव्ययुक्तं सत् ५२९ ५ ७ ५६ उपयोगो लक्षणम् ५ १५ । ५७ उपयोगः स्पर्शादिषु २१९ ७ ९ । ५८ उपर्युपरि
४१९ ४ ३२ | ५९ उपशान्तक्षीणकषाययोश्च ९३८
ururr
Page #25
--------------------------------------------------------------------------
________________
.
»
[२३]
| ९३ ग्रहाणामेकम् ६० अधिस्तिर्यग्व्यः ऋ।
९४ चक्षुरचक्षुरवधि. ६१ ऋजुविपुलमती मनःपर्यायः
९५ चतुर्भागः शेषाणाम्
९६ चारित्रमोहे. ६२ एकप्रदेशादिषु भाज्यः० ५१४ ६३ एकसमयोऽविग्रहः २ ३० ९७ जगत्कायस्वभावौ च ७ ७ ६४ एकं द्वौ वानाहारकः २ ३१ ९८ जघन्या त्वष्टभागः ४५२ ६५ एकादश जिने
९ ११ ९९ जम्बूद्वीपलवणादयः । ६६ एकादयो भाज्या. ६ १७ । १०० जरायवण्डपोतजानां गर्भः २ ३४ ६७ एकादीनि भाज्यानि० १३१ १०१ जीवभव्याभव्यत्वादीनि च २ ७ ६८ एकाश्रये सवितर्के.
१०२ जीवस्य च औ। १०३ जीवाजीवात्रव०
१ ४ ६९ औदारिकवैक्रिय. २३७ | १०४ जीवितमरणाशंसा. ७० औपपातिकचरमदेहो. २ ५२ १०५ ज्योतिष्काः० ७१ औपपातिकमनुष्येभ्यः० ४ २८ , १०६ ज्योतिष्काणामधिकम् ४४४ ७२ औपशमिकक्षायिकौ०
३४१ ज्ञानदर्शनदान. ७३ औपशमिकादि.. १० ४ । ३४२ ज्ञानावरणे प्रज्ञाज्ञाने
ज्ञाने . ९१३
३४३ ज्ञानदर्शनचारित्रोपचाराः ९ ७४ कषायोदयाती.
६१५ ३४४ ज्ञानाज्ञानदर्शन... २ ५ ७५ कन्दर्पकौकुच्य. ७६ कल्पोपपन्नाः १८ । १०७ ततश्च निर्जरा
८४२ ७७ कायप्रवीचारा.
१०८ तत्कृतः कालविभागः . ४ १५ ७८ कायवाङ्मनःकर्म योगः ६ १ | १०९ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् १ २ ७९ कालश्चेत्येक
५ ३८ ११० तत्र्येककाययोगायोगानाम् ९४२ ८० कृमिपिपीलिका० २ २४ | १११ तत्प्रमाणे ८१ कृत्स्नकर्मक्षयो मोक्षः १० ३ ११२ तत्प्रदोषनिह्नव० ६११ ८२ केवलिश्रुतसङ्घ ६१४ | ११३ तत्र भरत.
३१० ८३ क्षुत्पिपासा..
९ ९ ११४ तत्स्थार्थ.. ८४ क्षेत्रवास्तुहिरण्य० . ७२४ | ११५ तदनन्तभागे मनःपर्यायस्य १२६ ८५ क्षेत्रकालगतिलिङ्ग
११६ तदन
१० ५
११७ तदविरतदेशविरत... ९ ३५ ८६ गतिकषायलिङ्ग. २ ६ | ११८ तदादीनि भाज्यानि० .. २ ४४ ८७ गतिशरीरपरिग्रहा.
११९ तदिन्द्रियानिन्द्रिय० २१४ ८८ गतिस्थित्युपग्रहो. ५ १७ १२० तद्विभाजिनः० . ..३ ११ ८९ गतिजातिशरीरा० ८ १२ | १२१ तद्विपर्ययो. ९० गर्भसंमूर्छनजमाद्यम् २४६ / १२२ तद्भावपरिणामः ५४१ ९१ गुणसाम्ये सदृशानाम्- - ५३४ १२३ तद्भावाव्ययं नित्यम् । ५ ३० ९२ गुणापर्यायवद्र्व्यम् ....५.३.७ | १२४ तनिसर्गादधिगमाद्वा . : .. १..३
का
११०
Page #26
--------------------------------------------------------------------------
________________
[२४]
.. ---
९ २१
८ १७
१७
६१.
१२५ तन्मध्ये मेहनाभिवृत्तो. ३ ९ [ १६० न देवाः
२५१ १२६ तपसा निर्जरा च ९ ३ | १६१ नवचतुर्दश. १२७ तारकाणां चतुर्भागः ४५१ | १६२ नाणोः
५११ १२८ तासु नरकाः
३ २ १६३ नामगोत्रयोविंशतिः १२९ तिर्यग्योनीनां च ३१८ १६४ नामगोत्रयोरष्टौ
८ २० १३० तीव्रमन्दज्ञाताज्ञात. ६ ७ १६५ नामप्रत्यया:०
८ २५ १३१ तृतीयः पीतलेश्यः ४ २ १६६ नामस्थापनाद्रव्य. १ ५ १३२ तेजोवायू०
२१४ | १६७ नारकदेवानामुपपातः २ ३५ १३३ तेषां परं परं सुक्ष्मम् २३८१६८ नारकसंमाछनो नपुंसकानि १५० १३४ तेष्वेकत्रि.
३ ६ / १६९ नारकाणां च द्वितीयादिषु ४ ४३ १३५ त्रयस्त्रिंशत्सागरोपमाण्या- १७० नारकतैर्यग्योनमानुषदैवानि ८११ - युष्कस्य
८१८ | १७१ नित्यावस्थितान्यरूपाणि ५ ३ १३६ त्रायस्त्रिंशलोकपाल.
४ ५ १७२ पशभतरलेश्या. १७३ निदानं च
९ ३४ १३७ दर्शनविशुद्धिर्विनयसम्पन्नता०६ २३ ) १७४ निरुपभोगमन्त्यम् २४५ १३८ दर्शनचारित्रमोहनीय० ८१० | १७५ निर्देशस्वामित्व. १३९ दर्शनमोहान्तराययो. ९१४ १७६ निवर्तनानिक्षेप. १४० दश वर्षसहस्राणि ४४. १७७ निवृत्त्युपकरणे. २१७ १४१ दशाष्टपञ्च०
१७८ निःशल्यो व्रती
१३ १४२ दानादीनाम्
८१४ १७९ निःशीलव्रतत्वं च सर्वेषाम् ६ १९ १४३ दिग्देशानर्थदण्ड ७१६ / १८. निष्कियाणि च १४४ दुःखशोकतापा. ६ १२ / १८१ नृस्थिती परापरे. १४५ दुःखमेव वा
७ ५ १८१ नैगमसंग्रह. १४६ देवाश्चतुर्निकायाः
पा १४७ देशसर्वतोऽणुमहती ७ २ १८३ पञ्चनव० १४८ द्रव्याणि जीवाश्च ५ २ | १८४ पञ्चेन्द्रियाणि १४९ द्रव्याश्रया निर्गुणा गुणाः ५४० १८५ परतः परत:।
४४२ १५. द्विनवाष्टादशै.
२ २ १८६ परविवाहकरणे. ७ २३ १५१ द्विदिविष्कम्भा:० ३ ८ १८७ परस्परोदीरितदुःखाः १५२ द्विर्धातकीखण्डे ३ १२ / १८८ परस्परोपग्रहो जीवानाम् । १५३ द्विविधानि
२१६/ १८९ परात्मनिन्दाप्रशंसे. १५४ द्विविधोऽवधिः १२१ १९. परा पल्योपमम्
४ ४७ १५५ यधिकादिगुणानां तु ५३५ / १९१ परे केवलिनः
१९२ परेऽप्रवीचाराः ४१० १५६ धर्माधर्मयोः कृत्स्ने ५१३ १९३ परे मोक्षहेतू
९३०
१९४ पीतपद्मशुक्ललेश्या० ४२३ १५७ नक्षत्राणामधम् ४५० | १९५ पीतान्तलेश्याः
४ ७ १५८ न चक्षुरनिन्द्रियाभ्याम् २१९ १९६ पुलाकबकुश.
९४८ १५१ न जघन्यगुणानाम् ५३३ १ १९७ पुष्कराधे च
३१३
.
.
२१५
10.
Page #27
--------------------------------------------------------------------------
________________
[२५]
७१२
४ १४
66.
م
م
४ १६
१९८ पूर्वप्रयोगादसङ्गत्वा० १० ६ / २३३ माया तैर्यग्योनस्य ६ १७ १९९ पूर्वयोर्दीन्द्राः
४ ६ / २३४ मारणान्तिकी संलेखनां २०० पृथक्त्वैकत्व०
९४१ जोषिता
७१७ २०१ पृथिव्यब्वनस्पतयः स्थावरा २१३ २३५ मार्गाच्यवननिर्जरार्थ० ९८ २०२ प्रकृतिस्थित्यनुभाव.
२३६ मिथ्यादर्शनाविरति० ८ १ २०३ प्रत्यक्षमन्यत्
११२ २३७ मिथ्योपदेशरहस्याभ्याख्यान० ७ २१ २०४ प्रदेशतोऽसङ्ख्येयगुणं २३९ २३८ मुर्छा परिग्रहः २०५प्रदेशसंहार
५ १६ / २३९ मेरुप्रदक्षिणा० २०६ प्रमत्तयोगात्प्राणव्यपरोपणं २४० मैत्रीप्रमोदकारुण्य. हिंसा
७ ८ २४१ मैथुनमब्रह्म २०७ प्रमाणनयैरधिगमः
२४२ मोहक्षयाज्ञा २०८ प्राग्वेयकेभ्यः कल्पाः ४२४
य। २०९ प्राग्मानुषोत्तरान्मनुष्याः ३१४ २४३ यथोक्तनिमित्तः २१० प्रायश्चित्तविनय.
२४४ योगदुष्प्रणिधाना० ७ २८ ब।
२४५ योगवक्रता. २११ बन्धवधविच्छेदा०
२४६ योगोपयोगी जीवेषु २१२ बन्धहेत्वभावनिर्जराभ्याम् १० २१३ बन्ध समाधिकौ०
२४७ रत्न-शर्करा. २१४ बहिरवस्थिताः
२४८ रूपिणः पुद्गलाः २१५ बहुबहुविध०
१ १६ २४९ रूपिष्ववधेः २१६ बहारम्भपरिग्रहत्वं०
२५० रूपिष्वादिमान् २१. बादरसंपराये सर्वे ९ १२ २१८ बाह्याभ्यन्तरोपध्योः ९२६ २५१ लब्धिप्रत्ययं च
२४८ २१९ ब्रह्मलोकालया० ४ २५ | २५२ लब्ध्युपयोगी भावेन्द्रियम् . २१८ भ।
२५३ लोकाकाशेऽवगाहः ५१३ २२० भरतैरावतविदेहाः० ३१६ २२१ भवप्रत्ययो नारकदेवानाम् १२२ २५४ वर्तना परिणामः ५२२ २२२ भवनवासिनो० ४११ २५५ वाचनाप्रच्छना.
९.२५ २२३ भवनेषु दक्षिणार्धाधिपतीनां०४ २५६ वाय्वन्तानामेकम् २२४ भवनेषु च
४ ४२ २५७ विग्रहगतौ कर्मयोगः २२६ २२५ भूतव्रत्यनुकम्पा.
२५८ विग्रहवती च०
२२९ २२६ भेदसंघाताभ्यां चाक्षुषाः ५२८ २५९ विघ्नकरणमन्तरायस्य ६.२६ २२७ भेदादणुः
५२७ २६. विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः९ ४६
२६१ विजयादिषु द्विचरमाः ४ २७ २२८ मतिःस्मृतिः ११३, २६२ वितर्कः श्रुतम्
९ ४५ २२९ मतिश्रुतावधि.
१ ९ २६३ विधिद्रव्यदातृ० २३. मतिश्रुतयोर्निबन्धः १२. २६४ विपरीत शुभस्य
६ २२ २३१ मतिश्रुतावधयो. - १३२ | २६५ पिपरीसं मनोज्ञानाम् ९३३ २३२ मत्यादीनाम्
८७.२६६ विपाकोऽनुभावः
Page #28
--------------------------------------------------------------------------
________________
[२६]
८१६
९
४
ه م ت :
२.६७ विशुद्धिक्षेत्र० २६८ विशुद्धयप्रतिपाताभ्यां तद्विशेषः १२५ | ३०५ सप्ततिौहनीयस्य २६९ विशेषत्रिसप्त. ४ ३७ ३.६ स बन्धः
८ ३ २७० वेदनायाश्च
९ ३२ / ३०७ संमूर्छनगर्भोपपाता जन्म .. २३२ २७१ वेदनीये शेषाः
३०८ समनस्कामनस्काः २११ २७२ वैक्रियमोपपातिकम् २४७ | ३०९ सम्यत्क्वचारित्रे २७३ वैमानिकाः
४ १७ ३१० सम्यग्दर्शन २७४ व्यञ्जनस्यावग्रहः
११८ | ३११ सम्यग्दृष्टिश्रावक. २७५ व्यन्तराः किन्नर० ४ १२ २१२ सम्यग्योगनिग्रहो गुप्तिः २७६ व्यन्तराणां च
.४४६ | ३१३ सप्त सनत्कुमारे २७७ व्रतशीलेषु पञ्च. ७ १९ | ३१४ स यथा नाम
३१५ संयम श्रुत०
९४९ २७८ शङ्काकांक्षा० . ७ १८ : ३१६ सरागसंयमः
६ २० २७९ शब्दबन्धसौम्य. ५ २४ | ३१७ सर्वद्रव्ययर्यायषु
१३० २८. शरीरवाङ्मनः ५ १९ | ३१८ सर्वस्य
२४३ २८१ शुक्ले चाये
९ २९ । ३१९ संसारिणो मुक्ताश्च .. २८२ शुभं विशुद्धमव्याघाति. २ ४९ । ३२० संसारिणस्त्रसस्थावराः .. २.१२ २८३ शुभः पुण्यस्य
३२१ संज्ञिनः समनस्काः २८४ शेषाः स्पर्शरूप० . .
३२२ सागरोपमे , २८५ शेषाणां संमूर्छनम्
३२३ सागरोपमे २८६ शेषाणां पादोने
३२४ सारस्वता. २८७ शेषाणामन्तर्मुहूर्तम् ८ २१ ३२५ सामायिकच्छेदोप० ९.१४ २८८ श्रुतं मतिपूर्व० १.२० । ३२६ सुखदुःख
५२० २८९ श्रुतमनिन्द्रियस्य २.२२ । ३२७ सूक्ष्मसम्पराय०
३२८ सोऽनन्तसमयः
५३९ २९० स आस्रवः
६ २ ३२९ सौधर्मादिषु यथाक्रमम् २९१ स कषायत्वाज्जीवः.
सौधर्मशान.
४२० .२९२ स कषाया. ६ ५ । ३३१ स्तेनप्रयोग. .
७.२२ २९३ संक्लिष्टासुरो० ३.५ ३३२ स्थितिः
४२९ २९४ स गुप्तिसमितिक ९. २ ३३३ स्थितिप्रभाव. .. ४ २२ २९५ संघातभेदेभ्य उत्पद्यन्ते . ५.२६ । ३३४ स्निग्धरूक्षत्वाद्वन्धः
५३२ २९६ सङ्खयेयासङ्खयेयाश्च० ५.१० ३३५ स्पर्शनरसनघ्राण. २ २० २९७ सचित्तनिक्षेपपिधान ७.३१ । ३३६ स्पर्शरसगन्ध ध.
५२३ २९८ सचित्तशीतसंवृत्ताः० . २ ३३ | ३३७ स्पर्शरस० . ;
२२१ १२९९ सचित्तसंबद्ध ३०९ सत्सङ्ख्या.
१८ । ३३८ हिंसादिष्विहामुत्र. ३०१ सदसतोरविशेषाद्य० ... १३३ | ३३९ हिंसानृतस्तेयविषयक . . ९३६ ३०२ सदसद्वेद्य
. ८ ९ ३४० हिंसानृतस्तेषा. ३०३ स द्विविधो.
Page #29
--------------------------------------------------------------------------
________________
३ तृतीयं परिशिष्टम् ।
- प्रथमोध्यायः। सूत्राङ्कः। दिगम्बराम्नायीसूत्रपाठः । सूत्राङ्कः । श्वेताम्बराम्नायीसूत्रपाठः । १५ अवग्रहेहावायधारणाः ।
|१५ अवग्रहहापायधारणाः ।
२१ द्विविधोऽवधिः । २१ भवप्रत्ययोवधिदेवनारकाणाम् । . . |२२ भवप्रत्ययो नारकदेवानाम्। . २२ क्षयोपशमनिमित्तः षडिकल्पःशेषणाम्। २३ यथोक्तनिमित्तः. २३ ऋजुविपुलमती मनःपर्ययः । | २४........................पर्यायः । २८ तदनन्तभागे मनःपर्यायस्यः । | २९.....................पर्यायस्य। ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढ-|३४...............सूत्रशब्दा. नयाः । वम्भूता नयाः।
| ३५ आद्यशब्दौ द्वित्रिभेदौ।
द्वितीयोऽध्यायः। ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्च भेदाः। ५......दर्शनदानादिलब्धयः......... सम्यक्त्वचारित्रसंयमासंयमाश्च ।
...............................। १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । १३ पृथिव्यव्वनस्पतयः स्थावराः। १४ द्वीन्द्रियादयस्त्रसाः।
१४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ।
१९ उपयोगः स्पर्शादिषु । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः। २१...............शब्दास्तेषामर्थाः ।। २२ वनस्पत्यन्तानामेकम् ।
२३ वाय्वन्तानामेकम् । २९ एकसमयाविग्रहा।
३० एकसमयोऽविग्रहः । ३० एकं द्वौ. त्रीन्वाऽनाहारकः । . ३१ एकं द्वौ वानाहारकः । ३१ सम्मछैनग पपादा जन्म । ३२ सम्मर्छगन पपाता जन्म। ३३ जरायुजाण्डजपोतानां गर्भः । ३४ जराय्वण्डपोतजानां गर्भः । ३४ देवनारकाणामुपपादः।
३५ नारकदेवानामुपपातः । ३७ परं परं सूक्ष्मम् ।
३८ तेषां परं परं सूक्ष्मम् । ४० अप्रतीघाते ।
|४१ अप्रतिघाते। . . ४६ औपपादिकं वैक्रियकम् ।
४७ वैक्रियमौपपातिकम् । ४८ तैजसमपि । ४९ शुभं विशुद्धमव्याघाति चाहाराकं - ४९.....................चतुर्दशपूर्वप्रमत्तसंयतस्यैव ।
। धरस्यैव।
..
Page #30
--------------------------------------------------------------------------
________________
[२८]
५२ शेषास्त्रिवेदाः। ५३ औपपादिकचरमोत्तमदेहाः सङ्खयेय- ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्खये... वर्षायुषोऽनपवायुषः।
तृतीयोऽध्यायः। १ रत्नशर्करावालुकापङ्कधूमतमोमहातमः-. |१...............सप्ताधोऽधःपृथुतराः । प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः
सप्ताधोऽधः। २ तासु त्रिंशत्पञ्चविंशतिपश्चदशदशत्रिपञ्चो- २ तासु नरकाः ।
नैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम्। ३ नारका नित्याशुभतरलेश्यापरिणामदेह- ३ नित्याशुभतरलेश्या....
वेदनाविक्रियाः। ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप- ७ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ।
समुद्राः। १. भरतहैमवतहरिविदेहरम्यकहैरण्यवतै-/१० तत्र भरत.......
रावतवर्षाः क्षेत्राणि। १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्श उपरि मूले च तुल्य
विस्ताराः। १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीक- पुण्डरीका हृदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धवि__ष्कम्भो हृदः। १६ दशयोजनावगाहः। १७ तन्मध्ये योजनं पुष्करम् । १८ तदद्विगुणद्विगुणा ह्रदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्ति
बुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः। २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिका
कान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाःसरितस्तन्मध्यगाः। २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः। २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासि
ध्वादयो नद्यः । २४ भरतः षडिशतिपञ्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य। ।
xx xxx xxx xx x x x -
xx xxx xxx xx x x x
Page #31
--------------------------------------------------------------------------
________________
[२९] २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षावि-
देहान्ताः ।
xxx xxxxx
xxx xx xxx
२६ उत्तरा दक्षिणतुल्याः ।। २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्या__ मुत्सर्पण्यवसर्पिणीभ्याम् । २८ ताभ्यामपरा भूमयोऽवस्थिताः। २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहा
रिवर्षकदैवकुरुवकः। ३० तथोत्तराः। ३१ विदेहेषु सङ्खयेयकालाः । ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति
शतभागः। ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । १७ .........परापरे...... ३९ तिर्यग्योनिजानां च ।
(१८ तिर्यग्योनीनां च ।
___ चतुर्थोऽध्यायः। २ आदितस्त्रिषु पीतान्तलेश्याः। । २ तृतीयः पीतलेश्यः । ___ x x
७ पीतान्तलेश्याः। ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः। । ८.........प्रवीचारा द्वयोर्द्वयोः । १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्र-|१३ .....................प्रकीर्ण
प्रकीर्णकतारकाश्च । । | तारकाः। १९ सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मो- |२० सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोक:त्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रा- लान्तकमहाशुक्रसहस्रार............ रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवे-/ यकेषु विजयवैजयन्तजयन्तापराजितेषु
सर्वार्थसिद्धे च । सर्वार्थसिद्धौ च । २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । | २३ ............लेश्या हि विशेषेषु । २४ ब्रह्मलोकालया लौकान्तिकाः । २४ ............लोकान्तिकाः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां साग-२९ स्थितिः। रोपमत्रिपल्योपमार्द्धहीनमिताः । |३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपमम
___ ध्यर्धम् । |३१ शेषाणां पादोने।
| ३२ असुरेन्द्रयोः सागरोपममधिकं च। २९ सौधर्मेशानयोः सागरोपमेऽधिके। ३३ सौधर्मादिषु यथाक्रमम् ।
३४ सागरोपमे।
३५ आधिके च ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३६ सप्त सानत्कुमारे। ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिर- |३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपञ्चदशघिकानि तु।
भिरधिकानि च ।
X
Page #32
--------------------------------------------------------------------------
________________
[३०]
४
x
x
X X X
+
X
X
३३ अपरा पल्योपममधिकम् । __३९ अपरा पल्योपममाधिकं च ।
|४० सागरोपमे।
४१ अधिके च। ३९ परा पल्योपममधिकम् । ४७ परा पल्योपमम् । ४० ज्योतिष्काणां च।
४८ ज्यातिष्काणामाधिकम् । |४९ ग्रहाणामेकम्।
५० नक्षत्राणामर्धम् ।
| ५१ तारकाणां चतुर्भागः । ४१ तदष्टभागोऽपरा।
५२ जघन्या त्वष्टभागः।
| ५३ चतुर्भागः शेषाणाम् । ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।
पञ्चमोऽध्यायः। २ द्रव्याणि ।
२ द्रव्याणि जीवाश्च । ३ जीवाश्च ।
x १० सङ्खयेयासङ्खयेयाश्च पुद्गलानाम् । ७ असङ्खयेयाः प्रदेशा धर्माधर्मयोः । xx
८ जीवस्य च । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १६ ......विसर्गाभ्यां...... । २६ भेदसङ्घातभ्य उत्पद्यन्ते ।
२६ सङ्घातभेदेभ्य उत्पद्यन्ते । २९ सद्व्यलक्षणम्।
x ३७ बन्धेऽधिको पारिणा
| ३७ बन्धे समाधिको पारिणामिकौ । ३९ कालश्च ।
| ३९ कालश्चेत्येके । |४२ अनादिरादिमांश्च । | ४३ रूपिष्वादिमान् । | ४४ योगोपयोगी जीवेषु।
X
X
xxx
X
षष्ठोऽध्यायः।
३ शुभः पुण्यस्याशुभः पापस्य ।
३ शुभः पुण्यस्य। X
४ अशुभः पापस्य । ५ इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चप- ३ अव्रतकषायेन्द्रियक्रियाः......
ञ्चविंशतिसंख्याः पूर्वस्य भेदाः । ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यवि- ७ ......भाववीर्याधिकरणविशेषेभ्यशेषभ्यस्तद्विशेषः ।
स्तद्विशेषः । १७ अल्पारम्भपरिग्रहत्वं मानुषस्य । १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जर्व
च मानुषस्य । १८ स्वभावमार्दवं च । । २१ सम्यक्त्वं च । २३ तद्विपरीतं शुभस्य
| २२ विपरीतं शुभस्य ।
X
.
x.
.
Page #33
--------------------------------------------------------------------------
________________
[३१]
२४ दर्शनविशुद्धिर्विनयसम्पन्नता शीलवते - २३ ध्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितत्यागतपसी साधुसमाधिर्वैयावृत्य
करणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यपरिहाणिमार्गप्रभावना प्रवचनवत्सल - त्वमिति तीर्थकरत्वस्य ।
सप्तमोऽध्यायः ।
X
४ वाङ्मनोगुतीर्यादान निक्षेपण समित्यालो - | कितपानभोजनानि पश्च ।
५ को लोभभीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषणं च पश्ञ्च । ६ शून्यागार विमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च । ७ स्त्रीरागकथा श्रवण तन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्ट रसशरीरसंस्का
रत्यागाः पञ्च ।
८ मनोज्ञामनोज्ञेन्द्रियविषय रागद्वेषवर्जनानि पश्च ।
भीक्ष्णं तपसीसङ्घसाधुसमाधि वैयावृत्यकर ---
तीर्थकृत्त्वस्य ।
X
३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसं- २९ स्तरोपक्रमणानादस्मृत्यनुपस्थानानि ।
३७ जीवितमरणशंसामित्रानुरागसुखानुब- ३२ धनिदानानि ।
X
X
X
X
X
४ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ।
७
६ मतिश्रुतावधिमन:पर्यय के क्लानाम् । - ७ चक्षुरचक्षुरवधि केवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला स्त्यानगृद्धयश्च ।
८
निदान करणानि ।
X
X
X
९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् ।
४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । २८ परविवाहकरणेत्वरिकापरिगृहीतापरि २३ परविवाह करणेत्वरपरिगृहीता.. गृहीतागमनानङ्गक्रीडाकामतीत्राभिनि
वेशाः ।
३२ कन्दर्पौत्कुच्यमौखसमीक्ष्याधिक - | २७ कन्दर्प कौकुच्य . रोपभोगपरिभोगानर्थक्यानि ।
णोपभोगाधिकत्वानि ।
*****...
३ स बन्धः ।
५
X
.......
X
.. नुपस्थापनानि ।
....
अष्टमोऽध्यायः ।
२ सकषायत्वाज्जीवः कर्म्मणो योग्यान्पुद्ग- | २ . पुद्रलानादत्ते । लानादत्ते स बन्धः
संस्तारो
...
मोहनीयायुष्क नाम ..... ।
मत्यादीनाम् ।
स्त्यानगृद्धिवेदनीयानि च ।
Page #34
--------------------------------------------------------------------------
________________
.मोहनीयकषायनोकषाय...
९ दर्शनचारित्रमोहनीया कषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमाया लोभाः ।
तदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशःक्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुन्नपुं-सकवेदाः । १४ दानादीनाम् ।
१७ नामगोत्रयोविंशतिः ।
१८........
१३ दानलाभभोगोपभोगवीर्याणाम् । १३ विंशतिर्नामगोत्रयोः । १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः । १९ शेषाणामन्तर्मुहूर्ता । २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मै- २५ कक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वन- वगाढस्थिताः ......... ! २६ सद्वेयसम्यक्त्व हास्य रतिपुरुषवेद
२१ . मुहूर्तम् ।
******
न्तानन्तप्रदेशाः ।
२५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् । ६ अतोऽन्यत्पापम् ।
[३२]
१
१८ सामायिकच्छेदोपस्थापनापरिहारविशु- १८ द्विसूक्ष्मसाम्पराययथाख्यातमिति चारि
X
X
३१ विपरीतं मनोज्ञस्य ।
३६ आज्ञापायविपाकसंस्थानविचयाय
धर्म्यम्
X
X
३७ शुक्ले चाद्ये पूर्वविदः । ४० येकयोग काययोगायोगानाम् । ४] एकाश्रये सवितर्कवीचारे पूर्वे ।
..........
शुभायुः...।
X
नवमोऽध्यायः ।
६ उत्तमक्षमा मार्दवार्जव सत्यशौचसंयमस्त- । ६ उत्तमः क्षमा....... पस्त्यागा किञ्चन्यब्रह्मचर्याणि धर्मः ।
१७ एकादयो भाज्या युगपदेकस्मिन्नेकोन - १७
विंशतिः ।
त्रम् ।
२२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्स- २२... र्गत पश्छेदपरिहारोपस्थापनाः । २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यान- २७... मान्तर्मुहूर्तात् ।
. युष्कस्य ।
.........
.......
X
यथाख्यातानि चारित्रम् |
....... विंशतेः ।
...
... स्थापनानि ।
...
निरोधो ध्यानम् ।
२८ आमुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् ।
धर्म्ममप्रमत्तसंयतस्य ।
... क्षेत्रा
३८ उपशान्तक्षीणकषाययोश्च । ३९ शुक्ले चाये ।
४२ तत्त्र्येककाययोगा .........। .........................सवितकें पूर्वं ।
४३
Page #35
--------------------------------------------------------------------------
________________
[३३]
दशमोऽध्यायः। २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्र-२ ......निर्जराभ्याम् । मोक्षो मोक्षः। ____ xx
कृत्स्नकर्मक्षयो मोक्षः । ३ औपशामिकादि भव्यत्वानां च ।।औपशामिकादिभव्यत्वाभावाश्चान्यत्र के४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्ध- वलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ।
त्वेभ्यः। ५ तदनन्तरमुर्वं गच्छन्त्यालोकान्तात् । ५ ......गच्छत्या......। ६ पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गति- ६ .. परिणामाच्च ।
तद्गतिः । ७ आविद्धकुलालचक्रवत् व्यपगतलेपालाबू
वदेरण्डबीजवदग्निशिखावच्च । ८ धर्मास्तिकायाभावात् ।
___ xx
xx
Page #36
--------------------------------------------------------------------------
________________
४ चतुर्थ परिशिष्टम् ।
उपयोजितग्रन्थानां सूचिः। १ श्रीहरिभद्रसुरिटीका
लिखितपुस्तकम् । २ श्रीसिद्धसेनगणिटीका ३ श्रीयशोविजयजीटीका
श्रेष्ठि माणिकलालमनसुखभाईमुद्रापिता। ४ तत्त्वार्थटिप्पणकम् ५ चत्वारः कर्मग्रन्थाः
| पं. सुखलालजी' एतैरनूदिताः । ६ प्राचीनाश्चत्वारः कर्मग्रन्थाः श्रीआत्मानन्दसभामुद्रापिताः। ७ अभिधानराजेन्द्रः
श्रीराजेन्द्रसूरिः। ८ प्रज्ञापनासूत्रम्
सुरतमुद्रापितम् । ९ नन्दिसूत्रम् १० स्थानाङ्गसूत्रम् ११ भगवतीसूत्रम् १२ उत्तराध्ययनसूत्रम्
श्रीभावविजयगणिव्याख्या। १३ समवायागसूत्रम्
सुरतमुद्रापितम् । १४ विपाकसूत्रम् १५ अनुयोगद्वारसूत्रम् १६ प्रवचनसारोद्धारः १७ आचारागसूत्रम् १८ विशेषावश्यकभाष्यम्
यशोविजयजीजैनग्रंथमाला
Page #37
--------------------------------------------------------------------------
________________
अकर्मभूमिः अक्रियावादी अगुरुलघुपरिणामः
अङ्गम्
अक्षुर्दर्शनम् 'अचक्षुर्दर्शनावरणम्
अज्ञानम् अज्ञानिका:
अजीव:
अजीव कायः
अण्डजाः
अणवः
अद्धा
अधर्मास्तिकायः
अधिकरणम् अन्तर्मुहूर्तः
अन्तरायः
अपवर्तनीयम्
अनुकम्पा
अनुतट:
अनुयोगः अनुश्रेणिगतिः अपवर्तन
अपवर्तनीयम्
अपायः
अपूर्वकरणम्
अभव्यः
अरत्नि:
अलोक:
अवग्रहादयः
अवधिज्ञानम् अवधिज्ञानावरणम्
५ पंचमम् परिशिष्टम्.
पृ.
६० | अवधिदर्शनम् १५० | अवधिदर्शनावरणम् ६६ अविग्रहा
२३ अशनम्
३५, १५४ अष्टमभक्तः १५४ अस्तिकायः ४१, असिद्धम्
१५० | आकाशास्तिकायः
७, ८. आभिनिबोधिकज्ञानम्
१०६ | आमशषधी
५२ अम्नायार्थवाचकः
११६, आयुः
१४ आरम्भः
१०६ आयीः
१२९ आवलिका ५६ आवश्यका परिहाणि:
१३२ आश्र ( स ) व:
५९ आस्तिक्यम्
५ आसादनम्
११५ आहार:
७ आहारकः
४८ इन्द्रियम्
६१ | इषुपरिमाणम्
५९ उत्कडुकासनम्
१७ उत्कृष्टः
७ उत्सर्पिणिः
३३ | उदयः
९८ उपग्रहः
३१ उपघातः
१९ उपभोगः
१६, २८. उपयोगः
१५३ उपशमः
पृ.
३५, ४०, १५४,
१५४
४८
१४४
१४३
३५, १०६.
४१
१०६
१५
१९८
१६८
२५
१२९
७९
६
१३५
८, १२५, १२६.
५ १३२
१४८
५०
१३
७७
१७६
१२
१५
११२
१३२
४०
७, ८
८
Page #38
--------------------------------------------------------------------------
________________
[३६]
पू.
१८५
१२
२४ जस्ता
२६ १३५ ७८
१३५
१८६
४१
१३५ १२० १२० १६८
७८
उपाङ्गम् ऋजुमतिः ऋषिभाषितानि औत्कारिक: औदयिकः औपशमिकः कर्मप्रकृतिः कर्मभूमयः कल्पाः कषायः क्षायिकः क्षयोपशमः कापोतलेश्या कायः कायव्युत्सर्गः कार्मणम् क्रिया क्रियावादिनः कुलकराः कृष्णराजिः कृष्णलेश्या केवलज्ञानम् केवलज्ञानावरणम् केवलदर्शनम् केवलदर्शनावरणम् केवली खादिमम् गतिः गर्भः चक्षुर्दशनम् चक्षुर्दर्शनावरणम् चतुर्थभक्तः चतुर्दशपूर्वधरः चतुर्विशतिस्तवः चमरेन्द्रः चारित्रम् चौर्णिकः छद्मस्थाः
.. २५/छेदोपस्थापनीयः २८ जघन्यः
ज्ञस्वाभाव्यम् ११५ ज्ञानोपयोगः
| जनपदा:
जरायुजाः १८८ जीवः ६०, ८१.तपः
८५/त्यागः ... ४१ त्रसाः
तीर्थम् २६ तर्थिकरनामकर्म ४१ तेजोलेश्या १३ दर्शनविशुद्धिः २४ द्रव्यनयः ४८ द्रव्यास्तिकायः १२७ दिगाचार्याः
१५:| दृष्टिवादः . ७६ | देशाः १०१ धनु:काष्ठम्
४१ धर्मास्तिकायः १२, १६. नपुंसकवेदः . १५३ नरकाः ३५, १५४. निकाचना
१५४ निकाचिता
१२ निगोदजीवाः १४४ निद्रा ४१, ४८. निद्रानिद्रा
५१ निरुपक्रमाः - ३५, १५४. निर्जरा
१५४ निर्वेदः १४३ निवः - ५६ नीललेश्या . २३ नृलोकः १०२ नोइन्द्रियम्
२ पञ्चातिचाराः
११५पद्मलेश्या १७४, २०२. परिहारविशुद्धिः
१०६
. १३
६४
. १५४
१५४
:
१३२ ४१ ९२
१४५
१८५
Page #39
--------------------------------------------------------------------------
________________
[३७]
पृ. १७३ भव्यम् १२० |भवस्थः
१५ भोगः
१५
१५३ ११६ १५३ ६२ १३५ १२०
१३२
४१ ११३
.
१२ १८६
१९३
परीषहाः पर्यायनयः पल्योपमम् पानम् पारिणामिकः पुद्गलाः पुद्गलपरावर्तः पुद्गलास्तिकायः पुंवेदः पूर्वाणि पोतजाः पोषधः प्रचला प्रतरभेदः प्रतरवृत्तः प्रतिक्रमणम् प्रत्याख्यानम् प्रत्येकबुद्धसिद्धः . प्रदोषः प्रयोगगतिः प्रवचनम् प्रवचनमातरः प्रवचनवात्सल्यम् प्रव्राजकः प्रशमः प्रश्नव्याकरणम् प्राणाः प्रभृतानि प्राभृतप्राभृतानि प्रायोगिकः बन्धः बलीन्द्रः बादरः बादरसम्परायः बाहुः भक्तिः भरतज्या भवप्रत्ययः
१२५
१४४ मण्डलविष्कम्भः
मतिज्ञानावरणम् १०८ मनःपर्यवज्ञानम्
मनःपर्यवज्ञानावरणम् १०६ मरणसमुद्धातः १३ मार्गप्रभावना २६ मातृकापदास्तिकम् ५२ मात्सर्यम् १४३ मिथ्यादर्शनम् १५४ मिश्रिकागतिः ११५ म्लिशाः १७३ मुहूर्तः २३ मूलगुणाः २४ मोक्षः १९४ यथाख्यातचारित्रम् १३२ युगम् ११३ योगः
१९ योनिः १८५ रज्जुः १३५ रुचकः १६८ लब्धिप्रत्ययम्
१८ लिङ्गम् १६७ लेश्या ३७ लोकः २६ वन्दनम् २६ वर्षा
११५ वंशा ६, ७, ८, १५२. वातः
९२ वास्या ७१ विनयसम्पन्नता १७४ विपुलमतिः
७७ विद्युडौषधी __१३५ विभङ्गज्ञानम्
७५ विरहकालः २६ विष्कम्भः
१३
४१ १३,४१.
१३
७४
४४
१३५
२८ १९८
७२
Page #40
--------------------------------------------------------------------------
________________
[३८]
पृ.
२९
विस्रसागतिः वित्रसाबन्धः वीयम् वीरासन: वैनयिकाः शल्यम् शुक्ललेश्या शैलेशी श्रुतम् श्रुतज्ञानम् श्रुतज्ञानावरणम् श्रुतसमुद्देष्टा श्रुताज्ञानम् श्रुतोद्देष्टा षड्व्याणि पडावश्यकम् षष्ठभक्तः स्कन्धाः
११३ स्नातकः ११५ समनस्कम्
४० समवसरणम्
१७६ सम्यक्त्वम् १४४,१५० सम्यग्दर्शनम्
६,१२ ६९ समाधिः
१३५ समारम्भः
१२९ संयतः २३ सयोगः
१२,११० १५ संरम्भः
१२९ १५३ सौंषधी
१९८ १६८ संवत्सरः ३३ संवरः
२,७,८ १६८ संवेगः
५,१३५. ३५ स्वयंबुद्धः
१९४ १३५ स्वयम्भूरमणः १४३ स्वादिमम्
१४४ ६,११६. संहननम्
२,२५. १३३ सागरोपमम् ४८ सामायिकः २३,११६,१८५. ४७ सूक्ष्मसम्परायः
१८५ सम्परायसंयतगुणस्थानम् १७४ १३ सूत्रमार्ग:
१६५ ४४ हितम्
११२
१५
संज्ञा संज्ञी स्त्यानर्द्धिः स्त्रीवेदः स्थावरः स्थितिः
Page #41
--------------------------------------------------------------------------
________________
ॐ नमः सर्वज्ञाय श्रीमत्--उमास्वातिवाचकप्रवरप्रणीतानि सभाष्यतत्त्वार्थाधिगमसूत्राणि।
सम्बन्धकारिकाः सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चानोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्लेशैरनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥२॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवयं यथा कर्म ॥ ३ ॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इह फलमेव त्वधमो विमध्यमस्तूभयफलार्थम् ॥ ४ ॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ ५॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ६ ॥ तस्मादहति पूजामहन्नेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् ॥ ७॥ अभ्यर्चनादहतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥८॥
Page #42
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम ।। तस्योदयात्कृतार्थोऽप्यहंस्तीर्थं प्रवर्तयति ॥९॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥ १०॥ यः शुभकर्मासेवनभावितभावो भवेष्वनेकेषु । जज्ञे ज्ञातेक्ष्वाकुषु सिद्धार्थनरेन्द्रकुलदीपः ॥ ११ ॥ ज्ञानैः पूर्वाधिगतैरप्रतिपतितैर्मतिश्रुतांवधिभिः । त्रिभिरपि शुद्धैर्युक्तः शैत्यद्युतिकान्तिभिरिवेन्दुः ॥१२॥ शुभसारसत्त्वसंहननवीर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति त्रिदशैर्गुणतः कृताभिख्यः ॥१३॥ स्वयमेव बुद्धतत्त्वः सत्त्वहिताभ्युद्यताचलितसत्त्वः । अभिनन्दितशुभसत्त्वः सेन्द्रैलॊकान्तिकैर्देवैः ॥ १४ ॥ जन्मजरामरणार्त्त जगदशरणमभिसमीक्ष्य निःसारम् । स्फीतमपहाय राज्यं शमाय धीमान्प्रवव्राज ॥ १५ ॥ प्रतिपद्याशुभशमनं निःश्रेयससाधकं श्रमणलिङ्गम् । कृतसामायिककर्मा व्रतानि विधिवत्समारोप्य ॥१६॥ सम्यक्त्वज्ञानचारित्रसंवरतपःसमाधिबलयुक्तः।
१ यस्योदये सति त्रिभुवनस्यापि पूज्यो भवति तद्रूपत्वं तीर्थकरनाकर्मणो लक्षणम् । तच्च कैवल्यावस्थायां विपच्यते ।
२ मतिश्रुतावधीनां लक्षणं सू. १।९ टिप्पन्यां द्रष्टव्यम् । .
३ यन्निमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् ।
४ सम्यक्त्वम्-मोक्षाविरोधी आत्मनः परिणामः। यस्मिन् व्यक्ते सति आत्मनोऽ न्तर्मुखप्रवृत्तिः । अस्यैव परिणामस्य फलं तत्त्वरुचिः। सम्यक्त्वे सिद्धे सति प्रशमसंवेगनिवेदानुकम्पास्तिकता इति पञ्च प्रायो दृश्यन्ते । तथा तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम् ।
चारित्रम् सावद्ययोगविरतिरूपत्वम् ।
संवरः- आश्रवविरोधनिमित्तकत्वं संवरस्य लक्षणम् । मनोवाकायलक्षणयोगाः शुभाशुभकर्म यस्मादाश्रवन्ति स आश्रवः ।
Page #43
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः। मोहादीनि निहत्याशुभानि चत्वारि कर्माणि ॥ १७॥ केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ द्विविधमनेकद्वादशविधं महाविषयममितर्गमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥ १९ ॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः। अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥ २० ॥ कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय ॥ २१ ॥ तत्त्वार्थाधिगमाख्यं बह्वर्थ संग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमिममहहचनकदेशस्य ।। २२ ॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ॥ २३ ॥ शिरसा गिरिं बिभित्सेदुचिक्षिप्सेच स क्षितिं दोाम् । प्रतितीर्षेच्च समुद्र मित्सेच्च पुनः कुशाग्रेण ॥ २४ ॥ व्योम्नीन्, चिक्रमिषेन्मेरुगिरि पाणिना चिकम्पयिषेत् । गत्यानिलं जिगीषेच्चरमसमुद्रं पिपासेच्च ॥ २५ ॥ खद्योतकप्रभाभिः सोऽभिबुभुषेच्च भास्करं मोहात् । ५२॥ योऽतिमहाग्रन्थार्थं जिनवचनं संजिघृक्षेत ॥ २६ ॥ १ मोहादयः-मोहज्ञानदर्शनावरणान्तरायाः । २ तीर्थ-वर्तमानप्रवचनरूपं ग्रन्थम् । ३ अमिता असंख्या गमा मन्थानो नया वक्ष्यमाणास्तैर्युक्तम् ।
४ कायो वाक् मनश्चेति त्रीणि करणानि तैः शुद्धमकलकं, शुद्धानि वा त्रीण करणान्यास्मिन्निति त्रिकरणशुद्धम् । शारजग्धादि ज्ञापकात्तु निष्ठापरनिपातः ।
५ प्रत्यासः-संग्रहः । ६ मातुं गणयितुमिच्छेत् । ७ जिनवचनसंग्रहं कर्तुमिच्छेत् ।
Page #44
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्याधिगमसूत्रेषु
४ एकमपि तु जिनवचनाचस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥ २७ ॥ तस्मात्तत्मामाण्यात् समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचारं ग्राह्य धार्यं च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः सर्वस्यैकोन्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ २९॥ श्रममविचिन्त्यात्मगतं तस्माच्छ्यः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टानुगृह्णाति ॥ ३०॥ नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्लेजस्मन् । तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि ॥ ३१ ॥
१ 'करोमि भदन्त ! सामायिकमित्येतावतैव पदेनं भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमानं तुषमाषैः स्वाध्याय इति ।
२ एकान्ततः-निश्चयेन ।
Page #45
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ।
॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥११॥
१ सम्यग्दर्शनं २ सम्यग्ज्ञानं ३ सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः । तं पुरस्ताल्लक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः । शास्त्रानुपूर्वी विन्यासार्थ तूदेशमात्रमिदमुच्यते । एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वलाभे भजनीयमुत्तरम् । उत्तरलाभे तु नियतः पूर्वलाभः। तत्र सम्यगिति प्रशंसाओं निपातः समश्चतेर्वा भावः । दर्शनमिति । दृशेरव्यभिचारिणी सन्द्रियानिन्द्रियार्थप्राप्तिरेतत्सम्यग्दर्शनम् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । संगतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥१॥
॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ १॥२॥ तत्त्वानामर्थानां श्रद्धानं तत्त्वेन वार्थानां श्रद्धानं तत्त्वार्थश्रद्धानम् , तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः । तत्त्वानि जीवादीनि वैक्ष्यन्ते । त एव चार्थास्तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवं प्रशैमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति ॥२॥
१ वस्तुमात्रसंकीर्तनमुद्देशः ।
२ सम्यग्ज्ञानशब्देऽपि सम्यक् शब्दः प्रशंसाओं निपातः समञ्चतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि ।
३ अ. १ सू. ४, ___४ प्रशमः-सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद् दोषाणामुपशमः । इन्द्रियार्थपरिभोगनिवृत्तिर्वा । संवेग:-संसारभीतिः । निर्वेदः - विषयानभिष्वङ्गः । अनु. कम्पा-निरुपधिपरदुःखप्रहाणेच्छा । आस्तिक्यम्-अस्ति आत्मादिपदार्थजातम् इत्येषा मतिर्यस्य स आस्तिकः । तस्य भाव आस्तिक्यम् ।
Page #46
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
॥ तन्निसर्गादधिगमाद्वा ॥ ३ ॥
तदेतत्सम्यग्दर्शनं द्विविधं भवति । निसर्गसम्यग्दर्शनमधिगसम्यग्दर्शनं च । निसर्गादधिगमात्पद्यत इति द्विहेतुकं द्विविधम् । निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनर्थान्तरम् । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते । तस्यानादौ संसारे परिभ्रमतः कर्मत एव कर्मणः : स्वकृतस्य बन्धनिकाचनोदय निर्जरापेक्षं नारकतियग्योनिमनुष्यामरभवग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञान
१ आत्मनस्तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तोर्यत् कर्मोपशमादिभ्यो जायते तन्निसर्गसम्यग्दर्शनम् ।
२ यत् तीर्थकराद्युपदेशे सति बाह्यनिमित्तसव्यपेक्षमुपशमादिभ्यो जायते तदार्धगमसम्यग्दर्शनम् ।
३ अनर्थान्तरम्-पर्यायः ।
४ अ. २ सू. १, २, ३, ४,
६, ७, ८. .
५ बन्धो ( अ. ८ सू. ३) नाम एकक्षेत्रावस्थितानां कर्मयोग्यस्कन्धानां ( स्कन्धः - स्कन्दन्ति शुष्यन्ति क्षीयन्ते च पुष्यन्ते पुद्गलानां चटनेन विचटनेन चेति स्कन्धाः ) रागद्वेषस्नेहावलीढसकलात्मप्रदेशेष्वाहारपुद्गलानामिव ( पूरणगलनधर्माण: पुद्गलाः ) परिणामकः सम्बन्धः । निकाचना तु स्पृष्टानन्तरभाविनी बद्धस्य कर्मणः सकलकरणायोग्यतावस्था | बद्धं नाम कर्मात्मप्रदेशैः सह श्लिष्टं यथा सूचयः कलापीकृता: परस्परेण बद्धाः कथ्यन्ते । ता एवानौ प्रक्षिप्त । स्ताडिताः समभिव्यज्यमानान्तराः स्पष्टा इति व्यपदिश्यन्ते ता एव पुनः प्रताप्य यदा घनेन ताडिताः प्रणष्टस्वविभागा एकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमनुवते । एवं कर्माप्यात्मप्रदेशेषु योजन यम् । तस्यैवं निकाचितस्य प्रकृत्यादि ( ८-४ ) बन्धरूपेणावस्थितस्योदयावलिकाप्रविष्टस्य ( आवलिका—असंख्येयसमयसघातात्मकः कालविशेषः । तासु श्रेणिषु प्रविष्टा व्यवस्थिता ) प्रतिक्षणं यो विकानुभवः स उदयः । उदयानुभवसमनन्तरमेवापेत स्नेहलेशं पारशटत्प्रतिसमयं कर्म निर्जराव्यपदेशमङ्गीकरोति ।
६ उत्पत्तिस्थानम् । ७ प्रादुर्भावः ।
ܕ܆
Page #47
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ।
दर्शनोपयोगस्वाभाव्यात् तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्वकरणं तादृग्भवति येनास्यानुपदेशात्सम्यग्दर्शनमुत्पद्यत इत्येतन्निसर्गसम्यग्दर्शनम् । अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनान्तरम् । तदेवें परोपदेशाद्यत्तत्त्वार्थश्रद्धानं भवति तदधिगमसम्यग्दर्शनमिति ॥३॥ ॥ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥
१ जीवा २ अजीवा ३ आस्रवा ४ बन्धः ५संवरो ६ निर्जरा ७ मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि। ताल्लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेक्ष्यामः ।
नामस्थापनाद्रव्यभावतस्तन्यासः ॥ ५ ॥
एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधिगमार्थ न्यासो निक्षेप इत्यर्थः । तद्यथा-१ नामजीवः २ स्थापनाजीवो ३ द्र. व्यजीवो ४ भावजीव इति । नाम, संज्ञा, कर्म इत्यनान्तरम् ।
१ यदा यदोपयुङ्क्ते तदा तदा सुख्यहं दुःखितोऽहमिति साकारानाकारोपयोगबलाच्चेतयते तेनास्यानुभव इत्यर्थः ।।
२ अपूर्वकरणम् अप्राप्तपूर्व तादृशमध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते । किंच भव्यजीवो येन परिणामेन रागद्वेषरूपां दुर्भद्यग्रन्थिं लङ्घयति स परिणामः शास्त्रेऽपूर्वकरणमुच्यते । अयं परिणामः कदाचिदेव लभ्यतेऽतस्तस्यापूर्वकरणमिति संज्ञा ।
३ जीवः (२-८), अजीवस्तद्विपरीतः ( अ. ५ ), आस्रवः-आत्मधर्मत्वे सति कर्मबन्धासाधारणकारणम् (६-१, ६-२), बन्धः-अभिनवकर्मग्रहणम् , आभनवपदेन संक्रमव्यवच्छेदः (८-२, ८-३), संवरः-आश्रवविपरीतः, विपाकात्तपसा वा कर्मपरिशाटो कर्मात्मसंयोगध्वंसः निर्जरा(९-३), मोक्षः-कृत्स्नकर्मक्षयलक्षणः (१०.३) आत्मनः स्वभावसमवस्थानम् ।
४ अनुयोजनमनुयोगः । अनुरूपो योग: अनुयोगः । अनुकुलो वा योगोऽनुयोगः । अनुयोगः-व्याख्यानं विधिप्रतिषेधाभ्यामर्थप्ररूपणम् ।
Page #48
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
८ चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः ॥ यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकतिवदिन्द्रो , रुद्रः, स्कन्दो, विष्णुरिति ॥ द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् । अनिष्ट चैतत् ॥ भावतो जीवा औपैशमिकक्षायिकतायोपैशमिकौदैयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते.। एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ।
१ जीवादीनां स्वरूपानुभवं प्रत्यभिमुखीभावरूपत्वं पारिणामिकस्य लक्षणम् ।
२ द्रव्यजीवविकल्पोऽयं भङ्गो न सम्भवति । मृत्पिण्डो द्रव्यघट इत्यादौ भावकारणतायामेव द्रव्यपदप्रवृत्तिनिमित्तत्वदर्शनात् । उक्तप्रकारेण प्रयोगाभावात्तत्र निषिद्धलक्षणापत्तेः ।
३ भव्यत्वं सिद्धिगमनयोग्यत्वम् । ४ प्रदेशविपाकोत द्विविधकर्मोदयनिरोधः-उपशमः । तजन्यो भाव औपशमिकः । ५ कर्मणां सर्वथा क्षये सति प्रादुर्भवन् क्षायिको भावः । ६ क्षयोपशमाभ्यां पूर्वोक्ताभ्यां जायमानः क्षायोपशमिकः । ७ कर्मोदयाजायमानः पर्याय औदायको भावः ।।
८ परिणमनं परिणामो जीवत्वाद्याकारेण यद्भवनं स पारिणामिकः । ९ ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्घनेन धारणरूपत्वम् बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वा उपयोगस्य लक्षणम् ।
१० अ. २ सू. १०
११ अजीव इति नाम यस्य क्रियते स नामाजीवः । स्थापनाजीवः काष्ठादिन्यस्तः, धर्मास्तिकायादेरपि (५-१) स्थापना स्मारकलिप्याकारेणाभिप्रायिकी भवत्येव । द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः । भावाजीवो गत्याद्युपग्रहकारी धर्मादिः (५-- १७, ५--१८, ५--१९)। २ द्रव्यास्रव आत्मसमवेताः पुद्गलाः अनुदिता रागादिपरिणामेन । भावास्रवस्तु त एवोदिताः । ३ द्रव्यबन्धो निगडादिः । भावबन्ध: प्रकृत्यादिः । ४ द्रव्यसंवरोऽपिधानम् , भावसंवरो गुप्त्यादिपरिणामापन्नो (७--६) जीवः । ५ द्रव्यनिर्जरा मोक्षाधिकारशून्या ब्रीह्यादीनां भावनिर्जरा कर्मपरिशाटः सम्यरज्ञानाद्युपदेशानुष्ठानपूर्वकः ।
Page #49
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः।
पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो द्रव्यमिति । यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तवं. स्थापनाद्रव्यम् । देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरित । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुः 'यवइ द्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । 'अणवः स्कन्धाश्च' 'सङ्घातभेदेभ्य उत्पद्यन्ते' इति वक्ष्यामः । भावतो-द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते । आगमतश्च प्रोभृतज्ञो द्रव्यमिति भव्यमाह । 'द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह। भूप्राप्तावात्मनेपदी । तदेवं पाप्यन्ते प्राप्नुवन्ति वा द्रव्याणि । एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति ॥५॥
प्रमाणनयैरधिगमः ॥६॥ एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्य
१ प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायः । पर्यायादन्यः पर्यायः पर्यायान्तरम् , तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः ।
२ अ. ५ सू. २५ ३ अ. ५ सू. २६ ४ अ. ५ सू. ३७
५ 'प्राभृतज्ञ' इति आगमे पूर्वाख्ये (२-४९) कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं, तच्च पूर्वेऽस्ति, यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतशो गुरुरेवं ब्रवीति, न चैवमहमेव वच्मि इति भावः ।
६ पा. सू. ५-३-१०४ । ७ पाणिनिधा. पा. चुरादिगणे । ८ प्रमाणनयतत्त्वालोकालङ्कारे प. १ सू. १-२ । तत्त्वार्थ. १-३५ .. ९ अ. १ सू. ३५ १. अधिगमः-ज्ञानम् । . ----
Page #50
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . १० स्तानां प्रमाणनयर्विस्तराधिगमो भवति ॥ तत्र प्रमाणं द्विविधम् । 'परोक्ष प्रत्यक्षं च ' वक्ष्यते । चतुर्विधमित्येके । नयवादान्तरेण ! नयाश्च नैगमादयो वैक्ष्यन्ते ॥६॥
किं चान्यत्निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः॥ ७॥
एभिश्च निर्देशादिभिः षड्भिरनुयोगद्वारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशो विस्तरेणाधिगमो भवति । तद्यथा १ निर्देशः । को जीवः । औपशमिकादिभावयुक्तो द्रव्यं जीवः । - सम्यग्दर्शनपरीक्षायाम् । किं सम्यग्दर्शनम्। द्रव्यम् । सम्यग्दृष्टिजीवोऽरूपी नोस्कन्धो नोग्रामः । २ स्वामित्वम् । कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याजीवस्यं जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः। उभय
१ अ. १ सू. १० भाष्यम् । २ 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति गौ. सू. १-१-३ ३ अ. १ सू ३४।
४ अरूपी-अविद्यमान रूपमस्ति इत्यरूपी सर्वधनादिषु क्षेपः नासौ रूपादिधर्मसमन्वितः किन्त्वमूर्त आत्मेति।
५ पञ्चास्तिकाय-(५.१,५-२) समुदितिः स्कन्धः । नोशब्दस्य तद्देशत्वान्नोस्कन्धः सम्यग्दृष्टिः । एवं नोग्रामोऽपि वक्तव्यः । स्कन्धः-अ. ५ सू. २५.
६ यदा एकं साध्वादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते तदा निमित्तापेक्षया जीवस्यैव। १ इह यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः। १ एवं अर्हत्प्रतिमापेक्षयाऽजीवस्य। द्वयोः साध्वादीनामन्यतमजीवयोर्निमित्रयोरेवापेक्षयाजीवयोरिति भङ्गः। ३ एवं द्वयोरर्हत्प्रतिमयोः। ४ बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः। ५ एवं बहूनामर्हत्प्रतिमानाम् । ६ सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापक्ष्यते परसंयोगस्यैवाधिकारविवक्षणात् । उत्तरसंयोगे आत्मपरसंयोगचिन्ता कार्या ।
Page #51
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः।
संयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति । शेषाः सन्ति । ३ साधनं । सम्यग्दर्शनं केन भवति । निसर्गादधिगमाद्वा भवतीत्युक्तम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति । ४ अधिकरणं त्रिविधात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं बाह्यसन्निधानमित्यर्थः । उभयसनिधानं बाह्याभ्यन्तरसन्निधानमित्यथः। कस्मिन्सम्यग्दर्शनम् । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं, जीवे ज्ञान, जीवे चारित्रमित्येतदादि। बाह्यसन्निधाने जीव सम्यग्दर्शनं नोजीवे सम्यग्दर्शनामति यथोक्ता विकल्पाः।उभयसानिधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति । ५ स्थितिः । सम्य
तत्र १ जीवस्य२ अजीवस्य इत्येतौ भङ्गो न स्तः । एकाकिनो-घुभयसंयोगानौचित्यात् । अथान्ये भङ्गास्तु सम्भवन्त्विति न वाच्यम् । यस्माजीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहण द्वयोः कयोश्चिन्निमित्तभूतयोरेव ग्रहः क्रियते तौ च परसंयोगविश्रुतावतस्त्याज्यो ३ जीवयो. रिति तृतीयो भङ्गः । एवमजीवयोनिमित्तभूतयोः । जीवानां निमित्तभूतानां, अजीवानां निमित्तभूतानामिति षडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः । ते त्विमे-१ जीवस्य जीवस्य २ जीवस्य अजीवस्य ३ जीवस्य जीवयोः ४ जीवस्य अजीवयोः ५ जीवस्य जीवानां ६ जीवस्य अजीवाना इति ।
१ अ. १ सू. ३ २ अ. १ सू. ३ भाष्यम् ।
३ एतच्च प्रायः स्वामिद्वारवत् व्याख्येयम् तत्र 'यदात्मसंयोगेन' इत्याद्युक्तं तत्स्थानेऽत्रात्मसंनिधानेनेत्यादि वाच्यम् ।
Page #52
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ग्दर्शनं कियन्तं कालम् । सम्यग्दृष्टिर्द्विविधा । सादिः सपर्यवसाना, सादिरपर्यवसाना च । सादिसपर्यवसानमेव च सम्यग्दर्शनम् । तज्जघन्येनान्तर्मुहूर्त उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । संयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चेति । ६ विधानं । हेतुत्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्यः । तद्यथा। क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायौपशमिकक्षायिकाणां परतःपरतो विशुद्धिप्रकर्षः।७
किं चान्यत्। • • १ एकापायसद्व्यवर्तिनी । अपरा तु अशुद्धदलिकरूपसद्व्यापगमे क्षीणदर्शनमोहानां श्रेणिकादीनाम् । द्विविधापीयं सादिः सपर्यवसाना । उत्पत्तिकाले आदिमत्त्वात् । आद्याया मिथ्यात्वपुञ्जोदये द्वितीयायाश्च केवलज्ञानोत्पत्तौ मतिज्ञानतृतीयांशापायापगमेनापगमात् ।
२ जघन्येन-न्यूनन्यूनतया । (४-३९)
३ मुहूतों घटिकाद्वव्यात्मकः कालः । तत्र प्रथमक्षणमारभ्यान्तिमक्षणपर्यन्तमन्तमुहूर्तमिति कथ्यते । क्षण एव जैनमते समयपदेनाभिधीयते ।
४ उत्कृष्टन-अधिकाधिकतया । ( ४-३९) ५ एतत्परिगणनमग्रे ४११५ सूत्रे भाष्ये द्रष्टव्यम् । ६ 'कायवाङ्मनः कर्म योग:' ॥ ६।१ ॥ इति योगेन सहितः
७ शैलेशी-शैलस्येव मेरोरिव अचलता स्थिरता अस्यामवस्थायां सा शैलेशी। अथवा शीलं समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः । ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशः तस्येयमवस्था शैलेशीति।
८ केवलज्ञानमस्यास्तीति केवली । केवलज्ञानलक्षणम्-सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । प्र. न. लो. परि. २ सू. २३.
९क्षयसम्यग्दर्शनम् १ उपशमसम्यग्दर्शनम् २ क्षयोपशमसम्यग्दर्शनमिति ३ । मत्याद्यावरणीय-( ८-७) दर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते । तेषामेवोपशमाजातं उपशमसम्यग्दर्शनमुच्यते । तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमिति ।
Page #53
--------------------------------------------------------------------------
Page #54
--------------------------------------------------------------------------
________________
चतुर्दशरज्ज्वात्मकलोकप्रतिकृतिः। पृ. १३, ७२.
Mool
o
ऊर्ध्वलोकः
सिद्धशिला १०-३ पञ्च अनुत्तराः ४-२० नव ग्रेवयकाः ४-२० वैमानिकाः ४-२०
तिर्यग्लोकः
८८८८ta
मनुष्यतियञ्चक्षेत्रम् ३-१४.
एयप्राय
RALI
अधोलोकः
रत्नप्रभादयः सप्त नरकाः३-१.
kal
RE
.
IPATH
X
(41)
(१४
)
त्रसनाडी
Page #55
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः । ॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥
१ सत्, २ संख्या, ३ क्षेत्रं, ४ स्पर्शनं, ५ कालः, ६ अन्तरं, ७ भावः, ८ अल्पबहुत्वमित्येतैश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेदुच्यते । १ सत् सम्यग्दर्शनं किमस्ति नास्तीति । अस्तीत्युच्यते । कास्तीति चेदुच्यते । अजीवेषु तावन्नास्ति । जीवेषु तु भाज्यम् । तद्यथा । गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूतप्ररूपणा कर्तव्या ।२ संख्या। कियत्सम्यग्दर्शनं किं संख्येयमसंख्येयमनन्तमिति । उच्यते । असंख्येयानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः।३ क्षेत्रम् । सम्यग्दर्शनं कियति क्षेत्रे । लोकस्यासंख्येय
१ गतिनामकर्मोदयात् विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् । २ अङ्गोपाङ्गकर्मनिर्माणनामकर्मोदयात्प्राप्यानि स्वगादीनीन्द्रियाणि । ३ पुद्गलघटितत्वे सत्यात्मनो निवासरूपत्वं कायस्य लक्षणम् । ४ कलुषयन्ति शुद्धस्वभावं सन्तं कर्म मलिनं कुर्वन्ति जीवमिति कषायाः।
५ यदशाद्यत्पारतन्त्र्यादभिलाषो वाञ्छा भवति-जायते । ते त्रिविधाः१ स्त्रीवेदः २ पुंवेदः ३ नपुंसकवेदः । तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुंसः स्त्रियामभिलाषः धुंवेदः, उभयोरप्यभिलाषो नपुंसकवेदः ।
६ लिश्यते श्लिष्यते कर्मणा सह आत्मा अनयेति लेश्या, अध्यवसायः । मनोयोगपरिणामजन्यत्वं लेश्याया लक्षणम् ।
७ तत्त्वार्थश्रद्धानम् ।
८ चतुर्दशरज्जुप्रमाणावगाहो लोको भवति । इह रज्जुविधा । औपचारिकः पारमार्थिकश्च । तत्र लोकानां बुद्धिस्थैर्याय दृष्टान्तप्रायः प्रथमः स च यथा-'जोयणलख्खपमाणं निमसमित्तेण जाइ जो देवो । ता छम्मासे गमणं एवं रज्जु जिणा बिति' । छाया-योजनलक्षप्रमाणं निमेषमात्रेण याति यो देवः । ततूषण्मासे गमनमेवं रज्जु शापयन्ति । इति । द्वितीयस्तु सर्वासंख्यातद्वीपसमुद्रयोजनप्रमाणः ।
___' केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणा रज्जुरवगन्तव्या अधस्तादधोभागोऽधोमुखमल्लकतुल्योऽधोमुखीकृतशरावसदृक्षाकार उपरि पुनः संपुटस्थितयो
Page #56
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४ भागे। ४स्पर्शनम् । सम्यग्दर्शनेन किं स्पृष्टम् । लोकस्यासंख्येयभागः । सम्यग्दृष्टिना तु सर्वलोक इति ॥ __अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति । उच्यते । अपायसद्व्यतया सम्यग्दर्शनमपाय आभिनिबोधिकम् । तद्यो गात्सम्यग्दर्शनम् । तत्केवलिनो नास्ति । तस्मान्न केवली सम्यग्दशनी, सम्यग्दृष्टिस्तु भवति ।
५ कालः । सम्यग्दर्शनं कियन्तं कालमित्यत्रोच्यते । तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा । एकजीवं प्रति जघन्येनान्तमुहूर्त उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । नानाजीवान् प्रति सर्वाद्धा । ६ अन्तरम् । सम्यग्दर्शनस्य को विरहकालः। एकं मल्लकयोः शरावयोराकारमनुसरति लोकः । अयमर्थः। प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चस्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैर्व्याप्तः' (प्रवचनसारोद्धारटीकायां सिद्धसेन. सूरिशेखरकृतायां द्वार १४३.) अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥ ९ ॥ प्रत्येकमेवं सप्तानां भुवामुपरि वर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥ १० ॥ रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥११॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥ १२॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेद् अवेयकस्यान्ते लोकान्ते च चतुर्दशी । धर्मोर्श्वभागादूर्वाधः सप्तसप्तति रज्जवः ॥ १४॥' उपाध्याय श्रीविनयविजयजीकृतलोकप्रकाशे १२ सर्गे ।।
१ एतल्लक्षणमग्रिमसूत्रे टिप्पन्यां द्रष्टव्यम् । २ सर्वाद्धा-सर्वकालः । अद्धा-समयादिकालभेदः।
३ सम्यग्दर्शनं प्राप्य पुनश्चोज्झत्वा पुनर्यावन्न सम्यग्दर्शनमासादयति स विरहकालः । सम्यग्दर्शनेन शून्यः काल इत्यर्थः ।
Page #57
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः। जीवं प्रति जघन्येनान्तर्मुहूर्त, उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ॥ ___७ भावः । सम्यग्दर्शनमौपशमिकादीनां भावानां कतमो भाव उच्यते । औदयिकपारिणामिकवर्ज त्रिषु भावेषु भवति । ८अल्पबहुत्वम् । अत्राह सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यत्वमाहोस्विदल्पबहुत्वमस्तीति । उच्यते । सर्वस्तोकमौपशमिकम् । ततः क्षायिकमसंख्येयगुणम् । ततोऽपि शायौपशमिकमसंख्येयगुणम् । सम्यग्दृष्टयस्त्वनन्तगुणा इति ॥ एवं सर्वभावानां नामादिभिासं कृत्वा प्रमाणादिभिरधिगमः कार्यः ॥ ८॥
उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः - ॥ मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ ९॥ __ मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञान
१ पंचसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम्। पल्योपमदशकोटिकोटिघाटतं सागरोपमम् । दशसागरोपमकोटिकोट्यात्मिकोत्सापिणि एवमवसर्पिण्यपि अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः पुद्गलपरावर्तः तस्य अर्ध अर्धपुद्गलपरावर्तः। तत्समीपमित्यर्थः ।
२ औपशमिकक्षायोपशमिकक्षायिकेषु ।
३ अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, आभनिबोध एवाभिनिबोधिक, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिन्य' इत्यनेन स्वार्थे इकण् प्रत्ययः । “ अतिवर्तन्ते स्वार्थ प्रत्ययकाः प्रकृतिलिङ्गवचनानि" इति वचनादत्र नपुंसकता । यथा विनय एव वैनयिक मत्यत्र । अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोध:- तदावरणकर्मक्षयोपश्.मः तेन निवृत्तमाभिनिपोधिकं आभिनिबोधिकं च तद् ज्ञानं च आभिनिबोधिकशानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोध विशेष इत्यर्थः । २ तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणे हेतुरुपलब्धिविशेषः, एवमाकारं यस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतीत्रकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । श्रुतं च तद् शानं च श्रुतज्ञानम् । ३ तथा अवशब्दोऽधःशब्दार्थः; अव-अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेद
Page #58
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
कतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः । यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणन्यापारोऽवधिः । अवधिश्चासौ ज्ञानं चावधिज्ञानम् । ४ तथा परिः सर्वतो भावे अवनं अवः “तुदादिभ्यो न कौ” इत्यधिकारे “अकतौ च" इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः। परि अव: पर्यव: मनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः । तत्र पर्ययणं पर्ययः । भावेऽलप्रत्ययः । मनसि मनसो वा पर्ययो मनःपर्ययः । सर्वतस्तत्परिच्छेद इत्यर्थः । स चासौ ज्ञानं च मनःपर्ययज्ञानम् । अथवा मनःपर्यायज्ञानमिति पाठः । ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायं "कर्मणोऽण्" इति अण्प्रत्ययः । मनःपर्यायं च तज्ज्ञानं च मन:पर्यायज्ञानम् । यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः । तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायज्ञानम् । ५ तथा केवलं एकमसहाय मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भाव मत्यादीनामसम्भवात् । ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति । ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तं च "आवरणदेसविगमे जाइ वि जायन्ति मइसयाईणि । आवरणसम्वविगमे कह ताइ न होति जीवस्स ? ॥ १ ॥ (छाया-आवरणदेशवि. गमे यान्यपि जायन्ते मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीघस्य ॥ १ ॥) उच्यते इह यथा जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाधापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च कचित्कदाचित्कथंचित् भवतीत्यनेकप्रकारा, तथात्मनोऽपि सकलकाल. कलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते सा च क्वचित्कदाचित्कथंचिदित्यनेकप्रकारा । उक्तं च " मलविद्धमणेळक्तियथानकप्रकारतः । कर्मविद्धात्मविशप्तिस्तथाऽनेकप्रकारतः ॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शन-(दर्शनं-दृश्यन्ते श्रद्धीयन्ते ज्ञायन्ते वा जीवादयः पदार्था अनेनास्मादस्मिन्वेति ) चारित्र-(चारित्रं-श्रामण्यम् ) प्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुलसति । तथा चोक्तम् " यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ १ ॥” ततो मत्यादिनिरपेक्षं केवलशानं अथवा शुद्धं केवलं तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् , सकलं वा केवलं प्रथमत एवाशेषतदावरणापगमत. सम्पूर्णोत्पत्तेः, असाधारणं या केवलमनन्यसदृशत्वात् । अनन्तं वा केवलं शेयानन्तत्वात् केवलं च तज्ज्ञानं च केवलज्ञानम् ॥
Page #59
--------------------------------------------------------------------------
________________
__- प्रथमोऽध्यायः। मित्येतन्मूलविधानतः। पश्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्ते ॥९॥
॥ तत्प्रेमाणे ॥ १०॥ तदेतत्पश्चविधमपि ज्ञानं वे प्रमाणे भवतः परोक्षं प्रत्यक्षं च॥१०॥
॥ आये परोक्षम् ॥ ११॥ आदौ भवमाद्यम् । आये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति । तदेवमाये मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः । कुतः । निमित्तापेक्षत्वात् । अपायसद्व्यतया मतिज्ञानम् । 'तदिन्द्रियानिन्द्रियनिमित्तम्' इति वक्ष्यते ॥ तत्पूर्वकत्वात्परोपदेशजत्वाच्च श्रुवज्ञानम् ॥ ११ ॥
॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मातश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत्प्रत्यक्षं प्रमाणं भवति । कुतः । अतीन्द्रियत्वात् । प्रमीयन्तेऽर्थास्तैरिति प्रामाणानि । अत्राह । इह अवधारितं द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति । अनुमानोपमानागमार्थापत्तिसम्भवाभावानपि च प्रमाणानीति केचिन्मन्यन्ते । तत्क
१ अ. १ सू. १५,२०,२१,२४, अ. १० सू. १. २ अस्मन्मुद्रापितप्रमाणमीमांसायाम् १-१-१.
३ धर्मित्वेनोपात्तं यन्मतिज्ञानं तदपायो निश्चयः सद्र्व्याण शुद्धदलिकानि सतया तद्भावेन सद्व्यानुगतोऽपायो धर्मित्वेनोपात्तं इत्यर्थः ।
४ अ. १ सू. १४.
५ 'चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं । तद्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः ॥ अर्थापत्त्या प्रभाकृत् वदति स निखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥' अत्र सम्भवतिह्यादिकं प्रमाणमधिकमिति पौराणिकाः ।
Page #60
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु १८ थमेतदिति । अत्रोच्यते । सर्वाण्येतानि मतिश्रुतयोरन्तभूतानीन्द्रियार्थसनिकर्षनिमित्तत्वात् । किं चान्यत् । अप्रामाणान्येव वा । कुतः। मिथ्यादर्शनपरिग्रहाद्विपरीतोपदेशाच्च । मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते । नयवादान्तरेण तु यथा मातश्रुतविकल्पजानि भवन्ति तथा परस्ताद्वक्ष्यामः ॥ १२ ॥ मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम्।१३।
- मतिज्ञानं, स्मृतिज्ञानं, संज्ञाज्ञानं, चिन्ताज्ञानं, तथा आभिनिबोधिकज्ञानमित्यनन्तरम् ॥ १३ ॥
॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४॥ तदेतन्मतिज्ञानं द्विविधं भवति । इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेवं स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोधज्ञानं च ॥१४॥
॥ अवंग्रहहापा(वा)यधारणाः ॥ १५ ॥ तदेतन्मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति । तद्यथा। १ अवग्रहः २ ईहा ३ अपायः ४ धारणा चेति ।
तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः । अवग्रहो ग्रहणमालोचनमवधारणमित्यनान्तरम् ॥ अवगृहीसे विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा ईहा । ईहा जहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनान्तरम् ॥ अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोऽपायः ।
१ अ. १ सू. ३२ २ अ. १ सू. ३५ भाष्ये । १ अ. २ सू. २० ४ अस्मन्मुद्रापितप्रमाणमीमांसायाम् १-१-२७,२८,२९,३० ।
Page #61
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः।
अपायोऽपगमः अपनोदः अपव्याधः अपेतमपगतमपविद्धमपनुत्तामत्यनान्तरम् ॥ धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च । धारणा प्रतिपत्तिरवधारणमवस्थानं निश्चयोऽवगमः अवबोध इत्य नर्थान्तरम् ॥ १५॥ ॥ बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥१६॥
__ अवग्रहादयश्चत्वारो मतिज्ञानविभागा ऐषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति सप्रतिपक्षाणामित्यर्थः । बह्ववगृह्णाति अल्पमवगृह्णाति बहुविधमवगृह्णाति एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति चिरेणावगृह्णाति । अनिश्रितमवगृह्णाति निश्रितमवगृह्णाति । अनुक्तमवगृह्णाति उक्तमवगृह्णाति । ध्रुवमवगृणाति अध्रुवमवगृह्णाति । इत्येवमीहादीनामाप विद्यात् ॥ १६ ॥
१अवग्रहादयः प्रागत्र निरूपितस्वरूपाः (१.१५) मूलभेदतश्चत्वार इति क्षयोपशमवैचित्र्यात्तु नानाभेदास्त एव भवन्तीति मत्वा चत्वार इत्याह । मतिज्ञानस्य च प्रकृतत्वात् तद्भेदा एत इति मतिज्ञानविभागा इत्याह (अवग्रहादयः ए ) तेऽवग्रहादयः, एषां सूत्रोपन्यस्तानां बहवादीनां षण्णाम् अथानाम अर्यमाणानामित्यर्थः बहूवादीनां षण्णामर्थानां सेतराणाञ्च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह सेतराणां भवन्तीति । एकश इति च एकैकस्य बह्वादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः, सेतर इत्यस्य चार्थो नैवं ग्राह्यः बहोरर्थस्य क्षिप्रार्थ इतर इति, शक्यं वक्तुमेवं बह्वादीनामनिश्रितादिरितर इति एतन्निरासायाह-सेतराणां, सप्रतिपक्षाणामित्यर्थः । एतत्कथयति इतरशब्दस्य विरोधी योऽर्थः स वाच्यो भवति बवर्थस्य च स्तोकार्थो विरोधी प्रतिपक्ष इत्येवं शेषाणां प्रतिपक्षता शेया एवं सम्बन्धं लगयित्वाऽर्थ कथयति
बह्वगृह्णाति अल्पमवगृह्णाति बहुविधमवगृह्णाति एकविधमवगृह्णाति
बह्वगृहणाति इत्यादिना, ननु चावग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे, (१-१५) बवादयश्चेव षष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं बहोरर्थस्यावग्रहः अल्प
Page #62
--------------------------------------------------------------------------
________________
समाध्यतस्वार्थाधिगमसूत्रेषु
२०
स्यार्थस्यावग्रह इति, उच्यते, नायं दोषः, यतोऽवग्रहादयः कर्तृसाधनाः तत्र ध्रुताः अवगृह्णातीत्यवग्रहः ईहत इति ईहा अपैतीत्यपायः धारयतीति धारणा, यश्चासौ शानांशोऽवरहातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यम् तच्चेह बहूवादिभेदं सूत्रेण विषयात्मकं भण्यते अतो नास्त्यर्थभेदो बहोरवग्रहः बहुमवगृह्णातीति अनयोः एक एवार्थः, केवलन्तु शब्दभेद उच्यते । स्पर्शनावग्रहस्तावदेवं बहुमवगृह्णाति शय्यायामुपविशन् पुमान् तत्स्थयोषित्पुष्पवस्त्रचन्दनादिस्पर्श बहुं सन्तमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्शोऽयं च तल्लमपुष्पस्पर्शोऽयं च तद्गात्रानुलगचन्दनस्पर्शोऽयं चैतत्परिहितवस्त्रस्पर्शः अयमेतदाबद्धरसनास्पर्श इति अतो बहुलस्पर्शे भिन्नजातीयमवगृहातीति । ननु चावग्रह एक सामयिकः शास्त्रे निरूपितो न चैकास्मिन् समये चैवैकावग्रह एवंविधो युक्तोऽल्पकालत्वादिति, उच्यते सत्यमेवमेतत्, किन्तु अवग्रहो द्विधा नैश्चयिको व्यावहारिकश्च तत्र नैश्चयिको नाम सामान्यपरिच्छेदः स चैक सामयिकः शास्त्रेऽभिहितः ततो नैश्चयिकादनन्तरमीहैवमात्मिका प्रवर्तते किमेष स्पर्श उतास्पर्श इति तस्याश्चानन्तरोऽपायः स्पर्शोऽयमिति अयं चापायः अवग्रह इत्युपचर्यते आगामिनो भेदानङ्गीकृत्य यस्मा देतेन सामान्यमवच्छिद्यते । यतः पुनरेतस्मादीहा प्रवर्तिष्यते कस्यायं स्पर्शः पुनश्चापायो भविष्यत्यस्यायमिति अयमपि चापायः पुनरवग्रह इत्युपचर्यते, अतोऽनन्तरवर्तिनीमीहामपायं चाश्रित्य एवं यावदस्यान्ते निश्चयः उपजातो भवति यत्रापरं विशेषं नाकाक्षतीत्यर्थः अपाय एव भवति न तत्रोपचार इति । अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवगृह्णातीत्येतदुच्यते नत्वेकसमयवर्तिनं नैश्चयिकमिति, एवं बहुविधादिषु सर्वत्रौपचारिकाश्रयणाद्वयाख्येयामिति । सम्प्रति बहिवत्यस्य प्रतिपक्षं कथयतिअल्पमवगृहणातीत्यनेन, यदा तेषामेव योषिदादिस्पर्शानां यं किञ्चिदेकं स्पर्शमवगृह्णात्यन्यान् सतोऽपि क्षयोपशमापकर्षान्न गृह्णाति तदाल्पमेकमवगृह्णातीत्युच्यते । बहुविधमवगृह्णातीति, बढ्यो विधा यस्य स बहुविधस्तमवगृह्णाति, बहुविधो नाम स एव योषिदादिस्पर्श एकैकः शीतस्निग्धमृदुकठिनादिरूपो यदाऽवगृह्यते तदा बहुविधं गुणैर्भिन्नं स्पर्श परिच्छिन्दत् तज्ज्ञानं बहुविधमवगृह्णातीत्युच्यते, यदा तु योषिदादिस्पर्शमेवैकगुणसमन्वितं शीतोऽयामिति वा स्निग्धोऽयमिति वा मृदुरयमिति वेत्येवमवच्छिनत्ति तदा एकविधमवगृह्णातीत्युच्यते ।।
क्षिपमवगृह्णाति । चिरेणावगृह्णाति । निश्रितमवगृह्णाति । अनिश्रितमवगृह्णाति । असन्दिग्धमगृह्णाति सन्दिग्धमवगृहणाति
Page #63
--------------------------------------------------------------------------
________________
. प्रथमोऽध्यायः। - -
ध्रुवमवगृह्णाति । अध्रुवमवगृह्णाति इत्येवमीहादीनामपि विद्यात् ॥ १६॥
तमेव भूयो योषिदादिस्पर्शमाशु स्वेनात्मना यदाऽवच्छिनत्ति तदा क्षिप्रमवगृह्णातीति भण्यते, यदा तु तमेव योषिदादिस्पर्श स्वेनात्मनाऽवच्छिनत्ति बहुना कालेन तदा चिरेणावगृह्णातीत्युच्यते । चिरणेति बहुना कालेन अनिश्रितमवगृहणातीति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तशीतमृदुस्निधादिरूपः प्राक् स्पर्शोनुभूतस्तेनानुमानेन लिङ्गेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं प्रवर्तते तदा अनिश्रितं अलिङ्गमवगृह्णातीत्युच्यते, यदा त्येतस्मादाख्याताल्लिङ्गात्परिच्छि नत्ति निश्रितं, तदा सलिङ्गमवगृह्णातीति भण्यते । उक्तमवगृहूणातीत्ययन्तु विकल्पः श्रोत्रावग्रहविषय एव न सर्वव्यापीति, यत उक्तमुच्यते शब्दः स चाप्यक्षरात्मकः तमवगृह्णातीति । अनुक्तस्तूक्तादन्यो “ नअिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ" (परिभाषेन्दुशेखरे प. ७४ ) इति अनया कल्पनया शब्द एव.नक्षरात्मकोsभिधीयते तमवगृह्णाति अनुक्तमवगृह्णातीति भण्यते । अव्याप्तिदोषभीत्या चारैरिमं विकल्पं प्रोज्झ्य अयं विकल्प उपन्यस्तो निश्चितमवगृह्णातीति निश्चितं सकलसंशयादिदोषरहितामति यथा तमेव योषिदादिस्पर्शमवगृह्णत् ज्ञानं योषित एव पुष्पाणामेव चन्दनस्यैवेत्येवं यदा प्रवर्तते तदा निश्चितमवगृह्णातीत्युपदिश्यते । अनिश्चितमवगृह्णातीति च कदा व्यपदिश्यते यदा तमेव स्पर्श संशयापन्नः परिच्छिनत्ति स्पर्शोऽयं भवत्येवन्तु न निश्चिनोति योषित एवायं विलोमधर्मादेरपीदृशो भवति योषिदादिना तदा तदा तमर्थमवच्छिनत्तीत्यर्थः । एतदुक्तं भवति सति चोपयोगे यदासौ विषयः स्पर्शाख्यः स्पृष्टो भवति तदा तमवगृह्णाति, एवम् अध्रवमवगृहणातीति सतीन्द्रिये सति चोपयोगे सति च विषयसम्बन्धे कदाचित्तं विषयं तथा परिच्छिनत्ति कदाचिन्नत्येतदध्रुवमवगृह्णातीत्युपदिश्यते । एवमित्यनेनैतत् कथयति-यथा विषयस्य बवादेभंदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षादेवम् ईहादीनामाप ईहापायधारणानामपि जानीयाद् बहवीहते अल्पमीहवे बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीहते निश्रितमीहते उक्तमीहते अनुक्तमीहते । द्वितीयविकल्पे निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते। एवमपायेऽपि वपतीत्यादयो द्वादशविकल्पाः धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधम् ॥ १६ ॥
Page #64
--------------------------------------------------------------------------
________________
सभाष्यतरवार्थाधिगमसूत्रेषु
॥ अर्थस्य ॥ १७ ॥
अवग्रहादयो मतिज्ञानविकल्पा अर्थस्य भवन्ति ॥ १७ ॥
२२
॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥
व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव ॥ १८ ॥
॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥
चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति । चतुर्भिरिन्द्रियैः शेषैर्भवतीत्यर्थः । एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं अष्टाविंशतिविधं अष्टषष्टयुत्तरशतविधं षट्त्रिंशत्रिशतविधं च भैवति ॥ १९ ॥
१ अर्थः स्पर्शरसगन्धवर्णशब्दात्मकस्तस्य स्पर्शादेरर्थस्यावग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः- मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पा अंशा इत्यर्थः ।
२ व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटः, तद् व्यञ्जनम् । तथा - व्यञ्जनमुपकरणेन्द्रियस्पर्शाद्याकारपरिणतद्रव्यसंबन्धस्तस्यावग्रह एवैको भवति ।
३ नोइन्द्रियम् - मनः ।
४ चक्षुषा नोइन्द्रियेण च मन ओघज्ञानरूपेण च सहते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः संश्लेषं न यान्ति अतो व्यंजनं चक्षुरुपकरणेन्द्रियनोइन्द्रिययोर्न भवति ।
५ द्विविधं इन्द्रियानिन्द्रियनिमित्तभेदात् । चतुर्विधमवग्रहेहावायधारणाभेदतः। अष्टाविंशतिविधं स्पर्शनादीनां मनोऽन्तानां ( स्पर्शनर सेन चक्षुः श्रोत्राणि मनश्च ) पण प्रत्येकमवग्रहादिभिश्चतुर्भिश्चतुर्विंशती भेदेषु नयनमनोवर्जानां चतुर्णो व्यंजनावग्रहरूनभेदचतुत्र्यक्षेत्रात् । अष्टषष्टयुत्तरशतविधं - तस्या एवाष्टाविंशतेरेकैकभेदस्य बह्वादिभेदेन षोढाभवनात् । षटूत्रिंशत्रिशतविधं तस्या एवाष्टाविंशतेर्बह्वादिभिः सेतरैर्द्वादशधाभवनात् ।
Page #65
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ।
॥ श्रुतं मतिपूर्व यनेकद्वादशभेदम् ॥२०॥
श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनमागमः उपदेश ऐतिह्यमाम्नायः प्रवचनं जिनवचनमित्यनन्तरम् । तद्विविधमङ्गबाह्यमङ्गप्रविष्टं च। तत्पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् । अङ्गबाह्यमनेकविधम् । तद्यथा । सामायिक चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं
१ तीर्थकरोपदिष्टत्वे सति बुद्धपतिशयवद्गणधरैरवधारितरूपत्वं श्रुतस्य लक्षणम् ।
२ प्रकर्षणनामादिभिनयप्रमाणनिर्देशादिभिश्च जीवादयोऽर्था उच्यन्तेऽनेन तत्प्रवचनम् ।
३ अंगानि आचारादीनि (एषां वर्णनमस्मन्मुद्रापयिष्यमाणस्याद्वादमंजर्या पृ. १७६ टि. ३ द्रष्टव्यम् । तेभ्यो बाह्या अंगबाह्याः भिन्ना अनङ्गप्रविष्टाः-(१) चन्द्रप्रज्ञप्तिः (२) सूर्यप्रज्ञप्तिः (३) जम्बूद्वीपप्रशतिः (४) द्वीपसागरप्रशतिः । (स्था. ४ ठा. सू. २७७ ) इत्यादयः अनेकविधाः ।
४ इह पुरुषस्य द्वादश अंगानि तद्यथा- द्वौ पादौ द्वे जङ्घ द्वे ऊरूणी द्वे गात्रार्धे द्वौ बाहू ग्रीवा शिरश्च । एवं श्रुतरूपस्यापि परमपुरुषस्याचारादीनि द्वादशांगानि ( १ आचारांगं २ सूत्र.तांगं ३ स्थानांगं ४ समवायांगं ५ भगवती (विवाहप्रशप्तिः) ६ ज्ञाताधर्मकथाङ्गं ७ उपासकदशाङ्ग ८ अंतकृद्दशांगं ९ अनुत्तरोपपातिकदशांग १० प्रश्नव्याकरणं ११ विपाकः १२ दृष्टिवादः) क्रमेण वेदितव्यानि । श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम् । अङ्गभावेन व्यवस्थिताः श्रुतभेदाः गणधरा गौतमस्वाम्यादयः मूलभूतमाचारादिकं श्रुतमुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तद्रचयितुमीशत्वान्न शेषाणां ततस्तत्कृतं सूत्रं मूलभूतमित्यंगप्रविष्टमुच्यते । यत्पुनः शेषैः श्रुतस्थविरैः भद्रबाहुस्वाम्यादिभिः तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टम् स्थविरास्तु भद्रबाहुस्वाम्यादयस्तद्दष्टं श्रुतमावश्यकनियुक्तयादिकमनङ्गप्रविष्टमङ्गबाह्यमुच्यते ।
५ समभावो यत्राध्ययने वर्ण्यते ।
६ चतुर्विंशतीनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां स चतुर्विशतिस्तवः।
७ वन्दनं-गुणवतः प्रणामो यत्र वर्ण्यते तद्वन्दनम् । ८ असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वर्ण्यते । १.९ सू.२२
Page #66
--------------------------------------------------------------------------
________________
समाप्यतस्त्रार्थाधिगमसूत्रेषु
२४
कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः देशाः कल्पव्यवहारौ निशीथमृषिभाषितान्येवमादि ॥ अङ्गमविष्टं द्वादशविधम् । तद्यथा । आचारः सुत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशाः अन्तकृतद्दशाः अनुत्तरौपपातिकदशाः प्रश्नव्याकरण विपाकसूत्रं दृष्टिपात इति ।
अत्राह । मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रो - च्यते । उत्पन्नविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । श्रुतज्ञानं तु त्रिकाले विषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् ॥
१ कृतस्य पापस्य यत्र स्थानमा ध्यानरूपकायत्यागेन विशुद्धिराख्यायते सकायन्युत्सर्गः ।
२ स्वेच्छाप्रवृत्तिप्रतिकूलतया मर्यादया विवक्षितकालादिमानया आख्यानं प्रकथनं प्रत्याख्यानम् निवृत्तिद्वारेण प्रतिज्ञाकरणं । एतैः सामायिकादिभिरध्ययनैरावश्यकश्रुतस्कन्ध उक्तः ।
३ विकालेनापराह्णलक्षणेन निर्वृत्तं वैकालिकं दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपाद्दशवैकालिकम् । शय्यंभत्रसूरिकृतः स्वनामख्यातः श्रुतग्रन्थः ।
४ आचारात्परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेनोत्तराध्ययनानि । ५ पूर्वेभ्य आनीय संघसंततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते, दशा इति व्यवस्थावचनः शब्दः काचित्प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति । ६ आभवत्प्रायश्चित्तदानप्रायश्चित्तयोः कल्पनाद्भेदनाद्वयवहरणाद्दानाच्चः कल्पव्यवहारौ ।
७ उभयविधप्रायश्चित्तज्ञापकताया उभयत्र पर्याप्तत्वाद् द्वित्वविश्रान्तपदाभिधानं निशीथमप्रकाशं सूत्रार्थभ्याम् ।
८ ऋषिभाषितानि - प्रत्येकबुद्धादिप्रणीतानि ( प्रत्येकबुद्धा: - प्रतीत्येकं किश्चिदृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धा: बुद्धवन्तः परमार्थमिति ) कापिलीया
दीनि ।
९. वर्तमानभूतभविष्यत्कालविषयम् ।
Page #67
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः। अत्राह । गृणीमो मतिश्रुतयो नात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति किंकृतः प्रतिविशेष इति । अत्रोच्यते । वक्तृविशेषाद् द्वैविध्यम् । यद्भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरहद्भिस्तत्स्वाभाव्यात्परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसंपन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाअतिशक्तिभिराचार्यैः कालेसंहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत्प्रोक्तं तदङ्गबाह्यमिति सर्वज्ञप्रणीतत्वादानन्त्याच ज्ञेयस्य श्रुतज्ञानं मातिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्तानर्थानधिकृत्य प्रकरणसमाप्त्यपेक्षमङ्गोपाहुनानात्वम् । किं चान्यत् । सुखग्रहणधारणविज्ञानापोहप्रयोगार्थ
१ किंकृतः-केन कृतः । २ अ. ६ सू. १२.
३ आप्तागमानन्तरागमपरम्परागमभेदात्त्रिविधो ह्यागमः। आप्तागमो मूलपुरुषप्ररूपित उच्यते अनन्तरागमस्तु द्वितीयपुरुषगृहीत उच्यते अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परापरिपाटीत्यर्थः । सा च तृतीयपुरुषादिषु शेया यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्युः अर्हतां त्वेते परम्परागोचरास्तृतीयपुरुषा इत्यर्थः।
४ दृब्धं कथितम् । ५ कालदोषात्-कालस्य दुःषमाभिधानस्य स्वभावात्पुरुषा अल्पशक्तयो भवन्ति ।
६ यनिमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् ।
७ आयुर्जीवितं तदल्पम् । यः सर्वचिरं जीवेत्स वर्षशतमिति । ८ महाविषयं-अनेकार्थपरिच्छेदि ।
९ तीर्थकरादिनामकर्मोदयवर्तितीर्थकरादिना प्रोक्तरूपत्वं, अङ्गाख्यनुतस्य लक्षणम् । तादृशाङ्गार्थानुवादित्वमुपाङ्गस्य लक्षणम् उपाङ्गानि द्वादश । राजप्रश्नीयादीनि ।
Page #68
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
२६
च । अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रमतरणवद्दुरध्यवसेयं स्यात् । एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतमाभृतानि अध्ययनान्युद्देशाश्च
व्याख्याताः ।
अत्राह । मतिश्रुतयोस्तुल्यविषयत्वं वक्ष्यति । द्रव्येष्वंसर्वपर्यायेष्विति । तस्मादेकत्वमेवास्त्विति । अत्रोच्यते । उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं श्रुतज्ञानं तु त्रिकालविषयं विशुद्धतरं चेति । किं चान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनोज्ञस्वाभान्यात्पारिणामिकम् । श्रुतज्ञानं तु तत्पूर्वकंमाप्तोपदेशाद्भवतीति | २० | द्विविधोऽवधिः ॥ २१ ॥
भवप्रत्ययः क्षयोपशमनिमित्तश्च ॥ २१ ॥
१ निश्चेतुमशक्यमित्यर्थः ।
प्राभृतानि
२ पूर्वाणि-उत्पादपूर्वादीनि ( २-४९ ), वस्तूनि - तदंशाः, वस्त्वंशाः, प्राभृतप्राभृतानि - प्राभृतांशाः, अध्ययनानि - ततोऽल्पतराणि, उद्देशका:ततोऽल्पतराः । अ. २ सू. ४९.
३ अ. १ सू. २७
४ अ. १ सू- २७
५ जानातीति ज्ञः । ज्ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यमात्मरूपता । तस्मात् ।
६ सर्वकालवर्ति न कदाचित्संसारे पर्यटत् एतद् भ्रष्टं यतो निगोदजीवानामपि अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः । अतः पारिणामिकम् । एकशरीरस्था अनन्ता जीवा निगोदजीवाः ।
७ मतिज्ञाने सति भवति नासतीत्यर्थः ।
८ भवः प्रत्ययो निमित्तकारणं यस्य स तथा । भवनिमित्तकं भवहेतुकं जन्मनः - प्रभृति जायमानमित्यर्थः । अ. १ सू. २२.
९ अयमेव गुणनिमित्त इत्यभिधीयते ।
Page #69
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ।
॥ भवप्रत्ययो नारकदेवानाम् ॥ २२ ॥
नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति । भवप्रत्ययं भवहेतुकं भवनिमित्तमित्यर्थः । तेषां हि भवोत्पत्तिरेव तस्य हेतुर्भवति पक्षिणामाकाशगमनवत् न शिक्षा न तप इति ॥ २२ ॥ ॥ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ २३ ॥ यथोक्तनिमित्तः क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति शेषाणाम् । शेषाणामिति नारकदेवेभ्यः शेषाणाम् । तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद्यथा १ अनानुगामिकं २ आनुगामिकं ३ हीयमानकं ४ वर्धमानकं ५ अनवस्थितं ६ अवस्थितमिति ।
२७
तत्रानानुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्नं ततः प्रच्युतस्य प्रतिपतति प्रश्नादेशपुरुषज्ञानवत् ॥ आनुगामिकं यत्र कचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न प्रतिपतति भास्करप्रकाशवत् घटैरक्तभाववच्च ॥ हीयमानकं असंख्येयेषु द्वीपेषु समुद्रेषु पृथिवीषु विमानेषु तिर्यगूर्ध्व
१ स्थानयोग्यतानतिक्रमेण ।
२ अस्मन्मुद्रापितप्रमाणमीमांसायां १८ पृष्ठे टिप्पन्यां द्रष्टव्यम् । त. सू. ८-७। ३ प्रश्नः पृच्छनं जीवधातुमूलानां तं प्रश्नमादिशतीति प्रश्नादेशः प्रश्नादेशश्वासौ पुरुषश्चेति प्रश्नादेशपुरुषस्तस्य ज्ञानं तेन तुल्यमेतद् दृश्यं पुरुषप्रश्नादेशज्ञानवदित्येवं गमकम्। अथवा प्रश्नादेशः प्रधानपुरुषस्तन्निष्ठस्तत्परायणस्तस्य ज्ञानं तद्वदिति । का पुनर्भावना । यथा नैमित्तिकः कश्चिदादिशत्कस्मिंश्चिदेव स्थाने शक्नोति संवादयितुं न सर्वत्र पृच्छ्यमानमर्थमेवं तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते । नान्यत्रेति ।
४ घटस्यापाकादुद्धृतस्य तडागादिनीतस्य रक्तता यथा न भ्रश्यति तद्वदानुगामिकमवधिज्ञानं न प्रतिपतति ।
Page #70
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
मधो यदुत्पन्नं क्रमशः संक्षिप्यमाणं प्रतिपतति आ अङ्गुलासंख्येयभागात प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसंतत्यग्निशिखावत् ।। वर्धमानकं यदङ्गुलस्यासंख्येयभागादिषूत्पन्नं वर्धते आ सर्वलोकात् अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयैमानेन्धनराश्यग्निवत् ।। अनवस्थितं हीयते वर्धते च वर्धते हीयते च प्रतिपतति चोत्पद्यते चेति पुनः पुनरूर्मिवत् || अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्या केवलमाप्तेः आ वक्षयाद्वा जायैन्तरस्थायि वा भवति लिङ्गेव ॥ २३ ॥
उक्तमवधिज्ञानम् । मनःपर्यायज्ञानं वक्ष्यामः - ॥ ऋजुविपुलमंती मनः पर्यायः ॥ २४ ॥ मनः पर्यायज्ञानं द्विविधम् । ऋजुमतिमनः पर्यायज्ञानं विपुलमतिमनः पर्यायज्ञानं च ॥ २४ ॥
अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यते॥ विशुद्ध प्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिकृतश्चाप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा ।
२८
१ यथापनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपि ।
२ अधरोत्तरौ - अध उपरिवर्तिनौ यावरणी शम्यादिकाष्ठनिर्मितौ ताभ्यां यन्निर्मथनं परस्परं संघर्षणं तेन निष्पन्नं उद्भूतस्तथोपात्तं प्रक्षिप्तं शुष्कं यत्तृणादि तेनोपचीयमानो वृद्धिं गच्छन्नथ च आधीयमानः पुनः पुनः क्षिप्यमाण इन्धनानां पलालादीनां राशिर्यत्राग्नौ तद्वत् । यथाग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद्विवृद्धिमुपागच्छत्येवं परमशुभाद्यध्यवसायलाभादसौ पूर्वोत्पन्नो वर्धत इत्यर्थः ।
३ मरणं यावत् ।
४ जात्यन्तरमपि गच्छन्तं जीवं न मुञ्चति तदवधिज्ञानम् । तेनान्वित एव गच्छति ।
५ लिङ्गवत् - पुरुषवेदादिलिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् । यथा इह जन्मन्युपादाय पुरुषवेदं जन्तुर्जात्यन्तरमाधावति । एवमवधिमपि ।
६ अ. १० सू. ७.
Page #71
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः।
ऋजुमातमनःपर्यायाद्विपुलमतिमनःपर्यायज्ञानं विशुद्धतरम् । किं चान्यत् । ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयो विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततीति ॥ २५ ॥
अत्राह । अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति अत्रोच्यते॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः॥ २६॥
विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः । तद्यथा । अवधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते । किं चान्यत् । क्षेत्रकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य असंयतस्य वा सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति नान्यस्य ॥ किं चान्यत् विषयकृतश्चानयोः प्रतिविशेषः । रूपिव्येष्वसर्वपर्यायेष्ववधेर्विषयनिबन्धो भवति । तदनन्तभागे मनःपयार्यस्योत ॥ २६॥
१ प्रतिपतति-प्रच्यवते । २ पापजनकव्यापारात्सर्वथा विरतस्य मुनेः । ३ पूर्वोक्तविपरीतस्य। ४ रूपिद्रव्येषु-परमाण्वादिषु । ५ एकज्ञानविषयतया सर्वपर्यायरहितेषु ।
६ विषयनिबन्धः-गोचरनिबन्धः । तद्धि एकैकस्य परमाणोः कदाचित् असंख्येयान् पर्यायान् जानाति कदाचित् संख्येयान् जघन्येन चतुरो रूपरसगन्धस्पर्शान् । न तु कदाप्यनन्तान् । केवलज्ञानस्यैवानन्तपर्यायग्राहकत्वात् । मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयस्तेषामवधिज्ञानज्ञातानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन्नेवास्य विषयनिबन्धः । तस्मादतीन्द्रियत्वादितौल्येऽप्यवधिमनःपर्याययोर्भेद इति सिद्धम् ।
Page #72
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
३०
अत्राह । उक्तं मनःपर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रोच्यते । केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति ।
अत्राह । एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति अत्रोच्यते
॥ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्व पर्यायेषु ॥ २७ ॥
मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु। ताभ्यां हि सर्वाणि द्रव्याणि जानीते न तु सर्वैः पर्यायैः ॥२७॥ ॥ रूपिष्ववधेः ॥ २८ ॥
रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धो भवति असर्वपर्यायेषु । सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते तान्यपि न सर्वैः पर्यायैरिति ॥ २८ ॥
॥ तदनन्तभागे मनः पर्यायस्य ॥ २९ ॥
यानि रूपाणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मन:पर्यायस्य विषयनिर्बंन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मन:पर्ययज्ञानी जानीते रूपिद्रव्याणि मनोरहस्य विचारगतानि च मानुषक्षेत्र पर्यापत्नानि विशुद्धतराणि चेति ॥ २९ ॥
१ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्यां द्रष्टव्यम् ।
२ सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि तेषु धर्माधर्माकाशपुद्गलजीवास्तिकायाख्येषु । असर्वपर्यांयेषु सर्वे निरविशेषा उत्पादव्ययश्रौव्यात्मकाः पर्याया येषां तानि सर्व पर्यायाणि न सर्वपर्यायाणि असर्वपर्यायाणि तेषु ।
३ शुक्लादिगुणोपेतानि रूपाणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायज्ञानी जानीते ।
Page #73
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः । ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३० ॥ ___ सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयनिबन्धो भवति। तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् । नातः परं ज्ञानमास्ति । न च केवलज्ञानविषयात्परं किंचिदन्यज्ञेयमस्ति । केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः ॥ ३० ॥
___ अत्राह । एषां मतिज्ञानादीनां युगपदेकस्मिञ्जीवे कति भवतीति । अत्रोच्यते-- ॥ एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्म्यः ॥३१॥
एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदेकस्मिञ्जीवे आ चतुर्व्यः । कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति । कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित्रीणि भवन्ति । कस्मिंश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा न वेति ।
अत्राह । अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति । नेत्युच्यते । केचिदाचार्या व्याचक्षते । नाभावः किं तु
१ सम्भिन्नौ संपूर्णी यौ लोकालोकौ तद्विषयम् । लोको धर्माधर्मद्रव्यद्वयावच्छिनमाकाशं यत्र त्वाकाशे तौ धर्माधर्मो न स्तः सोऽलोकः ।
२ क्वचित्प्रथमं क्वचिद् द्वे इत्यादिप्रकारेण विकल्पनीयानि ।
३ केचिदाचार्या व्याचक्षते-नाभाव एवास्ति पूर्वप्राप्तानां मतिज्ञानादीनां नाशकाभावात् । ऐकाधिकरण्यावच्छिन्नस्वपूर्ववर्तितासम्बन्धेन केवलस्यैव स्वसमानाधिकरणगुणनाशकत्वे ज्ञानचतुष्टयवत् शर्मवीर्यदर्शनसुखितत्वादपि नाशप्रसङ्गात् न च तन्नाशः परस्यापि सम्भवात् तस्मात्सहावस्थानमस्त्येव मत्यादीनां केवलेन ततः किमिति तानि स्वमर्थं न प्रकाशयन्ति उच्यते अभिभवात् तदाह किं त्वभिभूतत्वात् हतप्रभावत्वात् । अकिञ्चित्कराण स्वकार्याकारीणि भवन्तीन्द्रियवच्चक्षुरादिवत् । यथाहि केवलिनः सदपि चक्षुरादीन्द्रियं विषयग्रहणं प्रति न व्याप्रियते । केवलाप्रकाशेन चरितार्थत्वात् । एवं मत्यादिचतुष्टयमपीति भावः ।
Page #74
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ३२ तदभिभूतत्वादकिंचित्कराणि भवन्तीन्द्रियवत् । यथा वा व्यभ्रे नभसि आदित्य उदिते भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रत्याकिंचित्कराणि भवन्ति तद्वदिति । केचिदप्याहुः। अपायसद्रव्यतया मतिज्ञानं तत्पूर्वकं श्रुतज्ञानमवधिज्ञानमनःपर्यायज्ञाने च रूपिद्रव्यविषये तस्मान्नैतानि केवलिनः सन्तीति ॥ किं चान्यत् । मतिज्ञानादिषु चतुर्यु पर्यायेणोपयोगो भवति न युगपत् । संभिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत्सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमुपयोगो भवति ॥ किं चान्यत् । क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि क्षयादेव केवलं । तस्मान्न केवालनः शेषाणि ज्ञानानि सन्तीति ॥ ३१॥
॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३२ ॥ मतिज्ञानं श्रुतज्ञानमवधिज्ञानमिति । विपर्ययश्च भवत्यज्ञानं चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति ।
अत्राह । तदेव ज्ञानं तदेवाज्ञानमिति । ननु च्छायातपवच्छीतोष्णवच्च तदत्यन्तविरुद्धमिति । अत्रोच्यते । मिथ्यादर्शनपरिग्रहाद्विपरीतग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति । तद्यथा । मत्यज्ञानं
१ व्यभ्रे-मेघरहिते।
२ अनुगतोऽव्यवहितः समयोऽत्यन्ताविभागकालो यत्र कालसन्ताने सः कालसन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति । वारंवारेणोपयोगो भवतीति यावत् । एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन्केवलदर्शनोपयागे इति । एवं सर्वकालमवसेयम् ।
३ मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानम् ।
Page #75
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः । श्रुताज्ञानं विभङ्गज्ञानमिति । अवधिर्विपरीतो विभङ्ग इत्युच्यते॥३२॥ ___ अत्राह । उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादिज्ञानं भवत्यन्यथाऽज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्चाभव्याचेन्द्रियनिमित्तानविपरीतान्स्पर्शादीनुपलभन्ते उपदिशन्ति च स्पर्श स्पर्श इति रसं रस इति । एवं शेषान् । तत्कथमेतदिति । अत्रोच्यते । तेषां हि विपरीतमेतद्भवात
॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३३ ॥ ___यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमातर्विपरीतग्राही भवति सोऽश्वं गौरित्यध्यवस्यात गां चाश्व इति लोष्टं सुवर्णमिति सुवर्ण लोष्ट इति लोष्टं च लोष्ट इति सुवर्ण सुवर्णमिति तस्यैवमविशेषेण लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरीतमध्यवस्यतो नियतमज्ञानमेव भवति । तद्वन्मिथ्यादर्शनोपहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं भवन्ति ॥ ३३॥ ॥ नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥
१ नैगमः २ सङ्ग्रहो ३ व्यवहार ४ ऋजुसूत्रः ५ शब्द इत्येते पञ्च नया भवन्ति ॥ ३४ ॥
तत्र१ मिथ्यादृष्टिपरिगृहीतं श्रुतं श्रुताज्ञानम् । २ मिथ्यादृष्टिपरिगृहीतोऽवधिविभङ्गज्ञानम् । ३ भवति परमपदयोग्यतामापादयति इति भव्यः सिद्धिगमनयोग्यः । ४ तथाविधानादिपारिणामिकभावात् ( कदाचनापि ) सिद्धिगमनायोग्यः । ५ गन्धरूपशब्दानवैपरीत्येन ।
६ कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति कदाचिद्वा सुवर्णमित्येव तस्योन्मत्तस्यैवमुक्तेनाविशेषेण अयथावदवबोधे लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः नियतं निश्चितमज्ञानमेव कुत्सितमेव तज्ज्ञानं भवतीति ।
७ अ. १ सू. ३५ भाष्यम् ।
Page #76
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु - ३४ ॥ आद्यशब्दौ द्वित्रिभेदौ ॥ ३५॥ आद्य इति सूत्रक्रमप्रामामाण्यान्नैगममाह । स विभेदो देशपरिक्षेपी सर्वपरिक्षेपी चेति । शब्दस्त्रिभेदः साम्पतः समाभिरूढ एवम्भूत इति ॥
अत्राह । किमेषां लक्षणमिति । अत्रोच्यते । निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः । अर्थानां सवैकदेशसङ्ग्रहणं सङ्ग्रहः । लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः । सतां साम्पतानामर्थानामभिधानपरिज्ञानमूजुसूत्रः । यथार्थाभिधानं शब्दः । नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः । सत्स्वर्थेष्वसङ्क्रमः समाभिरूढः। व्यञ्जनार्थयोरेवम्भूत इति ॥
__ अत्राह । उद्दिष्टा भवता नैगमादयो नयाः। तन्नया इति कः पदार्थ इति । नयाः प्रापकाः कारकाः साधका निवर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनान्तरम् । जीवादीन्पदार्थानयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निवर्तयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः ॥ ___अत्राह । किमेते तन्त्रान्तरीया वादिन आहोस्वित्स्वतन्त्रा एव चोदकपक्षग्राहिणो मातिभेदेन विप्रधाविता इति । अत्रोच्यते । नैते तन्त्रान्तरीया नापि स्वतन्त्रा मतिभेदेन विप्रधाविताः । ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि । तद्यथा । घट इत्युक्ते योऽसौ चेष्टाभिनित्त ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवोऽधस्तात्परिमण्डलो जला
१ चोदको दुरुक्तादिसूचकस्तस्य पक्षो विषयस्तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः । मतिभेदः बुद्धिभेदः । तेन विप्रधाविता अयथार्थनिरूपका इति यावत् ।
Page #77
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः। दीनामाहरणवारणसमर्थ उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिबेकस्मिन्विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात्परिज्ञानं नैगमनयः। एकस्मिन्वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः सङ्ग्रहः । तेष्वेव लौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु संप्रत्ययो व्यवहारः । तेष्वेव सत्सु साम्प्रतेषु संप्रत्यय ऋजुसूत्रः । तेष्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्पत्ययः साम्पतः शब्दः । तेषामेव साम्पतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः। तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति ॥
___ अत्राह । एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वान्ननु विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते । यथा सर्वमेकं सदविशेषात् सर्व द्वित्वं जीवाजीवात्मकत्वात् सर्व त्रित्वं द्रव्यगुणपर्यायावरोधात् सर्व चतुष्वं चतुर्दर्शनविषयावरोधात् सर्व पञ्चत्वमास्तिकायावरोधात् सर्व षट्वं षद्रव्यावरोधादिति । यथैता न विप्रतिपत्तयोऽथ चाध्यवसाय
१ उत्तरोत्तरगुणाः पाकजरक्तादिगुणास्तेषां निर्वर्तना परिसमाप्तिस्तत्संपन्नः ।
२ चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्रचक्षुषा दर्शनं वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद्दर्शनं सामान्यांशात्मकं ग्रहणं तदचक्षुर्दर्शनम् । अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यांशग्रहणमवधिदर्शनम् । केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनमिति ।
३ अस्तीत्ययं त्रिकालवचनो निपातः अभूवर भवन्ति भविष्यन्ति चेति भावना। अतोऽस्ति च ते प्रदेशानां (प्रदेशः परमनिकृष्टोऽशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते ततश्च तेषां वा काया अस्तिकायाः । ते च पञ्च १ धर्मास्तिकायः २ अधर्मास्तिकायः ३ आकाशास्तिकायः ४ जीवास्तिकायः ५ पुद्गलास्तिकायः । इति ।
४ धर्माधर्माकाशपुद्गलजीवाः कालश्चेति षड्द्रव्याणि ।
Page #78
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
३६ स्थानान्तराण्येतानि तद्वन्नयवादा इति । किं चान्यत् । यथा मातिज्ञानादिभिः पञ्चभिर्जानधर्मादीनामास्तकायानामन्यतमोऽर्थः पृथक पृथगुपलभ्यते पर्यायविशुद्धिविशेषादुत्कर्षेण न च ता विप्रतिपत्तयः तद्वन्नयवादाः । यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेकोऽर्थः प्रमीयते स्वविषयनियमात् न च ता विप्रतिपत्तयो भवन्ति तद्वन्नयवादा इति ।
आह च
नैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही व्यवहारी नैगमो ज्ञेयः ॥१॥ यत्सङ्ग्रहीतवचनं सामान्ये देशतोऽथ च विशेषे । तत्सङ्ग्रहनयनियतं ज्ञानं विद्यालयविधिज्ञः ॥२॥ समुदायव्यक्ताकृतिसत्तासज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् ॥ ३ ॥ साम्पतविषयग्राहकमृजुसूत्रनयं समासतो विद्यात् । विद्याद्यथार्थशब्दं विशेषितपदं तु शब्दनयम् ॥४॥ इति ॥
अत्राह । अथ जीवो नोजीवः अजीवो नोअजीव इत्याकारिते केन नयेन कोऽर्थः प्रतीयत इति । अत्रोच्यते । जीव . इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्प्रतसमाभिरूडैः पञ्चस्वापि गतिष्वन्यतमो जीव इति प्रतीयते । कस्मात् । एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यं जीवस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति जीव एव तस्य वा देशप्रदेशाविति । एवम्भूतनयेन तु जीव इत्याकारिते
१ अ. ५ सू. १ २ ओदन्तः १।२।३७ इति हैमसूत्रेण सन्ध्यभावः।
Page #79
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः।
भवस्थो जीवः प्रतीयते । कस्मात् । एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव । जीवतीति जीवः प्राणिति प्राणान्धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते तस्माद्भवस्थ एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा। अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति। समग्रार्थग्राहित्वाच्चास्य 'नयस्य नानेन देशप्रदेशौ गृह्यते । एवं जीवौ जीवा इति द्वित्वबहुत्वाकारितेष्वपि । सर्वसङ्ग्रहणे तु जीवो नोजीवः अजीवो नोअजीवः जीवौ नोजीवौ अजीवौ नोअजीवौ इत्येकद्वित्वाकारितेषु शून्यम् । कस्मात् । एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छति यथार्थग्राही । , शेषास्तु नया जात्यपेक्षमेकस्मिन्बहुवचनत्वं बहुषु बहुवचनं सर्वाकारितग्राहिण इति । एवं सर्वभावेषु नयवादाधिगमः कार्यः ।
__ अत्राह । पञ्चानां ज्ञानानां सविपर्ययाणां कानि को नयः श्रयत इति । अत्रोच्यते । नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते। ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ।।
अत्राह । कस्मान्मतिं सविपर्ययां न श्रयत इति । अत्रोच्यते ।
१ संसारी।
२ प्राणाः-इन्द्रियाणि पंच मनोवाक्कायास्त्रयः प्राणापानावेक आयुषश्चेति । पञ्चेन्द्रियाणि द्रव्यप्राणाः शेषास्तु भावप्राणाः।
३ जीवनं प्राणधारणलक्षणं सिद्धे न विद्यते ।
४ एवं तावच्चत्वारो विकल्पा एकवचनेन दर्शिताः । एवं द्विवचनेन चत्वारो विकल्पा नेयाः । १ जीवौ २ नोजीवौ ३ अजीवौ ४ नोअजीवौ तथा च बहुवचनेनापि चत्वार एव १ जीवाः २ नोजीवाः ३ अजीवाः ४ नोअजीवाः नेयाः । द्वित्वबहुत्वाकारितेषु द्विवचनबहुवचनाभ्यामुच्चारितेषु ।
५ एष-सङ्ग्रहनयः । ६ सविपर्ययाणां-अशानसाहतानाम् ।
Page #80
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
श्रुतस्य सर्विपर्ययस्योपग्रहत्वात् । शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ।
३८
अत्राह । कस्मान्नेतराणि श्रयत इति । अत्रोच्यते । मत्यधमनःपर्यायाणां श्रुतस्यैवोपग्राहकत्वात् । चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान्न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति ।
अत्राह च -
विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च । विन्यस्य परिक्षेपान्नयैः परीक्ष्याणि तत्त्वानि ॥ १ ॥ ज्ञानं सविपर्यासं त्रयः श्रयन्त्यादितो नयाः सर्वम् । सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेर्विपर्यासः ॥ २ ॥ ऋजुसूत्रः षद् श्रयते मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः श्रयते नोऽन्यच्छ्रताङ्गत्वात् ॥ ३ ॥ मिथ्यादृष्टयज्ञाने न श्रयते नास्य कश्चिदज्ञोऽस्ति । ज्ञस्वाभाव्याज्जीवो मिथ्यादृष्टिर्न चाप्यज्ञः ॥ ४ ॥ इति नयवादाश्चित्राः क्वचिद्विरुद्वा इवाथ च विशुद्धाः । लौकिक विषयातीतास्तत्त्वज्ञानार्थमधिगम्याः || ५ || |३५| इति सभाष्यतत्त्वार्थाधिगमसूत्रेषु प्रथमोऽध्यायः
समाप्तः ॥
१ व्यवहारावध।रणदशायामुपजीवकत्वात् ।
२ स्वालोचितार्थस्य परप्रत्यायने श्रुतस्यैव मुखनिरीक्षकत्वादित्यर्थः ।
३ चेतना-सामान्यपरिच्छेदकत्वं । ज्ञ इति भावप्रधाननिर्देशात् ज्ञत्वं - विशेषपरि
च्छेदिता तयोः स्वाभाव्यं तथाभवनं तस्मात् ।
Page #81
--------------------------------------------------------------------------
________________
अथ द्वितीयोऽध्यायः।
अत्राह । उक्तं भवता जीवादीन तत्त्वानीति । तत्र को जीवः कथं लक्षणो वति । अत्रोच्यतेऔपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्व
मौदयिकपारिणामिकौ च ॥ १॥ १ औपशमिकः २ क्षायिकः ३क्षायोपशामिकः ४ औदयिकः ५ पारिणामिक इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति ॥ ५ ॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥
एते औपशमिकादयः पञ्च भावा द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको द्विभेदः क्षायिको नवभेदः क्षायोपशमिकोऽष्टादशभेदः औदयिक एकविंशतिभेदः पारिणामिकस्त्रिभेद इति । यथाक्रममिति येन सूत्रक्रमेणात ऊर्च वक्ष्यामः ॥ २॥
सम्यक्त्वचारित्रे ॥ ३ ॥ सम्यक्त्वं चारित्रं च द्वावौपशमिको भावौ भवत इति ॥३॥
१ अत्र घूणाक्षरन्यायात्पारिणामिकभावः-न खलु घूणाख्यजन्तुवेधितशुष्ककाष्ठसूक्ष्मचूर्णकणसमुदायाधःपतनस्वयं परिणताक्षरस्य कश्चिल्लेखको वर्तत इति । रूपान्तरपरिणमनं ह्युदयः स च परमार्थतः पुद्गलेष्वेव, उपचारात्तु जीवेष्वपीति यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणतो भूत्वा द्विगुणकृष्णिमपरिणतः स्यात् । एकगुणत्वाद् द्विगुणत्वं रूपान्तरमेव इत्येवमन्यत्रापि परिणामः षड्द्रव्येऽपि ।
२ स्वतत्त्वं-स्वभावः । ३ सम्यक्त्वं-तत्त्वरुचिः । सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणम् ।
Page #82
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ...
४०
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥
ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वीर्यमित्येतानि च नव क्षायिका भावा भवन्तीति ॥ ४ ॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्य
क्त्वचारित्रसंयमासंयमाश्च ॥५॥ ज्ञानं चतुर्भेदं मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायज्ञानमिति । अज्ञानं त्रिभेदं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । दर्शनं त्रिभेदं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति । लब्धयः पञ्चविधा दानलब्धिर्लभलाब्धि गलब्धिरुपभोगलब्धिर्यिलब्धिारीत। सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायौपशमिका भावा भवन्तीति ॥५॥
१ अ. ७ सू. ३३ २ भुज्यते सकृदुपयुज्यत इति भोगः आहारमाल्यादिः। ३ उपेत्य अधिकं पुनरुपयुज्यमानतया भुज्यते इत्युपभोगः ।
४ विशेषेण ईरयति प्रवर्तयति आत्मानं तासु तासु क्रियासु इति वीर्यम् पराक्रम इत्यर्थः।
__ ५ चक्षुषा दर्शनमुपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत् तदर्हजातबालदारकनयनोपलब्धिवद्वा व्युत्पन्नस्यापि अचक्षुर्दर्शनं शेषन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् । अवधिहगावरणक्षयोपशमनाद्विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते । नियमतस्तु तत्सम्यग्दृष्टिस्वामिकम् एवमेतन्त्रिविधमपि दर्शनावरणकर्मणः (८-८) क्षयोपशमादुपजायत इति ।
६ अ. ६ सू. २०
Page #83
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः। गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्च
_तुश्चतुस्त्येकैकैकैकषट्भेदाः॥६॥
गतिश्चतुर्भेदा नारकतैर्यग्योनमनुष्यदेवा इति । कषायश्चतुभेंदः क्रोधी मानी मायी लोभीति । लिङ्ग त्रिभेदं स्त्रीपुमान्नपुंसकमितिमिथ्यादर्शनमेकभेदं मिथ्यादृष्टिरिति । अज्ञोनमेकभेदमज्ञानीति । असंयतत्वमेकभेदमसंयतोऽविरत इति । असिद्धत्वमेकभेदमसिद्ध इति। एकभेदमेकविधामति । लेश्याः षट्भेदाः कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या । इत्येते एकविंशतिरौदयिकभावा भवन्ति ॥ ६॥
१ गतिनामकर्मोदयाद्विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् ।
२ कषः संसारस्तस्याय उपादानकारणविशेषः कषायः। अथवा कष्यन्ते पीडयन्ते प्राणिनः परस्परं यस्मिन्नसौ कषः संसारः । तमयन्ते प्राप्नुवन्ति जन्तवोऽनेनेति कषायः क्रोधमानमायारूपः । संसारप्राप्तिनिमित्तरूपत्वं कषायस्य लक्षणम् ।
३ वेदोदयजन्यत्वे सति मैथुनेच्छारूपत्वं लिङ्गस्य लक्षणम् । ४ अतत्त्वे तत्त्वबुद्धिरूपत्वम् । ५ मिथ्यात्वमोहोदये सति अतत्त्वज्ञानरूपत्वं अज्ञानस्य लक्षणम् । ६ कर्मोदयप्रभवत्वमसिद्धस्य लक्षणम् ।
७ (१) कृष्णद्रव्यसाचिव्याद् मूलाद् वृक्षोन्मूलनपरिणामतुल्यरूपत्वं कृष्णले. श्याया लक्षणम् । (२) नीलद्रव्यसाचिव्यात्फलादनेच्छया महाशाखापातनपरिणामतुल्यपरिणामरूपत्वं नीललेश्यालक्षणम् । (३) कापोतद्रव्यसाचिव्यात्फलादनेच्छया प्रशाखापातनपरिणामतुल्यपरिणामरूपत्वं कापोतलेश्यालक्षणम् । (४) रक्तवर्णद्रव्यसाचिव्यात्फला. दनेच्छया गुच्छसंदोहच्छेदनपरिणामतुल्यपरिणामरूपत्वं तेजोलेश्यालक्षणम् । (५) पीतवर्णद्रव्यसाचिव्यात्फलादनेच्छया फलोच्छेदनपरिणामतुल्यपरिणामरूपत्वं पद्मलेश्यालक्षणम् । (६) शुक्लवर्णद्रव्यसाचिव्यात्पतितफलादनेच्छया फलग्रहणपरिणामतुल्यपरिणामरूपत्वं शुक्ललेश्यालक्षणम् ।
Page #84
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ४२ जीवभव्याभव्यत्वादीनि च ॥ ७॥ जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणामिका भावा भवन्तीति । आदिग्रहणं किमर्थमिति । अत्रोच्यते । अस्तित्वमन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्वमसर्वघ्तत्वमनादिकर्मसन्तानबद्धत्वं प्रदेशत्वमरूपत्वं नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भा. वा भवन्ति । धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः ।ये जीव
१ द्विनवाष्टादिसूत्रेण जीववर्तिन एव त्रिपञ्चाशद्भेदाः संग्रहीता इति संख्यानियमो न भिद्यते न चानर्थक्यं सूत्रस्य जीववर्तिनोऽजीववानिश्च साधारणाः पारिणामिकस्ते तत्र नोपात्तास्तदुपादानायेदमादिग्रहणम् ।
२ अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम् । ३ शरीरादात्मनस्तद्विलक्षणत्वात्परलोकसद्भावाच्चावश्यमन्यत्वमभ्युपेयम् । ४ शुभाशुभकर्मणो निर्वर्तकत्वं योगप्रयोगसामर्थ्यात् । ५ कर्तृत्वादेव च भोक्तृत्वम् ।
६ क्रोधादिमत्त्वात् गुणवत्त्वं ज्ञानाद्यात्मकत्वाद्वा । परमाण्वादावपि गुणवत्त्वं एकवर्णादित्वात्समानम् ।
७ त्वपर्यन्तशरीरमात्रव्यापित्वात् असर्वगतत्वं संसार्यात्मनो मुक्तस्यापि समन्ततः परिमितत्वात् । स्वदेहप्रमाणत्रिभागहीनावगाहात्मकत्वादसर्वव्यापिता परमाण्वादिभिस्तुल्या।
८ अविद्यमानादिकर्मसंतत्या वेष्टितः संसारी संसृतौ पर्यटतीति न मुक्त इति । ९ प्रदेशत्वं तु लोकाकाशप्रदेशपरिमाणप्रदेश एक आत्मा भवति । १० रूपरसगन्धस्पर्शविरहितत्वादात्मनोऽरूपत्वं तच्चाकाशादिभिस्तुल्यम् ।
११ 'तद्भावाव्ययं नित्यम्' ५।३० इति वक्ष्यते । नित्यश्च ततो ज्ञानादिसद्भावादयमात्मा तुल्यं चैतदाकाशादिभिरेवमेते दश धर्माः साधारणा भाष्यकृतोपदर्शिता आदिशब्दाक्षिप्ताः।
१२ पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकं तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः प्रवचनशेन पुंसा यथासंभवमायोजनीयाः । क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः सन्ति भूयांसः ।
Page #85
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः।
स्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति । एते पञ्च भावास्त्रिपश्चाशछेदा जीवस्य स्वतत्त्वं भवन्ति । अस्तित्वादयश्च ॥ ७ ॥ किं चान्यत्
उपयोगो लक्षणम् ॥ ८॥ उपयोगो लक्षणं जीवस्य भवति ॥८॥
स द्विविधोऽष्टचतुर्भेदः ॥ ९॥ स उपयोगो द्विविधः साकारोऽनाकारश्च ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः । स पुनर्यथासङ्ख्यमष्टचतुर्भेदो भवति । ज्ञानोपयोगोऽष्टविधः । तद्यथा । मतिज्ञानोपयोगः श्रुतज्ञानोपयोगोऽवधिज्ञानोपयोगो मनःपर्यायज्ञानोपयोगः केवलज्ञानोपयोगो मत्यज्ञानोपयोगः श्रुताज्ञानोपयोगो विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः । तद्यथा । चक्षुर्दर्शनोपयोगोऽचक्षुर्दर्शनोपयोगोऽवधिदर्शनोपयोगः केवलदर्शनोपयोग इति ॥ ९॥
संसारिणो मुक्ताश्च ॥ १०॥ ते जीवाः समासतो द्विविधा भवन्ति संसारिणो मुक्ताश्च ॥ १०॥
किं चान्यत्
१ एत इति प्रतिपदं य उद्दिष्टा(२।१)औपशमिकादयः पञ्चैवान्यूनाधिका भावाः पर्यायान्तराण्यात्मनस्त्रिपंचाशद्भदा भवन्ति । आत्मनः स्वतत्त्वं द्विनवाष्टादिसूत्रेण (२।२) संख्या प्राक् नियता सैवानेनोपसंहृतेति । एते च भावविकल्पा जीवानां यथासंभवमायोज्या न सर्वे सर्वेषामिति । क्षायिकपारिणामिकावेव सिद्धानाम् । औपशमिकवा नारकतिर्यग्योनीनाम् । देवमनुष्याणां पञ्चापि । न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद्भवत इति।
Page #86
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
.
११
समनस्कामनस्काः ॥११॥ समासतस्ते एव जीवा द्विविधा भवन्ति समनस्काश्च अमनस्काश्च । तान्परस्तावक्ष्यामः॥ ११ ॥
संसारिणस्त्रसस्थावराः ॥ १२ ॥ संसारिणो जीवा द्विविधा भवान्ति त्रसाः स्थावराश्च॥१२॥ तत्र -
पृथिव्यब्वनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिका अप्कायिका वनस्पतिकायिका इत्येते त्रिविधाः स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धपृथिवीशर्करावालुकादिः । अप्कायोऽनेकविधो हिमादिः । वन स्पतिकायोऽनेकविधः शैवालादिः ॥१३॥
तेजोवायू हीन्द्रियादयश्च त्रसाः ॥ १४ ॥ तजाकायिका अङ्गारादयः। वायुकायिका उत्कलिकादयः। द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते त्रसा भवन्ति । संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवति मुक्ता नैव त्रसा नैव स्थावरा इति ॥ १४ ॥
पञ्चेन्द्रियाणि ॥ १५ ॥ पञ्चेन्द्रियाणि भवन्ति । आरम्भो नियमार्थः षडादिौतषे१ मनसा सहितं समनस्कम् (२-२५)।
२ प्रसन्ति अभिसन्धिपूर्वकं वा ऊर्ध्वमस्तिर्यक्षु चलन्तीति त्रसाः। प्रसा द्विविधाः सूक्ष्मत्रसस्थूलत्रसभेदेन । प्रसनामकर्मोदयात् चरन्ति गच्छन्ति ते सूक्ष्मप्रसाः । स्थावरनामकर्मोदयात् ये चरन्ति गच्छन्ति ते स्थूलत्रसाः ।
३ तिष्ठतीति स्थावरः ।
४ 'उक्कलिया मण्डलिया गुञ्जा घणवायसुद्धवाया य । वायर वारविहाणा पञ्चविहा वाणया एए ॥१॥' (आचारांगश्रु. स्कं. १ अ. १ उ. ७) स्थित्वा स्थित्वा उत्कलिकाभियों वाति स उत्कलिकावातः । मण्डलिकावातस्तु वातोलीरूपः । गुञ्जा भंभा तद्वत् गुञ्जनीयो वाति स गुञ्जावातः । घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो मन्दस्तिमितः शीतकालादिषु शुद्धवातः ।
५ उपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः ।
Page #87
--------------------------------------------------------------------------
________________
४५
द्वितीयोऽध्यायः ।
धार्थश्व । इन्द्रियमिन्द्रलिङ्गमिन्द्रादिष्टमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिति वा । इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगाद्विषयेषु वा परमैश्वर्ययोगात् । तस्यं लिङ्गमिन्द्रियं लिङ्गनात्सूचनात्मदर्शनादुपष्टम्भन व्यञ्जनाच जीवस्य लिङ्गमिन्द्रियम् ॥ १५ ॥ द्विविधानि ॥ १६ ॥
द्विविधानीन्द्रियाणि भवन्ति । द्रव्येन्द्रियाणि भावेन्द्रियाणि
च ॥ १६ ॥
तत्र
निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥
निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निर्वृत्तिरङ्गोपाङ्गनामनिवर्तितानीन्द्रियद्वाराणि कर्मविशेष संस्कृताः शरीरप्रदेशाः । निर्माणनांमाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥१७॥
लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८
लब्धिरुपयोगच भावेन्द्रियं भवति । लब्धिर्नाम गति जात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशम जनिता चेन्द्रियाश्रयकमोंदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथा । स्पर्शनेन्द्रियलाब्धः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धिः चक्षुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥ १८ ॥
१ " इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्ट मिन्द्रजुष्टमिन्द्रदत्तमिति वा पाणिनिसूत्रम् ५-२-९३ |
२३ अ. ८ सू. १२.
" इति
Page #88
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्याधिगमसूत्रेषु -
४६ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतदुपयोगो लक्षणम् । उपयोगः प्रणिधानमायोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः । सत्यां च लब्धौ निर्वत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावे विषयालोचनं न भवति ॥ १९ ॥ ____ अत्राह । उक्तं भवता पञ्चन्द्रियाणीति । तत्कानि तानीन्द्रियाणीत्युच्यते
स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ २० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमित्येतानि पञ्चेन्द्रियाणि ॥२०॥
स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१॥ एतेषामिन्द्रियाणामेते स्पर्शादयोऽर्था भवन्ति यथासङ्खयम् ॥२१॥
__ श्रुतमानिन्द्रियस्य ॥ २२ ॥ श्रुतज्ञानं द्विविधमनेकद्वादशविधं नोइन्द्रियस्यार्थः ॥२२॥
अत्राह । उक्तं भवता पृथिव्यब्बनस्पतितेजोवायवो द्वीन्द्रियादयश्च नव जीवनिकायाः। पञ्चेन्द्रियाणि चेति । तत्किं कस्येन्द्रियमिति । अत्रोच्यते
वाय्वन्तानामेकम् ॥ २३ ॥ पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेवेन्द्रियं सूत्रक्रमप्रामाण्यात्प्रथमं स्पर्शनमेवेत्यर्थः ॥२३॥
१ अ. २ सू. ८.
२ अङ्गबाह्यं, अङ्गान्तरगतं च । आद्यं-आवश्यकाद्यनेकभेदम् । द्वितीयंआचाराङ्गादिद्वादशभेदम् ।
३ नोइन्द्रियस्य-मनसः। ४ अर्थः-विषयः ।
Page #89
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः ।
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४ ॥
कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् । तद्यथा । कम्यादीनां अपादिक-नूपुरक- गण्डूपद - शङ्ख- शुक्तिका - शम्बूकाजलौका-प्रभृतीनामेकेन्द्रियेभ्यः पृथिव्यादिभ्य एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः । ततोऽप्येकेन वृद्धानि पिपीलिका- रोहिणिकाउपचिका - कुन्थु - तुंबुरुक - त्रपुसबीज - कर्पासास्थिका - शतपद्युत्पतकतृणपत्र - काष्ठहारकप्रभृतीनां त्रीणि स्पर्शनरसनघ्राणानि । ततोऽप्येकेन वृद्धानि भ्रमर-वटर - सारङ्ग-मक्षिका-दंश-मशक- वृश्चिक - नन्द्यावर्त-कीटपतङ्गादीनां चत्वारि स्पर्शनरसनघ्राणचक्षूंषि । शेषाणां च तिर्यग्योनिजानां मत्स्योरगभुजङ्गपक्षि- चतुष्पदानां सर्वेषां च नारकमनुष्यदेवानां पञ्चेन्द्रियाणीति ॥ २४ ॥
अत्राह । उक्तं भवता द्विविधा जीवाः । समनस्का अमनस्काश्चेति । तत्र के समनस्का इति । अत्रोच्यते
४७
संज्ञिनः समनस्काः ॥ २५ ॥
संप्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति । सर्वे नारकदेवा गर्भव्युत्क्रान्तयश्च मनुष्यास्तिर्यग्योनिजाश्च केचित् ॥ इहोपोहयुक्ता गुणदोषविचारणात्मिका संप्रधारणसंज्ञा । तां प्रति
१ अतः प्रभृतिसूत्रसमाप्तिपर्यन्तं ग्रन्थः श्रीहेमचन्द्राचार्यैः प्रमाणमीमांसायां किंचिद्भेदेन शब्दशः संगृहीतः (पृ. २८/२९ ) अपादिकादयो जन्तवः संप्रदायप्रसिद्धानुसारं ज्ञातुं शक्याः । कोशादिष्वेषां शब्दानामनुपलम्भात् ।
२ संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनम् । मानसक्रियाविशेषो वा सा विद्यते यस्य स संज्ञी । किंच ह्यस्तने दिवसेऽहमेवमकार्षम् । श्वस्तने त्वेवमन्यथा बा करिष्यामीति चिन्तनं सा दीर्घकालिकी संज्ञेत्युच्यते । द्वित्रिचतुरिन्द्रियाणां हि यद्यपि हेतुवादोपदेशिकसंज्ञया भवति वर्तमानकालिकस्मरणं तथापि ते ' दीनारमात्रेण कुतो धनवान् ' इति न्यायादसंज्ञिन एव बोध्याः । अतीतानागतयोश्चिन्तनवे कल्यात् । अतो दीर्घकालिकसंज्ञयैव संज्ञिताव्यवहारः । संज्ञा त्रिधा १ हेतुवादोपदेशिकी २ दीर्घकालिकी ३ दृष्टिवादोपदेशिकी चेति । अत्र तृतीया तु सम्यग्दर्शनवतामेव संशिपञ्चेन्द्रियाणां भवति तदपेक्षया सर्वे मिथ्यात्विसंसारजीवा असंशिन इत्युच्यमानाः स्युः ।
Page #90
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१८ संज्ञिनो विवक्षिताः। अन्यथा ह्याहारभयमैथुनपरिग्रहसंज्ञाभिः सर्व एव जीवाः संजिन इति ॥ २५ ॥
विग्रहगतौ कर्मयोगः ॥ २६॥ विग्रहगतिसमापनस्य जीवस्य कर्मकृत एव योगो भवति । कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इत्यर्थः ॥२६॥
अनुश्रेणि गतिः॥ २७ ॥ सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशऑनुश्रीणि भवति विश्रेणिर्न भवतीति गतिनियम इति ॥ २७ ॥
अविग्रहाँ जीवस्य ॥ २८ ॥ सिध्यमानगतिर्जीवस्य नियतमाविग्रहा भवतीति ।
१ आहारसंज्ञा-आहाराभिलाषरूपः क्षुद्वेदनीयप्रभवः आत्मपरिणामविशेषः भयसंज्ञा-हीनसत्त्वतया मतिभयवार्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थो पयोगेन इहलोकादिभयलक्षणार्थपालोचनेनेति । मैथुनसंज्ञा-मैथुनं संज्ञायतेऽनयोति मैथुनसंज्ञा पुंवेदोदयान्मैथुनाय त्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया । परिग्रहसंज्ञा-तीव्रलोभोदयात्परिग्रहाभिलाषः ।
२ गतिरन्तरालवर्तिनी द्विधा, ऋज्वी वक्री च, ऋज्वी तावत् पूर्वशरीरयोगोत्थापितप्रयत्नविशेषादेव गतिरिष्यते । धनुाविमोक्षाहितसंस्कारेषुगमनवत् । तस्यां च पूर्वकः स एव योगो वाच्यः । अतोऽन्यस्यानुविग्रहगतौ कर्मयोगः विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिविग्रहगतिः । विग्रहप्रधाना वा गतिविग्रहगतिः । तस्यां विग्रहगतौ कर्माष्टकेनैव योगो न शेषौदारिकादिकायवाङ्मनोव्यापार इति ।
३ कार्मणशरीरकृतैव चेष्टेत्यर्थः । अ. २ सू. ४९, अ. ८ सू. ११ ४ कर्मैव शरीरं कार्मणम् ।।
५ अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयन्नाह-अन्यत्र तु यथोक्तः 'कायवाङ्मनोयोग' - इति । अन्तर्गतेरन्यत्र यथाभिहित आगमे कायादियोगा भवति । तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः । तद्यथा नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां त्रयोऽपि योगाः संमूर्च्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव ।
६ आकाशप्रदेशानुश्रेणिरूपेण जीवपुद्गलानां या गतिः । तद्रूपत्वं-अनुश्रोणिगतेर्लक्षणम् । आकाशप्रदेशपंक्त्यनुसारेण गमनरूपत्वं वा । उक्तलक्षणायाः श्रेणेविंगतो या गतिः सा विश्रेणिर्जीवानाम् ।
७ ऋजुगतिका ।
Page #91
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः।
विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥२९॥
जात्यन्तरसंक्रान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवति उपपातक्षेत्रवशात् । तिर्यगूलमधश्च माक् चतुर्थ्य इति । येषां विग्रहवती तेषां विग्रहाः प्राक् चतुभ्यॊ भवन्ति । अविग्रहा एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुःसमयपराश्चतुर्विधा गतयो भवन्ति । परतो न संभवन्ति । प्रतिघाताभावाद्विग्रहनिमित्ताभावाच्च । विग्रहो वक्रितं विग्रहोऽवग्रहः श्रेण्यन्तरसंक्रान्तिरित्यनान्तरम् । पुद्गलानामप्येवमेव ॥ २९॥
शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति । अत्राह । अथ विग्रहस्य कि परिमाणमिति । अत्रोच्यते । क्षेत्रतो भाज्यम् । कालतस्तु
१ उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः आनुलोम्यमनुकूलता । तस्मात्कारणात् ।
- २ यस्योपपातक्षेत्रं समश्रेणिव्यवस्थितमुत्पित्सोः प्राणिनः स ऋज्वायतां श्रोणमनुत्पत्योत्पद्यते तत्रैकेन समयेन वक्रमकुर्वाणः कदाचित्तदेवोपपातक्षेत्र विश्रेणिस्थं भवति । तदैकविग्रहा द्विविग्रहा त्रिविग्रहा चेति तिस्रो गतयो निष्पद्यन्ते । आकाशप्रदेशश्रेणीलिखित्वा प्रत्यक्षीक्रियन्ते ।
- ३ सिद्धमानगतेरेव प्रतिघाताभावः । प्रतिघातकं हि कर्म तदभावादित्यर्थः । तथा जन्तुना एकविग्रहया गत्या यत्स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति । उपपातक्षेत्रवशात् न ततोऽपि श्रेण्यन्तरमाक्रामयतीत्यतो विग्रहनिमित्ताभावादुच्यते । विग्रहनिमित्त उपपातक्षेत्रवशः । इत्येवं द्वित्रिविग्रहयोर्योजनीयम् ।
४ क्षेत्रापेक्षया ।
Page #92
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
एकसमयोऽविग्रहः ॥ ३० ॥
एकसमयोऽविग्रहो भवति । अविग्रहां गतिरालोकान्तादप्येकेन समयेन भवति । एकर्विग्रहा द्वाभ्याम् । द्विविग्रहा त्रिभिः । त्रिविग्रहा चतुर्भिरिति । अत्र भङ्गमरूपणा कार्येति ॥ ३० ॥
एकं द्वौ वानाहारकाः ॥ ३१॥
विग्रहगतिसमापन्नो जीव एकं वा समयं द्वौ वानाहोरको भवति । शेषं कालमनुसमयमाहारयति । कथमेकं द्वौ बानाहारको न बहूनीत्यत्र भङ्गप्ररूपणा कार्या ॥ ३१ ॥
५०
अत्राह । एवमिदानीं भवक्षये जीवोऽविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इति । अत्रोच्यते । उपपातक्षेत्रं स्वकर्मवशात्माप्तः शरीरार्थ पुद्गलग्रहणं करोति । सकषायत्वाज्जीवः कर्मणो योग्या
-
१ भवान्तरालवर्तितायां जन्तोर्गतिपरिणतस्यैकेन समयेनातिक्रान्तेन वा गतिजयत इति ।
२ ऋज्वी गतिः क्षेत्रमंगीकृत्य कदाचिदव्यवहितश्रेप्यन्तरमात्र एव विरमति जन्तोत्पादवशात् । कदाचिच्छेणिद्वयमतिक्रम्योपरमत्याल | कान्ताद्वा सिद्धयमानस्य भवतीत्येकसमयपरिमाणमभेदवर्ति, सर्वत्र गतिविशेषात् ।
^
३ एको विग्रहो यस्यां सैकविग्रहा पूर्वापरसमयावधिकत्वात् विग्रहस्य सामर्थ्यान्निश्चीयते द्वाभ्यां समयाभ्यां निष्पाद्यत एक विग्रह इति । एवं द्वित्रिविग्रहयोरपि वाच्यम् ।
४ अत्रैवंविधे विचारप्रस्तावे भङ्गा विकल्पास्तेषां प्ररूपणा विभावना कार्या । चै कार्या । नारकाः कदाचित्सर्व एव विग्रहगतयो भवन्ति । अथवा अविग्रहगतयश्च विग्रहगतिश्चैकः स्यात् । अथवा अविग्रहगतयो विग्रहगतयश्चेति ।
५ औदारिकादिपुद्गलानामादानरूपत्वमाहारस्य लक्षणम्। तादृशाद्दाराभावरूपत्वमनाहारस्य लक्षणम् । तद्वांश्वानाहारकः । विग्रहगतिसमापन्नो जीवः सामर्थ्याद्विग्रहापेक्षस्वात् द्विविग्रहां त्रिविग्रहां वानुप्राप्तो गृह्यते तत्र द्विविग्रहायामेकं समयं मध्यमं त्रिविग्रहायां द्वौ समयावनाहारको मध्यमौ भवति ।
Page #93
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः ।
न्पुद्गलानादत्त इति । कायवाङ्मनःप्राणापानाः पुद्गलानामुपकारः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यामः । तज्जन्म। तच्च त्रिविधम् । तद्यथा
सम्मूर्छनग पाता जन्म ॥ ३२ ॥ सम्मूर्छनं गर्भ उपपात इत्येतत्रिविधं जन्म ॥३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३३॥ ___ संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्रतिपक्षा मिश्राश्चैकशो योनयो भवन्ति । तद्यथा । सचिर्ता चित्ता सचित्ताचित्ता शीता उष्णां शीतोष्णा संवृत्ता विवृत्ती
१ अ. ८ सू. २५.
२ गर्भसामग्री विना समुद्भूतस्वरूपत्वं संमूर्छनस्य लक्षणम् । लोकत्रये यथायोनं देहावयवविरचनरूपत्वं वा ।
३ शुक्रशोणितसंमीलनाधारप्रदेशवत्त्वं गर्भस्य लक्षणम्।।
४ क्षेत्रप्राप्तिमात्रनिमित्तकं यज्जन्म तद्रूपत्वम् । गर्भसंमूर्छनप्रकारराहित्येन जायमानत्वं वा।
५ "यु" मिश्रणे, युवान्त तेजसकार्मणशरीरवन्तः सन्तः औदारिकादिशरीरप्रायोग्यपुद्रलस्कन्धसमुदयेन मिश्रीभवन्त्यस्यामिति योनिरुत्पत्तिस्थानम् ।
६ जीवप्रदेशैः सहान्योन्यानुगमस्वीकृतजीवदेहादिरूपं यज्जन्तूत्पत्तिस्थानं तत् सचित्ताया लक्षणम् । जीवप्रदेशैः संबन्धरूपत्वं वा ।
७ शुष्ककाष्ठादिरूपं यज्जन्तूत्पत्तिस्थानं तत् । सर्वथा जीवप्रदेशसंबन्धरहितत्वं वा अचित्ताया लक्षणम् । .
८ उभयसंबन्धरहितत्वं सचित्ताचित्तालक्षणम् । ९ शीतस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानत्वं शीतयोनेर्लक्षणम् । १० उष्णस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानरूपत्वमुष्णयोनेलक्षणम् । ११ शीतोष्णपरिणामत्वे सति जन्तूत्पत्तिस्थानरूपत्वं शीतोष्णयोनेलक्षणम् ।
१२ दिव्यशय्यादिवद्वस्त्राद्यावृतस्थानरूपत्वं संवृतयोनेर्लक्षणम् । जन्तूत्पत्त्याधार• वत्त्वे सति अनुपलक्ष्यमाणस्थानविशेषरूपत्वं वा ।।
१३ जन्तूत्पत्त्याधारवत्त्वे सति स्पष्टमुपलक्ष्यमाणस्थानविशेषरूपत्वं विवृतयोने
लक्षणम् ।
Page #94
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु . ५२ संवृत्तविद्वत्ता इति । तत्र देवनारकानामचित्ता योनिः । गर्भजन्मनां मिश्रा । त्रिविधान्येषाम् । गर्भजन्मनां देवानां च शीतोष्णा । तैजःकायस्योष्णा । त्रिविधान्येषाम् । नारकैकेन्द्रियदेवानां संवृत्ता। गर्भजन्मनां मिश्रा विवृत्तान्येषामिति ॥ ३३ ॥
जराय्वण्डपोतजानां गर्भः॥ ३४ ॥ जरायुजानां मनुष्य-गो-महिषाजाविकाव-खरोष्ट्र-मृग-चमरवराह-गवय-सिंह-व्याघ्रर्स द्वीपि-श्व-शृगाल-मार्जारादीनाम् । अर्द्धजानां सर्प-गोधा-कृकलाश-गृहकोकिलिकामत्स्य-कूर्म-नक्र-शिशुमारांदीनां पक्षिणां च लोमपक्षाणां हंस-चाप-शुक-गृध्र-श्येन-पारावत-काकमयूर-मगु-बक-बलाकादीनाम् । पोतर्जानां शल्लक-हस्ति-श्वाविल्लापक-शश-शारिका-नकुल-मूषिकादीनां पक्षिणां च चर्मपक्षाणां जलूकावल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो जन्मेति ॥ ३४॥
नारकदेवानामुपपातः ॥ ३५ ॥ ..नारकाणां देवानां चोपपातो जन्मेति ॥ ३५॥
शेषाणां सम्मूर्छनम् ॥ ३६॥ जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्पूर्छनं जन्म । . १ बाहिदृश्यमप्यदृश्यमध्यं जन्तूत्पत्तिस्थानं संवृत्तविवृत्तालक्षणम् ।
२ जालवत् प्राणिपरिवरणरूपत्वे सति विततमांसशोणितरूपत्वं जरायोर्लक्षणम् । तत्र जाता जरायुजाः।
३ चमरो नामारण्यो गौः । ४ ऋक्षः-भल्लूकः । ५ द्वीपी-व्याघ्रविशेषः ।
६ नखत्वक्सदृशोपात्तकाठिन्ये सति शुक्रशोणितपरिवरणरूपं यन्मण्डलं तद्रूपत्वमण्डस्य । तत्र जाता अण्डजाः । . . ७ शिशुमारः-मत्स्यविशेषः ।
८ पोता एव जाताः पोतजाः शुद्धप्रसवा न जराय्वादिना वेष्टिताः ।
Page #95
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः। उभयावधारणं चात्र भवति । जरायुजादीनामेव गर्भः । गर्भ एव जरायुजादीनाम् । नारकदेवानामेवोपपातः । उपपात एव नारकदेवानाम् । शेषाणामेव सम्पूर्छनम् । सम्मूर्छनमेव शेषाणाम् ॥ ३६॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
औदारिकं वैक्रिय आहारकं तैजसं कार्मणमित्येतानि पश्च शरीराणि संसारिणां जीवानां भवन्ति ॥ ३७॥
तेषां परं परं सूक्ष्मम् ॥ ३८ ॥ तेषामौदारिकादिशरीराणां परं परं सूक्ष्म वेदितव्यम् । तद्यथा। औदारिकाद्वैक्रियं सूक्ष्मम् । वैक्रियादाहारकम् । आहारकातैजसम् । तैजसात्कार्मणमिति ॥ ३८ ॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३९॥
तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्यगुणं भवति प्राक् तैजसात् । औदारिकशरीरप्रदेशेभ्यो वैक्रियशरीरप्रदेशा असङ्खयेयगुणाः । वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्खोयगुणा इति ॥३९॥
अनन्तगुणे परे ॥ ४०॥ परे द्वे शरीरे तैजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयानन्तगुणे भवतः । आहारकात्तैजसं प्रदेशतोऽनन्तगुणम् । तैजसात्कार्मणमनन्तगुणमिति ॥ ४०॥
अप्रतिघाते ॥४१॥ एते द्वे शरीरे तैजसकार्मणे अन्यत्र लोकान्तात्सर्वत्रापतिघाते भवतः॥४१॥
------ Niru Pur१ अ. २ सू. ४९
Page #96
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु ५४
अनादिसम्बन्धे च ॥ ४२ ॥ ताभ्यां तैजसकार्मणाभ्यामनादिसम्बन्धो जीवस्येत्यनादिसम्बन्ध इति ॥ ४२ ॥
सर्वस्य ॥ ४३ ॥ सर्वस्य चैते तैजसकार्मणे शरीरे संसारिणो जीवस्य भवतः। एके त्वाचार्या नयवादापेक्षं व्याचक्षते ।कार्मणमेवैकमनादिसम्बन्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजसं तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य कस्यचिदेव भवति । क्रोधप्रसादनिमित्तौ शापानुग्रही प्रति तेजोनिसर्गशीतरश्मिनिसर्गकरं तथा भ्राजिष्णुप्रभासमुदयच्छायानिर्वर्तकं तैजसं शरीरेषु माणिज्वलनज्योतिष्कविमानवदिति ॥ ४३ ॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः॥ ४४ ॥
ते आदिनी एषामिति तदादीनि । तैजसकामणे यावत्संसार
१ तुशब्दोऽवधारकः । तैजसं लब्ध्यपेक्षमेव भवति सत्तामासादयति । सा च तैजसलब्धिर्विशिष्टतपोऽनुष्ठानादिभिः साधनैः कस्यचिदेव भवति न सर्वस्य जन्तोस्तत्साधनकलापविमुखस्य । स च तद्योग्यसाधनसमासादिततेजोलब्धिस्तेजोनिसर्गमातनोति ।
२ क्रोधनिमित्तशापप्रदानाभिमुख उष्णतेजोनिसर्ग करोति । प्रसादनिमित्तानुग्रहाभिमुखः शीतरश्मिनिसर्गकरो भवति । शीता रश्मयो यस्य निसृज्यमाने तेजोविशेषस्य स शीतश्मिः शीतरश्मिश्चासौ निसर्गश्च शीतरश्मिनिसर्गस्तत्करणशीलं शीतरश्मिनिसर्गकरं तैजसम् ।
३ भ्राजनशीलो भ्राजिष्णुः प्रभाणां समुदयस्तस्य छाया आमा भ्राजिष्णुप्रभासमुदयछाया । तस्याश्छायानिर्वर्तकमुत्पादकं तैजसं शरीरेष्वौदारिकादिकेषु केषुचित् । - ४ यथा हि मणयः स्फटिकाङ्कवैडूर्यादयो भ्राजिष्णुछायाविमलपुद्गलारब्धत्वाज्ज्वलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते स्वतेजसा ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात्तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मजाजालमुपलभ्यते नं सर्वेषु । अन्यथा तदभावात् ।
Page #97
--------------------------------------------------------------------------
________________
५५
द्वितीयोऽध्यायः । भाविनी आदिं कृत्वा शेषाणि युगपदेकस्य जीवस्य भाज्यान्याचतुर्थ्यः । तद्यथा । तैजसकार्मणे वा स्याताम् । तैजसकार्मणौदारिका वा स्युः । तैजसकार्मणवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकवैक्रियाणि वा स्युः। तैजसकार्मणौदारिकाहारकाणि वा स्युः।कार्मणमेव वा स्यात् । कार्मणौदारिके वा स्याताम् । कार्मणवैक्रिये वा स्याताम् । कार्मणौदारिकवैक्रियाणि वा स्युः। कार्मणौदारिकाहारकाणि वा स्युः । कार्मणतैजसौदारिकवैक्रियाणि वा स्युः । कार्मणतैजसौदारिकाहारकाणि वा स्युः । न तु कदाचिद्युगपत्पश्च भवन्ति । नापि वैक्रियाहारके युगपद्भवतः स्वामिविशेषादिति वक्ष्यते ॥ ४४ ॥
निरुपभोगमन्त्यम् ।। ४५॥ अन्त्यमिति सूत्रक्रमप्रामाण्यात्कार्मणमाह । तन्निरुपभोगम् । न सुखदुःखे तेनोपभुज्यते न तेन कर्म बध्यते न वेद्यते नापि निर्जीर्यत इत्यर्थः । शेषाणि तु सोपभोगानि । यस्मात्सुखदुःखे तैरुपभुज्येते कर्म बध्यते वेद्यते निर्जीयते च तस्मात्सोपभोगानीति ॥४५॥
अत्राह । एषां पञ्चानामपि शरीराणां सम्मुर्छनादिषु त्रिषु जन्मसु किं क जायत इति । अत्रोच्यते
गर्भसम्मूर्छनजमाद्यम् ॥ ४६ ॥ आद्यमिति सूत्रक्रमप्रामाण्यादौदारिकमाह । तद्गर्भे सम्मूर्छने वा जायते ॥ ४६॥
वैक्रियमौपपातिकम् ॥ ४७ ॥ वैक्रियशरीरमौपपातिकं भवति । नारकाणां देवानां चेति ॥४७॥
१ अ. २ सू. ४७,४९.
२ अनुभूयमानमेवेह निर्जीयते । निरसतामापद्यमानं परिशय्यात्मप्रदेशेभ्यः पादलेशनामुक्तं रसकुसुम्भकं निजीर्णमुच्यते ।
-
-
Page #98
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु
५६ लब्धिप्रत्ययं च ॥ ४८ ॥ लब्धिप्रत्ययं च वैक्रियशरीरं भवति । तिर्यग्योनीनां मनुष्याणां चेति ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥४९॥
शुभमिति शुभद्रव्योपचितं शुभपरिणामं चेत्यर्थः । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । अव्याघातीति आहारकं शरीरं न व्याहन्ति न व्याहन्यते चेत्यर्थः । तच्चतुर्दशपूर्वधर एव कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थे क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पादयति दृष्ट्वा भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य तैजसमपि शरीरं लब्धिप्रत्ययं भवति ॥
कार्मणमेषां निबन्धमाश्रयो भवति तत्कर्मत एव भवतीति बन्धे परस्तावक्ष्यात । कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामादित्यप्रकाशवत् । यथादित्यः स्वमात्मानं प्रकाशयत्यन्यानि च द्रव्याणि न चास्यान्यः प्रकाशकः । एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणामिति ।
१ तपोविशेषजनिता लब्धिस्तत्प्रत्ययं तत्कारणमेतच्छरीरं भवति । अजन्मजमिदमित्यर्थः ।
. २ द्वादशाङ्गस्य दृष्टिवादाख्य ( दृष्टिपात ) महासमुद्रस्य पंच पदानि तद्यथापरिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५ । तत्र पूर्वगताख्यचतुर्थपदे चतुर्दश पूर्वाणि १ उत्पादम् २ अग्रायणीयम् ३ वीर्यप्रवादम् ४ अस्तिनास्तिप्रवादम् ५ ज्ञानप्रवादम् ६ सत्यप्रवादम् ७ आत्मप्रवादम् ८ कर्मप्रवादम् ९ प्रत्याख्यानप्रवादम् १. विद्याप्रवादम् ११ कल्याणम् १२ प्राणावायम् १३ क्रियाविचालम् १४ लोकबिन्दुसारम । तानि धारणाज्ञानेनालम्बते इति चतुर्दशपूर्वधरः ।
३ आरम्भात्प्रभृत्या अपवर्गात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवति । ४ अ. ८ सू. १,२,३.
Page #99
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः । अत्राह । औदारिकमित्येतदादीनां शरीरसंज्ञानों कः पदार्थ इति । अत्रोच्यते । उद्गतारमुदारम् । उत्कटारमुदारम् । उद्गम एवं वोदारम् । उपादानात्प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम् । उदारमेवौदारिकम् । नैवमन्यानि ॥ यथोद्गमं वा निरतिशेष ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदारणादौदारिकम् । नैवमन्यानि उदारमिति च स्थूलनाम । स्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् । नैवं शेषाणि । तेषां हि परं परं सूक्ष्ममित्युक्तम् ॥ __ वैक्रियमिति । विक्रिया विकारो विकृतिर्विकरणमित्यनान्तरम् विविधं क्रियते।एकं भूत्वानेकं भवति।अनेकं भूत्वा एकं भवति। अणु भूत्वा महद्भवति ।महच्च भूत्वाणु भवति। एकाकृति भूत्वानेकाकृति भवति । अनेकाकृति भूत्वा एकाकृति भवति । दृश्यं भूत्वादृश्यं भवति । अदृश्यं भूत्वा दृश्यं भवति । भूमिचरं भूत्वा खेचरं भवति । खेचरं भूत्वा भूमिचरं भवति । प्रतिघाति भूत्वाप्रतिघाति भवति । अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपञ्चैतान् भावाननुभवति । नैवं शेषाणीति । विक्रियायां भवति विक्रियायां जायते विक्रियायां निर्वय॑ते विक्रियैव वा वैक्रियम् । ____ आहारकम् । आहियत इति आहार्यम् । आहारकमन्तर्मुहूर्तस्थिति । नैवं शेषाणि ॥
तेजसो विकारस्तैजसं तेजोमयं तेजःस्वतत्त्वं शापानुग्रहप्रयोजनम् । नैवं शेषाणि ।
कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि। एभ्य एव चार्थविशेषेभ्यः शरीराणी नानात्वं सिद्धम् । किं
१ घटपटादीनामिव लक्षणभेदात् ।
..
Page #100
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ५८ चान्यत् । कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्ख्यातोऽवगाहनतः स्थितितोऽल्पबर्तृत्वत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ॥ ४९ ॥ - अत्राह । आसु चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम् । त्रि
१ स्थूलपुद्गलोपचितमूल्दारिकम् । न तथा वैक्रियादीनि । परं परं सूक्ष्ममिति ( २-३८ ) वचनात् ।
२ विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषयः जङ्घाचारणं, प्रत्यारुचकवरपर्यन्तात्तिर्यमूर्ध्वमापाण्डूकवनात् । वैक्रियमसंख्येयद्वीपसमुद्रविषयम् । आहारकस्य यावन्महाविदेहक्षेत्राणि तैजसकार्मणयोरासर्वलोकात् ।।
३ औदारिकस्य मनुष्यतिर्यञ्चः । वैक्रियस्य देवनारकास्तिर्यङ्मनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयतः । तैजसकार्मणयोः सर्वसंसारिणः।
४ औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनं वैक्रियस्य स्थूलसूक्ष्मैकत्वव्योमचरक्षितिगतिविषयाद्यनेकलक्षणा विभूति: । आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः । तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः ।
५ सातिरेके योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम् । रनिप्रमाणमाहारकं लोकायामप्रमाणे तैजसकार्मणे ।
६ 'प्रदेशतोऽसंख्येयगुणं प्राक्तजसादनन्तगुणे परे' इति प्रदेशभेद उक्तः (२.३९,४०)।
७ सातिरेकयोजनसहस्रप्रमाणमौदारिकमसंख्येयगुणप्रदेशेषु यावत्स्ववगाढं भवति तेभ्यो बहुतरकासंख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति । आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात् । तैजसकार्मणे लोकान्तायताकाशश्रेण्यावगाढे भवतः।
८ औदारिक जघन्येन अन्तर्मुहूर्तस्थिति । उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति । आहारकमन्तर्मुहूर्तस्थित्येव । तैजसकामणयोः संतानानुरोधात् अनादित्वमपर्यवसानता चाभव्यसंबन्धितया । अनादित्वं सपर्यवसानता च भव्यसंबन्धित्वेन ।
९ सर्वस्तोकमाहारकम् । आहारकाद्वैक्रियशरीराण्यसंख्येयगुणानि । वैक्रियशरीरेभ्य औदारिकशरीराण्यसंख्येयगुणानि । औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि ।
Page #101
--------------------------------------------------------------------------
________________
- द्वितीयोऽध्यायः।
.
विधमेव लिङ्ग स्त्रीलिङ्ग पुंल्लिङ्ग नपुंसकलिङ्गामिति ॥ तथा चारित्रमोहे नोकषायवेदनीये त्रिविध एव वेदो वक्ष्यते । स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ तस्मात्रिविधमेव लिङ्गमिति ॥ तत्र-.
_ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
नारकाश्च सर्वे सम्मूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुमांसः । तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवति नेतरे इति ॥५०॥
न देवाः ॥ ५१ ॥ देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धानकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् । पारिशेष्याच्च गम्यते जराय्वण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो नपुंसकानीति॥५१॥
__ अत्राह । चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तन यानि च । अनपवर्तनीयानि पुनर्द्विविधानि । सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ॥ तत्र
१ कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता । हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदा इति हास्यादयो नव ।
२-३ अ. ८ सू. १० ४ अ. ४ सू. ११,१२,१३,१७. ५ नपुंसकवेदनीयमबद्धत्वात् ।। ६ कारणान्तरान्निश्चितावधेः प्राक् यस्य आयुषः क्षयस्तदायुः अपवर्तनीयम् ।
७ केनापि कारणेन हासमनामुवत् निश्चितकालावधि यदायुरुपभोग्यतां याति तदनपवर्तनीयमुच्यते ॥
Page #102
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्याधिगमसूत्रेषु औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽ
नपवर्त्यायुषः ॥५२॥ औपपातिकाश्चरमदेहा उत्तमपुरुषा असङ्खयेयवर्षायुष इत्येतेऽनपवायुषो भवन्ति । तत्रौपपातिका नारकदेवाश्चेत्युक्तम् । चरमदेहा मनुष्या एव भवन्ति नान्ये । चरमदेहा अन्त्यदेहा इत्यर्थः । ये तेनैव शरीरेण सिध्यन्ति । उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धर्चक्रवर्तिनः । असङ्ख्यवर्षायुषो मनुष्याः तिर्यग्योनिजाश्च भवन्ति । सदेवकुरुत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिधू च सुषमसुषमायां सुषमायां सुषमदुःषमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति । अत्रैव बाह्येषु द्वीपेषु समुद्रेषु तिर्यग्योनिजा असङ्खधेयवर्षायुषो भवन्ति । औपपातिकाश्चासङ्ख्येयवर्षायुषश्च निरुपक्रमाः । चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति । एभ्य औपपातिकचरमदेहासङ्खयेयवर्षायुर्व्यः शेषा मनुष्यास्तिर्यग्यो
१ चक्रवर्तिनः-भरतादयः । २ अर्धचक्रवर्तिनः-रामकृष्णप्रतिकृष्णः ।
३ सह देवकुरुभिरुत्तरकुरवः सदेवकुरूत्तरकुरवः तत्र देवकुरुत्तरकुरुषु जम्बुद्दीपधातकीखण्डपुष्करद्वीपार्धवृत्तिषु ।
४ अ. ३ सू. १४,१५,१६.
५ अकर्मभूमिषु-हैमवतहरिवर्षरम्यकहरण्यवताख्यासु जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धवर्तिनीषु ।
६ कर्मणो भूमयः । यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिध्यन्ति तीर्थकरोपदेशात्ताः कर्मभूमयो भरतैरावतविदेशक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् ।
७ अ. ४ सू. १५
८ मनुष्यक्षेत्राहिभूतेषु । . ९ न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराघातस्पर्शाख्याः सप्त वेदना विशेषाः सन्त्यायुषो भेदका उपक्रमा इत्यतो निरुपक्रमा एव ।
Page #103
--------------------------------------------------------------------------
________________
६१
द्वितीयोऽध्यायः ।
निजाः सोपक्रमा निरुपक्रमाश्चापवर्त्यायुषोऽनपवर्त्यायुषश्च भवन्ति । तत्र येऽपवर्त्यायुषस्तेषां विषशस्त्रकण्टकान्युदकाह्यशिताजीर्णाशनिप्रपातोद्बन्धनश्वापदवज्रनिर्घातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्व द्वन्द्वोपक्रमैरायुरपवर्त्यते । अपवर्तनं शीघ्रमन्तर्मुहूर्तात्कर्मफलोपभोगः उपक्रमोऽपवर्तननिमित्तम् ॥
अत्राह । यद्यपवर्तते कर्म तस्मात्कृतनाश: प्रसज्यते यस्मान्न वेद्यते । अथास्त्यायुष्कं कर्म म्रियते च तस्मादकृताभ्यागमः प्रसज्यते । येन सत्यायुष्के म्रियते च ततश्चायुष्कस्य कर्मण आफल्यं प्रसज्यते । अनिष्टं चैतत् । एकभवस्थिति चायुष्कं कर्म न जात्यन्तरानुबन्धि तस्मान्नापवर्तनमायुषोऽस्तीति । अत्रोच्यते । कृतनाशाकताभ्यागमाफल्यानि कर्मणो न विद्यन्ते । नाप्यायुष्कस्य जात्यन्तरानुबन्धः । किं तु यथोक्तैरुपक्रमैरभिहतस्य सर्वसन्दोहेनोदयप्राप्तमायुष्कं कर्म शीघ्रं पच्यते तदपवर्तनमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्याशु दाहो भवति तद्वैत् । यथा
१ कृतनाश: १ अकृताभ्यागमः २ कर्मणां फलराहित्यं ३ चेति दोषत्रयमनेन पूर्वपक्षेण प्रतिपाद्यते ।
२ अनेन पूर्वोक्तदोषत्रयं खण्ड्यते ।
३ अध्यवसान विषशस्त्रादिभिः ।
४ अभिप्लुतस्य ।
५ सर्वात्मना साकल्येनेत्यर्थः ।
६ प्राप्तविपाकमाशु भवति । यस्तु तस्य क्रमभावी विपाकः सोऽपवर्त्यते । अनुभवः पुनः सर्वस्य युगपन्न निषिध्यते । इत्येषोऽपवर्तनशब्दार्थः ।
७ संहतत्वात्परिशेषवानपि तृणपुञ्जश्चिराय दह्यते यदा तु विरलितो भवत्यवयवशस्तदाशु भस्मसाद्भवति तद्वदायुषो ऽप्यनुभवः । यदायुर्दृढसंहितमतिधनतया बन्धकाल एव परिणाममापादितं भवति पवनश्लेषवत् । तत्क्रमेण वेद्यमानं चिराय वेद्यते ।
Page #104
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणकारभागहाराभ्यां राशि छेदादेवापवर्तयति न च सङ्खयेयस्थार्थस्याभावो भवति तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति न चास्य फलाभाव इति ॥ किं चान्यत् । यथा वा धौतपटो जलाई एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सूर्यरश्मिवाय्वभिहतः क्षिप्रं शोषमुपयाति न च संहते तस्मिन्प्रभूतस्नेहागमो नापि वितानितेऽकृत्स्नशोषः तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति । न च कृतपणाशाकृताभ्यागमाफल्यानि ॥
इति तत्त्वार्थाधिगमसूत्रेषु
द्वितीयोऽध्यायः समाप्तः॥ १ गणिताचार्यः । गणितप्रक्रियायामाहितनैपुणः ।
२ करणानि गुणकारभागहारापवर्तनोद्वर्तनादीनि । तत्र यो लघुः करणोपायः स्वल्पफलस्तेन तत्फलमानयति गणिताभिज्ञत्वात् । तुल्येऽपि हि फलानयने गुणकारभागहारौ चिराय तत्फलं अभिनिवर्तयतः । स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्थाधिकादपवर्तयति, षण्णवत्यादिकमनपवर्तनाह पुनर्लघुकरणाभिशोऽपि न शक्नोत्येवापवर्तयितुमेकम् । पञ्चाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवान प्रयोजयति । न च संख्येयार्थस्याभावो भवति । फलभूतस्य करणविशेषे सत्यपि प्रेप्सितफलाभेदमादर्शयति ।
३ मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापकर्षो मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोधलक्षणोऽस्तमितसकलबहिर्वति चेष्टाक्रियाविशेषः स एव चातिचिररूढमूलप्रदेशोत्खननरूपत्वाद्दःखं तेना” विषण्णः किंकर्तव्यताविमुखः ।।
___ ४ एतदुक्तं भवति । आजानान एव हि तदपवर्तनाकरणेन अपवर्तनाई कर्म अपवर्तयति । आहाररसादिविपरिणामवत् । किमर्थं पुनरपवर्तयति । फलोपभोगार्थमायुष्कर्मफलोपभोगाय । अनाभोगनिर्वर्तितेन वीर्यविशेषेणेति । न चास्यायुष्कर्मणः फलाभावो भवति । इयांस्तु विशेषः क्रमपरिभोगे बहुकालः । संवर्तितपरिभोगे स्वल्प इति । न पुनरभुक्तं तत्र किंचित्कर्म परिशटतीति ।
Page #105
--------------------------------------------------------------------------
________________
अथ तृतीयोऽध्यायः ।
अत्राह उक्तं भवता । नारका इति गतिं प्रतीत्य जीवस्यौदयिको भावः । तथा जन्मसु 'नारकदेवानामुपपातः । वक्ष्यति च । स्थिती 'नारकाणां च द्वितीयादिषु' । आस्रवेषु 'ह्वारम्भपरिग्रहत्वं च नारकस्यायुष' इति ॥ तत्र के नारका नाम क चेति । अत्रोच्यते । नरकेषु भवा नारकाः । तत्र नरकप्रसिद्ध्यर्थमिदमुच्यते
रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाभूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥ १ ॥
रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमः प्रभा महातमः प्रभा इत्येता भूमयो घनाम्बुवताकाशप्रतिष्ठा भवन्त्येकैकशः सप्त अधोऽधः । रत्नप्रभाया अधः शर्कराप्रभा शर्कराप्रभाया अधो वालुकाप्रभा । इत्येवं शेषाः । अम्बुवताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते यथा प्रतीयते घनमेवाम्बु अधः पृथिव्याः । वातास्तु घनास्तवश्चेति । तदेवं खरपृथिवी पङ्कमैतिष्ठा पक्ष घनोदधवलयप्रतिष्ठो घनोदधिवलयं घनवातवलयप्रतिष्ठं घनवातवलयं तनुवातवलयप्रतिष्ठं ततो महातमोभूतमाकाशम् । सर्वं चैतत्पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम् । आकाशं त्वात्मप्रतिष्ठम् । उक्त
१ अ. २ सू. ६
२ अ. २ सू. ३५.
३ अ. ४ सू. ४३.
४ अ. ६ सू. १६.
५ रत्नप्रभायां सर्वाधस्तनयोजन सहस्रं पङ्क इत्युच्यते । इत्येवमाषष्ठयाः । सप्तभ्यां तु सार्धपञ्चाशत्सहस्रयोजनानि ।
Page #106
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्याधिगमसूत्रेषु - ६४ मवगाहनमाकाशस्यति । . तदनेन क्रमेण लोकानुभावसंनिविष्टा असङ्खयेययोजनकोटीकोव्यो विस्तृताः सप्त भूमयो रत्नप्रभाद्याः॥
__ सप्तग्रहणं नियमार्थ रत्नप्रभाद्या माभूवन्नेकशो ह्यनियतसङ्ख्या इति । किं चान्यत् । अधः सप्तैवेत्यवधार्यते। ऊर्ध्वं त्वेकैवेति वक्ष्यते।
अपि च तन्त्रान्तरीया असङ्खचेयेषु लोकधातुष्वसङ्खयेयाः पृथिवीप्रस्तारा इत्येध्यवसिताः । तत्प्रतिषेधार्थ च सप्तग्रहणमिति ॥ __सर्वाश्चैता अधोऽधः पृथुतराः छत्रातिच्छत्रसंस्थिताः । धर्मा वैशा शैलाञ्जनारिष्टा माधव्या माधवीति चासां नामधेयानि यथासङ्ख्यमेव भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रं शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति । सर्वे घनोदधयो विंशतियोजनसहस्राणि । घनवाततनुवातास्त्वसङ्ख्येयानि अधोऽधस्तु घनतरा विशेषेणेति ॥१॥
तासु नरकाः ॥२॥ तासु रत्नप्रभाद्यासु भूपूर्ध्वमधश्चैकशो योजनसहस्त्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति। तद्यथा । उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकाजन्तोकायस्कुम्भायःकोष्ठादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ता रौरवोच्युतो रौद्रो हाहारवो घातनः शोचनस्तापनः क्रन्दनो विलपनश्छेदनो भेदनः खटाखटः कालपिञ्जर इत्ये
१ तंत्रान्तरीया जिनप्रवचनबाह्याः । ते च प्रायः प्रस्तावान्मायासूनवीया एव गृह्यन्ते ।
२ एकरज्जुप्रमाणाविष्कम्भायामाभ्यां रत्नप्रभा । शर्कराप्रभातृतीयरज्जुप्रमाणा वालुकाप्रभा चतूरज्जुप्रमाणा पंकप्रभा पञ्चरज्जुप्रमाणा धूमप्रभा रज्जुषट्कप्रमाणा तमःप्रभार्धसप्तरज्जुप्रमाणा महातमःप्रभा सप्तरज्जुप्रमाणेति ।
३ छत्रमायामविष्कम्भाभ्यां लघु भवति तदधोवर्ति विस्तीर्णतरं तस्याप्यधो विशालतम इत्यतः छत्रातिछत्रवत् स्थिताः ।
४ धर्मा इति नाम रत्नप्रभा इति गोत्रम् । एवं क्रमेण सप्तानामपि शेयम् ।
Page #107
--------------------------------------------------------------------------
________________
६५
तृतीयोऽध्यायः । वमाद्या अशुभनामानः कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः। रत्नप्रभायां नरकाणां प्रस्तारास्त्रयोदश । द्विन्यूनाः शेषासु । रत्नप्रभायां नरकवासानां त्रिंशच्छतसहस्राणि ।। शेषासु पञ्चविंशतिः पञ्चदश दश त्रीण्येकं पञ्चोनं नरकशतसहस्रमित्याषष्ठयाः । सप्तम्यां तु पञ्चैव महानरका इति ॥ २॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३॥
ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः। अशुभा रत्नप्रभायां ततोऽशुभतराः शर्कराप्रभायां ततोऽप्यशुभतरा वालुकाप्रभायाम् । इत्येवमासप्तम्याः॥
नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यादयो भावा नरकगतौ नरकपञ्चेन्द्रियजातौ च नैरन्तर्येणाभवक्षयोद्वर्तनाद्भवन्ति न कदाचिदक्षिनिमेषमात्रमपि न भवन्ति शुभा वा भवन्त्यतो नित्या इत्युच्यन्ते ॥
___ अशुभतरलेश्याः । कापोतलेश्या रत्नप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोता शर्कराप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोतनीला वालुकाप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीला पङ्कप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् । ततस्तीवतरसंक्लेशाध्यवसाना कृष्णा तमः प्रभायाम्। ततस्तीव्रतरसंक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति। ____ अशुभतरपरिणामः । बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शा
१ बन्धः-पुद्गलानां शरीदादिषु संश्लिष्यतामत्यन्ताशुभतरपरिणामो भवति । गतिः नारकाणामप्रशस्तविहायोगतिनामकर्मों ( ८-१२) दयादशुभा भवन्त्युष्ट्रपतङ्गादिवत् । संस्थानं-नरकाकृतिः नारकाकृतिश्च उभयमप्यालोक्यमानमेवोद्वेगमुपजनयति महाश्वभ्रवत्, पिशाचाकृतिवद्वा । भेदपरिणामोऽपि पुद्गलानामशुभः शरीरनरककुड्यादिभ्यो विभिद्यमानाः पुद्गलाः वर्णस्पर्शादिभिरशुभपरिणामा जायन्ते, ततश्च दुःखहेतवो भवन्ति ।
Page #108
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
६६
गुरुलघुशब्दाख्यो दशविधोऽशुभः पुद्गलपरिणामो नरकेषु । अशुभतरश्चाधोऽधः । तिर्यगूर्ध्वमधश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकाराः श्लेष्ममूत्रपुरीषस्रोतोमल रुधिरवसामेदपूयानुलेपनतलाः श्मशानमिव पूतिमांसकेशास्थिचर्मदन्तनखास्तीर्णभूमयः । श्वशृगालमार्जारनकुल सर्पमूषक हस्त्यश्वगोमानुपशवकोष्ठांशुभतरगन्धाः । हा मातर्धिगहो कष्टं बत मुञ्च तावद्धावत प्रसीद भर्तर्मा वधीः कृपणकमित्यनुबद्ध रुदितैस्तीत्रकरुणैदन विक्लवैर्विलापैरार्त्तस्वनैर्निनादैर्दीनकृपणकरुणैर्याचितैर्वाष्पसंनिरुद्धैर्निस्तनितैर्गाढवेदनैः कूजितैः सन्तापोष्णैश्च निश्वासैरनुपरतभयस्वनाः ।
अशुभतरदेहाः । देहाः शरीराणि । अशुभनामप्रत्ययादशुभान्यङ्गोपाङ्गनिर्माण संस्थान स्पर्शरसगन्धवर्णस्वराणि । हुण्डानि निर्लनौण्डजशरीराकृतीनि क्रूरकरुणवीभत्सप्रतिभयदर्शनानि दुःखभाज्यशुचीनि च तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधोऽधः । सप्त धनूंषि त्रयो हस्ताः षडङ्गुलमिति शरीरोच्छ्रायो नारकाणां रत्नप्रभायाम्। द्विर्दिंः शेषासु । स्थितिवच्चोत्कृष्टजघन्यता वेदितव्या ।।
अशुभतरवेदनाः । अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः । तद्यथा । उष्ण वेदनास्तीवास्ती व्रत रास्तीव्रतमाचातृतीयायाः । उष्ण
१ सर्वेषां हि जीवानां शरीराण्यात्मनो न गुरूणि नापि लघूनि इति अगुरुलघुपरिणामः । सचानिष्टोऽनेकविधदुःखाश्रयत्वात् ।
२ प्रेतीभूतानां श्वादीनामुदरदौर्गन्ध्यवद्दोर्गन्ध्याविशिष्टाः ।
३ अनुबद्धं - सततम् ।
४ यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तडुण्डमित्युच्यते । ५ निर्लूनं-भिन्नम् ।
६ रत्नप्रभानारकशरीराणां द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् । तदपि द्विगुणं तृतीयस्याम् । एवं यावत्सप्तम्यां पञ्चधनुः शतानि पूर्णानि । ७ बहूनामुष्णा स्तोकानां शीतेत्युष्णशीते ।
Page #109
--------------------------------------------------------------------------
________________
६७
तृतीयोऽध्यायः ।
शीते चतुर्थ्याम् । शीतोष्णे पञ्चम्याम् । परयोः शीताः शीततराश्चेति । तद्यथा । प्रथमर्शरत्काले चरमनिदाघे वा पित्तव्याधिप्रकोपाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशिपरिवृतस्य व्यभ्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तु - पारलिप्तगात्रस्य रात्रौ हृदयकरचरणाधरौष्टदशनायासिनि प्रतिसमयमवृद्धे शीतमारुते निरग्न्याश्रयमावरणस्य यादृशीतसमुद्भवं दुःखशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशाबुद्दीष्ठे प्राक्षिप्येत स किल सुशीतां मृदुमारुतं शीतलां छायामिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत एवं कष्टतरं नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनान्नरकादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सदन्तशब्दोत्तमकरप्रकम्पायास करेऽपि तत्र सुखं विन्द्यादनुपमां निद्रां चोपलभेत एवं कष्टतरं नारकं शीतदुःखमाचक्षत इति ॥
-
अशुभतरविक्रियाः । अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति । शुभं करिष्याम इत्यशुभतरमेव विकुर्वते । दुःखाभिभूतमनसश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतुविकुर्वत इति ।। ३ ।।
परस्परोदीरितदुःखाः ॥ ४ ॥ परस्परोदीरितानि दुःखानि नरकेषु नारकाणां भवन्ति । क्षेत्रस्वभावजनिताच्चाशुभात्पुद्गलपरिणामादित्यर्थः ॥
१ बहूनां शीता स्तोकानामुष्णेति शीतोष्णे ।
२ ऋतूनां द्विमासकत्वाद् द्वाभ्यां मासाभ्यां क्रमशः प्रथमत्वचरमत्वव्यवहारः । ३ आश्रयः-निवासस्थानम् ।
४ परस्परोदीरितानि - अन्योन्यदत्तानि ।
Page #110
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वाधिगमसूत्रेषु तत्र क्षेत्रस्वभावजनितपुद्गलपरिणामः शीतोष्णक्षुत्पिपासादिः। शीतोष्णे व्याख्याते क्षुत्पिपासे वक्ष्यामः । अनुपरतशुष्कन्धनोपादानेनैवाग्निना तीक्ष्णेन प्रततेन क्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहरयान्ति ते सर्वे पुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठोष्ठतालुजिह्वाः सर्वोदधीनपि पिबेयुर्न च तृप्तिं समाप्नुयुर्वर्धेयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि ॥
परस्परोदीरितानि च । अपि चोक्तम् । भवप्रत्ययोऽवधि - रकदेवानामिति । तन्नारकेष्ववंधिज्ञानमशुभभवहतुकं मिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति । भावदोषोपघातात्तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगूर्ध्वमधश्च दूरत एवाजलं दुःखहेतून्पश्यन्ति । यथा च काकोलूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा वापूर्वाञ शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योन्यं प्रहरन्ति च तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योन्यमालोक्य क्रोधस्तीत्रानुशयो जायते दुरन्तो भवहेतुकः। ततः प्रागेव दुःखसमुद्धातार्ताः क्रोधान्यादीपितमनसोऽतर्किता इव श्वानः समुद्धता वैक्रियं भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिलामुसलमुद्रकुन्ततोमरासिपट्टिशशक्त्ययोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदशनैश्वान्योन्यमभिघ्नन्ति । ततः परस्पराभिहता विकृतागा निस्तनन्तो गाढवेदनाः शूनाघाँतनप्रविष्टा इव माहिषसूकरोरोः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥४॥
१ अ. १ सू. २२. २ नवीनान अपरिचितानित्यर्थः । ३ शब्दयन्तः । ४ सौनिकस्य वधस्थाने प्रविष्टाः । ५ उरभ्रः-मेषः।
Page #111
--------------------------------------------------------------------------
________________
६९
तृतीयोऽध्यायः ।
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५॥
संक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्ति । तिसृषु भूमिषु प्राक् चतुर्थ्याः । तद्यथा । अम्बाम्बरीषश्यामशबलरुद्रोपरुद्रकालमहाकालास्यासिपत्रवनकुम्भीवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु संक्लिष्टकर्माणः पापाभिरतय आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति चित्राभिरुपपत्तिभिः । तद्यथा । तप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोधनाभिघातवासी क्षुरतक्षणक्षारतप्ततैलाभिषेचनायःकुम्भपाकाम्बरीषतजनयन्त्रपीडनायःशूलशलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनामूचीशाड्वलापकर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालककोकमार्जारनकुलसर्पवायसगृध्रकाकोलूकश्येनादिखादनैः तथा तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति ॥
स्यादेतत्किमर्थ त एवं कुर्वन्तीति । अत्रोच्यते । पापकर्माभिरतय इत्युक्तम् । तद्यथा गोवृषभमहिषवराहमेषकुक्कुटवार्तकालावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतः पश्यतांरागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते तथा तेषामसुराणां नारकांस्तथा तानि कारयतामन्योन्यं नतश्च पश्यतां परा प्रीतिरुत्पद्यते । ते हि दुष्टकन्दपस्तिथाभूतान् दृष्ट्वाट्टहासं मुश्चन्ति चेलोत्क्षेपान्क्ष्वोडितास्फोटितावल्लिते तलतालनिपातनांश्च कुर्वन्ति महतश्च सिंहनादानदन्ति । तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेध्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपह
१ शल्यते बाध्यतेऽनेनेति शल्यम् क्लेशज्वरस्वरूपत्वे सति संयमस्वरूपभेदित्वं शल्यस्य लक्षणम् । तच्च शल्यं द्रव्यतस्तोमरादि, भावतस्तु इदं त्रिविधं मायानिदानमिथ्यादर्शनभेदात् (१) माया-निकृतिः सैव शल्यं मायाशल्यम् । (२) नितरां दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्द्धयादिप्रार्थनपरिणामनिशितासिनेति निदानम् , (३) मिथ्या-विपरीतं दर्शनं मिथ्यादर्शन मिति ।
Page #112
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु .... . तस्यानालोचितभावदोषस्याप्रत्यवमर्षस्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभा एव प्रीतिहेतवः समुत्पद्यन्ते ॥
___ इत्येवमप्रीतिकरं निरन्तरं सुतीव्र दुःखमनुभवतां मरणमेव काङ्क्षतां तेषां न विपत्तिरकाले विद्यते कर्मभिर्धारितायुषाम् । उक्तं हि । ' औपपातिकचरमदेहोत्तमपुरुषासङ्घयेयवर्षायुषोऽनपव
ायुष' इति। नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति ॥
एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशहाविंशतित्रयस्त्रिंशत्सागरोपमा
सत्त्वानां परा स्थितिः ॥ ६ ॥ तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथा । रत्नप्रभायामेकं सागरोपमम् । एवं त्रिसागरोपमा सप्तसागरोपमा दशसागरोपमा सप्तदशसागरोपमा द्वाविंशतिसागरोपमा त्रयस्त्रिंशत्सागरोपमा । जघन्या तु पुरस्ताद्वक्ष्यते । 'नारकाणांच द्वितीयादिषु। दशवर्षसहस्राणि प्रथमायाम्' इति ।
तत्रांस्रवैर्यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामु
१ अ. २ सू. ५२. २ दण्डेन अम्भास जले कृता रेखेव । ३ अ. ४ सू. ४३. ४ अ. ४ सू. ४४, ५ कायवाङ्मनःकृतशुभाशुभकर्मागमनरूपत्वमास्रवस्य लक्षणम् ।
Page #113
--------------------------------------------------------------------------
________________
७१
तृतीयोऽध्यायः ।
मुत्पद्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः एवं पक्षिणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु | मत्स्यमनुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्तिं प्राप्नुवन्ति । न हि तेषां बद्द्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति । नायुद्वर्त्य नारका देवेषूत्पद्यन्ते । न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति । उद्द्वर्तितास्तु तिर्यग्योनौ मनुष्येषु वोत्पद्यन्ते । मानुषत्वं प्राप्य केचित्तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः निर्वाणं चतसृभ्यः संयमं पञ्चभ्यः संयमासंयमं षड्भ्यः सम्यग्दर्शनं सप्तभ्योऽपीति ॥
द्वीपसमुद्रपर्वत हद तडागसरांसि ग्रामनगरपत्तनादयो विनिवेशा बांदरी वनस्पतिकाय वृक्षतृणगुल्मादिः द्वीन्द्रियादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र समुद्वातोपपातविक्रियासाङ्गतिकनरॅकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति नान्यासु । गतिस्तृतीयां यावत् ॥
यच्च वाव आपो धारयन्ति न च विष्वग्गच्छन्त्यापश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते पृथिव्यश्वाप्सु विलयं न गच्छन्ति तत्तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोक विनिवेशस्य लोकस्थितिरेव हेतुर्भवति ॥
अत्राह । उक्तं भवता लोकाकाशेऽवगाहः । तदनन्तरं ऊर्ध्व गच्छत्यालोकान्तादिति । तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति । अत्रोच्यते ।।
१ बादरः - स्थूलः ।
२ अस्मन्मुद्राषयिष्यमाणस्याद्वादमञ्जर्यो नवम श्लोकस्य चरमप्रघट्टके टिप्पन्याम् |
३ सांगतिकं - पूर्वजन्ममित्रभूतम् ।
४ नरकपालाः - महापापिनः ।
Page #114
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु । ७२ पञ्चास्तिकायसमुदायो लोकः । ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च । स लोकः क्षेत्रविभागेन त्रिविघोऽधास्तर्यगूज़ चेति । धर्माधर्मास्तिकायौ लोकव्यवस्थाहेतू । तयोरवगाहविशेषाल्लोकानुभावनियमात् सुप्रतिष्टकवज्राकृतिर्लोकः । अधोलोको गोकन्धराधरार्धाकृतिः। उक्तं ह्येतत् । भूमयः सप्ताधोऽधः पृथुतराच्छत्रातिच्छत्रसंस्थिता इति ता यथोक्ताः । तिर्यग्लोको झल्ल
कृतिः । उर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रसिद्धयर्थमिदमाकृतिमात्रमुच्यते ॥ ६॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥७॥
जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः शुभनामान इति । यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । शुभान्येव वा नामान्येषामिति ते शुभनामानः। द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपो यथासङ्ख्यम् । तद्यथा। जम्बूद्वीपो द्वीपो लवणोदः समुद्रः धातकीखण्डो द्वीपः कालोदः समुद्रः पुष्करवरो द्वीपः पुष्करोदः समुद्रः वरुणवरो द्वीपो वरुणोदः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रो घृतवरो द्वीपो घृतोदः समुद्र इक्षुवरो द्वीप इक्षुवरोदः समुद्रः नन्दीश्वरो द्वीपो नन्दीश्वरवरोदः समुद्रः अरुणवरो द्वीपोऽरुणवरोदः समुद्र इत्येवमसङ्खोया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति ॥७॥ द्विढिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥
सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विििर्वष्कम्भाः पूर्वपूर्व
१ पञ्चमाध्याये।
२ स्वयं भवन्तीति स्क्यंभुवो देवास्ते यत्रागत्य रमन्त इति स्वयंभूरमणः, अर्धरज्जुप्रमाणः प्रान्तसमुद्रः ।
३ विष्कम्भः-मध्यविस्तारः ।
Page #115
--------------------------------------------------------------------------
Page #116
--------------------------------------------------------------------------
________________
સૌ ધર્મ દેવલોક
- ઈશાન દેવલોક
® (@S
રાનિ મંગલ ગુર શુ કે
ooooo
માલા નક્ષત્રમાંકે
ચદ
मेरुपर्वतः।
पृ. ७३
Page #117
--------------------------------------------------------------------------
________________
७३
तृतीयोऽध्यायः। परिक्षेपिणो वलयाकृतयः प्रत्येतव्याः । तद्यथा । योजनशतसहस्रविष्कम्भो जम्बूद्वीपस्य वक्ष्यते । तद्विगुणो लवणजलसमुद्रस्य । लवणजलसमुद्रविष्कम्भाद् द्विगुणो धातकीखण्डद्वीपस्थस्य । इत्येवमास्वयम्भूरमणसमुद्रादिति ॥
पूर्वपूर्वपरिक्षेपिणः। सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः । जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः। लवणजलसमुद्रो धातकीखण्डेन परिक्षितः धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः । कालोदसमुद्रः पुष्करवरद्वीपार्थेन परिक्षिप्तः पुष्करद्वीपार्ध मानुषोत्तरेण पर्वतेन परिक्षतम् । पुष्करवरद्वीपः पुष्करवरोदेन समुद्रेण परिक्षिप्तः। एवमास्वयम्भूरमणात्समुद्रादिति ॥
वलयाकृतयः । सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणति ॥८॥
तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९॥
तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये ॥ मेरुनाभिः । मेरुरस्य नाभ्यामिति मेरुर्वास्य नाभिरिति मेरुनाभिः। मेरुरस्य मध्य इत्यर्थः॥ सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतियोंजनशतसहस्राविष्कम्भो जम्बूद्वीपः । वृत्तग्रहणं नियमार्थम् । लवणादयो वलयवृत्ता जम्बूद्वीपस्तु प्रतैरवृत्त इति । यथा गम्येत वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यते तथा च माभूदिति ॥
मेरुरापि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधोधराणि
१ अ. ३ सू. ९, २ कुलालचक्रवद्वर्तुंलाकारः ।।
Page #118
--------------------------------------------------------------------------
________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ७४ तलमवगाढो नवनवत्युच्छ्रितो दशाधो विस्तृतः सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुर्भिवनैर्भद्रशालनन्दनसौमनसपाण्डकैः परिवृत्तः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम् । द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम् । तृतीयं षट्त्रिंशत्सहस्राणि जम्बूनदबहुलम् । वैडूर्यबहुला चास्य चूलिका चत्वारिंशयोजनान्युच्छ्रायेण मूले द्वादशविष्कम्भेण मध्येऽष्टौ उपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रशालवनात्पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् । ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । ततोऽपि षट्त्रिंशत्सहस्राण्यारुह्य चतुर्नवतिचतुःशतप्रतिक्रान्तिविस्तृतं पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति ॥ ९॥
तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरा
वतवर्षाः क्षेत्राणि ॥ १०॥ तत्र जम्बूद्वीपे भरतं हैमवतं हरयो विदेहा रम्यक हैरण्यवतमैरावतमिति सप्त वंशाः क्षेत्राणि भवन्ति । भरतस्योत्तरतो हैमवतं हैमवतस्योत्तरतो हरय इत्येवं शेषाः । वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति । सर्वेषां चैषां व्यवहारनयापेक्षादादित्यकृतादिनियमादुत्तरतो मेरुर्भवति । लोकमध्यावस्थित चाष्टप
१ वंशाः किल पर्ववन्तो भवन्ति तद्वत्पर्वविभागजननात् वंशा एवामी भरतादयः । वर्षसंनिधानाच्च वर्षाः । मनुजादिनिवासाच्च वास्याः ।
२ व्यवहारो हि संगृहीतानां पदार्थानां विधिपूर्वकमवहरण लोकप्रसिद्धव्यवहारतत्परत्वात् , न खलु निश्चयमवलम्बते सर्वव्यवहारोच्छेदप्रसंगात् ।
३ नैश्चयिकी दिक् कथं प्रतिपत्तव्येत्यत आह-लोकमध्यावस्थितमिति ।
Page #119
--------------------------------------------------------------------------
________________
७५
तृतीयोऽध्यायः। देशं रुचकं दिग्नियमहेतुं प्रतीत्य यथासम्भवं भवतीति ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ ____ तेषां वर्षाणां विभक्तारो हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरी इत्येते षड् वर्षधराः पर्वताः । भरतस्य हैमवतस्य च विभक्ता हिमवान् हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः॥ . तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा भरतविष्कम्भः । स द्विार्हिमवद्धैमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽर्धाहीनाः ॥ पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छायो हिमवान् ।। तद्धिमहाहिमवान् । तद्विनिषध इति ॥ ..
भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येकसप्ततानि षट् च भागा विशेषतो ज्या इषुर्यथोक्तो विष्कम्भः ।
१ रुचकः-तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां प्रत्येकं रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लकौ द्वौ नभःप्रदेशप्रतरौ विद्यते। तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनप्रतरस्य ये चत्वारो नभःप्रदेशास्तथा-अधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणामपि च विदिशां प्रभवः ( उत्तत्तिस्थानम् ) मन्तव्यः-तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तौ सर्वक्षुल्लकप्रतरौ, तयोरुपारतनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतस्रो रुचको दिशामनुदिशां च प्रभव उत्पत्तिस्थानामति । ( आचा. १ श्रु.)
२ 'अत्र सुगमत्वार्थ योजनानां कला एव कल्प्याः स्युस्ताश्च जम्बूद्वीपपरिमाणे एकोनविंशतिलक्षा जायन्ते । अयं प्रकार इह अवगाह इति भण्यते । ततः इच्छावगाहो यस्य कस्यचित्क्षेत्रस्य विष्कम्भावगाहः प्रवेदनीयः स च कलागणनया भरतस्य दशसहस्री भवति । अनेन इच्छावगाहेन कृत्वा ऊनो हीनश्वासाववगाहः प्रागुक्तस्वरूपश्व इच्छावगाहोनावगाहः १८९०००० तेन अभ्यस्तो गुणित इच्छावगाहोनावगाहाभ्यस्तस्तथाभूतस्य विष्कम्भस्य भरतादिविस्तारस्य १८९०००००००० ततश्चतुर्गुणस्य ७५६०००००००० यत् किल मूलं समायाति २७४९५५ अथ योजनशानाय एकोनविशंतिभागो देयः १४४७१।६ इयं भरतज्या ।
Page #120
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु धनुःकाष्ठं चतुर्दशसहस्राणि शतानि पश्चाष्टाविंशान्येकादश च भागाः साधिकाः॥
___ भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढ्यपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पञ्चाशद्विस्तरतः पञ्चविंशत्युच्छ्रितः॥
विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवो विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ । एवमेवोत्तरेणोत्तराः कुरवश्चित्रकूटविचित्रकूटहीना द्वाभ्यां च काश्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः॥
विदेहा मन्दरदेवकुरूत्तरकुरुभिर्विभक्ताः क्षेत्रान्तरवद्भवन्ति पूर्वे चापरे च । पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परागमाः अपरेऽप्येवंलक्षणाः षोडशैव ॥
तुल्यायामविष्कम्भावगाहोच्छ्रायौ दक्षिणोत्तरौ वैताढयौ तथा हिमवाच्छखरिणौ महाहिमवगुक्मिणौ निषधनीलौ चेति ॥
क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीखण्डकपुष्करार्धका महामन्दरात्पञ्चदशभिर्योजनसहस्त्रैर्हीनोड्रायाः । षड्भिर्योजनशतैधरणतले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरतुल्यम् । द्वितीयं सप्तभित्नम् । तृतीयमष्टाभिः। भद्रशालनन्दनवने महामन्दरवत् । ततोऽर्धषट्पञ्चाशद्योजनसहस्राणि सौमनसं पञ्चशतं विस्तृतम् । ततोऽष्टाविंशतिसहस्राणि चतुर्नवति चतुःशतविस्तृतमेव पाण्डकं भवति । उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण । चूलिका
चेति ॥
१ परस्परेणागम्याः क्षेत्रविशेषा इत्यर्थः ।
Page #121
--------------------------------------------------------------------------
________________
७७
७७ . तृतीयोऽध्यायः ।
विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः । स विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं शेषामिषुः । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य कृतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तामषुवमिषुविभक्तं तत्मकतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठादक्षिणं शोध्य शेषाधु बाहुरिति ॥ ___ अनेन कारणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानामायामावविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥११॥
द्विर्धातकीखण्डे ॥ १२ ॥ एते मन्दरवंशवर्षधरा जम्बूद्वीपेऽभिहिता एते द्विगुणा धातकीखण्डे द्वाभ्यामिष्वाकरपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः । एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः पूर्वार्धे चापरार्धे च चक्रारकसंस्थिता निषधसमोड्रायाः कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः । अरविवरसंस्थिता वंशा इति ॥ १२ ॥
पुष्करार्धे च ॥ १३ ॥ यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषयनियमः स एव पुष्करार्धे वेदितव्यः ।
- १२ नियमादवश्यतया धनुःपृष्ठवर्गात् जीवावर्ग विशोध्यापनीयशेषस्य षड्भागे षड्भिर्भागे हृते यन्मुलमागच्छति तदिषुरिषुपरिमाणं भवति ।
इह भरतस्य इषुकलाः १०००० तद्वर्गस्तु १०००००००० षड्गुणः स च ६०००००००० अतः परं ज्या चिन्तनीया । सा तु २७४९२५ तद्वर्गः स च ७५५४०२५२०२५ एतौ द्वावपि इषुज्यावर्गावकत्र संयोज्य मूलं निस्कास्यम् । तच्चेदं २७६०४३ तत एकोनविंशतिभागैः प्राप्यन्ते १४५२८।११ इदं भरतक्षेत्रधनुपृष्ठम् । ' उसुवग्गि छगुणजीवा-वग्गजूए मूल हाइ धणुपिठं' इति वचनात् । . ३ सम्पूर्णभरतस्य धनु:काष्ठं कृत्वा दक्षिणार्धभरतस्यापि धनुःकाष्ठं क्रियते । इदं च महतः सकाशात्त्याज्यम् । शेषमर्धदलितं सद्वैताढययुतोत्तरभरतस्य बाहुयुगं स्यात् । यतः 'धणुदुगविसेससेसं दलियं बाहायुगं होइ ' इति वचनात् ।
Page #122
--------------------------------------------------------------------------
________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ७८ ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी सुनगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः सप्तदशैकविंशतियोजनशतान्युच्छ्रितश्चत्वारि त्रिंशानि क्रोशं चाधो धरणीतलमवगाढो योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः सप्तशतानि त्रयोविंशानि मध्ये चत्वारि चतुर्विंशान्युपरीति ॥
न कदाचिदस्मात्परतो जन्मतः संहरणतो वा चारणविद्याधर्द्धिप्राप्ता अपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च । अन्यत्र समुद्धातोपपाताभ्याम् । अत एव च मानुषोत्तर इत्युच्यते ॥
तदेवमर्वाङ्मानुषोत्तरस्यार्धतृतीया द्वीपाः समुद्रद्वयं पञ्चमन्दराः पञ्चत्रिंशत्क्षेत्राणि त्रिंशद्वर्षधरपर्वताः पञ्च देवकुरवः पश्चोत्तराः कुरवः शतं षष्टयधिकं चक्रवर्तिविजयानां द्वे शते पञ्चपञ्चाशदधिके जनपदानामन्तरद्वीपाः षट्पञ्चाशदिति ॥ १३ ॥
अत्राह । उक्तं भवता मानुषस्य स्वभावमार्दवार्जवत्वं चेति तत्र के मनुष्याः क चेति । अत्रोच्यते
प्राग्मानुषोत्तरान्मनुष्याः ॥ १४ ॥ प्राग्मानुषोत्तरात्पर्वतात्पश्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यार्द्धयोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समुद्रव्ये च समन्दरशिखरेष्विति ॥
भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन । जम्बूद्वीपका लवणका इत्येवमादयः द्वीपसमुद्रविभागनेति ॥१४॥
१ तपोविशेषानुष्ठानाज्जङ्घाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान गच्छन्ति चैत्यवन्दनायै । विद्याधरा महाविद्यासंपन्ना ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतः । नतु प्राणान् परित्यजन्ति तत्रैवेति ।।
२ कच्छादयो विजयनामानो द्वात्रिंशज्जनपदा जम्बूद्वीपे । चतुःषष्टिर्धातकीखण्डे पुष्करार्धे च । ततः १६० भवन्ति । भरतैरावतापेक्षयार्यजनपदा द्विशतं पञ्चाशच्च भवन्ति । तत्र तावदेकत्रापि भरतवर्षे अर्धषड्विंशा देशा आर्यसंज्ञा मगधादयः ।
Page #123
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः ।
आर्या म्लिशश्च ॥ १५॥ द्विविधा मनुष्या भवन्ति ) आर्या म्लिशश्च ॥ तत्रार्याः षड्विधाः । क्षेत्रार्या जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषार्या इति । तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाताः । तद्यथा । भरते वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा राजन्या इत्येवमादयः। कुलार्याः कुलकराश्चक्रवार्तनो बलदेवा वासुदेवा ये चान्ये आतृतीयादापश्चमादासप्तमाद्वा कुलकरे
१ तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला आर्याः।
२ एतद्विपरीतास्तु मिलशा भवन्ति अव्यक्तानियतभाषाचेष्टत्वात् । ३ पित्रन्वयो जातिः । ४ मात्रन्वयः कुलम् ।
५ अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा सुषमदुःषमाभिधाना तस्या यः पश्चिमो भागस्तस्मिन् । पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिरभूत् । अर्धभरतमध्यमत्रिभागे-गंगासिंधुमध्येऽत्र एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु । उत्पन्नाः कुलकराः सप्त । इहाभरतं विद्याधरालयवैतान्यपर्वतादारतः परिग्राह्यं न तु परतः, व्याख्यानात् । १ विमलवाहनः २ चक्षुष्मान् ३ यशस्वी ४ अभिचन्द्रः ५ प्रसेनजित् ६ मरुदेवः ७ नाभिः।
जम्बूद्वीपप्रज्ञप्तया पंचदश कुलकरास्तेषां नामानि--१ सुमतिः २ प्रतिश्रुतिः ३ सीमकरः ४ सीमंधरः ५ क्षेमंकरः ६ क्षेमंधरः ७ विमलवाहनः ८ चक्षुष्मान् ९ यशस्वी १० अभिचन्द्रः ११ चन्द्राभः १२ प्रसेनजित् १३ मरुदेवः १४ नाभिः १५ ऋषभ । इति ।
अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामाभधानादिह पंचदशानां तेषामभिधानं कथम् ? यदि वा भवतु नामैतत् पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णनस्य न्याय्यत्वात् ।
Page #124
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
भ्यो वा विशुद्धान्वयप्रकृतयः । कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः । शिल्पांर्यास्तन्तुवायकुलालनापिततुन्नवायदेवंटादयोऽल्पसावद्या आगर्हिता जीवाः । भाषार्या नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्टशब्दं पञ्चविधा नामप्यार्याणां संव्यवहारं भषन्ते ||
८०
अतो विपरीता ग्लिशः । तद्यथा । हिमवतश्चतसृषु विदिक्षु त्रीणि योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति त्रियोजनशतविष्कम्भायामाः । तद्यथा । एकोरुकाणामाभाषकाणां लागुलिकानां वैषाणिकानामिति ॥ चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामाविष्कम्भा एवान्तरद्वीपाः । तद्यथा । हयकर्णानां गजकर्णानां गोकर्णानां शष्कुलिकर्णानामिति ॥ पञ्च योजनशतान्यवगाह्य पञ्च योजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । गजमुखानां व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति ॥ षड् योजनशतान्यवगाद्य तावदायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति ॥ सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा
१ अनाचार्यकं किल कर्म तत्रार्याः कर्मयः ।
२ आचार्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः । ३ एतच्छब्दार्थः सम्प्रदायतो ज्ञेयः ।
४ शिष्टाः सर्वातिशयसंपन्ना गणधरादयः तेषां भाषा संस्कृतार्धमाग धिकादिका च तत्र शिष्टभाषानियता वर्णा विशिष्टेन पौर्वापर्येण संनिवेशिता यस्यासौ ।
५ लोकरूढः अत्यन्तप्रसिद्धः संव्यवहारेषु स्फुट: नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् ।
६ क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारम् आगच्छ याहि इदं कुरु मै कार्षीरित्येवमादिकं भाषन्ते ये ते भाषायः ।
७ शकयवन किरातादयः लिशः ।
Page #125
--------------------------------------------------------------------------
________________
८१
एवान्तरद्वीपाः । तद्यथा । अश्वकर्णसिंहकर्णहास्तिकर्णकर्णमावरणनामानः ॥ अष्टौ योजनशतान्यवगाह्याष्ट्रयोजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा । उल्कामुखविद्युज्जिह्वमेषमुखविद्युद्दन्तनामानः । नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरद्वीपा भवन्ति । तद्यथा । घनदन्तगूढदन्तविशिष्टदन्तशुद्धदन्तनामान: । एकोरुकाणामेकोरुकद्वीपः । एवं शेषाणामपि स्वनाम - भिस्तुल्यनामानो वेदितव्याः || शिखरिणोऽप्येवमेवेत्येवं षट्पञ्चा शदिति ॥ १५ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य:
॥ १६ ॥
मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति । अन्यत्र देवकुरूत्तरकुरुभ्यः । संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य ज्ञातारः कर्त्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते । अत्रैव जाताः सिद्धयन्ति नान्यत्र । अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति । शेषासु विंशतिर्वशाः सान्तरद्वीपा अकर्मभूमयो भवन्ति । देवकुरूत्तरकुरवस्तु कर्मभूम्यभ्यन्तरा अप्यकर्मभूमय इति ॥ १६ ॥
तृतीयोऽध्यायः ।
१ एतचान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैः । येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते । अनार्षे चैतदध्यवसीयते । जीवाभिगमादिषु षट्1 पञ्चाशदन्तरद्वीपकाध्ययनात् । नापि वाचकमुख्याः सूत्रोल्लंघनेन भिदधति । असंभाव्यमानत्वात् । तस्मात् सैद्धान्तिकपाशैर्विनाशितमिदमिति [ सिद्ध. टी. ] एवमेव हरिभद्रटीकायाम् ।
२ सकलकर्माग्नेर्विध्यापनाय सिद्धिप्राप्त्यै भूमयः कर्मभूमयः ।
११
Page #126
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ८२ नृस्थिती परापरे त्रिपल्योमान्तर्मुहूर्ते ॥ १७ ॥
नरो नरा मनुष्या मानुषा इत्यनान्तरम् । मनुष्याणां परा स्थितिस्त्रीणि पल्योपैमान्यपरान्तर्मुहूर्तेति ॥ १७ ॥
तिर्यग्योनीनां च ॥ १८ ॥ तिर्यग्योनिजानां च परापरेस्थिती त्रिपल्योपमान्तर्मुहूर्ते भवतो यथासङ्ख्यमेव । पृथक्करणं यथासङ्ख्यदोषविनिवृत्त्यर्थम् । इतरथा इदमेकमेव सूत्रमभविष्यदुभत्रय चोभे यथासङ्ख्यं स्यातामिति ॥ .
द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः । भवस्थितिः कार्यस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि ॥
तिर्यग्योनिजानां च यथोक्तं समासतः परापरे भवस्थिती । व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादशवर्षसहस्राणि । खरपृथिवीकायस्य द्वाविंशतिः । अप्कायस्य सप्त । वायुकायस्य त्रीणि । तेजःकायस्य त्रीणि रात्रिंदिनानि । वनस्पतिकायस्य दशवर्षसहस्राणि। एषां कायस्थितिरसङ्घयेया अवसर्पिण्युत्सार्पण्यो वनस्पतिकायस्या
१ परा-उत्कृष्टा । अपरा-जघन्या । २ अ. ४ सू. १५. ३ मनुष्यजन्मलब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति प्राणी जघन्यनोत्कर्षण
वेति ।
४ मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येष्वेव मनुष्यः । तिर्यक्ष्वेव तिर्यग्योनिनैरन्तर्येण कतिकृत्वः समुत्पद्यते ।
५ अष्टमभवे तु देवकुरूत्तरकुरुपूत्पद्यते पश्चाद् देवलोकं गच्छति । ६ अ. ३ सू. १७. ७ अ. ४ सू. १५.
Page #127
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः। नन्ताः । द्वीन्द्रियाणां भवस्थितिर्दादशवर्षाणि । त्रीन्द्रियाणामेकोनपञ्चाशद्वात्रिंदिनानि । चतुरिन्द्रियाणां षण्मासाः । एषां कायस्थितिः सङ्खयेयानि वर्षसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः। तद्यथा । मत्स्या उरगाः परिसर्पाः पक्षिणश्चतुष्पदा इति । तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव पक्षिणां पल्योपमासवयेयभागश्चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः । तत्र मत्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशद्भुजगानां द्विसप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मार्छिमानां भवस्थिातः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थितिरप्यपरान्तर्मुहूतैवेति॥१८॥ इति तत्त्वार्थाधिगमसूत्रेषु लोकप्रज्ञाप्तिामा
तृतीयोऽध्यायः समाप्तः ॥३॥
Page #128
--------------------------------------------------------------------------
________________
अथ चतुर्थोऽध्यायः ।
अत्राह । उक्तं भवता भवप्रत्ययोऽवधिर्नारकदेवनामिति । तथौदायकेषु भावेषु देवगतिरिति । 'केवलिश्रुतसङ्घधर्मदेवीवर्णवादो दर्शनमोहस्य'' सरागसंयमादयो देवस्य' । 'नारकसम्मूर्छिनो नपुंसकानि' 'न देवी:' । तत्र के देवाः । कतिविधा वेति । अत्रोच्यते
देवाश्चतुर्निकायाः ॥ १ ॥
देवाश्चतुर्निकाया भवन्ति । तान्परस्ताद्वक्ष्यामः ॥ १ ॥ तृतीयः पीतलेश्यः ॥ २ ॥
तेषां चतुर्णी देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ । ज्योतिष्क इति ॥ २ ॥
1
1
दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥
ते च देवनिकाया यथासङ्खयमेवं विकल्पा भवन्ति । तद्यथा ।
१ अ. १ सू. २२.
२ अ. २ सू. ६ भाष्ये ।
३ अ. ६ सू. १४.
४ अ. ६ सू. २०.
५ अ. २ सू. ५०.
६ अ. २ सू. ५१.
७ वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति । प्रधानत्वात्, अन्यथा भवनपतयोऽघोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति ।
८ अ. ४ सू. ११-१२-१३-१७.
Page #129
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः दशविकल्पा भवनवासिनोऽसुरादयो वक्ष्यन्ते । अष्टविकल्पा व्यन्तराः किन्नरादयः । पञ्चविकल्पा ज्योतिष्काः सूर्यादयः । द्वादशविकल्पा वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मादिष्विति ॥३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः ॥ ४ ॥
एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति । तद्यथा। इन्द्राः सामानिकाः त्रायस्त्रिंशाः पारिषद्याः आत्मरक्षाः लोकपालाः अनीकानि अनीकाधिपतयः प्रकीर्णकाः आभियोग्याः किल्बिाषिका वेति । तन्द्राः भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः इन्द्रसमाः सामानिका अमात्यापितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः। पारिषद्या वयस्यस्थानीयाः । आत्मरक्षाः शिरोरक्षस्थानीयाः । लोकपाला आरक्षिकार्थचरस्थानीयाः । आनिकाधिपतयो दण्डनायकस्थानीयाः । अनीकान्यनीकस्थानीयान्येव । प्रकीर्णकाः पौरजनपदस्थानीयाः। आभियोग्या दासस्थानीयाः । किल्विपिका अन्तस्थस्थानीया इति ॥ ४ ॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥
१ अ. ४ सू. ११. २ अ. ४ सू. १२. ३ अ. ४ सू. १३. ४ अ. ४ सू. १७.
५ अन्ते परिगताः पर्यन्ता कल्पोपपन्नाः पर्यन्ताः येषां ते इमे कल्पोपपन्नपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधर्मादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति । परे तु द्विर्विकल्पा:-प्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च ।
६ अ. ४ सू. २०-२४.
Page #130
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति त्रायस्त्रिंशलोकपालवा इति ॥ ५ ॥
पूर्वयोज़न्द्राः॥६॥ पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः। तद्यथा। भवनवासिषु तावद् द्वौ असुरकुमाराणामिन्द्रौ भवतश्चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णोऽवशिष्टश्च । दिक्कुमाराणाममितोऽमितवाहनश्चेति ॥ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिस्तयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽतिरूपश्च । पिशाचानां कालो महाकालश्चेति । ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च ॥ वैमानिकानामेकैक एव । तद्यथा । सौधर्मे शक्रः । ऐशाने ईशानः। सनत्कुमारे सुनत्कुमार इति । एवं सर्वकल्पेषु स्वकल्पावाः । परतस्त्विन्द्रादयो दश विशेषा न सन्ति । सर्व एव स्वतन्त्रा इति ॥६॥
पीतान्तलेश्याः ॥ ७ ॥ पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति ॥७॥
१ अच्युतकल्पात्परतः इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिकेषु च न भवन्ति । सर्व एव हि ते स्वतंत्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति ।
२ कृष्णा, नीला, कापोता, पीतेति ।
Page #131
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः ।
कायप्रवीचारा आ ऐशानात् ॥ ८ ॥
भवनवास्यादयो देवा आ ऐशानात्कायप्रवीचारा भवन्ति । कायेन प्रवीचार एषामिति कायप्रवीचाराः । प्रवीचारो नाम मैथुनविषयोपसेवनम् । ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुन सुखमनुपलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्त इति ।। ८ ॥
शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः ॥ ९॥
८७
ऐशानादूर्ध्वं शेषाः कल्पोपपन्ना देवा द्वयोर्द्वयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्क्षयम् । तद्यथा । सनत्कुमारमाहेन्द्रयोर्देवान्मैथुन सुखप्रेप्सूनुत्पन्नास्थान्विदित्वा देव्य उपतिष्ठन्ते । ताः स्पृष्टैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोर्देवानेवंभूतोत्पन्ना स्थान्विदित्वा देव्यो दिव्यानि स्वभावभावस्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति । तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति ॥ तथा महाशुक्रसहखारयोर्देवानुत्पन्नप्रवीचारास्थान्विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहराञ् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान्हसितकथितगीतशब्दानुदीरयन्ति । ताञ् श्रुत्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति ।। आनतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पन्नास्था देवीः संकल्पयन्ति संकल्पमात्रेणैव ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ एभिश्च प्रवीचारैः परतः परतः प्रीतिप्रकर्षविशेषोऽनुपमगुणो भवति प्रवीचारिणामल्पसंक्लेशत्वात् । स्थितिप्रभावाभिरधिका इति वक्ष्यते ॥ ९ ॥
१ अ. ४ सू. २१.
Page #132
--------------------------------------------------------------------------
________________
८
समाष्यतत्वार्थाधिगमसूत्रेषु
परेऽप्रवीचाराः ॥१०॥ कल्पोपपत्रेभ्यः परे देवा अप्रवीचारा भवन्ति । अल्पसंक्लेशत्वात् स्वस्थाः शीतीभूताः । पञ्चविधप्रवीचारोद्भवादपि प्रीतिविशेषादपरिमितगुणमीतिप्रकर्षाः परमसुखतृप्ता एव भवन्ति ॥ १० ॥ ___अत्राह । उक्तं भवता देवाश्चतुर्निकाया दशाष्टपञ्चद्वादशविकल्पा इत्युक्ते निकायाः के के चैषां विकल्पा इति । अत्रोच्यते । चत्वारो देवनिकायाः । तद्यथा। भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥
तत्रभवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनितोदधि
द्वीपदिक्कुमाराः ॥ ११ ॥ प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा-१ असुरकुमारा २ नागकुमारा ३ विद्युत्कुमाराः ४ सुपर्णकुमारा ५ अग्निकुमारा ६ वातकुमाराः ७ स्तनितकुमारा ८ उदधिकुमारा ९ द्वीपकुमारा १० दिक्कुमारा इति। कुमारवदेते कान्तदर्शनाः सुकुमारा मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवचोद्धतरूपवेषभाषाभरणपहरणावरणयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति शेषास्तु भवनेषु । महामन्दरस्य दाक्षिणोत्तरयोर्दिग्विभागयोर्बवीषु योजनशतसहस्रकोटीकोटीष्वावासा भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीनां च यथास्वं
१ परे-कल्पातीताः । अ. ४ सू. २४. २ उद्रिक्तस्नेहाः।
३ शेषास्तु नागादयो भवनेष्वेव प्रायो वसन्ति नावासेषु । तानि च भवनानि बाहिवृत्तान्यन्तश्चतुरस्राणि अधःपुष्करकर्णिकासंस्थानानि ।
Page #133
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः ।
भवन्ति । तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति । भवनेषु वसन्तीति भवनवासिनः ।
भवप्रत्ययाश्चैषामिमा नामकर्मनियमात्स्वजातिविशेषनियता विक्रिया भवन्ति । तद्यथा । गम्भीराः श्रीमन्तः काला महाकाया रत्नोत्कटमुकुटभास्वराश्चूडामणिचिह्ना असुरकुमारा भवन्ति । शिरोमुखेष्वधिकप्रतिरूपाः कृष्णश्यामा मृदुललितगतयः शिरस्सु फणिचिह्ना नागकुमाराः । स्निग्धा भ्राजिष्णवोऽवदाता वज्रचिह्ना विद्यु त्कुमाराः अधिकरूपग्रीवोरस्काः श्यामावदाता गरुडचिह्नाः सुपर्णकुमाराः । मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाता घटचिह्ना अग्निकुमारा भवन्ति । स्थिरपीनवृत्तगात्रा निमनोदरा अश्वचिह्ना अवदाता वातकुमाराः । स्निग्धाः स्निग्धगम्भीरानुनाद महास्वनाः कृष्णा वर्धमानचिह्नाः स्तनितकुमाराः । ऊरुकटिष्वधिक प्रतिरूपाः कृष्णश्यामा मकरचिह्ना उदधिकुमाराः । उरः स्कन्धवाह्रग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिह्ना द्वीपकुमाराः । जङ्घाग्रपादेष्वधिकप्रतिरूपाः श्यामा हस्तिचिह्ना दिकुमाराः । सर्वे विविधवस्त्राभरणप्रहरणावरणा भवन्तीति ॥ ११ ॥
व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ १२ ॥
·
अष्टविधो द्वितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । अधस्तिर्यगूर्ध्वं च त्रिष्वपि लोकेषु भवननगरेष्वावासेषु
१ तस्मिन्नेव स्थाने नवतिसहस्राण्यधोऽवगाह्य । आवासास्तु सहस्रद्वयपरिवर्जिSतयां रत्नप्रभायां सर्वत्रेत्यभिप्रायः ।
२ बहलस्य भावः बाहल्यम् । अर्धशब्दो न्यूनत्ववाची ।
१२
Page #134
--------------------------------------------------------------------------
________________
सभाध्यतस्वार्थाधिगमसूत्रेषु च प्रतिवसन्ति । यस्माच्चाधस्तिर्यगूज़ च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारा मनुप्यानपि केचिद्धृत्यवदुपचरन्ति विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ।
तत्र किन्नरा दशविधाः । तद्यथा-१ किन्नराः २ किम्पुरुषाः ३ किम्पुरुषोत्तमाः ४ किन्नरोत्तमा ५ हृदयंगमा ६ रूपशालिनो ७ ऽनिन्दिता ८ मनोरमा ९ रतिप्रिया १० रतिश्रेष्ठा इति॥ किम्पुरुषा दशविधाः। तद्यथा-१ पुरुषाः २सत्पुरुषा ३महापुरुषाः ४ पुरुषवृषभाः ५ पुरुषोत्तमा ६ अतिपुरुषा ७ मरुदेवा ८ मरुतो ९ मेरुपमा १० यशस्वन्त इति ॥ महोरगा दशविधाः । तद्यथा-१ भुजगा २ भोगशालिनो ३ महाकाया ४ अतिकायाः ५ स्कन्धशालिनो ६ मनोरमा ७ महावेगा ८ महेष्वक्षा ९ मेरुकान्ता १० भास्वन्त इति ॥ गान्धर्वा द्वादशविधाः । तद्यथा---१ हाहा २ हूहू ३ तुम्बुरवो ४ नारदा ५ ऋषिवादिका ६ भूतवादिकाः ७ कादम्बा ८ महाकादम्बा ९ रैवता १०विश्वावसवो ११गीतरतयो १२ गीतयशस इति ॥ यक्षास्त्रयोदशविधाः । तद्यथा१ पूर्णभद्रा २ माणिभद्राः ३ श्वेतभद्रा ४ हरिभद्राः ५ सुमनोभद्रा ६ व्यतिपातिकभद्राः ७ सुभद्राः ८ सर्वतोभद्रा ९ मनुष्ययक्षा १० वनाधिपतयो ११ वनाहारा १२ रूपयक्षा १३ यक्षोत्तमा इति ॥ सप्तविधा राक्षसाः । तद्यथा--१ भीमा २ महाभीमा ३ विघ्ना ४ विनायका ५ जलराक्षसा ६ राक्षसराक्षसा ७ ब्रह्मराक्षसा इति ॥ भूता नवविधाः । तद्यथा१ सुरूपाः २ प्रतिरूपा ३ अतिरूपा ४ भूतोत्तमाः ५ स्कन्दिका ६ महास्कन्दिका ७ महावेगाः ८ प्रतिच्छन्ना ९ आकाशगा इति ॥ पिशाचाः पञ्चदशविधाः । तद्यथा-१ कूष्माण्डाः २ पटका ३ जोषा ४ आह्नकाः ५ काला ६ महाकाला
Page #135
--------------------------------------------------------------------------
________________
९१
चतुर्थोऽध्यायः ।
७ श्चौक्षा ८ अचौक्षा ९ स्तालपिशाचा १० मुखरपिशाचा ११ अधस्तारका १२ देहा १३ महाविदेहा १४ स्तूष्णीका १५ वनपिशाचा इति ॥
तत्र किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः । किम्पुरुषा ऊरुबाहुष्वधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः ।। महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधानुविलेपना विचित्राभरणभूषणा नागवृक्षध्वजाः । गान्धर्वा रक्तावदाता गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणास्तुम्बुरुवृक्षध्वजाः । यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिह्वौष्ठा भास्वरमुकुटधरा नानारत्नविभूषणा वटवृक्षध्वजाः । राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठास्तपनीयविभूषणा नानाभक्तिविलेपनाः खट्वांङ्गध्वजाः । भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुलसध्वजाः कालाः । पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः । इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ॥ १२ ॥ तृतीयो देवनिकायःज्योतिष्काः सूर्याचन्द्रमसो ग्रहनक्षत्रप्रकीर्णताकाश्च ॥१३॥
ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा - १ सूर्या २ श्चन्द्रमसो ३ ग्रहा ४ नक्षत्राणि ५ प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति । असमासकरणमार्षाच्च सूर्याचन्द्रमसोः क्रमभेदः कृतः यथा गम्येतैतदेवैषामूर्ध्वनिवेश आनुपूर्व्यमिति । तद्यथा - सर्वाध -
Page #136
--------------------------------------------------------------------------
________________
९२
सभाष्यतत्त्वार्थाधिगमसूत्रेषु । स्तात्सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततोऽपि प्रकीर्णताराः। ताराग्रहास्त्वनियतचारित्वात्सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति । सूर्येभ्यो दशयोजनावलम्बिनो भवन्तीति । समाद्भूमिभागादष्टसु योजनशतेषु सूर्यास्ततो योजनानामशीत्यां चन्द्रमसस्ततो विंशत्यां तारा इति । द्योतयन्त इति ज्योतींषि विमानानि तेषु भवा ज्योतिष्का ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः । मुकुटेषु शिरोमुकुटोपगृहितैः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिहैविराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ॥ १३ ॥
मेरुप्रदक्षिणानित्यगतयो नलोके ॥ १४ ॥
मानुषोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् । तस्मिन् ज्योतिष्का मेरुपदाक्षिणानित्यगतयो भ्रमन्ति । मेरोः प्रदक्षिणा नित्या गतिरेषामिति मेरुपदाक्षणानित्यगतयः। एकादशस्वेकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति । तत्र द्वौ सूर्यो जम्बूद्वीपे, लवणजले चत्वारो,धातकीखण्डे द्वादश, कालोदे द्वाचत्वारिंशत्, पुष्करा] द्विसप्ततिरित्येवं मनुष्यलोके द्वात्रिंशत्सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंशतिनक्षत्राणि, अष्टाशीतिर्ग्रहाः, षट्षष्टिः सहस्राणि
१ अत्यन्तप्रकाशकारित्वात् ज्योतिःशब्दाभिधेयानि विमानानि ।
२ जम्बूद्वीप ( ३-९) धातकीखण्डपुष्करवरद्वीपार्धरूपा द्वीपाः द्वौ च लवणो. दधिकालोदधिरूपी समुद्रौ मानुषं क्षेत्रं मनुष्याणामुत्पत्तमरणस्य च भावात् । अस्मिंश्च मानुषे क्षेत्रे समा विभागाः कालविभागाः सुषमसुषमादयो[४-१५] भवन्ति । ततो मनुष्यक्षेत्रात्परतः सर्वमपि देवारण्यं देवानां क्रीडास्थानं तत्र जन्मतो मनुष्याः नापि तत्र कोऽपि कालविभाग इत्यर्थः ।
३ अ. ३ सू. १४.
४ तत्र द्वात्रिशं शतं एवं सूर्याणामपि द्वात्रिशं शतं परिभावनीयम् । ( जी. ३ प्रति.)
५ एकैकस्य शशिनः तारापरिवारः कोटीकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि । सूर्य. १९ प्रा. ॥
Page #137
--------------------------------------------------------------------------
________________
--
ना..
.
omma..
....
M
द्वौ सयौँ जम्बूद्वीपे । इमे च तयोभ्रमणरेखे। एवं चतुदशप्रभृतीनां सूर्याणां रेखा ज्ञेयाः। पृ. ९२
Page #138
--------------------------------------------------------------------------
Page #139
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
नव शतानि पञ्चसप्ततानि तारा कोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके, शेषास्तूर्ध्वलोके ज्योतिष्का भवन्ति । अष्टचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशद् , ग्रहाणामधयोजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्धक्रोशो, जघन्यायाः पश्चधनु:शतानि । विष्कम्भाधबाहल्याश्च भवन्ति । सर्वे सूर्योदयो नृलोक इति वर्तते । बहिस्तु विष्कम्भवाहल्याभ्यामतोऽर्ध भवन्ति । एतानि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्याप ऋद्धिविशेषार्थमाभियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्ति । तद्यथा-पुरस्तात्केसरिणो, दाक्षिणतः कुञ्जरा, अपरतो वृषभा, उत्तरतो जविनोऽश्वा इति ॥ १४ ॥
तत्कृतः कालविभागः ॥ १५ ॥ कॉलोऽनन्तसमयो वर्तनादिलक्षण इत्युक्तम् । तस्य विभागो ज्योतिष्काणां गतिविशेषकृतश्चारविशेषेण हेतुना । तैः कृतस्तत्कृतः। तद्यथा--अणुभागाश्वारा अंशाः कलालवा नालिका मुहूर्ता दिवसरात्रयः पक्षा मासा ऋतवोऽयनानि संवत्सरा युगामिति लौकिकसमो विभागः ॥ पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः ॥ पुनस्त्रिविधः परिभाष्यते सङ्घयेयोऽसङ्ख्येयोऽनन्त इति ॥
१ सूर्यमण्डलस्य विष्कम्भः अष्टचत्वारिंशदेकषष्टभागा योजनस्य (जं.७ वक्ष.)
२ सर्वे चैते षोडशसहस्रसंख्या देवाः सवितुर्विमानं वहन्ति । तथा चन्द्रमसः। एवं विमानवहनसमये देवाः पूर्वदक्षिणपश्चिमोत्तरादिक्षु यथाक्रमं केसरिकुञ्जरवृषभाश्वरूपाणि धारयन्ति ।
३ अ. ५ सू. ३९. ४ अ ५ सू.२२. ५ प्रत्युत्पन्नः-वर्तमानः।
Page #140
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
९४
तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहन क्षेत्र व्यतिक्रमकालः समय इत्युच्यते परमदुराधिगमोऽनिदेश्यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति न तु निर्दिशन्ति परमनिरुद्धत्वात । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । ते त्वसङ्क्षेयया आवलिका । ताः सङ्ख्यया उछ्वासस्तथा निःश्वासः । तौ बलवतः पद्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदर्घ च नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ द्वौ शुक्लकृष्णौ मासः । तौ । । द्वौ मासतुः । ते त्रयोऽयनम् ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसवनचन्द्रनक्षत्राभिवर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वीगम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एतं तान्ययुतकमलनलिन कुमुद तुघटटाववा हाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः । अत ऊर्ध्वमुपमा नियतं वक्ष्यामः । तद्यथा हि नाम योजनविस्तीर्ण योजनोच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गलोनां गाढं पूर्ण स्याद्वर्षशतादेकैकस्मिन्नुद्धियमाणे यावता कालेन तद्रिक्तं स्यादेतत्पल्योपमम् । तदशाभिः कोटिकोटिभिर्गुणितं सागरोपमम् । तेषां कोटी कोटयश्चतस्रः सुषमसुषमा । तिस्रः सुषमा । द्वे सुषमदुःषमा । द्विचत्वारिंशद्वर्षसहस्राणि हित्वा एका दु:षमसुषमा । वर्षसहस्राणि एकविंशतिदुःषमा । तावत्येव दुःषमदुषमा । ता अनुलोमप्रतिलोमा अवसर्पि
१ प्रथमद्वितीयौ संवत्सरौ चान्द्रा ज्ञातव्यौ, तृतीयसंवत्सरं अभिवर्धितं जानीहि, चतुर्थसंवत्सरं भूयश्चान्द्रमेव जानीहि, पंचममभिवर्धितम् । अत्र ये चान्द्राः संवत्सराः ते द्वादशमासिका ये तु द्वौ अभिवर्धिताख्यौ संवत्सरौ तौ त्रयोदशमासिकौ चान्द्रमासप्रमाणेन ।
Page #141
--------------------------------------------------------------------------
Page #142
--------------------------------------------------------------------------
________________
આરાચી
उत्सर्पिणी।
ઉત્સર્પિણી કા
4.२.gl.sie
अवसर्पिणी।
..
..
पृ. ९५
आराचक्रम् । आभ्यां कालस्यारोहावरोहक्रमौ ज्ञायते।
Page #143
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः। ण्युत्सर्पिण्यौ भरतैरावतेष्वनाद्यनन्तं परिवर्तेतेऽहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणहानिवृद्धी अशुभपरिणामवृद्धिहानी । अवस्थितावस्थितगुणा चैकैकान्यत्र । तद्यथा-कुरुषु सुषमसुषमा, हरिरम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुःषमा, विदेहेषु सान्तरद्वीपेषु दुःषमसुषमा, इत्येवमादिमनुष्यक्षेत्रे पर्यापनः कालविभागो ज्ञेय इति ॥ १५ ॥
बहिरवस्थिताः ॥ १६ ॥ नृलोकादहियॊतिष्का अवस्थिताः । अवस्थिता इत्यविचारिणोऽवस्थितविमानप्रदेशा अवस्थितलेश्याप्रकाशा इत्यर्थः । सुखशी. तोष्णरश्मयश्चति ॥ १६॥
वैमानिकाः ॥ १७ ॥ चतुर्थो देवनिकायो वैमानिकाः । तेऽत ऊर्ध्व वक्ष्यन्ते । विमानेषु भवा वैमानिकाः ॥ १७ ॥
कल्पोपपन्नाः कल्पातीताश्च ॥ १८ ॥ द्विविधा वैमानिका देवाः। कल्पोपपन्नाः कल्पातीताश्च । तान् परस्तावक्ष्याम इति ॥ १८ ॥
उपर्युपरि ॥ १९॥ १ लेश्या वर्णः स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते । तद्वहिर्वर्तिनां तु तदभावादवस्थितपीतवर्णत्वम् । प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाच्चेति ।
२ अ. ४ सू. २०. ३ सौधर्मादिकल्पानतीताः । ४ उपरिष्ठाः सर्वग्रैवेयकविमानपञ्चकाधिवासिनः । ५ अ. ४ सू. २४.
Page #144
--------------------------------------------------------------------------
________________
सभाप्यतत्त्वार्थाधिगमसूत्रेषु
उपर्युपरि च यथानिर्देशं वेदितव्याः । नैकक्षेत्रे नापि तिर्यगो वेति ॥ १९ ॥
सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धं च ॥ २० ॥
एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति । तद्यथा - सौधर्मस्य कल्पस्योपर्येशानः कल्पः । ऐशानस्योपरि सा - नत्कुमारः । सानत्कुमारस्योपरि माहेन्द्र इत्येवमासर्वार्थसिद्धादिति ।। सुधर्मा नाम शक्रस्य देवेन्द्रस्य सभा । सा तस्मिन्नस्तीति सौधर्म: कल्पः । ईशानस्य देवराजस्य निवास ऐशान इत्येवमिन्द्राणां निवासयोग्याभिख्याः सर्वे कल्पाः || ग्रैवेयास्तु लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता ग्रैवा ग्रीव्या ग्रैवेया ग्रैवेयका इति ॥ अनुत्तराः पञ्च देवनामान एव । विजिता अभ्युदयविघ्नहेतव एभि - रिति विजयवैजयन्तजयन्ताः । तैरेव विघ्नहेतुभिर्न पराजिता अपराजिताः । सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थैश्व सिद्धाः सर्वे चैषामभ्युदयार्था सिद्धा इति सर्वार्थसिद्धाः । विजितप्रायाणि वा कर्माण्येभिरुपस्थितभद्राः परीषहैरंपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति, विजयादय इति ॥ २० ॥ स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽ
धिकाः ॥ २१ ॥ यथाक्रमं चैतेषु सौधर्मादिषूपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्यादिभिरर्थैरधिका भवन्ति । तत्र स्थितिरुत्कृष्टा जघन्या च
१ अ. ९ सू. ९.
Page #145
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः । परस्ताद्वक्ष्यते । इह तु वचने प्रयोजनं येषामपि समा भवति तेषामप्युपर्युपरि गुणाधिका भवतीति यथा प्रतीयेत । प्रभावतोऽधिकाः। यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि । मन्दाभिमानतया त्वल्पतरसंक्लिष्टत्वादेते न प्रवर्तन्त इति ॥ क्षेत्रस्वभावजनिताच्च शुभपुद्गलपरिणामात्सुखतो द्युतितश्चानन्तगुणप्रकर्षणाधिकाः ॥ लेश्याविशुद्धयाधिकाः । लेश्यानियमः परस्तादेषां वक्ष्यते । इह तु वचने प्रयोजनं यथा गम्येत यत्रापि विधानतस्तुल्यास्तत्रापि विशुद्धितोऽधिका भवन्तीति । कर्मविशुद्धित एव वाधिका भवन्तीति ॥ इन्द्रियविषयतोऽधिकाः। यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसंक्लेशत्वाच्चाधिकमुपयुपरीति । अवधिविषयतोऽधिकाः सौधमैंशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगसङ्खयेयानि योजनसहस्राण्यू मास्वभवनात् । सानत्कुमारमाहेन्द्रयोः शर्कराप्रभां पश्यन्ति तिर्यगसङ्खयेयानि योजनशतसहस्राण्यूर्ध्वमास्वभवनात् । इत्येवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्नां लोकनालिं पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयः तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति ॥ २१ ॥
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२ ॥
गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन चोपयुपरि हीनाः । तद्यथा-द्विसागरोपमजघन्यास्थितीनां देवानामासप्तम्यां गतिविषयस्तिर्यगसङ्खयेयानि योजनकोटीकोटीसहस्राणि ।
१ अ. ४ सू. २९ इत्यतःपरं सू. ४२ इति यावत् । २ अ. ४ सू. २३. ३ चतुर्दशरज्ज्वात्मकलोकमध्यवर्तिनीम् ।
Page #146
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु ९८ ततः परतो जघन्यस्थितीनामेकैकहीना भूमयो यावत्तृतीयेति । गतपूर्वाश्च गमिष्यन्ति च तृतीयां देवाः परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः औदासीन्याच्चोपर्युपरि देवा न गतिरतयो भवन्ति ॥ सौधर्मेशानयोः कल्पयोर्देवानां शरीरोच्छ्रायः सप्तारत्नयः। उपर्युपरि द्वयोर्द्वयोरेकारनिहींना आसहस्रारात् । आनतादिषु तिस्रः । ग्रैवेयकेषु द्वे । अनुत्तरे एका इति ॥ सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशानेऽष्टाविंशतिः । सानत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारि शतसहस्राणि । लान्तके पञ्चाशत्सहस्राणि । महाशुक्रे चत्वारिंशत् । सहसारे षट् । आनतप्राणतारणाच्युतेषु सप्तशतानि । अधोग्रैवेयकाणां शतमेकादशोत्तरम् । मध्ये सप्तोत्तरम् । उपर्येकमेव शतम् । अनुत्तराः पश्चैवेति । एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिसङ्ख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानीति । स्थानपरिवारशक्तिविषयसंपत्स्थितिष्वल्पाभिमानाः परमसुखभागिन उपयुपरीति ॥
उच्छ्वासाहारवेदनोपपातानुभावतश्च साध्याः।
उच्छ्वासः सर्वजघन्यस्थितीनां देवानां सप्तसु स्तोकेषु आहारश्चतुर्थकालः। पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्वासो दिवसपृथक्त्वस्याहारः । यस्य यावन्ति सागरोपमानि स्थितिस्तस्य तावस्वर्धमासेषूच्छ्वासस्तावत्स्वेव वर्षसहस्रेष्वाहारः ॥ देवानां सद्वेद
१ जिनाभिवन्दनादीन्मुक्त्वा । २ अरनि:-निष्कनिष्टमुष्टिहस्तः ( जं.२ वक्ष० ) 'सप्त रत्नय' इत्यपि पाठः।
३ स्थानं-कल्पादि । परिवारो देवा देव्यश्च । शक्तिः सामर्थ्यमचिन्त्यम् । विषयोऽवधोरीन्द्रयाणां वा । संपद्विभूतिः । स्थितिरायुष इयत्ता । अथवा विषयसंपत्शब्दादिसमृद्धिः ।
४ द्विप्रभत्यानवभ्यः पृथक्त्वसंज्ञा पारिभाषिकी ।
Page #147
--------------------------------------------------------------------------
Page #148
--------------------------------------------------------------------------
Page #149
--------------------------------------------------------------------------
________________
चित्रगताङ्कानां स्पष्टीकरणम् ।
१ विमानैरागच्छन्तो ज्योतिष्कदेवाः ।
२ समवसरणम् ।
३ मृगाङ्कयक्षः ।
४ श्रीवीरस्वामी ।
५ गणधरः ।
६ सिद्धायिका देवी ।
७ मुनिपरिवारः ।
८ साध्वीसमूहः ।
९ वैमानिकदेवाः ।
१० धर्मचक्रम् ।
११ मुनी ।
१३ भवनवासिदेवाः ।
!
१४ व्यन्तरदेवाः ।
१५ इन्द्रध्वजः ।
Page #150
--------------------------------------------------------------------------
Page #151
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः । नाः प्रायेण भवन्ति न कदाचिदसवेंदनाः। यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव भवान्त न परतोऽनुबद्धाः सद्वेदनास्तूत्कृष्टेन षण्मासान् भवन्ति ॥ उपपातः। आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति । स्वलिङ्गिनां भिन्नदर्शनानामात्रैवेयकेभ्य उपपातः। अन्यस्य सम्यग्दृष्टेः संयतस्य भजनीयं आसर्वार्थसिद्धात् । ब्रह्मलोकार्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधराणामिति ॥ अनुभावो विमानानां सिद्विक्षेत्रस्य चाकाशे निरालम्बस्थितौ लोकस्थितिरेव हेतुः । लोकस्थितिर्लोकानुभावो लोकस्वभावो जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः । सर्वे च देवेन्द्रा ग्रैवेयादिषु च देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिःक्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेवासीनाः शयिताः स्थिता वा सहसैवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयाल्लोकानुभावत एव वा । ततो जनितोपयोगास्तां भगवतामनन्यसदृशीं तीर्थकरनामकर्मोद्भवां धर्मविभूतिमवधिनालोच्य संजातसंवेगाः सद्धर्मबहुमानात्कचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाञ्जलिप्रणिपातनमस्कारोपहारैः परमसविग्राः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ २२ ॥
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥
उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्ललेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पीतलेश्याः सौधर्मैशानयोः त्रिषु पद्मलेश्याः सानत्कुमारमाहेन्द्रब्रह्मलोकेषु । शेषेषु लान्तकादिष्वासर्वार्थसिद्धाच्छुक्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥२३॥
१ समवसन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन्तत्समवसरणम् ।
Page #152
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
१००
अत्राह । उक्तं भवता द्विविधा वैमानिका देवाः 'कल्पोपपन्नाः कल्पातीताश्च' (४-१८) इति । तत् के कल्पा इति । अत्रोच्यतेप्रोग्रैवेयकेभ्यः कल्पाः ॥ २४ ॥
प्राग्ग्रैवेयकेभ्यः कल्पा भवन्ति सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः । अतोऽन्ये कल्पातीताः ॥
अत्राह । किं देवाः सर्व एव सम्यग्दृष्टयो यद्भगवतां परमर्षीणामतां जन्मादिषु प्रमुदिता भवन्ति इति । अत्रोच्यते । न सर्वे सम्यग्दृष्टयः किं तु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगच्छन्ति च । मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितामिति च प्रमोदं भजन्तेऽभि - गच्छन्ति च । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्म बहुमानात्संसारदुःखार्त्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामहतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । अभिनिःक्रमणाय च कृतसंकल्पान्भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ २४ ॥
ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥
ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु नापि परतः । ब्रह्मलोकं परिवृत्त्याष्टासु दिक्षु अष्टविकल्पा भवन्ति ॥ २५ ॥
तद्यथा
१ भवनवासिनो (४-११), व्यन्तराः ( ४- १२ ), ज्योतिष्काः (४-१३ ), सौधर्मादयो द्वादश (४-२० ) ।
२ (४-२० ) सूत्रे नवग्रैवेयकादयो यथोक्ताः ।
३ लौकान्तिकास्तु सर्वे सम्यग्दृष्टयोऽवश्यं चाईच्चरणमूलपर्यन्तमायान्ति, अईदा - दिसंवेगप्रशंसार्थमात्महितार्थं च ।
Page #153
--------------------------------------------------------------------------
________________
१०१ चतुर्थोऽध्यायः। सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधमरुतोऽ
रिष्ठाच ॥ २६ ॥ एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङ्ख्यम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, इत्येवं शेषाः ॥ २६ ॥
विजयादिषु विचरमाः ॥२७॥ विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति । द्विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति । सकृत्सर्वार्थसिद्धूमहाविमानवासिनः । शेषास्तु भजनीयाः ॥ २७ ॥
__ अत्राह । उक्तं भवता जीवस्यौदायकेषु भावेषु तिर्यग्योनिर्ग: तिरिति तथा स्थितौ 'तिर्यग्योनीनांच' इति। आस्रवेषु च माया तैर्यग्योनस्य' इति । तत्के तिर्यग्योनय इति। अत्रोच्यते
१ "नवदेवनिकाया पत्नत्ता तंजहा-१ सारस्सय २माइच्चा ३ वही ४ वरुणा य ५ गद्दतोया य। ६ तुसिया ७ अव्वाबाहा ८ अग्गिच्चा चेव ९ रिहा य ॥' ॥१॥” इति स्था. ९ ठा. ६८४ । (स्था. ८ ठा. तु 'रिठा' इति नवमं नास्ति) संग्रहिण्यान्तर्वांच्यादिषु लोकान्तिकदेवानां नव निकाया उत्तमचरित्रे दश निकायाः कथितास्तत्र मतान्तरमिति शेयम् ।
२ अत्र दिग्ग्रहणं सामान्येन दिग्विदिक् प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिबहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति । यासां मध्येन प्रयान देवोऽप्येकः संक्षोभमापद्येतोते । तत्र द्वयोर्द्वयोः कष्णराज्योर्मध्यभाग एते भवन्ति ।
३ सर्वार्थसिद्धविमानवासिनस्तु सकृज्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति ।
४ अ. २ सू. ६. ५ अ. ३ सू. १८. ६ अ. ६ सू. १७.
Page #154
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१०२
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥ औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेभ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयां भवन्ति ॥ २८ ॥
अत्राह । तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । अथ देवानां का स्थितिरिति । अत्रोच्यते
―――――
स्थितिः ॥ २९ ॥ स्थितिरित्यत ऊर्ध्वं वक्ष्यते ।। २९ ।।
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ भवनेषु तावद्भवनवासिनां दक्षिणार्धाधिपतीनां पल्योपममध्यर्धं परा स्थितिः । द्वयोर्द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ।। ३० ।।
शेषाणां पादोने ॥ ३१ ॥
शेषाणां भवनवासिष्वधिपतीनां द्वे पल्योपमे पादोने परा स्थितिः । के च शेषा उत्तरार्धाधिपतय इति ॥ ३१ ॥
असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासङ्ख्यं परा स्थितिर्भवति ।। ३२ ।।
सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥
सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्वक्ष्यते ॥ ३३ ॥ सागरोपमे ॥ ३४॥
सौधर्मे कल्पे देवानां परा स्थिति सागरोपमे इति ॥ ३४ ॥
१ अ. ३ सू. २६.
२ दक्षिणार्धाधिपतिः - चमरेन्द्रः । उत्तरार्धाधिपतिः बलीन्द्रः ।
Page #155
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः ।
अधिके च ॥३५॥
ऐशाने द्वे एव सागरोपमे अधिके परा स्थितिर्भवति ||३५|| सप्त सनत्कुमारे || ३६ ॥
सनत्कुमारे कल्पे सप्त सागरोपमानि परा स्थितिर्भवति ||३६|| विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च
१०३
11 30 11
---
एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति । सप्तेति वर्तते । तद्यथा - माहेन्द्रे संप्त विशेषाधिकानि । ब्रह्मलोके त्रिभिरधिकानि सप्त दशेत्यर्थः । लान्तके सप्तभिरधिकानि सप्त चतुर्दशेत्यर्थः । महाशुक्रे दशभिरधिकानि सप्त सप्तदशेत्यर्थः । सहस्रारे एकादशभिरधिकानि सप्त अष्टादशेत्यर्थः । आनतप्राणतयोत्रयोदशभिरधिकानि सप्त विंशतिरित्यर्थः । आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त द्वाविंशतिरित्यर्थः ॥ ३७॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु
सर्वार्थसिद्धे च ॥ ३८ ॥
आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च । आरणाच्युते द्वाविंशतिग्रैवेयकेषु पृथकैकेनाधिका त्रयोविंशतिरित्यर्थः । एवमेकैकेनाधिका सर्वेषु नवसु यावत्सर्वेषामुपरि नवमे एकत्रिंशत् । सा विजयादिषु चतुर्ष्वप्येकेनाधिका द्वात्रिंशत् । साप्येकेनाधिका सर्वार्थसिद्धे त्रयस्त्रिंशदिति ॥ ३८ ॥
अत्राह । मनुष्यतिर्यग्योनिजानां परापरे स्थिती व्याख्याते । अथोपपातिकानां किमेकैव स्थितिः परापरे न विद्येते इति । अत्रोच्यते
Page #156
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु अपरा पल्योपममधिकं च ॥ ३९ ॥ सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टेत्यनर्थान्तरम् । तत्र सौधर्मेऽपरा स्थितिः पल्योपममैशाने पल्योपममधिकं च ॥ ३९ ॥
सागरोपमे ॥ ४० ॥ सनत्कुमारेऽपरा स्थितिर्दै सागरोपमे ॥ ४० ॥
अधिके च ॥४१॥ माहेन्द्रे जघन्या स्थितिराधिके द्वे सागरोपमे ॥४१॥
परतः परतः पूर्वा पूर्वानन्तरा ॥ ४२ ॥ माहेन्द्रात्परतः पूर्वा परानन्तरा जघन्या स्थितिर्भवति। तद्यथामाहेन्द्र परा स्थितिर्विशेषाधिकानि सप्त सागरोपमानि सा ब्रह्मलोके जघन्या भवति । ब्रह्मलोके दश सागरोपमानि परा स्थितिः सा लान्तके जघन्या। एवमासर्वार्थसिद्धादिति । (विजयादिषु चतुर्यु परा स्थितिस्त्रयस्त्रिंशत्सागरोपमानि सा त्वजघन्योत्कृष्टा सर्वार्थसिद्ध इति ) ॥४२॥
नारकाणां च द्वितीयादिषु ॥ ४३ ॥ नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरन्तरा परतः परतोऽपरा भवति। तद्यथा-- रत्नप्रभायां नारकाणामेकं सागरोपमं परा स्थितिः सा जघन्या शर्करामभायाम् । त्रीणि सागरोपमानि परा स्थितिः शर्कराप्रभायां सा जघन्या वालुकाप्रभायामिति । एवं सर्वासु । तमःप्रभायां द्वाविंशतिः सागरोपमानि परा स्थितिः सा जघन्या महातमःप्रभायामिति ॥४३॥
१ अर्थासंगतः पाठः।
Page #157
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः।
दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्यां स्थितिः॥४४॥
भवनेषु च ॥ ४५ ॥ भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥४५॥
व्यन्तराणां च ॥ ४६॥ व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६॥
परा पल्योपमम् ॥४७॥ व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥
ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति॥४८॥
ग्रहाणामेकम् ॥ ४९॥ ग्रहाणामेकं पल्योपमं स्थितिर्भवति ॥ ४९॥
। नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमा परा स्थितिर्भवति ॥५०॥
तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च पल्योपमचतुर्भागः परा स्थितिः ॥५१॥
जघन्या त्वष्टभागः ॥ ५२ ॥ तारकाणां तु जघन्या स्थितिः पल्योपमाष्टभागः॥५२॥
चतुर्भागः शेषाणाम् ॥ ५३ ॥ तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिः ॥५३॥ इति तत्त्वार्थाधिगमसूत्रेषु देवगतिप्रदर्शनो नाम
चतुर्थोऽध्यायः ॥ ४ ॥
Page #158
--------------------------------------------------------------------------
________________
अथ पञ्चमोऽध्यायः।
उक्ता जीवाः । अजीवान्वक्ष्यामः ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्ति
१ जीवो न भवतीत्यजीव इति प्रसज्यप्रतिषेधः । अजीवानां काया अजीवकायाः शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी दृष्टा । तथा सुवर्णस्यांगुलीयकम् । अन्यत्वाशंकाव्यावृत्त्यर्थो वा कर्मधारय एवाभ्युपेयते । अजीवाश्च ते कायाश्चेत्यजीवकायाः । कायशब्द उपसमाधानवचनः । प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या सम्यगमर्यादया धारणमवस्थानमुपसमाधानम् ।
२ अस्तीत्ययं त्रिकालवचनो निपातः। अभूवन भवन्ति भविष्यन्ति चेति भावना । अतोऽस्ति च ते प्रदेशानां (तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूपः प्रदेशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति जीवेन सह च षड् द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवपुद्गलानां गमनागमनादिचेष्टासु भाषामनोवच:काययोगादिषु मीनानां पानीयमिव यदापेक्षितकारणं तद्रूपत्वम्, गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदापेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपुद्गलानां, पान्थानां छायास्थलमिव शवननिषदनस्थानालम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वं, स्थितिरूपण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावढ्न्योर्दुग्धायागोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम्। ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम् ,रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य लक्षणम् । ५ वर्तन्ते भवन्ति भावास्तेन रूपेण ताज् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालः द्रुमादिषुष्पोद्भेदादिनयत्यहेतुः । ६ उपयोगवत्त्वं जीवस्य लक्षणम् । शानदर्शनयोः सम्यक् स्वाविषयकसीमानलंघनेन धारणरूपवत्त्वम् , बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् ।
Page #159
--------------------------------------------------------------------------
________________
१०७
पञ्चमोऽध्यायः।
काय इत्यजीवकायाः । तान् लक्षणतः परस्ताद्वक्ष्यामः । कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ च ॥१॥
द्रव्याणि जीवाश्च ॥ २॥ एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तीति। उक्तं हि "मैतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" "सर्वद्रव्यपर्यायेषु केवलस्य" इति ॥२॥
नित्यावस्थितान्यरूपाणि ॥ ३ ॥ एतानि द्रव्याणि नित्यानि भवन्ति । 'तद्भावोव्ययं नित्यम्' इति वक्ष्यते ॥ अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ अरूपाणि च । नैषां रूपमस्तीति । रूपं मूर्तिर्मूाश्रयाश्च स्पर्शादय इति ॥३॥
__पुद्गलं विना सर्वद्रव्याण्यरूपीणि नित्यावस्थितानि च तत्र नित्यत्वं नाम परिणामान्तरापत्तो सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थ न व्यभिचरती. त्येवंरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धनचेष्टाविशेषरूपत्वम् , निमित्तशब्दयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतुभूतपर्यायविशेषरूपत्त्वं वा । तदभाववत्त्वं निष्क्रियत्वम् ।
१ अ. ५ सू. १७-१८-१९-२०-२१-२२.
२ पट्टसाटिकादृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एक कालांशः।
३ अ. १ सू. २७. ४ अ. १ सू. ३०. ५ अ. ५ सू. ३०.
Page #160
--------------------------------------------------------------------------
________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १०८
रूपिणः पुद्गलाः ॥ ४॥ पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वास्तीति रूपिणः॥४॥ ___ आ(आ-आ)काशादेकद्रव्याणि ॥ ५॥
आ आकाशाद्धर्मादीन्येकद्रव्याण्येव भवन्ति । पुद्गलजीवास्त्वनेकद्रव्याणीति ॥५॥
निष्क्रियाणि च ॥६॥ आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । पुद्गल जीवास्तु क्रियावन्तः। क्रियति गतिकर्माह ॥६॥
___ अत्राह । उक्तं भवता प्रदेशावयवबहुत्वं कायसंज्ञमिति । तत्मात्क एषां धर्मादीनां प्रदेशावयवनियम इति । अत्रोच्यते । सर्वेषां प्रदेशाः सन्त्यन्यत्र परमाणोः । अवयवास्तु स्कन्धानामेव । वक्ष्यते हि " अणवः स्कन्धाश्च" " संघातभेदेयं उत्पद्यन्ते" इति॥
१ पूराणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽन्तानन्तप्रदेशस्कन्धपर्यवसाना स्त एव रूपवत्तामनन्यसाधारणीमनेकरूपपरिणातसामर्थ्यापादितसूक्ष्मस्थूलविशेषाविशेषप्रकर्षाप्रकर्षवर्तिनीं बिभ्रति । न धर्मादिद्रव्यविशेषा इति रूपवत्त्वमत्रावधार्यते । तद्धि न जातुचिदतिपरिचितपरमाणुयणुकादिक्रमवृद्धद्रव्यकलापमुज्झति । सामर्थ्याच्च पुद्गला अपि न तां विहाय वर्तन्ते । अतः पुद्गला एव रूपिणः ।
२ एकशब्दोऽसहायार्थमभिधत्ते । यथा परमाणुः परमाण्वन्तरेण सद्वितीयः । आत्मा आत्मान्तरेण शानसुखदुःखजीवनादिभेदभाजा । न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम् । एवमेवाधर्मव्योमनी।
३ इतिकरणं यस्मादर्थे । यस्मात्तुल्यजातीयभूयस्तमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्वलनानिलतरुद्वित्रिचतुष्पञ्चेन्द्रियास्मानश्चेति भावनीयम् ।
४ अ. ५ सू. १ भाष्ये। ५ अ. ५ सू. २५. ६ अ. ५ सू. २६.
Page #161
--------------------------------------------------------------------------
________________
१०९
पश्चमोऽध्यायः।
असंख्ययाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥ प्रदेशो नामापक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति॥७॥
जीवस्य च ॥ ८॥ एकजीवस्य चासङ्खयेयाः प्रदेशा भवन्तीति ॥८॥
आकाशस्यानन्ताः ॥९॥ लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधमैकजीवैस्तुल्याः॥९॥
संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥
सङ्ख्येया असङ्खयेया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति । अनन्ता इति वर्तते ॥ १० ॥
नाणोः ॥११॥ अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः॥११॥
लोकाकाशेऽवगाहः ॥ १२ ॥ अवगाहिनामवंगाहो लोकाकाशे भवति ॥ १२ ॥
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अप्रदेशसङ्खयेयासङ्खयेयानन्तप्रदेशानां पुद्गलानामेकादिष्वा
१ अवगाहः-प्रवेशः ।
Page #162
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ११० काशप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाज्यो विकल्प इत्यनान्तरम् । तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशे । ब्यणुकस्यैकस्मिन् द्वयोश्च । व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च । एवं चतुरणुकादीनां सङ्ख्थेयासङ्खयेयप्रदेशस्यैकादिषु सङ्खयेयेष्वसङ्खयेयेषु च । अनन्तप्रदेशस्य च ॥ १४ ॥
असंख्येयभागादिषु जीवानाम् ॥ १५॥ लोकाकाशप्रदेशानामसङ्खयेयभागादिषु जीवानामवगाहो भवति । आसर्वलोकादिति ॥ १५ ॥
अत्राह । को हेतुरसंख्येयभागादिषु जीवानामवगाहो भवतीति। अत्रोच्यते--
प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥
जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव । तद्यथातैलवय॑ग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशालां प्रकाशयत्यण्वीमाप, माणिकावृतः माणिकां द्रोणावृतो द्रोणमाढकावृतश्चाढकं प्रस्थावृतः प्रस्थं पाण्यावृतो पाणिमिति । एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायं व्यामोतीत्यवगाहत इत्यर्थः । धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिर्न विरुध्यतेऽमूर्तत्वात् ॥ ___अत्राह । सति प्रदेशसंहारविसर्गसंभवे कस्मादसङ्खयेयभागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति । अत्रोच्यते । सयोगत्वात्संसारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ॥ १६॥
१ अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः । २ सिद्धमिदम् । जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृहाति । ३ सह योगेन वर्तत इति सयोगः । कार्मणशरीरीति यावत् ।
Page #163
--------------------------------------------------------------------------
________________
१११
पञ्चमोऽध्यायः ।
अत्राह । उक्तं भवता धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति तत्किमेषां लक्षणमिति । अत्रोच्यते--
गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥
गतिमतां गतेः स्थितिमतां च स्थितरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्खयम् । उपग्रहो निमित्तमपेक्षा कारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥ १७॥
___ आकाशस्यावगाहः ॥ १८ ॥
अवगाहिनां धर्माधर्मपुद्गलजीवानामवगाह आकाशस्योपकारः। धर्माधर्मयोरन्तःप्रवेशसंभवेन पुद्गलजीवानां संयोगविभागैश्चेति॥१८॥ शरीरवाङमनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥
पञ्चविधानि शरीराण्यादाारकादीन वाङ्मनःप्राणापांनाविति पुद्गलानामुपकारः । तत्र शरीराणि यथोक्तानि । प्राणापानौ च नामकर्माण व्याख्यातौ । द्वीन्द्रियादयो जिह्वेन्द्रिययोगाद्भाषात्वेन गृह्णन्ति नान्ये । संज्ञिनश्च मनस्त्वेन गृह्णन्ति नान्य इति । वक्ष्यते हि 'सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्त' इति ॥१९॥
किं चान्यत्
१ अ. ५ सू. १ भाष्ये। २ इतिशब्दश्चार्थे । ३ अ. २ सू. ३७. ४ अ. ६ सू १२ भाष्ये। ५ श्र. ८ सू. २.
Page #164
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु ११२ सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥
सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः । तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकारः । अनिष्टा दुःखस्य । स्नानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्न्यादीनि मरणस्यापवर्तनं चायुष्कस्य ॥
अत्राह । उपपन्नं तावदेतत्सोपक्रमाणामपवर्तनीयायुषाम् । अथानपवायुषां कथमिति । अत्रोच्यते । तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः। कथमिति चेत्तदुच्यते । कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्गलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थ ह्याहार इति ॥ २० ॥
अत्राह । गृह्णीमस्तावद्धर्माधर्माकाशपुद्गला जीवद्रव्याणामुपकुर्वन्तीति । अथ जीवानां क उपकार इति । अत्रोच्यते
___ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवानामिति ॥२१॥
१ बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात्संसार्यात्मनः प्रसादपरिणामः सुखम् । इष्टदारापत्यस्रगनुलेपनान्नपानादिद्रव्योपजानितामति विस्तरः । तदेव च सुखमुपग्रहोऽनु. ग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः । एवं दुःखादिष्वपि योजनीयम् । असद्वेद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः संक्लेशप्रायो दुःखम् । भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धमाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाद् व्युपरमो जीवितम् । तदशेषोपर. तिर्मरणम् । कथं मरणमात्मोपग्रह इति चेत्, निर्विण्णस्य पुरुषस्य तत्प्रियत्वात् विषादिद्रव्यसम्बन्धे सत्यायुषो यौगपद्येनोपभोगोदयात् ।
२ हितम्-उत्तरकाले वर्तमाने यत् क्षमं युक्तं न्याय्यं वा । तद्विपरीतमहितम् । हितप्रतिपादनेन अहितप्रतिषेधेन चोपग्रहं कुन्ति ।
Page #165
--------------------------------------------------------------------------
________________
११३
.
११३
पञ्चमोऽध्यायः । अत्राह । अथ कालस्योपकारः क इति । अत्रीच्यतेवर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥ ___तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः। वर्तना उत्पत्तिः स्थितिः प्रथमसमयाश्रया इत्यर्थः ॥ परिणामो द्विविधः । अनादिरादिमांश्च। तं परस्तावक्ष्यामः । क्रिया गतिः । सा त्रिविधा। प्रयोगगतिर्विसागतिमिश्रिंकेति ।। परत्वापरत्वे त्रिविधे प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानं अपरो धर्म अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति सनिकृष्टोऽपरः । कालकृते द्विरष्टवर्षाद्वर्षशतिकः परो भवति वर्षशतिकाव्दिरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥ २२ ॥ ___अत्राह उक्तं भवता शरीरादीनि एद्गलानामुपकार इति । पुद्गलानिति च तन्त्रान्तरीया जीवान्परिभाषन्ते । स्पर्शादिरहिताश्चान्ये तत्कथमेतदिति । अत्रोच्यते । एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते ॥
१ अ. ५ सू. ४२. २ जीवपरिणामसंप्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया प्रयोगगतिः ।
३ प्रयोगमन्तरेण केवलाजीवद्रव्यस्वपरिणामरूपा परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा विचित्रसंस्थाना विस्रसागतिः ।
४ प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वात् जीवप्रयोगसहचस्तिा चेतनद्रव्यपरिणामात् कुम्भस्तम्भादिविषया मिश्रिका गतिः ।
५ अ. ५ सू. १९.
६ अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति । तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान परिभाषन्ते पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिध्यमिति । ननु च तेषां जीव
१५ . . ...
Page #166
--------------------------------------------------------------------------
________________
सभाभ्यतस्त्रार्थाधिगमसूत्रेषु
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥
स्पर्शः : रसः गन्धः वर्ण इत्येवंलक्षणा: पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः कठिनो मुदुर्गुरुलघुः शीत उष्णः स्निग्धः रूक्ष इति । रसः पञ्चविधस्तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः सुरभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥ २३ ॥
किं चान्यत्शब्दबन्धसौक्ष्म्य स्थौल्यसंस्थानभेदतमश्छायातपोद्योत
११४
वन्तश्च ॥ २४ ॥ तत्र शब्दः षड्विधः । ततो विततो घनः शुषिरी घेर्षो भीष एव नास्ति, कथं तद्विषयं पुद्गलध्वनिं परिभाषेरन्निति ? उच्यते - अस्त्यार्यसम्मतीयानां आत्मा, सौत्रान्तिकानां तु चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चित्तेनान्योन्यानुविधानात् इत्येषा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादात्मेत्युपचर्यते । तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगाचाराणां तु विज्ञानपरिणामः पुद्गलः । यथाह - 'आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ परिणामः स च त्रिधा' ॥ एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यते तदेतत्कथं विप्रतिषिद्धत्वात् इति प्रश्नयति ॥ नन्वनुपपन्नः संशयः पूर्वमुक्तमेव - 'रूपिणः पुद्गलाः ' (अ. ५ सू. ४.) इति न च रूप्यात्मा प्रतीत इति, उच्यते - रूपशब्देन तत्र मूर्ति - रुक्ता सा च मूर्तिरन्यैर सर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः तच्च स्पर्शादिरहितं, एतन्निरासार्थं इदमवश्यं वक्तव्यम् भवति सूत्रं - स्पर्शादियुक्ता मूर्तिः, तथा चतुस्त्रिव्येकगुणानि पृथिव्यादीनि कणभुजेोक्तानि तत्प्रतिषेधार्थं चावश्यंतया विधेयं सर्वाण्येताि चतुर्गुणानीति ।
1
१ ततो मृदङ्गपटहादिसमुद्भवः ।
२ विततो वीणात्रिसरिकादितन्त्रीप्रभवः ।
३ घनः कांस्यभाजनकाष्ठशलाकादिजनितः ।
४ सुषिरो वेणुकम्बुवंशविवराद्युद्भवः ।
५ धर्षः ऋकचकष्ठादिसंघर्षप्रसूतः ।
६ भाषा - व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति ।
Page #167
--------------------------------------------------------------------------
________________
पञ्चमोऽध्यायः। इति ॥ बन्धस्त्रिविधः । प्रयोगबन्धो वित्रसाबन्धो मिश्र इति । स्निग्धरूक्षत्वाद्भवतीति वक्ष्यते ॥ सौम्यं द्विविधमन्त्यमापेक्षिक च । अन्त्यं परमाणुष्वेव । आपेक्षिकं व्यगुकादिषु संघातपरिणामापेक्ष भवति । तद्यथा-आमलकाद्धदरमिति ॥ स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं च संघातपरिणामापेक्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिकं बदरादिभ्य आमलकादि विति ॥ संस्थानमनेकविधम् । दीर्घहस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविधः । औत्कारिकः चौर्णिकः खण्डः प्रतर अनुतंट इति ।। तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेवेव भवन्तीति । अतः पुद्गलास्तद्वन्तः ॥
१ प्रयोगो जीवव्यापारः । तेन घटितो बन्धः प्रायोगिकः औदारिकादिशरीरजतुकाष्ठादिविषयः ।
२ विस्रसा स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः । स द्विधा आदिमदनादिमद्भेदात् । तत्र आदिमान विद्युदादिर्विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः । अनादिरपि धर्माधर्माकाशविषयः ।
___३ प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तंभकुम्मादिः।
४ अ. ५ सू. ३२.
५ वृत्तादिना निरूपयितुं यन्न शक्यं तदनित्थम् । तद्भावोऽनित्थन्त्वम् । तत्पर्यन्तमनेकधा संस्थानम् ।
६ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः औत्कारिकः । ७ अवयवशश्चूर्णनं चौर्णिकः । क्षिप्तपिष्टमुष्टिवत् । ८ खण्डशो विशरणं खण्डभेदः । क्षिप्तमृत्पिण्डवत् । ९ अभ्रपटलभूर्जपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः प्रतरभेदः । १० वंशेक्षुयष्टित्वगुत्पाटनम्- अनुतटः ।
Page #168
--------------------------------------------------------------------------
________________
सभाष्यतस्त्रार्थाधिगमसूत्रेषु
.११६
अत्राह । किमर्थ स्पर्शादीनां शब्दादीनां च पृथक् सूत्रकरणमिति । अत्रोच्यते । स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेष्वेव भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥ २४ ॥
त एते पुद्गलाः समासतो द्विविधा भवन्ति । तद्यथाअणवः स्कन्धाश्च ॥ २५ ॥
उक्तं च
" कारणमेव तदन्त्यं सूक्ष्मो नित्यैश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गा " ॥ इति । तत्राणवोऽबद्धाः स्कन्धास्तु बद्धा एव ॥ २५ ॥ अत्राह । कथं पुनरेतद्द्वैविध्यं भवतीति । अत्रोच्यते । स्कन्धास्तावत्
संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥
संघाताद्भेदात्संघातभेदादिति । एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः । तद्यथा - द्वयोः परमाण्वोः संघाताव्दिप्रदेशः । द्विप्रदेशस्याणोश्च संघातात्रिप्रदेशः । एवं सङ्खयेयानामसङ्घयेयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात्तावत्प्रदेशाः ॥ एषामेव भेदात द्विप्रदेशपर्यन्ताः ॥ एत एव संघातभेदाभ्यामेकसामयिकाभ्यां द्विपदेशादयः स्कन्धा उत्पद्यन्ते । अन्यस्य
१ अण्यन्त इत्यणवः । अस्मदादीन्द्रिय व्यापारातीतत्वात् । केवल संशब्दनसमधिगम्याः सौक्ष्म्यात् ।
२ स्थौल्याद् ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाताः ।
३ द्रव्यास्तिकनयापेक्षयानुज्झितमूर्तिः । पर्यायापेक्षया तु नीलादिभिराकारैरानित्य
एव ।
४ समये भवः सामयिकः । एकशब्दः समानार्थाभिधायी । समानः समयो ययोः संवातभेदयोस्ताभ्यामेककालाभ्यामिति यावत् ।
Page #169
--------------------------------------------------------------------------
________________
११७
पचमोऽध्यायः ।।
संघातेनान्यतो भेदेनोति ॥ २६ ॥ अत्राह । अथ परमाणुः कथमुत्पद्यत इति अत्रोच्यते--
भेदादणुः ॥ २७ ॥ भेदादेव परमाणुरुत्पद्यते न संघातादिति ॥ २७॥ - भेदसंघाताभ्यां चाक्षुषाः ॥ २८॥
भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषास्तु । यथोक्तासंघातानेदात्संघातभेदाच्चेति ॥ - अत्राह । धर्मादीनि सन्तीति कथं गृह्यत इति । अत्रोच्यते । लक्षणतः ॥ २८॥ किं च सतो लक्षणमिति । अत्रोच्यते
उत्पादव्ययभौव्ययुक्तं सत् ॥ २९ ॥ उत्पादव्ययौ ध्रौव्यं च युक्तं सतो लक्षणम् । यदुत्पद्यते पद्येति यच्च ध्रुवं तत्सत् । अतोऽन्यदसदिति ॥ २९ ॥ - [उत्पाददव्ययौ ध्रौव्यं च सतो लक्षणम् । यदिह मनुष्यत्वादिना पर्यायेण व्ययत आत्मनो देवत्वादिना पर्यायेणोत्पादः एकान्तधौध्ये आत्मान तत्तथैकस्वभावतयावस्थाभेर्दानुपपत्तेः । एवं च संसारापवर्गभेदाभावः। कल्पितत्वेऽस्य निःस्वभावतयानुपलब्धिप्रस- १ एतदादिसूत्रसमाप्तिपर्यन्तं भाष्यं हारिभद्रवृत्ती व्याख्यातं न सिद्धसेनगणीयायाम् ।
२ आदिशब्दात्तिर्यगादिपरिग्रहः । ३ जीवस्य । ४ आदिशब्दान्नारकादिपरिग्रहः । ५ सर्वथाप्रच्युतानुत्पन्न स्थिरैकरूपे ।। ६ देवादिभेदानुपपत्तेरित्यर्थः ।
Page #170
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु ११८ ङ्गात् । सस्वभावत्वे त्वेकान्तध्रौव्याभावस्तस्यैव तथाभवनादिति तत्तत्स्वभावतया विरोधाभावात्तथोपलब्धिसिद्धेः। तद्भ्रान्तत्वे प्रमाणाभावः। योगिज्ञानप्रमाणाभ्युपगमे सभ्रान्तस्तदवस्थाभेदः। इत्थं चैतत् अन्यथा न मनुष्यादेवत्वादीति । एवं यमादिपालनानर्थक्यम्। एवं च सति “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" "शौचसंतोषतपःस्वाध्यायश्वरप्रणिधानानि नियमाः" इति आगमवचनं वचनमात्रम् । एवमेकान्ताधौव्येऽपि सर्वथा तदभावापत्तेः तत्त्वतोऽहेतुकत्वमेवावस्थान्तरमिति सर्वदा तद्भावाभावप्रसङ्गः अहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्व तद्भावः तत्स्वभावतयैकान्तेन ध्रौव्यसिद्धेः। यदा हि हेतोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथा भवनात्। एवं च तुलोनामावनामवद्धेतुफलयोर्युगपढ्ययोत्पादसिद्धिरन्यथा तत्तद्व्यतिरिक्तेतरविकल्पाभ्यामयोगात् । तन्न । मनुष्यादेदेवत्वमित्यायातं मार्गवैफल्यमागमस्येति । एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाग् सम्यग्मार्गः सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति वाग्वैयर्थ्यम्। एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पादव्ययध्रौव्ययुक्तं सदिति । एकान्तध्रौव्ये तत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः । समानं पूर्वेण । एवमेतद्व्यवहारतः तथा मनुष्यादिस्थितिद्रव्यमधिकृत्य दर्शितम् । निश्चयतस्तु प्रतिसमयमुत्पादादिमत्तथाभेदसिद्धेः । अन्यथा तदयोगात् । यथाह -
१ पातं. योगसूत्रम् २-३५. २ पातं. सू. २-३२. ३ अर्थशून्यमित्यर्थः।
Page #171
--------------------------------------------------------------------------
________________
पश्चमोऽध्यायः ।
"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥ १ ॥ नरकादिगतिविभेदो भेदः संसारमोक्षयोश्चैव । हिंसादिस्तद्धेतुः सम्यक्त्वादिश्च मुख्य इति ॥ २ ॥ उत्पादादियुते खलु वस्तुन्येतदुपपद्यते सर्वम् । तद्रहिते तदभावात् सर्वमपि न युज्यते नीत्या ॥ ३ ॥ निरुपादानो न भवत्युत्पादो नापि तादवस्थ्येऽस्य । तद्विक्रिययापि तथा त्रितययुतेऽस्मिन् भवत्येषः ॥ ४ ॥ सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतो ज्ञेयः । जीवत्वेन धौव्यं त्रितययुतं सर्वमेवं तु ॥ ५ ॥ "
तदित्थं उत्पादव्ययौ धौव्यं चैतत्रितययुक्तं सतो लक्षणम् । अथवा युक्तं समाहितं त्रिस्वभावं सत् । यदुत्पद्यते यद्वयेति यच्च ध्रुवं तत्सत् अतोऽन्यदसदिति ॥
११९
अत्राह । गृह्णीमस्तावदेवंलक्षणं सदिति । इदं तु वाच्यं तत्कि नित्यमाहोस्विदनित्यमिति । अत्रोच्यते
तद्भावाव्ययं नित्यम् ॥ ३० ॥
यत्सतो भावान्न व्येति न व्येष्यति तन्नित्यमिति ॥ ३० ॥ अर्पितानर्पितसिद्धेः ॥ ३१ ॥
सच्च त्रिविधमपि नित्यं च । उभे अपि अर्पितान र्पितसिद्धेः । अर्पितैव्यावहारिकमनर्पितव्यावहारिकं चेत्यर्थः । तच्च सच्चतुर्विधम् ।
1
१ कारणशून्यः ।
२ अर्पितम् - उपनीतं वस्तु विवक्षितेन धर्मेण साक्षाद्वाचकेन शब्देनाभिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिकं अर्पितं च तद् व्यावहारिकं चेत्यर्पि - तव्यावहारिकम् । एतदुक्तं भवति । किंचिद्वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयति अपरमन र्पितमेव साक्षाद्वाचकेन शब्देन प्रतीयमानं सद् व्यवहाराय व्यामियत इत्यत आह-अनर्पितव्यावहारिकं चेत्यर्थः ।
Page #172
--------------------------------------------------------------------------
________________
सभाष्यतस्वार्थाधिगमसूत्रेषु . १२० तद्यथा-द्रव्यास्तिकं मातृकापदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति । एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असनाम नास्त्येव द्रव्यास्तिकस्य ॥ मातृकापदास्तिकस्यापि । मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वा असत् ॥ उत्पन्नास्तिकस्य । उत्पन्नं वोपन्ने वोत्पन्नानि वा सत् । अनुत्पन्नं वानुत्पन्ने वानुत्पनानि वा सत् ॥ अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वासत् । तदुभयपर्याये वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाच्यं सदित्यसदिति वा । देशादेशेन विकल्पयितव्यमिति ॥
___ अत्राह । उक्तं भवेता संघातभेदेभ्यः स्कन्धा उत्पद्यन्त इति । तत्कि संयोगमात्रादेव संघातो भवति । आहोस्विदस्ति कश्चिद्विशेष इति । अत्रीच्यते । सति संयोगे बद्धस्य संघातो भवतीति ॥३१॥
- अत्राह । अथ कथं बन्धो भवतीति । अत्रोच्यते
१ द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः । उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः। अस्ति मतिरस्येत्या स्तिकम् । द्रव्ये आस्तिकम् । द्रव्यास्तिकम् । एवं मातृकापदास्तिकादिष्वपि योज्यम् । तत्र संग्रहाभिप्रायानुसारि द्रव्यास्तिकम् । व्यवहारनयानुसारि मातृकापदास्तिकम् । ... - २ सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं व्याख्येयम् । - ३ अ. ५ सू. २६. ४ एकत्वपरिणतिभाजः । .....
. ..
Page #173
--------------------------------------------------------------------------
________________
स
पश्चमोऽध्यायः ।।
स्निग्धरूक्षत्वाइन्धः ॥ ३२॥ स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोः स्पृष्टयोर्बन्धो भवतीति॥३२॥ अत्राह । किमेष एकान्त इति । अत्रोच्यते
न जघन्यगुणानाम् ॥ ३३ ॥ जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवतीति ॥ ३३॥
___ अत्राह । उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति । अत्रोच्यते । न जघन्यगुणानामित्यधिकृत्येदमुच्यते
गुणसाम्ये सदृशानाम् ॥ ३४ ॥ गुणसाम्ये सति सदृशाना बन्धो न भवति । तद्यथा -तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति ।
अत्राह । सदृशग्रहणं किमपेक्षत इति । अत्रोच्यते । गुणवैषम्ये सदृशानां बन्धो भवतीति ॥ ३४ ॥ ___अत्राह । किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति । अत्रोच्यते
यधिकादिगुणानां तु ॥ ३५ ॥ व्यधिकादिगुणानां तु सदृशानां बन्धो भवति । तद्यथा१ संयुक्तयोः । २ नियमः । ३ अ. ५ सू. ३२.
४ द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते द्यधिकादिगुणाः । गुणशब्दोऽत्र गुणिवचनः । गुणवन्तो गुणाः परमाणव इत्यर्थः । ।
Page #174
--------------------------------------------------------------------------
________________
सभाध्यतत्त्वार्थाधिगमसूत्रेषु . १२२ स्निग्धस्य द्विगुणाद्यधिकस्निग्धेन । द्विगुणाद्यधिकस्निग्धस्य स्निग्धेन । रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण । द्विगुणाद्यधिकरूक्षस्य रूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥
अत्राह । परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेष्वाहास्विदव्यवस्थिता इति । अत्रोच्यते । अव्यवस्थिताः । कुतः । परिणामात् ॥ ३५॥
अत्राह । द्वयोरपि वध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति उच्यते
बन्धे समाधिकौ पारिणामिकौ ॥ ३६ ॥
बन्धे सति समगुणस्य समगुणः परिणामको भवति । अधिकगुणो हीनस्यति ॥ ३६॥
अत्राह । उक्तं भवता 'द्रव्याणि जीवाश्च' इति । तत्किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति । अत्रोच्यते । लक्षणतोऽपि प्रसिद्धिः । तदुच्यते
__ गुणपर्यायवद् द्रव्यम् ॥ ३७॥
गुणान् लक्षणतो वक्ष्यामः । भावान्तरं संज्ञान्तरं च पर्यायः। तदुभयं यत्र विद्यते तद्रव्यम् । गुणपर्याया अस्य सन्त्यस्मिन्वा सन्तीति गुणपर्यायवत् ॥ ३७॥
१ बन्धः-संयोगः । २ अ. ५ सू. २. ३ अव्याप्त्यतिव्याप्त्यसम्भवदूषणत्रयरहितधर्मो लक्षणम् । ४ अ. ५ सू. ४०.
५ भावादन्यो भावान्तरम् । समभिरूढनयाभिप्रायेणेन्दनशकनपूर्दारणादयोऽर्थविशेषा रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणां प्रवृत्ती निमित्तभूताः। संज्ञा न्तरं चेन्द्रशक्रपुरन्दररूपादि।
Page #175
--------------------------------------------------------------------------
________________
पञ्चमोऽध्यायः।
कालश्चेत्येके ॥ ३८ ॥ एके त्वाचार्या ब्याचक्षते कालोऽपि द्रव्यमिति ॥ ३८ ॥
सोऽनन्तसमयः ॥ ३९ ॥ स चैष कालोऽनन्तसमयः। तत्रैक एव वर्तमानसमयः । अतीतानागतयोस्त्वानन्त्यम् ॥ ३९ ॥
अत्राह । उक्तं भवता 'गुणपर्यायवद्र्व्य म्' इति । तत्र के गुणा इति । अत्रोच्यते
द्रव्याश्रया निर्गुणा गुणाः ॥४०॥ द्रव्यमेषामाश्रय इति द्रव्याश्रयाः । नैषां गुणाः सन्तीति निर्गुणाः॥४०॥
अत्राह । उक्तं भवता 'बन्धे समाधिको पारिणामिकौ' इति तत्र कः परिणाम इति । अत्रोच्यते
तद्भावः परिणामः ॥४१॥ धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः॥४१॥
१ दिगम्बराः 'कालश्च' इति तत्त्वार्थ (५-३९) सूत्रेण व्याचक्षन्ते ।
२ एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेके अनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते । .
३ अत्र टिप्पणकग्रन्ये दिगम्बराणां खण्डनम् । ४ अ. ५ सू. ३७.
५ सन्ति गुणाः किंतु द्रव्यादव्यतिरिच्यमानस्वरूपाः । तद्यदा द्रव्यं शुक्लाकारण परिणतं भवति तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ।
६ अ. ५ सू. ३६.
Page #176
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १२४ स द्विविधः।
अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥
रूपिष्वादिमान् ॥ ४३ ॥ रूपिषु तु द्रव्येषु आदिमान् । परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥ ४३॥
योगोपयोगी जीवेषु ॥ ४४ ॥ जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः । तत्रोपयोगः पूर्वोक्तः । योगस्तु परस्ता_क्ष्यते ॥ ४४ ॥
इति तत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे
पंचमोऽध्यायः समाप्तः ॥५॥
१ अ. ५ सू. ४२. २ अ. २ सू. १९. ३ अ. ६ सू. १.
Page #177
--------------------------------------------------------------------------
________________
अथ षष्ठोऽध्यायः ।
अत्राह । उक्ता जीवाजीवाः । अथास्रवः क इत्यास्रव - प्रसिद्ध्यर्थमिदं प्रक्रम्यते
कायवाङ्मनःकर्म योगः ॥ १ ॥
कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । स एकेशो द्विविधः । शुभाशुभश्च । तत्राशुभो हिंसास्याब्रह्मादीनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्यायीपादेयसूर्यादीनि मानसः । अतो विपरीतः शुभ इति । १ । स आस्रवः ॥ २ ॥
स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति । शुभाशुभयोः कर्मणोरास्रवणादास्रवः । सरःसलिलीवाहिनिर्वाहिस्रोतोवत् ||२||
१ एकशः - प्रत्येकम् ।
२ अब्रह्म-मैथुनम् ।
३ आदिशब्दाद् दहनछेदनालेखनहास्यधावनप्रभृतिकर्मविशेषाः कायिको योगः । ४ आदिशब्दाद सत्यछलशठदंभादि ।
५ सत्त्वष्वभिद्रोहानुध्यानं— अभिध्या । ६ व्यापादः - स्वोपायोच्छादनारंभः । ७ ईर्ष्या - अक्षमा ।
८ असूया - क्रोधविशेषः ।
९ आदिग्रहणाद् अभिमानहर्षशोकदैन्यादि ।
१० अहिंसास्तेयब्रह्मचर्यादिकाययोगः । असावद्यादिवचनमागमविहितभाषणं च वाचिकयोगः । अनभिध्यादिधर्मशुक्लध्यानध्यायितेति मनोयोगः ।
११ आस्रवति प्रविशति कर्म येन आत्मनीति आस्रवः कर्मबन्धहेतुरिति भावः । १२ यथा तटाके स्रोतसां सलिलावाहनिर्वाहाभ्यां न कदाचिच्चिन्त्यमाना रिक्तता भवति एवमात्मनि कर्मदृष्टान्तयोजना । अतएव निरुद्धसलिलागमद्वारस्य तडा - गस्य रिक्तिः सुश्रद्धेया तथा संवृतकर्मणो जीवस्य ।
Page #178
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्याधिगमसूत्रेषु -
शुभः पुण्यस्य ॥ ३॥ शुभो योगः पुण्यस्यास्रवो भवति ॥३॥
अशुभः पापस्य ॥ ४॥ तत्र सवेद्यादि पुण्यं वक्ष्यते शेष पापमिति ॥ ४ ॥ सकषायाकषाययोः साम्परायिके-पैथयोः ॥५॥
स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्परायिकेर्यापथयोरात्रवो भवति यथासङ्खयं यथासम्भवं च । सकषायस्य योगः साम्परायिकस्य अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥ ५ ॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः
पूर्वस्य भेदाः ॥६॥ पूर्वस्योत सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति । पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्येवमादयो वक्ष्यन्ते । चत्वारः क्रोधमानमायालोभा अनन्तानुबन्ध्यादयो वक्ष्यन्ते । पञ्च प्रमत्तस्यन्द्रियाणि । पञ्चविंशतिः
१ अ. ८ सू. २६.
२ सकाषायिकत्रिविधयोगकृतकर्मागमनरूपत्वं सांपरायिकास्रवस्य लक्षणम् । अथवा संसारपरिभ्रान्तिकारणकत्वे सति यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वम् ।
३ अकषायकृतत्वैकसमयस्थितिकत्वयोः सतोर्यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वं-ऐपिथिकासवस्य लक्षणम् ।
४ अ. ६ सू. ५. ५ अ. ७ सू. ८. ६ अ. ८ सू. १०. ७ अ. २ सू. २०.
Page #179
--------------------------------------------------------------------------
________________
१२७
षष्ठोऽध्यायः।
क्रियाः । तत्रेमे क्रियाप्रत्यया यथासंख्यं प्रतेतव्याः । तद्यथासम्यक्त्वमिथ्यात्वप्रयोगसमादान-पथाः कायाधिकरणप्रदोषपरितोपनप्राणांतिपाताः दर्शनस्पर्शनप्रत्ययसमन्तापातानाभोगाः स्वहस्त
१ जिनसिद्धगुर्वादीनां । पूजानमस्कारवस्त्रपात्रादिप्रदानरूपवैयावृत्याभिव्यङ्ग्यत्वे सति सम्यक्त्वप्रवर्धकत्वं । सम्यक्त्वक्रियाया लक्षणम् ।
२ तद्विपरीतप्रवृत्तिरूपत्वं मिथ्याक्रियालक्षणम् । ३ गमनागमनादिचेष्टाविषयकप्रवृत्तिनिमित्तकत्वं प्रयोगक्रियाया लक्षणम् ।
४ योगत्रयकृतपुद्गलादानरूपत्वं समादानक्रियाया लक्षणम् । अथवा योगनिवृत्तिसमर्थपुद्गलग्रहणरूपत्वं तत्र धावनवलानादिरूपः कायव्यापारः । पुरुषानृतादिरूपो वाग्व्यापारः । आभिद्रोहादिरूपो मनोव्यापारः।
५ ईयापथकर्मकारणरूपत्वमीर्यापथिकक्रियाया लक्षणम् । ६ कायचेष्टाविशेषरूपत्वं कायिकक्रियाया लक्षणम् । ७ खड्गादिनिवर्तनरूपत्वमधिकरणाक्रियाया लक्षणम् । ८ मात्सर्यकरणरूपत्वं प्राद्वेषिकाक्रयाया लक्षणम् । ९ दुःखोत्पादनरूपत्वं परितापन्याः क्रियाया लक्षणम् । १० प्रमत्तयोगात्प्राणातिपातरूपत्वं प्राणातिपातक्रियाया लक्षणम् । ११ अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दार्टिक्याः क्रियाया लक्षणम् ।
१२ रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्यायिकक्रियाया लक्षणम् ।
१३ जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् ।
१४ हर्षवशादश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् ।
१५ अदृष्ट्वाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादिरूपत्वं अथवा उपयोगराहित्येन क्रियायां प्रवृत्तिकरणरूपत्वं अनाभगिकक्रियाया लक्षणम् ।
१६ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम्
Page #180
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १२८ निसर्गविदारणानयनानवकाङ्क्ष आरम्भपरिग्रहमायाँमिथ्यादर्शनापत्याख्यानक्रिया इति ॥६॥ तीव्रमन्दज्ञाताज्ञातभाववी-धिकरणविशेषेभ्यस्तद्विशेषः
॥७॥ सांपरायिकास्रवाणां एषामेकोनचत्वारिंशत्साम्परायिकाणां तीव्रभावात् मन्दभावाज्ज्ञातभावादज्ञातभावावीर्यविशेषादधिकरणविशेषाच विशेषो भवति । लघुर्लघुतरो लघुतमस्तीवस्तीव्रतरस्तीव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ॥ ७॥
अत्राह । तीव्रमन्दादयो भावा लोकप्रतीताः वीर्यं च जीवस्य क्षायोपशमिकः क्षायिको वा भाव इत्युक्तम् । अथाधिकरणं किमिति अत्रोच्यते
१ यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्करणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम् , अथवा पापादानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् ।
२ अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् । ३ आनयनं समुद्दिश्य स्वपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् । ४ जिनोक्तकर्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकाङ्क्षक्रियाया लक्षणम्।
५ छेदनभेदनताडनतर्जनादिकर्मविषयकप्रवृत्तिकरणरूपत्त्वमारम्भक्रियाया लक्षणम् ।
६ सचित्तादिद्रव्येषु ममेति ममत्वकरणरूपत्वं परिग्रहक्रियाया लक्षणम् ।
७ दाम्भिकवृत्तितया मनोवाकायानां प्रवृत्तौ प्रेरकत्वं मायाप्रत्ययिकक्रियाया लक्षणम् ।
८ चारित्रमोहनीयोदये सति सावद्ययोगादिषु प्रवृत्तिरूपत्वमप्रत्याख्यानाकयाया लक्षणम् ।
९ प्रकृष्ट कर्मबन्धजघन्यकर्मबन्धरूपपरिणामतारतम्योपयोगानुपयोगपूर्वकप्राणातिपातादिप्रवृत्तिपराक्रमवीर्यविशेषशस्त्राद्यधिकरणविशेषैः सांपरायिकास्रवेषु विशेषो द्रष्टव्यः ।
१० अ. २ सू. ४, ५.
Page #181
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः । अधिकरणं जीवाजीवाः ॥ ८॥ आधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि शस्त्रं च दर्शविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ।।८।। तत्रआद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतः
कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ९॥
आद्यमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत्समासतस्त्रिविधम् । संरम्भः समारम्भ आरम्भ इति । एतत्पुनरेकशः कायवामनोयोगविशेषात्त्रिाविधं भवति । तद्यथा--कायसंरम्भः वाक्संरम्भः मनःसंरम्भः कायसमारम्भः वाक्समारम्भः मनःसमारम्भः कायारम्भः वागारम्भः मनआरम्भ इति । एतदप्येकशः कृतकारितानुमतविशेषात्रिविधं भवति । तद्यथा-कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसरम्भः कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनः
१ छेदनदहनमारणोपघातस्नेहक्षाराम्लानुपयुक्तमनोवाकायलक्षणाधिकरणभेदात् । छेदनादीनि प्रसिद्धानि। अनुपयुक्तः सन्मनोवाक्कायादिना यां यां चेष्टां नियति तया तया कर्म बध्यत इत्येवं रूपत्वमनुपयुक्तमनोवाकायलक्षणाधिकरणस्य लक्षणम् ।
२ भावः तीवादिरूपात्मपरिणामः स एवाधिकरणं भावाधिकरणम् । अ. ६ सू. ९.
. ३ प्राणातिपातादिविषयकसंकल्पावेशरूपत्वं संरंभस्य लक्षणम् ।
४ प्राणातिपातादिविषयकसाधनसंनिपातजनितपरितापनादिरूपत्वं समारंभस्य लक्षणम् ।
५ प्राणातिपातादिरूपक्रियानिवृत्तिरूपत्वमारंभस्य लक्षणम्
Page #182
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १३० संरम्भः एवं समारम्भारम्भावपि ॥ तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् । तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनेकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ॥ . संरम्भः सकषायः परितापनया भवेत्समारम्भः।
- आरम्भः प्राणिवधस्त्रिविधो योगस्ततो ज्ञेयः ॥९॥ निवर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्दि त्रिभेदाः परम्॥१०॥
परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत्समासतचतुर्विधम् । तद्यथा-निर्वर्तना निक्षेपः संयोगो निसर्ग इति ॥ तत्र निर्वर्तनाधिकरणं द्विविधम्।मूलगुणनिर्वर्तनाधिकरणमुत्तरंगुणनिर्वर्तनाधिकरणं च । तत्र मूलगुणनिर्वर्तनाः पञ्च, शरीराणि वाङ्मनःमाणापानाश्च । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ निक्षेपाधिकरणं चतुर्विधम् । तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरणं दुःप्रमार्जित
१ औदारिकशरिरप्रायोग्यवर्गणाद्रव्यर्निर्मापितं यदौदारिकसंस्थानं तत्प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणं भवति ।
२ तादृशस्यौदारिकस्याङ्गोपाङ्गकर्णवैधावयवसंस्थानादिकं तु मूलापेक्षयोत्तरगुणनिर्वर्तनाधिकरणं भवति ।
३ अप्रत्यवेक्षितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो निक्षेपकरणरूपत्वमप्रत्यवेक्षितनिक्षेपाधिकरणस्य लक्षणम् ।
४ दुष्पमार्जितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो दुष्प्रमार्जितरजोहरणेनाप्रमार्जितेन बा निक्षेपकरणरूपत्वं दुष्प्रमार्जितनिक्षेपाधिकरणस्य लक्षणम् ।
Page #183
--------------------------------------------------------------------------
________________
१३१
षष्ठोऽध्यायः ।
निक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधिकरणमिति । संयोगाधिकरणं द्विविधम् । भक्तपानसंयोजनाधिकरणमुपकरणसंयोजनाधिकरणं च । निसर्गाधिकरणं त्रिविधम् । कायनिसँगधिकरणं वाङ्निँसर्गाधिकरणं मनोनिसर्गाधिकरणमिति ॥ १० ॥
अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परायिकेर्यापथयोराँव इति साम्परायिकं चाष्टविधं वक्ष्यते । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित्प्रतिविशेषोऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृतिं कृतिं प्राप्यास्त्रवविशेषो भवति ।
तद्यथा
१ अप्रमार्जिते दुष्प्रमार्जिते देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वं देशनिक्षेपाधिकरणस्य लक्षणम् ।
२ अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकरणस्य लक्षणम् ।
३ संयोजनं मिश्रीकरणं । तच्च संयोजनाधिकरणं द्विविधम् ।
४ निसर्ग उत्सर्गः त्याग इत्यर्थः । शस्त्रपाटनानिजलप्रवेशोद्बन्धनविषमयोगादिभिः शरीरस्य त्यागकरणरूपत्वं कायनिसर्गाधिकरणस्य लक्षणम् ।
५ भाषात्वेनापादितवचनवर्गणापुद्गलानामुपदेशादिभिस्त्यागकरणरूपत्वं वानसर्गाधिकरणस्य लक्षणम् ।
६ मनस्त्वेन परिणतमनोवर्गणाद्रव्याणां चिन्तनादिद्वारा त्यागकरण रूपत्वं मनोनिसर्गाधिकरणस्य लक्षणम् ।
७ अ. ६ सू. ५.
८ अ. ६ सू. २६.
1
Page #184
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १३२ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शना
वरणयोः ॥ ११ ॥ - आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो मात्सर्यमन्तराय आसादन उपधात इति ज्ञानावरणास्रवा भवन्ति । एतैर्हि ज्ञानावरणं कर्म बध्यते ॥ एवमेव दर्शनावरणस्येति ॥ ११ ॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यस
वेद्यस्य ॥ १२ ॥ दुःखं शोकस्ताप आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणान्युभयोश्च क्रियमाणान्यसद्वेद्यस्यास्रवा भवन्तीति ॥ १२ ॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः शान्तिः
शौचमिति सद्देद्यस्य ॥ १३ ॥ सर्वभूतानुकम्पा अंगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो १ अ. ८ सू. ७, ८.
२ शानिसाध्वादीनां ज्ञानसाधकपुस्तकाधीनां च प्रत्यनीकत्वेनानिष्टाचारणरूपत्य ज्ञानशानिविषयकान्तरिका प्रीतिकरणरूपत्वं वा प्रदोषस्य लक्षणम्।
३ न मयातत्समीपेऽधीतमित्यपलापकरणरूपत्वं निह्नवस्य लक्षणम्। ४ दानाहेऽपि शाने कुतश्चित्कारणादयोग्यापादनरूपत्वं मात्सर्यस्य लक्षणम् । ५ ज्ञानाध्ययनादीनां व्यवच्छेदकरणरूपत्वमन्तरायस्य लक्षणम् । ६ मनोवाग्भ्यां ज्ञानस्य वर्जनरूपत्वमासादनस्य लक्षणम् । ७ प्रशस्तज्ञानादीनां दोषोद्भावनरूपत्वमुपघातस्य लक्षणम् । ८ अ. ८ सू. ७.
९ एवमुक्तेन प्रकारेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्च दर्शनावरणस्यास्रवा भवन्ति ।
१० अ. ८ सू. ८. ११ अ. ८ सू. ९. १२ अ. ७ सू. १५. १३ अ. ७ सू. १३.
Page #185
--------------------------------------------------------------------------
________________
FREY
अनगारिप्रतिकृतिः ।
अकबर बादशाहमोगल सम्राट्
पृ. १३३
जगद्गुरुश्रीहीरविजयसूरीश्वरः ।
Page #186
--------------------------------------------------------------------------
Page #187
--------------------------------------------------------------------------
Page #188
--------------------------------------------------------------------------
________________
केवलिप्रतिकृतिः। पृ. १३३
मिनाज नमः
पूज्यवर्यलब्धिपात्रगणधरश्रीगौतमस्वामी।
Page #189
--------------------------------------------------------------------------
________________
। षष्ठोऽध्यायः । दानं सरागसंयमः संयमासंयमोऽकामनिर्जरा बालतपो योगः शान्तिः शौचमिति सद्वेद्यस्यास्रवा भवन्ति ॥ १३ ॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १४ ॥
भगवतां परमर्षीणां केवलिनामर्हत्याक्तस्य च साङ्गोपाङ्गस्य श्रुतस्य चातुर्वर्ण्यस्य सङ्घस्य पञ्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधर्धानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा इति ॥ १४ ॥ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥ १५॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्यात्रवो भवति॥१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ बह्वारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति
माया तैर्यग्योनस्य ॥ १७ ॥ माया तैर्यग्योनस्यायुष आस्रवो भवति ॥ १७ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य॥१८॥
अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्ायुष आस्रवो भवति ॥ १८ ॥
१ अ. ७ सू. ३३. २ अ. ६ सू. २०. ३ अ. ८ स. १०. ४ साधु २साध्वी ३ श्रावक ४ श्राविकाः । ५ अ. ७ सू. १. ६ अ. ४ सू. ११, १२ १३, २०. ७ अ. ८ सू. १०. ८ अ. ८ सू. ११.
...
Page #190
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥
निःशीलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामावो भवति । यथोक्तानि च ॥ १९ ॥ अथ दैवस्यायुषः क आस्रव इति । अत्रोच्यते-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य । २० ।
१३४
संयमो विरतिर्व्रतमित्यनर्थान्तरम् । 'हिंसानृतेस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्' इति वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनर्थान्तरम्। 'देशसर्वतोऽणुमहती' इत्यपि वक्ष्यते ।। अकामनिर्जरा पराधीनतयानुरोधाच्चाकुशलनिवृत्तिराहारादिनिरोधश्च ।। बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि ॥ तदेवं सरागसंयमः संयमा संयमादीनि च दैवस्यायुष आस्रवा भवन्तीति ॥ २० ॥ अथ नाम्नः क आस्रव इति । अत्रोच्यतेयोगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥ २१ ॥
विपरीतं शुभस्य ॥ २२ ॥
एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ||२२|| किं चान्यत्
१ अ. ६ सू. १६, १७, १८.
२ अ. ७ सू. १.
३ अ. ७ सू. २.
४ अ. ८ सू. १२.
५ अ. ८ सू. १२.
Page #191
--------------------------------------------------------------------------
________________
१२
षष्ठोऽध्यायः । दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतंपसी सङ्घसाधुसमाधिवैयावृत्यंकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३ ॥
१ जिनोक्ततत्त्वाविषयकसम्यग्दर्शने निःशङ्कितत्वाद्यष्टाङ्गसेवनरूपत्वं दर्शनविशुद्धलक्षणम् ।
२ सम्यग्ज्ञानादौ तद्वत्सु चादरकरणरूपत्वे सति माननिवृत्तिकरणरूपत्वं विनयसम्पन्नताया लक्षणम् ।
३ उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयकानुष्ठानकरणरूपत्वं शीलविषयकानतिचारस्य लक्षणम् ।
४ प्रतिक्षणं वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशैरभ्यसनकरणरूपत्वं ज्ञानोपयोगस्य लक्षणम् ।
५जन्मजरामरणादिक्लेशरूपसंसारात् प्रतिक्षणं भयपरिणामरूपत्वं संवेगस्य लक्षणम्। ६ विधिपूर्वकसुपात्रप्रदानरूपत्वं त्यागस्य लक्षणम् । ७ कर्मतापनरूपत्वं तपसो लक्षणम् ।।
८ सम्यग्ज्ञानादीनामाधारस्य साध्वादिरूपसङ्घस्योपद्रवाभावोत्पादनरूपत्वं समाधेलक्षणम् ।
९ अ. ९ सू. २४.
१० सङ्घस्य समाधिकरणं,साधोवैयावृत्यकरणं,अथवोभयोःसमाधिवयावृत्यकरणं. अहंदाचार्यबहुश्रुतप्रवचनेषु यथासम्भवमाशयशुद्धिपूर्वकानुरागरूपत्वं भक्तेलक्षणम् ।
११ सकलसावद्यविरतिरूपसामायिकाद्यावश्यकानां दिवसरात्राभ्यन्तरेऽवश्यतया कर्तव्यानुष्ठानरूपत्वं, षडावश्यकानां (सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमणकायोत्सर्ग-प्रत्याख्यानानि षडावश्यकानि) यथाकालाकरणरूपत्वं वा आवश्यकापरिहाणेलक्षणम् ।
१२ सम्यग्दर्शनादिमार्गस्य मानं परित्यज्य करणाकरणोपदेशद्वारा प्रकाशनं मार्गप्रभावनाया लक्षणम् ।
१३ अर्हच्छासनानुष्ठायिनां श्रुतधरबालवृद्धतपस्विशैक्षकग्लानादीनां संयमानुष्ठानश्रुताध्ययनाद्यर्थ वस्त्रपात्रभक्तपानादिप्रदानं, द्रव्यभावतः साधार्मकस्नेहकरणरूपत्वं वा प्रवचनवात्सल्यस्य लक्षणम् । एते कुर्वाणो जीवस्तीर्थकरनामकर्म बध्नाति ।
१४ अ. ८ सू. १२.
Page #192
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
१३६
परमप्रकृष्टा दर्शनविशुद्धिः । विनयसंपन्नता च । शीलव्रतेवात्यन्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः संवेगश्च । यथाशक्तितस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधि - यानृत्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः । सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः । सम्यग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना । अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धत - स्विशैक्षग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न आस्रवा 1 भवन्तीति ।। २३ ।।
परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचे - 'गौत्रस्य ॥ २४ ॥ परनिन्दात्मप्रशंसा सद्गुणाच्छादनमसगुणोद्भावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २५ ॥
उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैर्वृत्तिरनुत्सेकचोच्चैर्गोत्रस्या वा भवन्ति ।। २५ ।।
विघ्नकरणमन्तरायस्य ॥ २६ ॥
दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परायिकस्याष्टविधस्य पृथक् पृथगास्स्रवविशेषा भवन्तीति ॥ २६ ॥ इति तत्त्वार्थाधिगमसूत्रेषु षष्ठोऽध्यायः समाप्तः ||६॥
१२ अ. ८ सू. १३.
३ अ. ८ सू. १४.
Page #193
--------------------------------------------------------------------------
________________
अथ सप्तमोऽध्यायः।
अत्राह । उक्तं भवता सद्यस्यास्रवेषु भूतव्रत्यनुकम्पति, तत्र किं व्रतं को वा व्रतीति । अत्रोच्यतेहिंसानृतस्तयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥
हिंसाया अनृतवचनात्स्तेयादब्रह्मतः परिग्रहाच्च कायवाङ्मनोभिर्विरतिव्रतम् । विरतिर्नाम ज्ञात्वाभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरम् ॥१॥
देशसर्वतोऽणुमहती ॥ २ ॥ एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति ॥२॥
तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति । तद्यथा-अहिंसायास्तावदीर्यासमितिमनोगुप्तिरेषणासमितिरादाननिक्षेपणसमितिरालोकितपानभोजनमिति । सत्यवचनस्यानुवाचिभाषणं क्रोधपत्याख्यानंलोभप्रत्याख्यानमभीरुत्वं हास्यप्रत्याख्यानमिति ॥ अस्तेयस्यानुवीय॑वग्रहयाचनमभीक्ष्णावग्रहयाचनमेताव
१ अ. ७ सू. ८, ९, १०, ११, १२ २ अ. ९ सू. ५. ३ अ. ९ सू. ४. ४ आलोचनपूर्वकं भाषणम् । ५ अ. ८ सू. १०, ६ आलोच्यावग्रहो याचनीयः। ..
१८
Page #194
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रषु
१३८
दित्यवग्रहावधारणं समानधार्मिकेभ्योऽवग्रहयाचनमनुज्ञापितपानभोजनमिति ॥ ब्रह्मचर्यस्य स्त्रीपशुषण्डकसंसक्तशयनासनवर्जनं रागसंयुक्तस्त्रीकथावर्जनं स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं पूर्वरतानुस्मरणवर्जनं प्रणीतरसभोजन वर्जनामिति || आकिञ्चनस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गाद्धर्घवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति ॥ ३ ॥
किं चान्यदिति । हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ४ ॥
हिंसादिषु पञ्चस्वास्त्रवेष्विहामुत्र चापायदर्शनमवद्यदर्शनं च भावयेत् । तद्यथा । हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्यानुबद्धवैरश्व । इहैव वधबन्धपरिक्लेशादीन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । तथानृतवाद्यश्रद्धेयो भवति । इहैव जिह्वाछेदादीन्प्रतिलभते मिथ्याभ्याख्यानदुःखितेभ्यश्व बद्धवैरेभ्यस्तदधिकान्दुःखहेतुन्यामोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यनृतवचनाव्युपरमः श्रेयान् । तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्रेजनीयो भवतीति । इहैव चाभिघातवधवन्धन हस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदन सर्वस्वहरणवध्ययातनमारणादीन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयायुपरमः श्रेयान् ॥ तथाऽब्रह्मचारी विभ्रमोद्भान्तचित्तः विप्रकीर्णेन्द्रियो महान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किंचिदकुशलं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदन वधबन्धनद्रव्यापहारादीन्प्रतिलभतेऽपायाप्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः श्रेयानिति ॥ तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां क्रव्यादशकुनानामिव तस्रादीनां गयो भवति । अर्जनरक्षणंक्षयकृतांश्च दोषान्प्राप्नोति । न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेर्लोभाभिभूतत्वाच्च कार्या
Page #195
--------------------------------------------------------------------------
________________
१३९
सप्तमोऽध्यायः। कार्यानपेक्षो भवति । प्रेत्य चाशुभां गतिं प्राप्नोति लुब्धोऽयमिति च गार्हतो भवतीति परिग्रहाद्वयुपरमः श्रेयान् ॥ ४॥ किं चान्यत्
दुःखमेव वा ॥ ५॥ दुःखमेव वा हिंसादिषु भावयेत् ॥ यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान्॥ यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीव्र दुःख भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद्वयुपरमः श्रेयान् ॥ यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति स्तेयाद्युपरमः श्रेयान् ॥ तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत्स्पर्शनसुखमिति तच्च न । कुतः । व्याधिप्रतीकारत्वात्कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वादसुखे ह्यस्मिन्सुखाभिमानो मूढस्य । तद्यथा-तीव्रया त्वक्छोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिर्विच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाब्युपरमः श्रेयान् ॥ तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु काङ्कारक्षणशोकोद्भवं दुःखमेव प्राप्नोतीति परिग्रहाद्वयुपरमः श्रेयान् । इत्येवं भावयतो व्रतिनो व्रते स्थैर्य भवति ॥५॥ । किं चान्यत्मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमाना
विनेयेषु ॥६॥ __ भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम्। क्षमयेऽहं सर्वसत्त्वान् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगो वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञान
१ वर्णवादः श्लाघा ।
Page #196
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्याधिगमसूत्रेषु - १४० चारित्रतपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह इत्यर्थः । तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखादितेषु दीनकृपणानाथबालमोमुहद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति। माध्यस्थ्यमावनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् । अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधारणविज्ञानोहापोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । न हि तत्र वक्तुहितोपदेशसाफल्यं भवति ॥ ६॥
किं चान्यत् । जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७ ॥
जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगस्वभावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावस्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोऽनित्यता दुःखहेतुत्वं निःसारताऽशुचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिधर्मे बहुमानो धार्मिकेषु च धर्मश्रवणे धार्मिकदर्शने च मन:प्रसाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपाधिष्वनभिष्वङ्गः इति ॥७॥
१ तर्षः-तृपिपासेति । स एवाग्निः परितापकारित्वात् । २ मोमुहाः-काहलाः।
३ वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः । परिग्लानेन्द्रियाः परिपेलवस्मृतयः ।
४ औदासीन्यम् ।
Page #197
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः। अत्राह । उक्तं भवता हिंसादिभ्यो विरतिव्रतमिति तत्र का हिंसा नामति । अत्रोच्यते ।
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ ८ ॥
प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनान्तरम् ॥ ८॥ अत्राह । अथानृतं किमिति । अत्रोच्यते
असदभिधानमनृतम् ॥९॥ असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्हा च ॥ तत्र सद्भावनतिषेधो नाम सद्भूतनिह्नवोऽभूतोद्भावनं च । तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । श्यामाकतण्डुलमात्रोऽयमात्मा अङ्गठपर्वमात्रोऽयमात्मा आदित्यवर्णो निःक्रिय इत्येवमाद्यमभूतोद्भावनम् ॥ अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गौरिति ॥ गति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमाप गर्हितमनृतमेव भवतीति ॥९॥ अत्राह अथ स्तेयं किमिति । अत्रोच्यते
अदत्तादानं स्तेयम् ॥१०॥ स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य तृणादेव्यजातस्यादानं स्तेयम् ॥१०॥ अत्राह । अथाब्रह्म किमिति । अत्रोच्यते
मैथुनमब्रह्म ॥ ११ ॥ स्त्रीपुंसयोमिथुनभावो मिथुनकर्म का मैथुनं तदब्रह्म ॥११॥ अत्राह । अथ परिग्रहः क इति । अत्रोच्यते१ अ. ७ सू. १
Page #198
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४२
मूर्छा परिग्रहः ॥ १२॥ चेतनावत्स्वचेतनेषु च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः। इच्छा प्रार्थना कामोऽभिलाषः कांक्षा गार्थ मूर्छत्यनान्तरम् ॥१२॥ अत्राह । गृह्णीमस्तावद् व्रतानि । अथ व्रती क इति । अत्रोच्यते
निःशल्यो व्रती ॥ १३ ॥ मायानिदानमिथ्यादर्शनशल्यैस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवति । व्रतान्यस्य सन्तीति व्रती । तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ १३॥
अगार्यनगारश्च ॥ १४ ॥ स एष व्रती द्विविधो भवति । अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४॥ अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यते
अणुव्रतोऽगारी ॥ १५ ॥ . अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरःश्रावकोऽगारी वती भवति ॥ १५॥
किं चान्यत्दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरि
भोगातिथिसंविभागव्रतसंपन्नश्च ॥ १६ ॥
एभिश्च दिग्वतादिभिरुत्तरव्रतैः संपन्नोऽगारी व्रती भवति । तत्र दिव्रतं नाम तिर्यगूमधो वा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः॥देशव्रतं नामापवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतश्च सर्वसावद्ययोगनिक्षेपः॥अनर्थदण्डो नामोपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः।
Page #199
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः ।
तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः । तद्विरतिर्व्रतम् ॥ सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः ॥ पौषधोपवासो नाम पौषधे उपवासः पौषधोपवासः । पौषधं ः पर्वेत्यनर्थान्तरम् । सोऽष्टमीं चतुर्दशीं पञ्चदशीमन्यतमां वा तिथिमभिगृह्य चतुर्थीद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारमा - स्तीर्य स्थानं वीरासननिषद्यानां वान्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति ।। उपभोगपरिभोगवतं नामाशनपानखाद्यस्वाद्यगन्धमाल्यादीनामाच्छादनप्रावरणालंकारशयनासन गृहयानवाहनादीनां च बहुसावद्यानां वर्जनम् । अल्पसावद्यानामपि परिमाणकरण - मिति || अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं परयात्मानुग्रहबुद्धया संयतेभ्यो दानमिति ॥ १६ ॥
किं चान्यदिति ।
मारणान्तिकीं संलखनां जोषिता ॥१७॥
१४३
कालसंहनन दौर्बल्योपसर्गदोषाद्धर्मावश्यकपरिहाणि वाभितो ज्ञात्वावमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयमं प्रति
१ पोषधशब्दः पर्ववाचकः । पोषं धत्ते पुष्णाति वा धर्मानिति निरुक्तात् । २ पृथग्जनस्यानियतानि भक्तानि । मुमुक्षूणां सकृद् भोजनम् । मध्यमजनस्य भक्तद्वयम् । तत्र मध्यमां प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना । अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः । द्वितीयेऽहनि भक्तद्वयच्छेदः । तृतीयेऽहनि चतुर्थ - भक्तकाले भुक्त इति चतुर्थभक्तमुच्यते । एक उपवासः । आदिग्रहणात् पूर्वगणनयैव षष्ठाष्टमादि समस्ततपोविकल्पग्रहणम् ।
३ निषद्या - समस्फिग्निवेशनं पर्यंतबन्धादि । ४ मर्यादाकरणम् ।
Page #200
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४४ पद्योत्तमव्रतसंपन्नश्चतुर्विधाहारं प्रत्याख्याय यावज्जीवं भावनानुप्रेक्षापरः स्मृतिसमाधिबहुलो मारणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति॥
___ एतानि दिग्वतादीनि शीलानि भवन्ति । 'निःशल्यो व्रती' इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति ॥१७॥ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः
__सम्यग्दृष्टेरतिचाराः॥१८॥ शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतीचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलनमित्यनान्तरम् ॥ अधिगतजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यग्दृष्टेरहमोक्तेषु अत्यन्तसूक्ष्मेवतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु यः संदेहो भवति एवं स्यादेवं न स्यादिति सा शङ्का ॥ ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काङ्क्षा । सोऽतिचारः सम्यग्दृष्टेः । कुतः । काङ्किता ह्यविचारितगुणदोषः समयमतिक्रामति ॥ विचिकित्सा नाम इदमप्यस्तीदमपीति मतिविप्लतिः ॥ अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां दृष्टिमाह । सा द्विविधा । अभिहीता अनभिगृहीता च । तद्युक्तानां क्रियावा
१ (१) अशनं-सक्तुमद्गाक्षीरदध्यादि (२) पानं खजूरद्राक्षापानकोष्णपानकादि (३) स्वादिम-गुडचारुकुलिकाखण्डेक्षुशर्करादि । (४) स्वादिम-एलाफलकर्पूरलवङ्गपूगीफलनागरादि ।
२ अ. ७ सू. १३. ३ जिनवचनव्यतिरिक्ता दृष्टिः-अन्यदृष्टिः । असर्वज्ञप्रणीतवचनाभिरतिः । ४ अभिमुखं गृहीता । इदमेव तत्त्वमिति बुद्धवचनं सांख्यं कणादादिवचनं वा।
५ नैकाप्याभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृहीतमिथ्यादृष्टिरित्यर्थः । सर्वमेव युक्त्युपपन्नमयुक्तिकं चासमतया मन्यते मौढ्यात् ।।
६ क्रिया कधीना न कर्ता विना क्रियायाः संभवः । इति क्रियामात्मसमवायिनी ये वदन्ति तच्छीलाः।
Page #201
--------------------------------------------------------------------------
________________
१४५
सप्तमोऽध्यायः। दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । अत्राह । प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अत्रोच्यते । ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा । संस्तवस्तु सोपंधं निरुपधं भूताभूतगुणवचन मिति ॥ १८ ॥ __ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥
व्रतेषु पञ्चसु शीलेषु च सप्तसु पञ्च पश्चातिचारा भवन्ति यथाक्रममिति ऊर्ध्वं यद्वक्ष्यामः ॥ १९ ॥
तद्यथाबन्धवधविच्छेदातिभारारोपणान्नपाननिरोधाः ॥ २०॥
त्रसस्थावराणां जीवानां बन्धवधौ, त्वक्छेदः काष्ठादीनां, पुरुषहस्त्यश्वगोमाहषादीनां चातिभारारोपणं, तेषामेव चानपाननिरोधः, अहिंसाव्रतस्यातिचारा भवन्ति ॥ २० ॥
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २१ ॥
__ एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसेंधानोपदेश इत्येवमादिः॥ रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभी रहस्येनाभिशं
१ विनयेन चरन्ति वैयिकाः । समवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः कायेन वाचा मनसा दानेन च चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सपर्या विदधति ।
२ सकपटम् । ३ निष्कपटम् । ४ सत्यासत्यगुणकथनम् । ५ कलहेऽन्यतरस्यातिसंधानोपायं वञ्चनोपायमुपदिशति ।
Page #202
--------------------------------------------------------------------------
________________
१४६
सभाष्यतत्त्वार्थाधिगमसूत्रेषु सनम् ॥ कूटलेखक्रिया लोकमतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥२१॥ स्तनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥
एते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिप्रयोगः॥स्तेनैराहृतस्य द्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहृतादानम् ॥ विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः । विरुद्ध हि राज्ये सर्वमेव स्तेययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पञ्चास्तेयव्रतस्यातिचारा भवन्ति।२२। परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिनिवेशाः ॥ २३ ॥ ___परविवाहकरणमित्वरपरिगृहीतागमनमपरिगृहीतागमनमनङ्गक्रीडा तीवकामाभिनिवेश इत्येते पञ्च ब्रह्मचर्यव्रतस्यातिचारा भवन्ति ॥ २३ ॥
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २४ ॥
क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धन. धान्यप्रमाणातिक्रमः दासीदासप्रमाणातिक्रमः कुप्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥२४॥
१ इत्वरी-कुलटा । प्रतिपुरुषगमनशीलायां साधारणस्त्रियां किंचित्कालं भाटिप्रदानादिना ग्रहणपूर्वकगमनपूर्वकगमनत्वमित्वरगमनस्य लक्षणम् ।
Page #203
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः ।
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥
ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पञ्च दिग्व्रतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानामति ।। २५ ।।
आनयनप्रेष्य प्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ २६ ॥
१४७
द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपात: पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥ कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधि
कत्वानि ॥ २७ ॥
कन्दर्पः कौकुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च ॥ कौकुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् || मौखर्यमसंबद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकमतीतम् । उपभोगाधिकत्वं चेति ॥ २७॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ २८ ॥
काय दुष्प्रणिधानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानमनादरः स्मृत्यनुपस्थापनमित्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति । २८ |
१ शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनरूपत्वम् । २ वर्णसंस्काराभावे सति अर्थानवगमरूपत्वम् ।
३ क्रोधलोभादिकार्यव्यासंगजन्यसंभ्रमरूपत्वम् ।
४ अनुत्साहः
५ स्मृत्यभावः ।
Page #204
--------------------------------------------------------------------------
________________
सभाष्यतस्त्वार्थाधिगमसूत्रेषु
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणाना
दरस्मृत्यनुपस्थापनानि ॥ २९ ॥
अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्यवेक्षिताप्रमार्जितस्यादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानामित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥
सचित्ताहारः सचितसंबद्धाहारः सचित्तै संमिश्राहारः अभिपवहारः दुष्पकीहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१ ॥
अन्नादेर्द्रव्यजातस्य सचित्ते निक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशमात्सर्य कालातिक्रम इत्येते पञ्चातिथिसंविभागयातिचारा भवन्ति ॥ ३१ ॥
जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदान
करणानि ॥ ३२ ॥
जीविताशंसी मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥
१४८
१ प्रत्यवेक्षणं चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजंगमजन्तु
शून्यस्य ।
२ प्रमार्जनं वस्त्रप्रान्तादिना विशुद्धयर्थम् ।
३ मूलकन्दल्यादीनां पृथ्वीकायानां वा सचित्तनामाहारः ।
४ सचित्तेन संबद्धं कर्कटिक पक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसंबद्धा
हारत्वम् ।
५ सचित्तेन संमिश्राहारः - पुष्पफलव्रीहितिलादिना मिश्रः । मोदकादिखाद्यस्य वा पिपीलिकादिसूक्ष्मजन्तुमिश्रस्याभ्यवहारः ।
६ सुरासौवीरकमांसप्रकारपर्णाद्यनेकद्रव्यसंधाननिष्पन्नः ।
७ दुःपक्कं मन्दपक्वमभिन्नतन्दुललोष्ठयवगोधूमस्थूलमण्डकादि । तस्याभ्यवहारे ऐहिकप्रत्यवायकारी यावता वांशेन सचेतनस्तावता परलोकमप्युपहन्ति । ८ आशंसा - अभिलाषा ।
Page #205
--------------------------------------------------------------------------
________________
१४९
सप्तमोऽध्यायः। तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय इति ॥ ३२॥
अत्राह । उक्तानि व्रतानि वतिनश्च । अथ दानं किमिति । अत्रोच्यते
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥
आत्मपरानुग्रहार्थ स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ॥ ३३ ॥
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३४ ॥
विधिविशेषाद द्रव्यविशेषाद् दातृविशेषात्पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः । तत्र विधिविशेषो नाम देशकालसंपच्छ्रद्धासत्कारक्रमाः कल्पनीयत्वमित्येवमादिः ॥ द्रव्यविशेषोऽन्नादीनामेव सारजातिगुणोत्कर्षयोगः ॥ दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसंधिता, दृष्टफलानपेक्षिता निरुपधत्वमनिदानत्वमिति ॥ पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपः संपन्नता इति ॥ ३४ ॥
इति तत्त्वार्थधिगमेऽहत्प्रवचनसङ्ग्रहे
सप्तमोऽध्यायः समाप्तः॥७॥
१ विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाक् मूलोत्तरगुणसंपदुपेतः पात्रामिष्यते।
Page #206
--------------------------------------------------------------------------
________________
अष्टमोऽध्यायः।
उक्त आस्रवः बन्धं वक्ष्यामः । तत्प्रसिद्धयर्थमिदमुच्यते । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥१॥ ___मिथ्यादर्शनं आविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र सम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनम् । तद् द्विविधमभिगृहीतमनभिगृहीतं च । तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहोऽभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्टानां कुवादिशतानाम् । __ १ अज्ञानं अभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादि. नः, अज्ञानमेव श्रेय इत्येवं प्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति । एतभेदसंख्या चेयम् ' असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तठी वेणइयाणं च बत्तीसा ॥१॥' ( क्रियावादिनां अशीत्यधिकं शतं आक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिः वैनायकानां द्वात्रिंशत्॥१॥ इति) तत्राशीत्यधिकं शतं, क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम् जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान नवपदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया व्हस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं नि' मित्यादि प्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजककौति पञ्चमः स्वभाववादिनः । एवं स्वत अजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा व्हस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः. एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तन्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दशविकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिविपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवेदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवं चेयं पुण्यापुण्यविवर्जितपदार्थ
Page #207
--------------------------------------------------------------------------
________________
१५१
अष्टमोऽध्यायः ।
सप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकार्थप्राप्तिरिति, पश्चाद्विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रत्येकं द्वादश विकल्पाः, एवं च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः । सत्त्व १मसत्त्वं सदसत्वं३अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७ मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एव आद्या विकल्पाः, तद्यथा-सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति । विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि वाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वा अनया ज्ञातया ? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभंग्याश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं १ स्वरूपमात्रापेक्षया त्वसत्त्वं २ तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवत्वादिनादिष्टस्य सत्त्वात्तथा घटादिद्रव्यदेशस्यापरस्य बुध्नादेरसद्भावपर्यायेण वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वात् वस्तुनः सदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभियुगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वम् ४ तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यमिति ५ तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६ तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७ इह च प्रथमाद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथान्यैस्तृतीयोऽपि विकल्पो खण्डवस्त्वाश्रित एवोक्तः, तथाहि-अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अतएवाभिहितमाचारटीकायाम् ‘इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावात्' इति, एवमज्ञानिकानां सप्तषष्टिर्भवति इति । वैनयिकानां च द्वात्रिंशत् सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति ते चैकत्र मीलिता द्वात्रिंशादिति, सर्वसंख्या पुनरेतेषां त्रीणि शतानि त्रिषष्टयधिकानीति ।
Page #208
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १५२ शेषमनभिगृहीतम् ॥ यथोक्ताया विरतर्विपरीताऽविरतिः॥ प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरो योगदुष्पणिधानं चैष प्रमादः ॥ कषाया मोहनीये वक्ष्यन्ते योगस्त्रिविधः पूर्वोक्तः ॥ एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन्पूर्वस्मिन्सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनियम इति ॥ १॥ सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥
सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलान् आदत्ते । कर्मयोग्यानिति अष्टविधे पुद्गलग्रहणकर्मशरीरग्रहणयोग्यानि । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते ॥ २॥
स बन्धः ॥ ३॥ स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति ॥ ३ ॥ स पुनश्चतुर्विधः। प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४॥ प्रकृतिबन्धः स्थितिबन्धः अनुभावबन्धः प्रदेशबन्धः इति॥४॥ तत्र--
१ अ. ८ सू. १०. २ अ. ६ सू. १. ३ अ. ८ सू. २५.
४ बन्धः-जीवस्य कर्मपुद्गलसंश्लेषः स चतुर्धा १ स्थित्यनुभावप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः २ अध्यवसायविशेषगृहीतस्य कर्मदलीकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः ३ कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभावबन्धो रसबन्ध इत्यर्थः ४ कर्मपुद्गलानामेव यद्ग्रहणं स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्धः उक्तं च
'प्रकृतिः समुदायः स्यात् स्थितिः कालावधारणम् । अनुभावो रसः प्रोक्तः प्रदेशो दलसञ्चयः ॥१॥' इति ।
Page #209
--------------------------------------------------------------------------
Page #210
--------------------------------------------------------------------------
________________
dr Relast
.D.P.
ज्ञानावरणीयकर्म-आवरणमित्यस्यार्थः-तिरस्करिणी। यथा वस्त्रेणावृताया मूर्तेराकारादिकं न दृश्यते तथा आत्मनि विद्यमाना सर्वापि केवलज्ञानोत्पादनशक्तिरनेन कर्मणा तिरस्करिणीस्वरूपेण समात्रियते।
पृ. १५३
Page #211
--------------------------------------------------------------------------
________________
१५३
अष्टमोऽध्यायः।
आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रा
न्तरायाः ॥५॥ आद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह । सोऽष्टविधः । तद्यथा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयं आयुष्कं नाम गोत्रं अन्तरायमिति ॥५॥
किं चान्यत्पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशव्दिपश्चभेदा
यथाक्रमम् ॥ ६॥ स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् ॥६॥ इत उत्तरं यद्वक्ष्यामः । तद्यथा
मत्यादीनाम् ॥ ७ ॥ ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥७॥
१ (१) अष्टाविंशतिभेदभिन्नं मतिज्ञानं येनावियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत्। (२) श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनात्रियते तत् श्रुतज्ञानावरणम् तदपि देशघाति भवति(३) इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुगलविषयकप्रकाशाविर्भावरूपं अवधिशानं येनानियते तदवधिज्ञानावरणम् तदपि देशघाति। (४) साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुष्यक्षेत्राभ्यन्सरवर्तिसंशिपंचेन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनाब्रियते तन्मनःपर्यायशानावरणम् , तदपि देशघाति । (५) केवलज्ञानावरणक्षयसमुद्भूतमात्मप्रकाशस्वरूपं केवलज्ञानं येनात्रियते तत्केवलज्ञानावरणम् , तच्च सर्वघाति भवति ।
२०
Page #212
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्याधिगमसूत्रेषु . १५४ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥
१ चक्षुर्दर्शनावरणं २ अचक्षुर्दर्शनावरणं ३ अवधिदर्शनावरणं ४ केवलदर्शनावरणं ५ निद्रावेदनीयं ६ निद्रानिद्रावेदनीयं ७ प्रचलावेदनीयं ८ प्रचलाप्रचलावेदनीयं ९ स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८॥
__सदसवेद्ये ॥ ९॥ सद्वेद्यं असद्वेद्यं च वेदनीयं द्विभेदं भवति ॥९॥
दर्शनचारित्रमाहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यकत्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ॥१०॥
(१) पशत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं तद्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुदर्शनम्, तद्घाति चक्षुर्दर्शनावरणम् तच्च देशघाति भवति । (२) शेषेन्द्रियमनोविषयकमविशिष्टमचक्षुर्दर्शनम् ,तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच्च वेत्रिसमं भवति । (३।४) अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् । साक्षादात्मनः सामान्यमात्रापेलभं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्म अवधिदर्शनावरणम् केवलदर्शनावरणं च भवति । (५) सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् । (६) दुःखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं, दुःखप्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् (७) स्थितोपस्थितस्वापावस्थाविशेषरूपत्वं प्रचलाया लक्षणम् । (८) चंक्रमणविषयकस्वापावस्थाविशेषरूपत्वं प्रचलाप्रचलाया लक्षणम् । (९) दिनचिन्तितार्थातिकाङाविषयकस्वापावस्थाविशेषरूपत्वं, जाग्रदवस्थाध्यवसितार्थसंसाधनविषयकाभिकाङ्कानिमित्तकस्वापावस्थाविशेषरूपत्वं वा स्त्यानद्धेलक्षणम् ॥ अत्र निद्रादयस्तु समाधिगताया दर्शनलब्धेरुपघाते प्रवर्तन्ते ॥ चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्वात् मूलघातं निर्वहन्ति ।
Page #213
--------------------------------------------------------------------------
________________
पागण्या
Buy
परित
गा।
AVITA
D.P.ZH दर्शनावरणीयकर्म--यथा द्वारपालो राज्ञो दर्शन प्रतिबन्धको भवति तद्वत दर्शनावरणीयकर्मणः स्वभाव आत्मदर्शनगुणस्याच्छादनेन प्रतिवन्धकत्वरूपः एवं चदं कर्म श्रद्धानापरपर्यायमात्मनो दशनं प्रतिवध्नाति ।
Page #214
--------------------------------------------------------------------------
Page #215
--------------------------------------------------------------------------
________________
NAV
PM
वेदनीयकर्म-मधुना दिग्धस्यासेलेहने यथा सुखमल्पं भासते ततो दुःखं च बहुलमनुभूयते तथानेन कर्मणा सातापरपर्यायं सुखं किंचित्कालमनुभूयते । अनन्तरमसातापरपयोय दुःख च विपुलमुत्पद्यत।
पृ. १५४
Page #216
--------------------------------------------------------------------------
Page #217
--------------------------------------------------------------------------
________________
M
60
D.P.Z.
मोहनीयकर्म – मदिरावदात्मनि प्रमत्तता लभनीयेति स्वभावोऽस्य कर्मणः । यथा नरो मदिरां पीत्वा प्रमत्तो भवति तद्वदनेन कर्मणा प्रमत्त आत्मा संसारासक्तो भवति । पृ. १५४
Page #218
--------------------------------------------------------------------------
Page #219
--------------------------------------------------------------------------
________________
१५५
अष्टमोऽध्याय
त्रिद्विषोडशनवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा । मिथ्यात्ववेदनीयं सम्यक्त्ववेदनीयं सम्यग्मिथ्यात्ववेदनीयमिति । चारित्रमोहनीयाख्यो विभेदः कषायवेदनीयं नोकषायवेदनीयं चेति। तत्र कषायवेदनीयाख्यः षोडशभेदः। तद्यथा। अनन्तानुबन्धी क्रोधो मानो माया लोभ एवमप्रत्याख्यानकषायः प्रत्याख्यानावरणकषायः संज्वलनकषाय इत्येकशः क्रोधमानमाया लोभाः षोडश भेदाः ॥ नोकषायवेदनीयं नवभेदम् । तद्यथा । हास्यं रतिः अरतिः शोकः भयं जुगुप्सा पुरुषवेदः स्त्रीवेदः नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् । तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्ति । इत्येवं मोहनीयमष्टाविंशतिभेदं भवति ॥ ___अनन्तानुबन्धी सम्यग्दर्शनोपघाती । तस्योदयाद्धि सम्यग्दर्शनं नोत्पद्यते । पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याख्यानकषायोदयाद्विरतिर्न भवति । प्रत्याख्यानावरणकषायोदयाद्विरताविरतिर्भवत्युत्तमचारित्रलाभस्तु न भवति । संज्वलनकषायोदयाद्यथाख्यातचारित्रलाभो न भवति ॥
क्रोधः कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् । तस्यास्य क्रोधस्य तीव्रमध्यविमध्यमन्दभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । पर्वतराजिसदृशः भूमिराजिसदृशः वालुकाराजिसदृश उदकराजिसदृश इति । तत्र पर्वतराजिसदृशो नाम । यथा प्रयागवित्रसामिश्रकाणामन्यतमेन हेतुना पर्वतराजिरुत्पन्ना नैव कदाचिदपि संरोहति एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोध आमरणान्न व्ययं गच्छति जात्यन्तरानुबन्धी निरनुनयस्तीत्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः। तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्रामुवन्ति ॥ भूमिराजिसदृशो
Page #220
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु नाम । यथा भूमेर्भास्कररश्मिजालात्तस्नेहाया वायवभिहताया राजिरुत्पन्ना वर्षापेक्षसरोहा परमप्रकृष्टाष्टमासस्थितिर्भवति एवं यथोक्त. निमित्तो यस्य क्रोधोऽनेकविधस्थानीयो दुरनुनयो भवति स भूमिराजिसदृशः । तादृशं क्रोधमनुमृतास्तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ वालुकाराजिसदृशो नाम । यथा वालुकायां काष्ठशलाकाशर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वायवीरणाद्यपेक्षसंरोहाग्मिासस्य रोहति एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं वावतिष्ठते स वालुकाराजिसदृशो नाम क्रोधः । तादृशं क्रोधमनुमृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ उदकराजिसदृशो नाम । यथोदके दण्डशलाकाङ्गुल्यादीनामन्यतमेन हेतुना राजिरुत्पना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति एवं यथोक्तनिमित्तो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसदृशः । तादृशं क्रोधमनुमृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्ति । _ मानः स्तम्भो गर्व उत्सेकोऽहंकारो दर्पो मदः स्मय इत्यनर्थान्तरम् । तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । शैलस्तम्भसदृशः अस्थिस्तम्भसदृशः दारुस्तम्भसदृशः लतास्तम्भसदृश हति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनाख्यातम् ॥
माया प्रणिधिरुपधिनिकृतिरावरणं वञ्चना दम्भः कूटमतिसन्धानमनार्जवमित्यनर्थान्तरम् । तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । वंशकुणसदृशी मेषविषाणसदृशी गोमूत्रिकासदृशी निर्लेखनसदृशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते ॥
लोभो रागो गार्ध्यमिच्छा मूर्छा स्नेहः कांक्षाभिष्वङ्गः इत्यन
Page #221
--------------------------------------------------------------------------
Page #222
--------------------------------------------------------------------------
________________
P
ONS
a
D.P.Z.
आयुःकर्म-अस्य कर्मणः स्वभावो बन्धनयन्त्रमिवास्ते। यथा स्तेनेन बन्धनयन्त्रबद्धः स्वपादो बहिनिष्कासयितुं मोचयितुं वा न शक्यते तद्वत् यस्मिन् कस्मिन्नपि शरीरे बद्ध आत्मा यावदायुःकर्मसमाप्ति तस्माच्छरीरावहिर्निर्गन्तुं न शक्नोति । पृ. १५७
Page #223
--------------------------------------------------------------------------
Page #224
--------------------------------------------------------------------------
________________
डा
-
SoSVEERVल्या
-
mins
-
।
-
SUNA
Na DEz.
नामकर्म-यथा कश्चिदालेख्यकृत् विविधान्यालेख्यानि निर्मिमीते तथैव नामकर्म आत्मार्थं मनुष्यतिर्यगादीनि संपूर्णावयवानि शरीराणि निर्माति।
पृ. १५७
Page #225
--------------------------------------------------------------------------
________________
१५७
अष्टमोऽध्यायः र्थान्तरम् । तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा लाक्षारागसदृशः कर्दमरागसदृशः कुसुम्भरागसदृशो हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते।
एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो भवन्ति । तद्यथा । क्षमा क्रोधस्य मार्दवं मानस्यार्जवं मायायाः संतोषो लोभस्येति ॥ १० ॥
नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ आयुष्कं चतुर्भेदं नारकं तैर्यग्योनं मानुषं दैवमिति ॥ ११ ॥
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वंच ॥१२॥ .
गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम संघातनाम संस्थाननाम संहनननाम स्पर्शनाम रसनाम गन्धनाम वर्णनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा । प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थनाम तीर्थ करनाम इत्येतब्दिचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा। गतिनाम चतुर्विधं नरकगतिनाम तिर्यग्योनिगातनाम मनुष्यगतिनाम देवगतिनामेति ॥जातिनाम्नो मूलभेदाः पञ्च ।
Page #226
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१५८ तद्यथा। एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चन्द्रियजातिनामोत ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा । शुद्धपृथिवी- शर्करावालुकोपल-शिलालवणायस्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्चनप्रवालकाभ्रपटलाभ्रवालिका जातिनामादिगोमेदक-रुचकाङ्क-स्फटिकलोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारगल्लाश्मगर्भ-सौगन्धिक-पुलकारिष्ट-काश्चनमणिजातिनामादि च ॥ अपकायिकजातिनामानेकविधम् । तद्यथा । उपक्लेदावश्याय-नीहार-हिम-घनोदक-शुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा । अङ्गार-ज्वाला-लाताचिमुर्मुर--शुद्धाग्निजाटिनामादि । वायुकायिकजातिनामानेकविधम् । तद्यथा । उत्कलिका-मण्डलिका-झञ्झकायन-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा । कन्द-मूल-स्कन्ध-त्वक -काष्ठपत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ--लता-वल्ली-तृण-- पर्वकायशेवाल-पनक-वलक-कुहनजातिनामादि ॥ एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ॥
शरीरनाम पञ्चविधम् । तद्यथा । औदारिकशरीरनाम वौक्रयशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनामेति ॥ अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा । औदारिकाङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकावधम् । तद्यथा । अङ्गानाम तावत् शिरोनाम उरोनाम पृष्ठनाम बाहुनाम उदरनाम पादनाम ॥ उपाङ्गनामानेकविधम् । तद्यथा ।
Page #227
--------------------------------------------------------------------------
________________
१५९
अष्टमोऽध्यायः ।
स्पर्शनाम रसनाम घ्राणनाम चक्षुर्नाम श्रोत्रनाम । तथा मस्तिष्ककपालकृकाटिकाशङ्खललाटतालुकपोलहनुचिचुबकदशनौष्ठभूनयनकर्णनासाद्युपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥ जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ॥ सत्यां प्राप्तौ निमितानामपि शरीराणां बन्धक बन्धननाम । अन्यथा हि वालुकापुरुपवदबद्धानि शरीराणि स्युरिति ॥ बद्धानामपि च संघातविशेषजनकं प्रचयविशेषात्संघातनाम दारुमृत्पिण्डायःसंघातवत् ॥ संस्थाननाम पड्धिम् । तद्यथा । समचतुरस्रनाम न्यग्रोधपरिमण्डलनाम साचिनाम कुब्जनाम वामननाम हुण्डनामेति ॥ संहनननाम पडिधम् । तद्यथा । वज्रर्षभनाराचनाम अर्धवज्रर्षभनाराचनाम नाराचनाम अर्धनाराचनाम कीलिकानाम मृपाटिकानामेति ॥२ स्पर्शनामाष्टावधं कठिननामादि ॥ रसनामानेकविधं तिक्तनामादि । गन्धनामानेकविधं सुरभिगन्धनामादि । वर्णनामानेकविधं कालकनामादि ॥ गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपू
या तत्पापणसमर्थमानुपूर्वीनामति । निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकमानुपूर्वीनामेत्यपरे ।। अगुरुलघुपरिणामनियामकमगुरुलघुनाम ॥ शरीराङ्गोपाङ्गोपघातकमुपघातनाम स्वपरा. क्रमविजयाद्युपघातजनकं वा ॥ परत्रासप्रतिघातादिजनक पराघात. नाम ॥ आतपसामर्थ्यजनकमातपनाम ॥ प्रकाशसामर्थ्यजनकमुद्योतनाम ॥ प्राणपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥ लब्धिशिक्षप्रित्ययस्याकाशगमनस्य जनकं विहायोगतिनाम ॥
पृथक्शरीरनिर्वर्तकं प्रत्येकशरीरनाम । अनेकजीवसाधारणशरीरनिवर्तकं साधारणशरीरनाम । त्रसभावनिर्वर्तकं त्रसनाम । स्थावरभावनिवर्तकं स्थावरनाम । सौभाग्यनिर्वर्तकं सुभगनाम । दौर्भाग्यनिर्वर्तकं दुर्भगनाम । सौस्वर्यनिर्वर्तकं सुस्वरनाम ।
Page #228
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . १६० दौस्वर्यनिर्वर्तकं दुःस्वरनाम । शुभभावशोभामाङ्गल्यनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकमशुभनाम । सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ॥ पर्याप्तिः पञ्चविधा । तद्यथा । आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्तिः भाषापर्याप्तिरिति । पर्याप्तिः क्रियापरिसमाप्तिरात्मनः । शरीरेन्द्रियवाङ्मनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः । संस्थापनं रचना घटनमित्यर्थः । त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः। प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः । भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिाषापर्याप्तिः । मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियासमाप्तिर्मनःपर्याप्तिरित्येके । आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मत्वात् मूत्रदादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिर्वर्तनानीति । पर्याप्तिनिर्वर्तकं प
प्तिनाम अपर्याप्तिनिर्वर्तकमपर्याप्तिनाम । अपर्याप्तिनाम तत्परिणामयोग्यदलिकद्रव्यमात्मना नोपात्तमित्यर्थः ॥ स्थिरत्वनिवर्तकं स्थिरनाम । विपरीतमस्थिरनाम । आदेयभावनिर्वर्तकमादेयनाम । विपरीतमनादेयनाम । यशोनिर्वर्तकं यशोनाम । विपरीतमयशोनाम । तीर्थकरत्वनिवर्तकं तीर्थकरनाम । तांस्तान्भावान्नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽनेकविधः प्रत्येतव्यः ॥ १२ ॥
उच्चैनींचैश्च ॥ १३ ॥ उचैर्गोत्रं नीच्चैर्गोत्रं च । तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिवर्तकम् । विपरीतं नीचैर्गोत्रं चण्डालमुष्टिकव्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ १३ ॥
Page #229
--------------------------------------------------------------------------
________________
4..
.
VAR
Farida
HI
D
MITHUN
-
-
FrunminuTIL Muunmun Instaum MunluuuuuuN MILLDouwp
P.7
P
गोत्रकर्म-यथा कुम्भकारो विविधान् लघून बृहतो वा घटान् निर्मिमीते तथा गोत्रकर्म विविधासूञ्चनीचयोनिषत्पादयति । पृ. १६०
Page #230
--------------------------------------------------------------------------
Page #231
--------------------------------------------------------------------------
Page #232
--------------------------------------------------------------------------
________________
2100
lissr
अन्तरायकर्म – राजाज्ञायां सत्यामपि यथा कोशाध्यक्षो दानं न दापयति किंतु तत्र विघ्नमुत्पादयति तथेदं कर्म दानलाभ भोगोपभोगेषु विनं करोति ।
प्र. १६१
Page #233
--------------------------------------------------------------------------
________________
१६१
___ अष्टमोऽध्यायः
दानादीनाम् ॥ १४ ॥ अन्तरायः पञ्चविधः । तद्यथा । दानस्यान्तरायः लाभस्यान्तरायः भोगस्यान्तरायः उपभोगस्यान्तरायःवीर्यान्तराय इति॥१४॥
उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः।। आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५॥
आदितस्तिसृणां कर्मप्रकृतीनां ज्ञानवरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१५॥
सप्ततिर्मोहनीयस्य ॥ १६ ॥ मोहनीयकर्मप्रकृतेः सप्ततिः सागरोपमकोटीकोव्यः परा स्थितिः॥१६॥
नामगोत्रयोविंशतिः ॥ १७ ॥ नामगोत्रप्रकृत्योर्विंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥
त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ आयुष्कप्रकृतेस्त्रयस्त्रिंशत्सागरोपमानि परा स्थितिः ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ वेदनीयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ १९ ॥
नामगोत्रयोरष्टौ ॥ २० ॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥
शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ वेदनीयनामगोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्त भवति ॥२१॥
उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ।
२१
Page #234
--------------------------------------------------------------------------
________________
सभाध्यतत्वार्थाधिगमसूत्रेषु . १६२
विपाकोऽनुभावः ॥ २२ ॥ . सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवति । विविधः पाको विपाकः स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेवानाभोगवीर्यपूर्वकं कर्मसंक्रमं करोति उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु न तु मूलप्रकृतिषु संक्रमो विद्यते बन्धविपाकनिमित्तान्यजातीयकत्वात् । उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्ववेदनीयस्यायुकस्य च जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यते । अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् ॥ २२ ॥
स यथानाम ॥ २३ ॥ सोऽनुभावो गतिनामादीनां यथानाम विपच्यते ॥ २३ ॥
ततश्व निर्जरा ॥ २४ ॥ ततश्चानुभावात्कर्मनिर्जरा भवतीति निर्जरा क्षयो वेदनेत्येकार्थम्।अत्र चशब्दो हेत्वन्तरमपेक्षते तपसा निर्जरा चेति वक्ष्यते॥२४॥
उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्यामः । . __ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५॥
नामप्रत्ययाः पुद्गला बध्यन्ते । नाम प्रत्यय एषां त इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः । सर्वतस्तिर्यगूर्ध्वमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनःकर्मयोगविशेपाच्च बध्यन्ते । सूक्ष्मा बध्यन्ते न बादराः । एकक्षेत्रावगाढा बध्यन्ते न क्षेत्रान्तरावगाढाः । स्थिताश्च बध्यन्ते न गतिसमापन्नाः ।
१ अ. २ सू. ५२. - २ अ. ९ सू. ३.
Page #235
--------------------------------------------------------------------------
________________
१६३
अष्टमोऽध्यायः । सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते न सङ्खयेयासङ्ख्येयानन्तप्रदेशाः । कुतोऽग्रहणयोग्यत्वात्पदेशानामिति एष प्रदेशबन्धो भवति ॥ २५ ॥
सर्व चैतदष्टविधं कर्म पुण्यं पापं च । तत्र
सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥
सद्देद्यं भूतव्रत्यनुकम्पादिहेतुकम् सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकम् हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रमुच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम् , अतोऽन्यत्पापम् ॥२६॥ इतितत्त्वार्थाधिगमसूत्रेषु अर्हत्प्रवचनसंग्रहेऽष्टमोऽध्यायः
समाप्तः॥८॥
Page #236
--------------------------------------------------------------------------
________________
अथ नवमोऽध्यायः।
उक्तो बन्धः । संवरं वक्ष्यामः
आस्रवनिरोधः संवरः ॥ १॥ यथोक्तस्य काययोगादेर्द्विचत्वारिंशद्विधस्यास्रवस्य निरोधः संवरः॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥
स एष संवर एभिर्गुप्त्यादिभिरभ्युपायैर्भवति ॥२॥ किं चान्यत्
तपसा निर्जरा च ॥३॥ तपो द्वादशविधं वक्ष्यते । तेन संवरो भवति निर्जरा च ।३।
अत्राह । उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति । अत्रोच्यते
सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । तत्र शयनासनादाननिक्षेपस्थानचंक्रमणेषु कायचेष्टानियमः कायगुप्तिः । याचनपृच्छनपृष्टव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः । सावद्यसंकल्पनिरोधः कुशलसंकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोगुप्तिरिति ॥ ४॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः सुमितयः ॥ ५॥
सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ स. १ अ. ९ सू. १९, २०.
Page #237
--------------------------------------------------------------------------
________________
१६५
नवमोऽध्यायः 1
म्यगुत्सर्ग इति पञ्च समितयः । तत्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैर्न्यस्तपदा गतिरीर्यासमितिः । हितमि - तासंदिग्धानवद्यार्थनियतभाषणं भाषासमिति: । अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोद्गमोत्पादने पणादोषवर्जनमेषणासमितिः । रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावकार्थं निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः । स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥ ५ ॥
उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥ ६॥
इत्येष दशविधोsनगारधर्मः उत्तमगुणप्रकर्षयुक्तो भवति तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् । तत्कथं क्षमितव्यमिति चेदुच्यते । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनाद्वा क्षमितव्यम् । भावाचिन्तनात् तावद्विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्या ब्रवीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यं नैते विद्यन्ते माये दोषा यान् अज्ञानादसौ ब्रवीति क्षमितव्यम् । किं चान्यत् । क्रोधदोषचिन्तनाच्च क्षमितव्यम् । क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति । किं चान्यत् । बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाक्रोशताडनमारणधर्म भ्रंशानामुत्तरोतररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति वाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति । लाभ एव मन्तव्य इति । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एवैतद्वालेषु । दिष्ट्या च मां प्रत्यक्षमाक्रोशति न ताडयति । एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः ताडयत्यपि
Page #238
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . १६६ बाले क्षमितव्यम् । एवंस्वभावा हि वाला भवन्ति । दिष्ट्या च मां ताडयति न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्टया च मां प्राणैर्वियोजयति न धर्माद्भशयतीति क्षमितव्यम् । एतदपि विद्यते बालेविति लाभ एव मन्तव्यः ॥ किं चान्यत् । स्वकृतकर्मफलाभ्यागमाच । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् । किं चान्यत् । क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥
नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावः मृदुकर्म च मा. दवं मदनिग्रहो मानविघातश्चेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । तद्यथा । जातिः कुलं रूपमैश्वर्य विज्ञानं श्रुतं लाभो वीर्यमिति । एभिर्जात्यादिभिरष्टाभिर्मदस्थानैर्मत्तः परात्मनिन्दाप्रशंसाभिरतस्तीवाहंकारोपहतमतिरिहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्यु. पदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥
भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म वार्जवं भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो ह्युपधिनिकृतिसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ___ अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचं भावविशुद्धिः निष्कल्मषता धर्मसाधनमात्रास्वप्यनभिष्वङ्गः इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ॥
सत्यर्थे भवं वचः सत्यं सद्भयो वा हितं सत्यम् । तदननृत___ १ धर्मसाधनमात्राः-रजोहरणमुखवास्त्रिकाचोलपट्टकपात्रादिलक्षणास्तास्वप्यनाभध्वङ्गो विगतमूर्च्छ इत्यर्थः ।
Page #239
--------------------------------------------------------------------------
________________
१६७
नवमोऽध्याय
मपरुषमपिशुनमनसभ्यमचपलमनाविलमविरलमसंभ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभरैमरागद्वेषयुक्तं सूत्रमार्गानुसारप्रवृत्तार्थमय॑मर्थिजनभावग्रहणसमर्थमात्मपरानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं पृच्छनं प्रश्नव्याकरणमिति सत्यं धर्मः॥
योगनिग्रहः संयमः । स सप्तदशविधः । तद्यथा । पृथिवीकायिकसंयमः अप्कायिकसंयमः तेजस्कायिकसंयमः वायुकायिकसंयमः वनस्पतिकायिकसंयमः द्वीन्द्रियसंयमः त्रीन्द्रियसंयमः चतुरिन्द्रियसंयमः पञ्चेन्द्रियसंयमः प्रेक्ष्यसंयमः उपेक्ष्यसंयमः अपहत्यसंयमः प्रमृज्यसंयमः कायसंयमः वाक्संयमः मनःसंयमः उपकरणसंयम इति संयमो धर्मः॥
तपो द्विविधम् । तत्परस्तावक्ष्यते । प्रकीर्णकं चेदमनेकविधम् । तद्यथा । यववज्रमध्ये चन्द्रप्रतिमे द्वे, कनकरत्नमुक्तावल्यस्तिस्रः, सिंहविक्रीडते द्वे, सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः, भद्रोत्तरमाचाम्लं वर्धमानं सर्वतोभद्रमित्येवमादि । तथा द्वादश भिक्षुपतिमा मासिकाद्या आसप्तमासिक्याः सप्त, सप्तरात्रिक्याः तिस्रः, अहोरात्रिकी, रात्रिकी चेति ॥
___ बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यागः॥
शरीरधर्मोपकरणादिषु निर्ममत्वमाकिश्चन्यम् ॥ व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरु१ अविमर्दकरम् । आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । २ गणधरादिग्रथितं सूत्रं तस्य यो मार्ग उत्सर्गापवादलक्षणः । ३ अन्येन पृष्टः प्रवचनाविरुद्धं व्याकरातीति । ४ अ. ९ सू. १९, २०. ५ दशाश्रुतस्कंधे अ. ७.
Page #240
--------------------------------------------------------------------------
________________
सभाष्येतत्त्वार्थाधिगमसूत्रेषु कुलवासो ब्रह्मचर्यमस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशस्थायित्वामित्यर्थ च । पञ्चाचार्याः प्राक्ताः प्रोजको दिगाचार्याः श्रुतोद्देष्टा श्रुतसमुद्देष्टा आम्नार्थिवाचक इति । तस्य ब्रह्मचर्यस्येमे विशेषगुणा भवन्ति । अब्रह्मविरतिव्रतभावना यथोक्ता इष्टस्पर्शरसरूपगन्धशब्दविभूषानभिनन्दित्वं चेति ॥ ६॥ __ अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्भस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः।७।
एता द्वादशानुप्रेक्षाः तत्र बाह्माभ्यन्तराणि शरीरशय्यासनवस्त्रादीनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः तेष्वभिष्वङ्गो न भवति मा भून्मे तद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥
यथा निराश्रये जनविरहिते वनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिषैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते एवं जन्मजरामरणव्याधिप्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभमदारिद्य - दौर्भाग्यदौर्मनस्यमरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् । एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्योद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते ताद्ध परं शरणमित्यशरणानुप्रेक्षा॥
अनादौ संसारे नरकतिर्यग्योनिमनुष्यामरभवग्रहणेषु चक्रव१ सामयिकव्रतादेरारोपयिता। २ सचित्ताचित्तमिश्रवस्त्वनुज्ञायी । ३ श्रुतमागममुद्दिशति यः प्रथमतः ।
४ एवमुद्दिष्टगुर्वादेरपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयितृत्वेन सम्यगवधारणानुप्रवचनेन च स श्रुतसमुद्देष्टा । ।
५ आम्नाय आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्ति परमार्थप्रवचनार्थकथने
नानुग्राहकः ।
Page #241
--------------------------------------------------------------------------
________________
१६९
अष्टमोऽध्यायः ।
1
I
त्परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा । न हि स्वजनपरजनयोर्व्यवस्था विद्यते । माता हि भूत्वा भगिनी भार्या दुहिता च भवति । भगिनी भूत्वा माता भार्या दुहिता च भवति । भार्या भूत्वा भगिनी दुहिता माता च भवति । दुहिता भूत्वा माता भगिनी भार्या च भवति ।। तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति । पौत्रो भूत्वा पिता भ्राता पुत्रश्च भवति । पुत्रो भूत्वा पिता भ्राता पौत्रश्च भवति । भर्ता भूत्वा दासो भवति । दासो भूत्वा भर्ता भवति । शत्रुर्भूत्वा मित्रं भवति । मित्रं भूत्वा शत्रुर्भवति । पुमान्भूत्वा स्त्री भवति नपुंसकं च । स्त्री भूत्वा पुमान्नपुंसकं च भवति । नपुंसकं भूत्वा स्त्रीपुमांश्च भवति । एवं चतुरशीतियोनि प्रमुखशतसहस्रेषु रागद्वेषमोहाभिभूतैर्जन्तुभिरनिवृत्तविषयतृष्णैरन्योन्यभक्षणाभिघातबधबन्धाभियोगाक्रोशादिजनितानि तीव्राणि दुःखानि प्राप्य - न्ते । अहो द्वन्द्वांरामः कष्टस्वभावः संसार इति चिन्तयेत् । एवं ह्यस्य चिन्तयतः संसारभयोनिस्य निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय घटत इति संसारानुप्रेक्षा ॥
एक एवाहं न मे कश्चित्स्वः परो वा विद्यते । एक एवाहं जाये । एक एव म्रिये । न मे कश्चित्स्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति । एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । एवं ह्यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः । ततो निःसङ्गतामभ्युपगतो मोक्षायैव यतत इत्येकत्वानुप्रेक्षा ॥
१ द्वन्द्वेषु शीतोष्णसुखदुःखादिरूपेषु आरमणं यस्मिन्निति ।
२२
Page #242
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१७०
शरीरव्यतिरेकेणात्मानमनुचिन्तयेत् । अन्यच्छरीरमन्योऽहम् ऐन्द्रियकं शरीरमतीन्द्रियोऽहम् अनित्यं शरीरं नित्योऽहम् अनं शरीरं ज्ञोऽहम् आद्यन्तवच्छरीरमनाद्यन्तोऽहम् बहूनि च मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्यः इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति अन्यश्च शरीरान्नित्योऽहमिति निःश्रेयसे संघटत इत्यन्यत्वानुप्रेक्षा ॥
अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत्कथमशुचीति चेदाद्युत्तरकरणाशुचित्वादशुचिभाजनत्वादशुच्युद्भवत्वादशुभ परिणामपाकानुबन्धादशक्यप्रतीकारत्वाच्चेति । तत्राद्युत्तरकारणाशुचित्वातावच्छरीरस्याद्यं कारणं शुक्रं शोणितं च तदुभयमत्यन्ताशुचीति उत्तरमाहारपरिणामादि । तद्यथा । कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति । ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना विभज्यते पृथक् खलैः पृथग् रसः । खलान्मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति शोणितान्मांसम् मांसामेदः मेदसोऽस्थीनि अस्थिभ्यो मज्जा मज्जाभ्यः शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचिर्भवति तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति । । किं चान्यत् अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्णनासाक्षिदन्तमल स्वेद श्लेष्मपित्तमूत्रपुरीषादीनामवस्करभूतं तस्मादशुचीति । किं चान्यत् । अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे संभवतीति अशुचि शरीरम् ॥ किं चान्यत् । अशुभ परिणामपाकानुबन्धादार्तवे विन्दोराधानात्मभूति खल्वपि शरीरं कललार्बुदपेशीघनव्यूहसं पूर्णगर्भ कौमारयौवनस्थविरभावजनकेनाशुभपरिणामपाके
१ स्थूलभागः ।
Page #243
--------------------------------------------------------------------------
________________
१७१
अष्टमोऽध्यायः ।
नानुबद्धं दुर्गन्धि पूर्तिस्वभावं दुरन्तं तस्मादशुचि ॥ किं चान्यत् । अशक्यप्रतीकारत्वात् अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वमुद्वर्तनरूक्षणस्नानानुलेपनधूपप्रघर्षवासयुक्तिमाल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुमशुच्यात्मकत्वाच्छुच्युपघातकत्वाचेति । तस्मादशुचि शरीरामिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवति । निर्विण्णश्च शरीरप्रहाणाय घटत इति अशुचित्वानुप्रेक्षा ॥ ____ आस्रवानिहामुत्रापाययुक्तान्महानदीस्रोतोवेगतीक्ष्णानकुशलागमकुशलनिर्गमद्वारभूतानिन्द्रियादीनवद्यतश्चिन्तयेत् । तद्यथा । स्पर्शनोन्द्रयप्रसक्तचित्तः सिद्धोऽनेकविद्याबलसंपन्नोऽप्याकाशगोऽष्टाङ्गमहानिमित्तपारगो गार्ग्यः सत्यकिनिधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसंपन्नवनविचारिणश्च मदोत्कटा बलवन्तोऽपि हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ताग्रहणमुपग च्छन्ति । ततो बन्धवधदमनवाहनाङ्कशपाणिप्रतोदाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति । नित्यमेव स्वयूथस्य स्वच्छन्दप्रचारसुखस्य वनवासस्यानुस्मरन्ति तथा मैथुनसुखप्रसङ्गादाहितगर्भाश्वतरी प्रसवकाले प्रसवितुमशक्नुवन्ती तीबदुःखाभिहतावशा मरणमभ्युपैति । एवं सर्वे एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति ॥ तथा जिह्वेन्द्रियप्रसक्ता मृतहस्तिशरीरस्थस्रोतोवेगोढवायसवत् हैमनघृतकुम्भप्रविष्टमूपिकवत् गोष्ठप्रसक्तहदवासिकूर्मवत् मांसपेशीलुब्धश्येनवत् बडिशामिषगृद्धमत्स्यवच्चोत ॥ तथा घ्राणेन्द्रियप्रसक्ता ओषधिगन्धलुब्धपन्नगवत् पललगन्धानुसारिमूषिकव
१ अवद्यतः खण्डयतः-जीवस्यापकारिणः । २ वेगेनोढो दूरं नीतो वायसः। ३ हैमनं हेमन्तोद्भवत्वाच्छीतेन घनीभूतम् । ४ मत्स्यवेधयन्त्रस्थमांसलुब्धमत्स्यवत् ।
Page #244
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १७२ चेति ॥ तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रसङ्गादर्जुनकचोरवत् दीपालोकलोलपतङ्गवद्विनिपातमृच्छन्तीति चिन्तयेत् । तथा श्रोत्रेन्द्रियप्रसक्तास्तित्तिरकपोतकपिञ्जलवत् गीतसंगीतध्वनिलोलमृगवद्विनिपातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इति आस्रवानुप्रेक्षा ॥
संवरांश्च महाव्रतादिगुप्त्यादिपरिपालनाद्गुणतश्चिन्तयेत् सर्वे ह्येते यथोक्तास्रवदोषाः संवृतात्मनो न भवन्तीति चिन्तयेत् । एवं ह्यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥
निर्जरा वेदना विपाक इत्यनर्थान्तरम् । स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकस्तमुद्यतोऽनुचिन्तयेदकुशलानुबन्ध इति । तपः परीषहजयकृतः कुशलमूलः । तं गुणतोऽनुचिन्तयेत् । शुभानुबन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्मनिर्जरणायैव घटत इति निर्जरानुप्रेक्षा ॥
पञ्चास्तिकायात्मकं विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा ॥ __अनादौ संसारे नरकादिषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेर्ज्ञानदर्शनावरणमोहान्तरायोदयाभिभूतस्य सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा॥
सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो द्वादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहको निःश्रेयसप्रापको भग
१ अर्जुनचौरकथा आचाराङ्गटीकातोऽवसेया । २ सम्यक्त्वाधिगमः जिनप्रणीतधर्मप्राप्तिरित्यर्थः ।
Page #245
--------------------------------------------------------------------------
________________
१७३
अष्टमोऽध्यायः । वता परमर्षिणार्हताही व्याख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्याततत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्याततत्त्वानुचिन्तनानुप्रेक्षा ॥७॥
___ उक्ता अनुप्रेक्षाः । परीषहान्वक्ष्यामः । मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः॥ ८॥
सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिपोढव्याः परीषहा इति ॥८॥
तद्यथा। क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९॥
क्षुत्परीषहः पिपासा शीतं उष्णं दंशमशकं नाग्न्यं अरातिः स्त्रीपरीषहः चर्यापरीषहः निषद्या शय्या आक्रोशः वधः याचनं अलाभः रोगः तृणस्पर्शः मलं सत्कारपुरस्कारः प्रज्ञाज्ञाने अदर्शनपरीषह इत्येते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसंधाय रागद्वेषौ निहत्य परीषहाः परिषोढव्या भवन्ति ।
१ अहो इत्याश्चर्ये ।
२ परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्ते इति परीषहाः। ते च द्वाविंशतिसंख्याकाः-१ दिगिञ्छापरीषहः ( बुभुक्षापरीषहः) बुभुक्षा अत्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्तनेन परीति सर्वप्रकारं सद्यत इति परीषहः दिगिञ्छापरीषहः । २ एवं पिपासापि । ३ शीतं शिशिरः स्पर्शः तदेव परीषहः शीतपरीषहः । ४ एवं उष्णपरीषहः । ५दंशमशकपरीषहः । ६ अचेलं चेलाभावो जिनकल्पिकादीनाम् , अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव अवस्त्राशीलादिवत्, तदेव परीषहो अचेलपरीषहः । ७ रमणं रतिः संयमविषया धृतिः, तद्विपरीता त्वरतिः सैव परीषह:
Page #246
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१७१ पञ्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथा।ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायाणामिति ॥९॥
सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥
सूक्ष्मसंपरायसंयते छद्मस्थवीतरागसंयते च चतुर्दश परीषहा भवन्ति क्षुत्पिपासाशीतोष्णदंशमशकचर्याप्रज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥१०॥
एकादश जिने ॥ ११ ॥ एकादश परीषहाः संभवन्ति जिने वेदनीयाश्रयाः । तद्यथा ।
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः॥ ११ ॥
बादरसंपराये सर्वे ॥ १२ ॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परीषहाः संभवन्ति ॥ १२॥
अरतिपरीषहः । ८ स्त्रीपरीषहः । ९ चरणं चर्या ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चयापरीषहः । १० निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च सप्रयोजनमस्या नैषेधिकी-स्मशानादिका स्वाध्यायादिभूमिः, निषद्येति यावत् सैव परीषहो नैषे. घिकीपरीषहः । ११ शय्यापरीषहः । १२ आक्रोशनमाक्रोशः असत्यभाषात्मकः, स एव परीषहः आक्रोशपरीषहः । १३ वधपरीषहः । १४ याञ्चापरीषहः । १५ अलाभपरीषहः १६ रागपरीषहः । १७ तृणस्पर्शपरीषहः । १८ जल्ल (मल ) परीषहः । १९ सत्कारपुरस्कारपरीषहः । २० प्रज्ञापरीषहः । २१ अज्ञानपरीषहः । २२ दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक्परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः । यद्वा-दर्शनशब्दन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः ।
१ सूक्ष्मसम्परायसंयतगुणस्थानस्य लक्षणम्-अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वम् , गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसम्परायचारित्रस्य लक्षणम् ।
२ छद्म आवरणं, तत्र स्थिताः छद्मस्थाः सावरणशाना इत्यर्थः । वीतोऽपेतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च यस्यासौ वीतरागः क्रमेणैकादशगुणस्थानवर्ती द्वादशस्थानवर्ती च संयतौ ग्राह्यौ ।
३ बादराः अकिट्टीकृताः सम्परायाः-सज्वलनकोधादयो यस्मिन् स तथा ।
Page #247
--------------------------------------------------------------------------
________________
१७५
अष्टमोऽध्यायः ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणोदये प्रज्ञाज्ञानपरीषहौ भवतः ॥ १३ ॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥
दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्ख्यं दर्शनमोहोदयेऽदर्शनपरीषहः लाभान्तरायोदयेऽलाभपरीषहः ॥१४॥
चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥
चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति॥१५॥
__ वेदनीये शेषाः ॥ १६ ॥
वेदनीयोदये शेषा एकादश परीषहा भवन्ति ये जिने संभवन्तीत्युक्तम् । कुतः शेषा । एभ्यः प्रज्ञाज्ञानादर्शनालाभनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारेभ्य इति ॥१६॥
एकादयो भाज्या युगपदेकोनविंशतेः॥ १७ ॥
एषां द्वाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीषहौ युगपन्न भवतः । अत्यन्तविरोधित्वात् । तथा चर्याशय्यानिषद्यापरीषहाणामेकस्य संभवे द्वयोरभावः ॥१७॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ॥ १८ ॥
सामायिकसंयमः छेदोपस्थाप्यसंयमः परिहारविशुद्धिसंयमः सूक्ष्मसंपरायसंयमः यथाख्यातसंयम इति पञ्चविधं चारित्रम् । तत्पुलाकादिषु विस्तरेण वक्ष्यामः ॥१८॥
१ अ. ९ सू. ४८.
-
---
Page #248
--------------------------------------------------------------------------
________________
संभाष्यतत्वार्थाधिगमसूत्रेषु १७६ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥
अनशनं अवमौदर्यवृत्तिपरिसङ्ख्यानं रसपरित्यागः विविक्तशय्यासनता कायक्लेश इत्येतत्षड्विधं बाह्यं तपः सम्यग्योगनिग्रहो गुप्तिरित्यतः प्रभृति सम्यगित्यनुवर्तते । संयमरक्षणार्थ कर्मनिर्जरार्थ च चतुर्थषष्ठोष्टमादि सम्यगनशनं तपः ॥
अवमौदर्यम् अवममित्यूननाम । अवममुदरमस्य अवमोदरः अवमोदरस्य भावः अवमौदर्यम् । उत्कृष्टावकृष्टौ वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्यं भवति । तद्यथा । अल्पाहारावमौदर्यमुपार्धावमौदर्य प्रमाणप्राप्तात्किंचिदूनावमौदर्यमिति कवलपरिसङ्ख्यानं च प्रारद्वात्रिंशद्भयः कवलेभ्यः॥ ___ वृत्तिपरिसङ्ख्यानमनेकविधम् । तद्यथा । उत्क्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् ॥
रसपरित्यागोऽनेकविधः। तद्यथा । मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानविरसरूक्षाद्यभिग्रहश्च ॥
विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुषण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमे समाध्यर्थ संलीनता ॥
कायक्लेशोऽनेकविधः। तद्यथा । स्थानवीरासनोत्कंडुकासनकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि सम्यक्पयुक्तानि बाह्यं तपः। अस्मात्पडिधादपि बाह्यात्तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मानर्जरा भवन्ति ॥ १९॥
१ जानुप्रमाणासनसंनिविष्टस्याधस्तात् समाकृष्यते च तदासनं निवेष्टा च तदवस्थ एवास्ते ।
२ विनासनेन भूमौ प्राप्तस्फिग्द्वयस्य भवति ।
Page #249
--------------------------------------------------------------------------
________________
नवमोऽध्यायः।
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो व्युत्सर्गो ध्यानमित्येतत्पड्डिधमाभ्यन्तरं तपः ॥२०॥ नवचतुर्दशपंचद्विभेदं यथाक्रमं प्रारध्यानात् ॥ २१ ॥
तदाभ्यन्तरं तपः नवचतुर्दशपञ्चद्विभेदं भवति यथाक्रम पारध्यानात् ॥ २१॥ इत उत्तरं यद्वक्ष्यामः । तद्यथा ।
आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥
प्रायश्चित्तं नवभेदम् । तद्यथा । आलोचनं प्रतिक्रमणं आलोचनप्रतिक्रमणे विवेकः व्युत्सर्गः तपः छेदः परिहारः उपस्थापनमिति ॥
आलोचनं प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरम् । प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च । एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनान्तरम् । स एष संसक्तानपानोपकरणादिषु भवति । व्युत्सर्गः प्रतिष्ठापनमित्यनान्तरम् । एषोऽप्यनेषणीयानपानोपकरणादिष्वशनीयविवेकेषु च भवति । तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि । छेदोऽपवर्तनमपहार इत्यनान्तरम् । स प्रव्रज्यादिवसपक्षमाससंवत्सराणामन्यत
२३
Page #250
--------------------------------------------------------------------------
________________
समाष्यतत्त्वार्थाधिगमसूत्रेषु १७८ मानाम् भवति । परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्वतारोपणमित्यनन्तरम् । तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्धयर्थं यथार्ह दीयते चाचर्यते च । चिती संज्ञानविशुद्धयोर्धातुः तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च ॥ ____ एवमेभिरालोचनादिभिः कृच्छ्रेस्तपोविशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति चेतयंश्च न पुनराचरतीति । ततः प्रायश्चित्तम् । अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥२२॥
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनयश्चतुर्भेदः । तद्यथा । ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः मतिज्ञानादिः । दर्शनविनयः एकविध एव सम्यग्दर्शनविनयः । चारित्रविनय पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः सम्यग्दर्शनज्ञानचारित्राधिगुणाधिकेष्वभ्युत्थानासनप्रदानवन्दनानुगमादिः विनीयते तेन तस्मिन्वा विनयः ॥ २३॥
__ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङसाधुसमनोज्ञानाम् ॥ २४ ॥
वैयावृत्त्यं दशविधं । तद्यथा । आचार्यवैयावृत्त्यं उपध्यायवैयावृत्त्यं तपस्विवैयावृत्त्यं शैक्षकवैयावृत्त्यं ग्लानवैयावृत्त्यं कुलवैयावृत्त्यं गणवैयावृत्त्यं संघवैयावृत्त्यं साधुवैयावृत्त्यं समनोज्ञवैयावृत्त्य. मिति । व्यावृत्तभावो वैयावृत्त्यं व्यावृत्तकर्म च । तत्राचार्यः पूर्वोक्तः पञ्चविधः । आचारगोचरविनयं स्वाध्यायं वाचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः । संग्रहोपग्रहानुग्रहार्थ चोपाधीयते संग्रहादीन् । वास्योपाधीत इत्युपाध्यायः । द्विसंग्रहो निम्रन्थ आचार्योपाध्यायसं
१ अ. ९ सू. ६.
Page #251
--------------------------------------------------------------------------
________________
१७९
नवमोऽध्यायः । ग्रहः। त्रिसंग्रहा निम्रन्थी आचार्योपाध्यायप्रवर्तिनीसंग्रहा । प्रवतिनी दिगाचार्येण व्याख्याता । हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तिनी । विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः शिक्षामर्हतीति शैक्षो वा । ग्लानः प्रतीतः । गणः स्थविरसन्ततिसंस्थितिः । कुलमाचार्यसंततिसंस्थितिः । संघश्चतुर्विधः श्रमणादिः। साधवः संयताः । संभोगयुक्ताः समनोज्ञाः । एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥
वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥
स्वाध्यायः पञ्चविधः । तद्यथा । वाचना प्रच्छनं अनुप्रेक्षा आम्नायः धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनं रूपदानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥ २५ ॥
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ व्युत्सर्गो द्विविधः बाह्य आभ्यन्तरश्च । तत्र वाह्यो द्वादशरूपकस्योपधेः । आभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६ ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥
उत्तमसंहननं वज्रर्षभमर्धवज्रनाराचं च । तद्युक्तस्यैकाग्राचन्तानिरोधश्च ध्यानम् ॥ २७ ॥ .
आमुहूर्तात् ॥ २८॥ तद्धयानमामुहूर्ताद्भवति परतो न भवति दुर्ध्यानत्वात् ॥२८॥
Page #252
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १८०
आर्तरौद्रधर्मशुक्लॉनि ॥ २९ ॥ तच्चतुर्विधं भवति । तद्यथा । आर्त रौद्रं धर्म शुक्लमिति तेषाम् ।२९।
परे मोक्षहेतू ॥ ३० ॥ तेषां चतुर्णा ध्यानानां परे धर्मशुक्ले मोक्षहेतू भवतः । पूर्वे त्वातरौद्रे संसारहेतू इति ॥ ३०॥
अत्राह । किमेषां लक्षणमिति । अत्राच्यते
आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥
अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थ या स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते ॥ ३१ ॥ किं चान्यत्
वेदनायाश्च ॥ ३२ ॥ वेदनायाश्चामनाज्ञायाः संप्रयोगे तद्विपयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२ ॥ किं चान्यत्
विपरीतं मनोज्ञानाम् ॥ ३३ ॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥
किं चान्यत्
१ शोकाक्रन्दनविलपनादिरूपत्वम् । २ क्रूरपरिणामादिरूपत्वम् । ३ जिनप्रणीतभावश्रद्धानादिनिमित्तकत्वम् । ४ अबाध्यासंमोहादिकरणरूपत्वम् । ५ अमनोज्ञः-अप्रियः।
Page #253
--------------------------------------------------------------------------
________________
नवमोऽध्यायः।
निदानं च ॥ ३४ ॥ कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ॥ ३४॥
तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५ ॥
तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवति।३५। हिंसानृतस्तेयविषयसंरक्षणेभ्योरौद्रमविरतदेशविरतयोः३६।'
हिंसार्थमनृतवचनार्थ स्तेयार्थ विषयसंरक्षणार्थ च स्मृतिसमन्वाहारो रौद्रध्यानं तदविरतदेशविरतयोरेव भवति ॥ ३६॥ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्या३७।
आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ।३७) किं चान्यत्
उपशान्तक्षीणकषाययोश्च ॥ ३८॥ उपशान्तकषायस्य च धर्म ध्यानं भवति ॥ ३८ ॥ किं चान्यत्
शुक्ले चाये पूर्वविदः ॥ ३९ ॥ शुक्ले चाये ध्याने पृथक्त्ववितकैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः आये शुक्ले ध्याने पृथक्वतितकैकत्ववितर्के पूर्वविदो भवतः॥३९॥
'पूर्वविदः' इति पदमस्य सूत्रस्यैकदेशः इति हरिभद्रसिद्धसेनगणिटीकाभ्यां विज्ञायते । अतोऽस्माभिस्तथैव मुद्रापितम् । रायचन्द्रजैनशास्त्रमालामुद्रितपुस्तके 'पूर्वविदः' इति पदस्यानुल्लेखः स चिन्त्यः । भाष्ये पूर्वविदो भवत इत्युल्लेखात् । अस्माभिः भाण्डारकर ओरिएण्टल रिसर्च इंस्टिट्यूट सङ्ग्रहीतलिखितपुस्तके पूर्वविदः इति पृथक्तया निर्दिष्टं सूत्रमुपलब्धं टीकाकारवैमत्यात्तथा न मुद्रितम् ।
Page #254
--------------------------------------------------------------------------
________________
१८२
सभाष्यतत्वार्थाधिगमसूत्रेषु
परे केवलिनः ॥ ४०॥ परे द्वे शुक्लध्याने केवलिन एव भवतः न छद्मस्थस्य ॥४०॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत
क्रियानिवृत्तीनि ॥ ४१॥ पृथक्त्ववितर्क एकत्ववितर्क काययोगानां सूक्ष्मक्रियापतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम् ॥ ४१ ॥
तत्र्येककाययोगायोगानाम् ॥ ४२ ॥
तदेतच्चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कमैकान्यतमयोगानामेकत्ववितर्क काययोगानां सूक्ष्मक्रियमप्रतिपात्ययोगानां व्युपरतक्रियमनिवृत्तीति ॥ ४२ ॥
एकाश्रये सवितर्के पूर्वे ॥ ४३ ॥ एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये ॥४३॥ तत्र सविचारं प्रथमम् ।
अविचारं द्वितीयम् ॥ ४४ ॥ अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥४४॥ अत्राह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते
वितर्कः श्रुतम् ॥ ४५ ॥ यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४६॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति ॥ तदाभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्ज
१ अविचारं द्वितीयमिति वचनादर्थलभ्यं सविचारं प्रथमामिति । अहिारभद्रस्तु अविचारं द्वितीयामिति सूत्रमालोच्य सविचारं प्रथममिति भाष्यं प्रथितं इति वदति ।
Page #255
--------------------------------------------------------------------------
________________
१८३
नवमोऽध्यायः रणफलत्वात्कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात्पूर्वोपचितकर्मनिर्जरकत्वाच्च निर्वाणप्रापकमिति ॥ ४६॥ __अत्राह । उक्तं भवता परीषहजयात्तपसोऽनुभावतश्च कर्मनिजरा भवतीति । तत्कि सर्वे सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित्मतिविशेष इति । अत्रोच्यते ।
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४७ ॥
__ सम्यग्दृष्टिः श्रावकः विरतः अनन्तानुबन्धिवियोजकः दर्शनमोहक्षपकः मोहोपर्शमकः उपशान्तमोहः मोहलपकः क्षीणमोहः जिन इत्येते दश क्रमशोऽसङ्खयेयगुणनिर्जरा भवन्ति । तद्यथा । सम्यग्दृष्टेः श्रावकोऽसङ्खयेयगुणनिर्जरः श्रावकाद्विरतः विरतादनन्तानुबन्धिवियोजक इत्येवं शेषाः ॥ ४७ ॥
१ सम्यग्दृष्टिभाक् ।
२ आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं श्रृणोतीति श्रावकः । श्रृण्वश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षाव्रतलक्षणधर्ममनुतिष्ठति यथाशक्ति वा । द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव ।
३ साधुधर्मानुष्ठायी सर्वस्मात्प्राणातिपाताद्यावजीवं विरतः ।
४ अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयः । तान् वियोजयत्युपशमयति ।
५ दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्याग्मथ्यात्वतदुभयानि च । अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः।
६ तथास्यैवोपशमकः।
७ मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्वमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः ।
८ अस्यैव सकलस्य क्षपणात् । ९ क्षपितनिरवशेषमोहः ।। १. चतुर्विधघातिकर्मजयनात् ।
Page #256
--------------------------------------------------------------------------
________________
संभाष्यतत्वार्थाधिगमसूत्रेषु
१८४
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४८॥
क्ता
पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्चनिर्ग्रन्थंविशेषा भवन्ति । तत्र सततमप्रतिपातिनो जिनोक्तादागमान्निर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिन ऋद्धियशस्कामाः सांतगौरवाश्रिता अविविक्तपरिचाराश्छेदशबलेंयुता निर्ग्रन्था बकुशाः । कुशीला द्विविधाः प्रतिसेवनीकुशीलाः कषायैकुशीलाश्च । तत्र प्रतिसेवनाकुशीलाः नैर्ग्रन्ध्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथंचित्किचिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । येषां तु संयतानां सतां कथंचित्संज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः । ये वीतरागच्छद्मस्था ईर्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्ष्या योगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः । संयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४८ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः
साध्या ॥ ४९ ॥
एते पुलाकादयः पञ्च निर्गन्धविशेषा एभिः संयमादिभिरनुथोगविकल्पैः साध्या भवन्ति । तद्यथा ।
१ धर्मेोपकरणाहते परित्यक्तवाह्याभ्यन्तरोषधयो निर्ग्रन्थाः ।
२ सुखशीलता-सातगौरवम् । तदाश्रिताः । गौरवशब्द आदरार्थः ।
३ असंयमात्पृथग्भूता घृष्टजंघा स्तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषांन ।
४ सर्वदेशछेदाहीतीचारजनितशबलेन वैचित्र्येण युक्ताः ।
५ अष्टादशसहस्रभेदं शीलं तत उत्तरगुणभंगेन केनचित्कषायोदयेन वा कुत्सितं येषां ते कुशीलाः ।
६ प्रतिसेवने त्या सेवनं ज्ञानाद्यतिचाराणां भजनं तेन कुत्सितं शलिं येषां ते प्रतिसेवनाकुशीलाः ।
७ कषायाः संज्वलनाख्यास्तदुदयात्कुत्सितं शीलं येषाम् ।
Page #257
--------------------------------------------------------------------------
________________
१८५
नवमोऽध्यायः संयमः । कः कस्मिन्संयमे भवतीति । उच्यते। पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिके छेदोपस्थाप्ये च । कषायकुशीलो द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च । निम्रन्थस्त्रीतकावेकस्मिन्यथाख्यातसंयमे ॥
__श्रुतम् । पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टेनामिनाक्षरदशपूर्वधराः । कषायकुशीलनिर्ग्रन्थौ चतुर्दपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौं प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥
१ समो रागद्वेषविरहरूप आयो लाभः । अथवा आयो गमनं सकलक्रियोपलक्षणमेतत् । सर्वां च क्रिया साधो रागद्वेषवियुक्तस्य निर्जराफला । तादृशसमस्यायः समायः । तदेव सामायिकम् ।
२ प्रथमापेक्षया विशुद्धतरसर्वसावद्ययोगविरतावस्थानरूपत्वं विविक्ततरमहाव्रतारोपणरूपत्वं पूर्वपर्यायछेदपूर्वकपर्यायान्तरे उपस्थापनरूपत्वं वा छेदोपस्थापनीयस्य लक्षणम् ।
३ सावद्ययोगविरतिरूपत्वे सति तपोविशेषेण विशुद्ध रूपत्वं यस्मिन् सति तपोविशेषेण सावद्ययोगविरतस्य विशुद्धता भवति तद्रूपत्वं वा परिहारविशुद्धचारित्रस्य लक्षणम् ।
४ अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वं गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसंपरायचारित्र्यस्य लक्षणम् ।
५ प्रक्षालितसकलघातिकर्ममलपटलः । ... ६ अभिन्नमन्यूनम् । एकेनाप्यक्षरेणान्यूनानि दश पूर्वाणि ग्रन्थविशेषार धारयति ।
७ चतुर्दशपूर्वाग् ग्रन्थविशेषान् धारयत: । ८ आचाराङ्गं प्रथमम् । ९ पञ्च समितयः । तिस्रो गुप्तयः ।
२४
Page #258
--------------------------------------------------------------------------
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १८६ प्रतिसेवना । पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगादलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुशः शरीरवकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकरणकांक्षायुक्तो नित्यं तत्पतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥
तीर्थम् । सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति शेषास्तीर्थे वातीर्थे वा ॥
लिङ्गम् । लिङ्ग द्विविधम् । द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्ग प्रतीत्य सर्वे पञ्च निग्रन्था भावलिङ्गे भवन्ति द्रव्यलिङ्गं प्रतीत्य भाज्याः॥
लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशपतिसेवनाकुशालयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः । सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति ॥
१ १ प्राणातिपातः । २ मृषावादः । ३ अदत्तादानम् । ४ मैथुनम् । ५ परिग्रहः इति पञ्च मूलगुणाः षष्ठी च रात्रिभोजनविरतिः ।
२ तरन्त्यनेनेति तीर्थ वचनं प्रथमगणधरो वा ।
३ कदाचिद्गतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्ते । मरुदेवी प्रयमतीर्थकरस्य श्रीऋषभदेवस्य माता ।
४ रजोहरणमुखवस्त्रिकादि । ५ ज्ञानदर्शनचारित्राणि । ६ कदाचिद् द्रव्यलिङ्गं न निमित्तं यथा मरुदेव्याम् । ।
Page #259
--------------------------------------------------------------------------
________________
नवमोऽध्यायः ।
उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुशप्रतिसेवनाकुशीलयोर्द्वाविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः । कषायकुशील निर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ॥
१८७
स्थानम् | असङ्घयेयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः तौ युगपदसङ्घयेयानि स्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते कषायकुशीलस्त्वसङ्घयेयानि स्थानान्येकाकी गच्छति । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसङ्खयेयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽसङ्ख्यानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसङ्घयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसङ्घयेयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकमेव स्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीति एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ।।
इति तत्त्वार्थाधिगमेऽअर्हत्प्रवचन संग्रहे नवमोऽध्यायः समाप्तः ॥ ९ ॥
Page #260
--------------------------------------------------------------------------
________________
अथ दशमोऽध्यायः।
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥
मोहनीये क्षीणे ज्ञानावरणदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां कर्मकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यत इति हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति पृथक्करणं क्रमप्रसिद्धयर्थ यथा गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते ततोऽन्तमुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत्क्षयो भवति । ततः केवलमुत्पद्यते ॥१॥
अत्राह । उक्तं मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति । अत्रोच्यते
बन्धहेत्वभावनिर्जराभ्याम् ॥ २ ॥ मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः । तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवाति सम्यग्दर्शनादीनां चोत्पत्तिः। 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' 'तन्निसँर्गादधिगमाद्वा' इत्युक्तम् । एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मण उपचयो न भवति पूर्वोपचितस्य च यथोक्तैर्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्वद्रव्यपर्यायविषयं परमैश्वर्यमनन्तं
१ कर्मस्वभावानाम् । २ अ. ८ सू. १. ३ अ. १ सू. २. ४ अ. १ सू. ३.
Page #261
--------------------------------------------------------------------------
Page #262
--------------------------------------------------------------------------
________________
HHHHHHHHHHHHHHHHHHHHHHHHH
अंतिम तिर्थकर ॥ श्री महावीरस्वामी ॥
वीरः सर्व सुरा सुरेन्द्र महितो वीरं बुधा संश्रिता । वीरेणाभितः स्वकर्मनिचयो वीराय नित्यं नमः ।।
HEHHHHHHHHHHHHHHHHHHHHHH फीनीक्ष प्री. वसं.
Page #263
--------------------------------------------------------------------------
________________
१८९
दशमोऽध्यायः। केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति । ततः प्रतनुशुभचतुःकर्मावशेष आयुःकर्मसंस्कारवशाद्विहरति । ततोऽस्य
कृत्स्नकर्मक्षयो मोक्षः ॥ ३ ॥ कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाचोत्तरस्याप्रादुर्भावः । एषावस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते ॥३॥
किं चान्यत् । औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्य
क्त्वज्ञानदर्शनासिद्धत्वेभ्यः ॥४॥
औपशमिकक्षायिकक्षायौपशमिकौदयिकपारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्वकेवलज्ञानकेवलदर्शनसिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥ ४॥ ___ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥
तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरमौपशमिकाद्यभावानन्तरं . चेत्यर्थः । मुक्त ऊर्ध्व गच्छत्यालोकान्तात् । कर्मक्षये देहवियोग. सिध्यमानगतिलोकान्तप्राप्तयोऽस्य युगपदकसमयेन भवन्ति । तद्यथा। प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तद्वत् ॥५॥
। अत्राह । प्रहीणकर्मणो निरास्रवस्य कथं गतिर्भवतीति । अत्रोच्यते
Page #264
--------------------------------------------------------------------------
________________
सभाष्य
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १९० पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागतिपरिणामाच्च तद्गतिः६
पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात्पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद्भमत्येवासंस्कारपरिक्षयात् एवं यः पूर्वमस्य कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्माण गतिहेतुर्भवति । तत्कृता गतिः।
किं चान्यत् ॥
असङ्गत्वात् । पुद्गलानां जीवानां च गतिमत्त्वमुक्तं नान्येषां द्रव्याणाम् । तत्राधो गौरवधर्माणः पुद्गला ऊर्ध्वगौरवधर्माणो जीवाः। एष स्वभावः । अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवाय्वग्नीनां गतयो दृष्टाः तथा सङ्गविनिर्मुक्तस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु ॥ कर्मसङ्गादधास्तिर्यगूर्व च ॥
किं चान्यत् ।
बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात्पेडाया बीजकोशबन्धनच्छेदाच्चैरण्डबीजानां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात्सिध्यमानगतिः ।
किं चान्यत् ।
तथागतिपरिणामाच्च । ऊर्ध्वगौरवात्पूर्वप्रयोगादिभ्यश्च हेतुभ्यः तथास्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति । ऊर्ध्वमेव भवति नाधस्तिर्यग्वा गौरवप्रयोगपरिणामासयोगाभावात् । तद्यथा।
१ यथा रज्ज्वा गाढं बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्यागमनमूर्ध्व दृष्टं यथा वा बीजीकोशः फलं फली वा तस्या बन्धनं गाढसंपुटता • तस्याः सवितृकिरणतापशोषितायाः परिणतिकाले संपुटोद्भेदलक्षणश्छेदः । तस्मात्
बन्धछेदात् एरंडादिफलभेदे बीजानां गतिः । यथाबीजान्युड्डीय दूरे पतन्ति तथा कर्मबन्धोऽत्रफलादिस्थानीयः । तस्य छेदात्तद्विघटनानन्तरमेवोर्व गच्छत्यालोकान्तात् । पेडाशब्दो वेणीवाचको देशीभाषाप्रसिद्धया ।
Page #265
--------------------------------------------------------------------------
________________
१९१
दशमोऽध्यायः ।
गुणवद्भूमिभागारोपितमृतुकालजातं बीजोद्भेदादङ्कुरप्रवालपर्णपुष्पफलकालेष्वविमानितसे कदौर्हृदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाब्वप्सु न निमज्जति तदेव गुरुकृष्णमृत्तिकाले पैर्घनैर्बहुभिरालिप्तं धनमृत्तिकालेपवेष्टन जनितागन्तुक गौरवमप्सु प्रक्षिप्तं तज्जलप्रतिष्ठं भवति यदा त्वस्याद्भिः किन्नो मृत्तिकालेपो व्यपगतो भवति तदा मृत्तिकालेपसङ्गविनिर्मुक्तं मोक्षानन्तरमेवोर्ध्वं गच्छति आसलिलेलोर्ध्वतलात् एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टकर्ममृत्तिकालेपवेष्टितः तत्सङ्गात्संसारमहार्णवे भवसलिले निमग्नो भवासक्तो - धस्तिर्यगूर्ध्व च गच्छति सम्यग्दर्शनादिसलिलक्केदात्महीणाष्टावधकर्ममृत्तिकालेप ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्यालोकान्तात् ॥
स्यादेतत् लोकान्तादप्यूर्ध्व मुक्तस्य गतिः किमर्थं न भवतीति । अत्रोच्यते । धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । तस्माद्गत्युपग्रहकारणाभावात्परतो गतिर्न भवत्यप्सु अलाबुवत् । नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निःक्रियः इति ॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाह - नान्तरसंख्याल्पबहुत्वतः साध्याः ॥ ७ ॥
क्षेत्र कालः गतिः लिङ्गं तीर्थं चारित्रं प्रत्येकबुद्धबोधितः ज्ञानमवगाहना अन्तरं संख्या अल्पबहूत्वमित्येतानि द्वादशानुयोगद्वाराणि सिद्धस्य भवन्ति । एभिः सिद्धः साध्योऽनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः । तद्यथा ।
१ पूर्व:-अतीतः ।
२ प्रत्युत्पन्न: -- वर्तमानः ।
Page #266
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
क्षेत्रम् । कस्मिन् क्षेत्रे सिद्धयतीति । प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे सिद्धयति । पूर्वभावप्रज्ञापनीयस्य जन्म प्रतिपञ्चदशसु कर्मभूमिषु जातः सिद्धयति ।संहरणं प्रति मानुषक्षेत्रे सिद्धयति । तत्र प्रमत्तसंयताः संयतासंयताश्च संहियन्ते । श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाकोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संहियन्ते । ऋजुसूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति ।। ___ कालः । अत्रापि नयद्वयम् । कस्मिन्काले सिद्धयतीति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिद्धयति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्यामुत्सर्पिण्यामनवसपिण्युत्सर्पिण्यां च जातः सिद्धयति। एवं तावदविशेषतः । विशेषतोऽप्यवसापिण्यां सुषमदुःषमायां संख्येयेषु सर्वेषु शेषेषु जातः सिद्धयति । दुःषमसुषमायां सर्वस्यां सिद्धयति दुःषमसुषमायां जातो दुःषमायां सिध्यति न तु दुःषमायां जातः सिध्यति अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेष्ववसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति॥ ___ गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधा अनन्तरपश्चात्कृतगतिकश्च एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषेण सर्वगातिभ्यः सिध्यति ॥
लिङ्ग स्त्रीपुंनपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गभ्यः सिध्यति ।
तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः
Page #267
--------------------------------------------------------------------------
________________
१९३
दशमोऽध्यायः । तीर्थकरतीर्थेऽतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकररीतीर्थे सिद्धा अपि ॥
लिङ्गे पुनरन्यो विकल्प उच्यते । द्रव्यलिङ्गभावलिङ्गमलिङ्गमिति प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिंगः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्ग प्रति स्वलिङ्ग सिध्यति । द्रव्यलिंगं त्रिविधं स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति तत्प्रतिभाज्यम् । सर्वस्तु भावलिङ्ग प्राप्तः सिध्यति ॥
चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यात । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य याख्यातसंयतः सिध्यति । परम्परपश्चात्कृतिकस्य व्यजितेऽव्यञ्जिते च । अव्यञ्जिते त्रिचारित्रपश्चात्कृतश्चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथाख्यातपश्चात्कृतसिद्धाःछेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यमूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः॥
प्रत्येकबुद्धबोधितः। अस्य व्याख्याविकल्पश्चतुर्विधः । तद्यथा।
१ तीर्थकरीतीर्थेऽप्येत एव विकल्पाः । यत आह ' एवं तित्थंकरी तित्थे' इति (सिद्धप्राभूतगाथा ३० ) विशेषस्तु तीर्थकरीतीर्थाभिलाप इति मलिस्वामिनी (एकोनविंशतितमस्तीर्थङ्करः) प्रभृतीनाम् ।
२ भौतपरिव्राजकादिवेषः । ३ गृहे लिंगं दीर्घकेशकच्छबन्धादि । ४ कदाचित्सलिंगः कदाचिदलिंग इति ।
५ समस्तचारित्रमोहस्योपशमक्षयान्यतररूपत्वे सति शुद्धात्मस्वभावावस्थानापेक्षारूपत्वं यथाख्यातचारित्रस्य लक्षणम् ।
२५
Page #268
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१९४ अस्ति स्वयंबुद्धसिद्धः। स द्विविधः अर्हश्च तीर्थकरः प्रत्येकबुद्धसिद्धश्च । बुद्धबोधितसिद्धाः त्रिचतुर्थो विकल्पः परबोधकसिद्धाः स्वेष्टकारिसिद्धाः॥
ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिद्धयति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च अव्यञ्जिते च व्यञ्जिते च। अव्यञ्जिते द्वाभ्यां ज्ञानाभ्यां सिध्यात । त्रिभिश्चतुभिरिति । व्यञ्जिते द्वाभ्यां मतिश्रुताभ्याम् । त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा । चतुर्भिर्मतिश्रुतावधिमनःपर्यायैरिति ॥ ___अवाहना।कः कस्यां शरीरावगाहनायां वर्तमानःसिध्यति । अवगाहना द्विविधा उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनुःशतानि धनुःपृथक्त्वेनाभ्यधिकानि । जघन्या सप्तरत्नयोऽङ्गलपृथक्त्वे हीनाः। एतासु शरीरावगाहनासु सिध्यति । पूर्वभावप्रज्ञापनीयस्य प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्याति ॥
अन्तरम् । सिध्यमानानां किमन्तरम् । अनन्तरं च सिध्यन्ति
१ स्वयमेव बुद्धो नान्येन बोधितः ।
२ प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन संजातिस्मरणाद्वल्कलथीरीप्रभृतयः करकण्डादयश्च प्रत्येकबुद्धाः।
३ बुद्धेन ज्ञातसिद्धान्तेन विदितसंस्कारस्वभावेन बोधितो बुद्धबोधितः परबोधितः ।
४ स्वस्मै इष्टं हितं तत्करणशील: स्वेष्टकारी न परस्मै उपदिशति किंचित् ॥ एते चत्वारोऽपि विकल्पद्वयमनुप्रविशन्ति ।
५ तृतीयार्थे प्रत्युत्पन्नभावप्रज्ञापनीयेनेत्यर्थः । ६ आत्मनः शरीरेऽवगाहोऽनुप्रवेशः । संकोचविकासधर्मत्वादात्मनः । ७ उत्कृष्टं देहमानं मरुदेवीप्रभृतीनाम् । ८ द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा ।। ९ सिद्धिगमनशून्यकाल: अन्तरं, अन्तरालमित्यर्थः ।
Page #269
--------------------------------------------------------------------------
________________
१९५
दशमोऽध्यायः। सान्तरं च सिध्यन्ति । तत्रानन्तरं जघन्येन द्वौ समयौ उत्कृष्टेनाष्टौ समयान् । सान्तरं जघन्यनकं समयं उत्कृष्टेन षण्मासा इति ॥
सङ्ख्या । कत्येकसमये सिध्यन्ति । जघन्येनैक उत्कृष्टेनाष्टशतम् ॥१०८ ॥
अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् । तद्यथा ।
क्षेत्रसिद्धानां जन्मतः संहरणतश्च कर्मभूमिसिद्धाश्चाकर्मभूमिसिद्धाश्च सर्वस्तोकाः संहरणसिद्धाः जन्मतोऽसङ्खयेयगुणाः। संहरणं द्विविधम् परकृतं स्ययंकृतं च । परकृतं देवकर्मणा चारणविद्याधरैश्च । स्वयंकृतं चारणविद्याधराणामेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा द्वीपा ऊर्ध्वमधस्तियगिति लोकत्रयम् । तत्र सर्वस्तोका ऊर्ध्वलोकसिद्धाः अधोलोकसिद्धाः सङ्खयेयगुणाः तिर्यग्लोकसिद्धाः सङ्खयेयगुणाः सर्वस्तोकाः समुद्रसिद्धाः द्वीपसिद्धाः सङ्ख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका लवणसिद्धाः कालोदसिद्धाः सङ्खयेयगुणा जम्बूद्वीपसिद्धाः सङ्खयेयगुणा धातकीखण्डसिद्धाः सङ्खयेयगुणाः पुष्करार्धसिद्धाः सङ्खयेयगुणा इति ॥
काल इति त्रिविधो विभागो भवति। अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां ( व्यञ्जितानां) व्यञ्जिताव्यञ्जितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धा अवसर्पिणीसिद्धा विशेषाधिका अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्खयेयगुणा इति। प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् ।
१ व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोनिषु चेत्यादि यावत् षण्मासाः । २ अष्टोत्तरशतम् ।
Page #270
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्यानन्तरा गतिश्चिन्त्यते । तद्यथा । सर्वस्तोकास्तिर्यग्योन्यनन्तरगतिसिद्धा मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्खयेयगुणा नारकेभ्योऽनन्तरगतसिद्धाः सङ्खयेयगुणा देवेभ्योऽनन्तरगतिसिद्धाःसङ्ख्येयगुणा इति ।
लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः स्त्रीलिङ्गसिद्धाः सङ्खयेयगुणाःपुल्लिङ्गासिद्धाःसंख्येयगुणा इति।।
तीर्थम् । सर्वस्तोकाः तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः संख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः संख्येय. गुणाः । तीर्थकरतीर्थसिद्धाः स्त्रियः संख्येयगुणाः । तीर्थकरतीर्थसिद्धाः पुमांसः संख्येयगुणा इति ॥ ___ चारित्रम् । अत्रापि नयो द्वौ प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च। प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च । अव्यञ्जिते सर्वस्तोकाः पञ्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः संख्येयगुणास्त्रिचारित्रसिद्धाः संख्ययगुणाः । व्यञ्जिते सर्वस्तोकाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः सामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः सामायिकपरिहारविशुद्धि
१ अतीर्थकराः सन्तः सिद्धाः । तर्थिकरासद्धेभ्यः संख्येयगुणास्तेन नपुंसकादयोऽपि सर्वे संख्येयगुणाः।
Page #271
--------------------------------------------------------------------------
________________
१९७
दशमोऽध्यायः सूक्ष्मसम्पराययथाख्यातासिद्धाः संख्येयगुणाः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः छेदोपस्थाप्यमूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः ।
प्रत्येकबुद्धबोधितः । सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः। बुद्धबोधितसिद्धा नपुंसकाः संख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः संख्येयगुण । बुद्धबोधितासिद्धाः पुमांसः संख्येयगुणा इति ।
ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहु त्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः चतुर्ज्ञानसिद्धाः संख्येयगुणाः त्रिज्ञानसिद्धाः संख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मतिश्रुतज्ञानसिद्धाः मतिश्रुतावधिमनःपर्यायज्ञानसिद्धाः संख्येयगुणाः मतिश्रुतावधिज्ञानसिद्धाः संख्येयगुणाः॥
अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्धाः उत्कृष्टावगाहनासिद्धास्ततोऽसंख्येयगुणाः यवमध्यसिद्धा असङ्खयेयगुणाः यवमध्योपासिद्धा असङ्खयेयगुणाः यवमध्याधस्तात्सिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः॥ - अन्तरम् । सर्वस्तोका अष्टसमयान्तरसिद्धाः सप्तसमयान्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयान्तरसिद्धा इति सङ्खयेयगुणाः । एवं तावदन्तरेषु सान्तरेष्वपि सर्वस्तोकाः । षण्मासान्तरसिद्धाः एकसमयान्तरसिद्धाः सङ्खोयगुणाः यवमध्यान्तरसिद्धाः सङ्खयेयगुणाः अधस्ताद्यवमध्यान्तरसिद्धा असङ्खयेयगुणाः उपरियवमध्यान्तरसिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥
संख्या सर्वस्तोका अष्टोत्तरशतसिद्धाः विपरीतक्रमात्सप्तोत्तरशतसिद्धादयो यावत्पञ्चाशत् इत्यनन्तगुणाः। एकोनपञ्चाशदादयो यावत्पञ्चविंशतिरित्यसङ्खयेयगुणाः । चतुर्विंशत्यादयो यावदेक इति संख्येयगुणाः । विपरीतहानिर्यथा । सर्वस्तोका अनन्त
Page #272
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१९८
गुणहानिसिद्धा असंख्येयगुणहानिसिद्धा अनन्तगुणा: संख्येयगुणहानिसिद्धा संख्येयगुणा इति ॥
एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शङ्काय तिचारवियुक्तं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भाशुद्धं च ज्ञानमधिगम्य निक्षेपप्रमाणनयनिर्देशसत्संख्यादिभिरभ्युपायैजीवादीनां तत्त्वानां पा रिणामिकौदयिकौपशमिकक्षायोपशमिकक्षायिकानां भावानां स्वतत्त्वं विदित्वादिमत्पारिणामिकौदयिकानां च भावानामुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो विरक्तो निस्तृष्णास्त्रिगुप्तः पञ्चसमितो दशलक्षणधर्मानुष्ठानात्फलदर्शनाच्च निर्वाणप्राप्तियतनयाभिवर्धितश्रद्धासंवेगो भावनाभिर्भावितात्मानुप्रेक्षाभिः स्थिरीकृतात्मानभिष्वङ्गः संवृतत्वानिरास्त्रवत्वाद्विरक्तत्वान्निस्तृष्णत्वाच्च व्यपगताभिनवकर्मोपचयः परीपहजयाद्वाह्याभ्यन्तरतपोनुष्ठानादनुभावतश्च सम्यग्दृष्टिविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसायविशुद्धिस्थानान्तराणामसङ्घयेगुणोत्कर्षमाझ्या पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात्पुलाकादीनां च निर्ग्रन्थानां संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोतरप्रतिपत्त्या घटमानोऽत्यन्तमहीणार्तरौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्रुध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन्वर्तमानो नानाविधानृद्धिविशेषान्याप्रोति । तद्यथा ।
आमर्शोषधित्वं विपुंडौषधित्वं सर्वौषैधित्वं शापानुग्रहसामजननीमभिव्याहारसिद्धिमीशित्वं वशित्वमवधिज्ञानं शारीरविक
१ स्वहस्तपादावयवस्पर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामशषधित्वम् । २ तदीय मूत्रपुरीषावयवसंपक्काच्छरीरनैरुज्यं विप्रुडौषधित्वम् ।
३ सर्व एव तदीयावयवा दुःखार्तानामोषधी भवन्तीति सर्वौषधित्वम् ।
Page #273
--------------------------------------------------------------------------
________________
१९९
दशमोऽध्यायः। रणागप्राप्तितामाणमानं लघिमानं माहिमानमणुत्वम् । अणिमा बिसच्छिद्रमापि प्रविश्यासीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत् भूमावप्स्विव निमज्जेदुन्मज्जेच्च । जङ्घाचारणत्वं येनाग्निशिखाधमनीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारणत्वं येन वियति भूमाविव गच्छेत् शकुनिवच्च प्रडीनांवडीनगमनानि कुयात् । अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदाप कुर्यात् । तेजोनिसर्गसामर्थ्यमित्येतदादि ॥ इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद्दरात्स्पर्शनास्वादनघ्राणदर्शनश्रवणानि विषयाणां कुर्यात् । संभिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि ॥ मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वमृजुमतित्वं विपुलमतित्वं परचित्तज्ञानमाभलषितार्थप्राप्तिमनिष्टानवाप्तीत्येतदादि । वाचिकं क्षीराँस्रवित्वं मध्वांसवित्वं वादित्वं सर्वसरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथाविद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥
१ प्रडीनादयास्तियंगादिगतिविशेषाः। २. यत्किंचित्पदवाक्यादि गृहीतं तन्न कदाचिन्नश्यतीति कोष्ठप्रक्षिप्तधान्यवत् ।
३ स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । यथोप्तं बीजं विपुलधान्यरूपेण ।
४ श्रुण्वतस्तदीयं वचनं क्षीरमिव स्वदते । ५ मधुवन् स्वदते । ६ विद्वत्संसन्मध्येष्वपराजितत्वम् । ७ महाविद्याः सर्वा एव तदा तस्य स्वयमेवोपतिष्ठन्ते । ८ कर्मजातिभेदादनकप्रकारम् । ९ भिन्नाक्षराणि किंचिन्न्यूनाक्षराणि चतुर्दश पूर्वानि संपूर्णाणि वा तद्धारणत्वम् ।
Page #274
--------------------------------------------------------------------------
________________
२००
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ततोऽस्य निस्तृष्णत्वात्तेष्वनभिष्वक्तस्य मोहक्षपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते । ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरणदर्शनावरणान्तरायाण युगपदशेषतः प्रहीयन्ते । ततः संसारवीजबन्धनिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीयनामगोत्रायुष्कक्षयाफलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगाद्धेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपम निरतिशयं नित्यं निर्वाणसुखमवामोतीति ॥
एवं तत्त्वपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । . निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ॥१॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्स्न्ये न मोहनीयं प्रहीयते ॥२॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम्। प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥३॥ गर्भसंच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते॥४॥ ततः क्षीणचतुष्कमा प्राप्तोऽथाख्यातसंयमम । बीजबन्धननिमुक्तः स्नातकः परमेश्वरः॥५॥ शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः। सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥६॥ कृत्स्नकर्मक्षयादृवं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निर्निरुपादानसन्ततिः॥७॥ १ एनमेवार्थ संक्षेपेणोपहरति श्लोकैः ।
२ मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपयाति सकलस्तालतरुः । एवं मोहनीये क्षीणे सर्व शेषकर्म क्षयमेति ।
Page #275
--------------------------------------------------------------------------
________________
२०१
दशमोऽध्यायः दग्धे बीजे ययात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे नारोहति भवाङ्करः॥८॥ तदनन्तरमेवोलमालोकान्तात्स गच्छति । " पूर्वप्रयोगासंगत्वबन्धच्छेदोर्ध्वगौरवैः ॥९॥ कुलालचक्र दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह तथा सिद्धगतिः स्मृता ॥१०॥ मूल्लेपसंगानिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसंगविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥११॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथाःगतिः। कर्मबन्धनविच्छेदात्सिद्धस्यापि तथेष्यते ॥१२॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अघोगौरवधर्माणः पुद्गला इति चोदितम् ॥१३॥ यथावास्तिर्यगूधं च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्वं गतिरात्मनाम् ॥१४॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते। . कर्मणः प्रतिघाताच प्रयोगाच्च तादिष्यते ॥१५॥ अधस्तिर्यगतोज़ च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥१६॥ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह ।। युगपद्भवतो यद्वत् तथा निर्वाणकर्मणोः ॥१८॥ तन्वी मनोज्ञा सुराभिः पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥
१ वीतयः-तयः ।।
Page #276
--------------------------------------------------------------------------
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु २०२ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा। ऊर्व तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः ॥२०॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्थाहेत्वभावाच्च निष्क्रियाः ॥२१॥ ततोऽप्यूर्ध्वं गतिस्तेषां कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परः ॥ २२ ॥ संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ स्यादेतदशरीरस्य जन्तोनेष्टाष्टकर्मणः। कथं भवति मुक्तस्य सुखमित्यत्र मे शृणु ॥ २४ ॥ लोके चतुविहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके माक्ष एव च ॥ २५ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः सुखितोऽस्मीति मन्यते ॥ २६ ॥ पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच मोक्षे सुखमनुत्तमम् ॥ २७ ॥ सुस्वमसुप्तवत्केचिदिच्छन्ति परिनिष्टतम् । तदयुक्तं क्रियावत्त्वात्सुखानुशयतस्तथा ॥ २८ ॥ श्रमक्लममदव्याधिमदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच्च दर्शननस्य कर्मणः ॥ २९ ॥ लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते । उपगीयेत तद्यन तस्मानिरुपमं सुखम् ॥ ३०॥ लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः । अत्यन्तं चाप्रसिद्धं तद्यत्तेनानुपमं स्मृतम् ॥ ३१ ॥ प्रत्यक्षं तद्भगवतामहतां तैश्च भाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छद्मस्थपरीक्षया ॥ ३२ ॥
यस्त्विदानी सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ
१ छमू-कपटं तत्स्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यते ।
Page #277
--------------------------------------------------------------------------
________________
२०३
दशमोऽध्यायः एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमे देवतयोपपद्यते । तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्पच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवामोति । अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यतीति ॥
वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गाविदः ॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥ ३ ॥ अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य । दुःखार्त च दुरागमविहतमतिं लोकमवलोक्य ॥ ४॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥५॥ यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्यावाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम ॥ ६॥ १ प्रत्यायाति-प्रत्यागमनम् ।
२ मनुष्यो देवः पुनर्मनुष्य इति त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभात् आहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र ।
३ स्वशाखावाचकम् ।
इति तत्त्वार्थाधिगमेऽहत्प्रवचनसङ्ग्रहे दशमोऽध्यायः
समाप्तः। समाप्तश्चायं ग्रन्थः॥
Page #278
--------------------------------------------------------------------------
Page #279
--------------------------------------------------------------------------
________________
शुद्धिपत्रकम्.
अशुद्धम् ।
ता
८३ ११
रूपा
ऋषि
शुद्धम् पृ. पं. अशुद्धम् शुद्धम् पृ पं. नाकर्मणो नामकर्मणो २ १८ तेजस तेजस ५१ १६ जग्धादि ज्ञापकात्तु जग्धादिज्ञापकात्तु ३. २४ कृष्णः कृष्णादयः ६० १५ संघाता संघाता ६ २३ मुत्पद्यन्ते त्पद्यन्ते
10 यन्मुल यन्मल ७७ १९ अन्यतमत्
अन्यतमम् ९ . ५ मध्ये मध्ये 'य व'इ 'य
९ ६ एतश्चा एतच्चा ८१ १७ पेक्षयाजीव पेक्षया जीव १० २३|पल्योमा पल्योपमा ८१ १ ग्रहण
ग्रहणे ११ १४ जन्मलब्ध्वा जन्म लब्ध्वा ८२ १८ द्वव्यात्मक द्वयात्मकः १२ १५/नामा
नाम पञ्चस्तिय पञ्चास्तिकाय १४ १३ आनि . अनी सपिणि सर्पिणी १५ १४ रुपा
८९ १२ अर्ध अर्धः - १५ १५ वर्जिs. वर्जि
८९ २१ तद्वतं तद्देतं १७ २१
ऋषि मित्यर्थः मित्यर्थः। १९ १५ द्वात्रिशं
द्वात्रिंश ९२ २४ श्वेव श्वेह १९ २६
चान्द्रा चान्द्रो ९४ २३ चैक सामयिकः चैकसामयिकः २० ११
वर्ति गृह्णाति वगृह्णाति २० २८ तथाह्यर्थ तथामर्थ मङ्गबाह्य मङ्गबाह्य
कष्णराज्योर्मध्य कृष्णराज्योर्मध्य १०१ २१ २३ पत्तो
१.१ १३ प्रकर्षणनामादि प्रकर्षेण नामादि २३
तत्मात्क तस्मात्क १०८ ११ पुरुष
२३ १८ पुरुष
पुरा
१०८ १५ प्रविष्टम् । प्रविष्टम्
स्तमेषां स्त्वमषां १०८ २३ विशेषा वशेषा
न्तीति तीति
वाङ वाद
१११ १० ३२
धर्म अपर १९
धर्मोऽपर स
१३३ ८ स्वयं परि स्वयंपरि
पुनला पुद्गला ११३ १३ लभलाब्धि भिलब्धि
कुम्भा ११५ १६ पारिणामिक पारिणामिका ४२ ८
अणवः स्कन्धा अणवः स्कन्धा ११६६ सिद्धानु सिद्धयनु ४७ २०रानित्य रनित्य
११६ २३ वक्री वक्रा ४८ १७ ध्रौव्य ध्रौव्य
११७ ११ विगतो विगता
उत्पादद उत्पाद ११७ १४ संवृत्ता संवृत्ता ५१ ९वध्य बध्य
१२२८
दयार्था.
दयार्थाः
सवात्यय
ރ.2
2 22 22 5555 55
पत्ता
कुम्भा
१२
Page #280
--------------------------------------------------------------------------
________________
[२]
१२७१कोधा
१३२ १७ उपध्याय
१४३ १५ शृ . १४८ २० साध्या
१५२
अशुद्धम्
शुद्धम् पृ. पं. अशुद्धम् चक्षन्ते चक्षते १२३ १६) द्रुण प्रतेतव्या प्रत्येतव्या शरिर शरीर
१३० १९ शेषा मयात
मया त भयो:समा भयोः समा १३५ १ तितके सलखनां संलेखना सचित्त सचित्ता तपः संप तपःसंप १४९
थोग स्वत अज स्वतोऽज १५०
येषांन दलीक दलिक
प्रयम सम्यकत्व सम्यक्त्व १५४
मुहूर्त पशत्य पश्यत्य
ऽत्रफला तद्वार तवार
१५५ १५
पुनला प्रयागे प्रयोग १५५ २१ चिचुबक चिबुक १५९ २ वयं राय: वीर्या रव्याः वीर्या १६१ ३ स्ययं ज्ञान ज्ञाना १६१ गुणः ऽध्याय ऽध्यायः १६७ हेडिंग वियद्नति धर्भ
१६८ ७ श्रुण्वत बामा
बाह्या १६८ ८ संपूर्णाणि अष्ट
शुद्धम् पृ. पं. गण १०२ ६ क्रोधा १७४ २८ शेषाः १७५ ११ उपाध्याय वितकै १८१ १८
१८३ १५ साध्याः १८४ १४ योग
१८४ १६ येषां न १८४ २० प्रथम १८६ २३ मुंहूतै १८८७ ऽत्र फला १९० २४ पुद्गला १९१ १२,१३.
१९१ १९ सिद्धाः १९३ १३ स्वयं १९५ ९ गुणाः १९७६ वियद्गति १९९ ७ शृण्वत १९९ २३ संपूर्णाने १९९ २८
१५४ १४
बहु
१६० १४ सिद्धाः
धर्म
नव
१७१
१७३/हडिंग
१७५)
Page #281
--------------------------------------------------------------------------
________________
शुद्धिपत्रकम्.
शुद्धम्
..
पृ. .
4
.
१
१२
५१ १६
ता..
६.
२२
६५-२१
वक्रा विगता संवृत्ता तजस शाल कृष्णादयः. देह शरीरा त्पद्यन्ते
मकरणा . कार यन्मल मध्ये एतच्चा पल्योपमा यत्र जन्म लब्ध्वा नाम अनी सान
२६ मध्ये
अशुद्धम् . शुद्धम् पृ. पं. अशुद्धम् नाकर्मणो नामकर्मणो २ १८वको जग्धादि ज्ञापकात्तु जग्धादिज्ञापकात्तु३ २४ विगतो सघाता
संघाता
६ २३ संवृत्ता विका विपाका
तेजस तां .......
चाल अन्यतमत् अन्यतमम् ९ 'य व'इ.
कृष्णः ' य'
देश पेक्षयाजीव पेक्षया जीव १० २३
शरीदा ग्रहण ग्रहणे ११ १४ दुव्यात्मकः
१मुत्पद्यन्ते द्वयात्मकः .१२ १५ पञ्चस्तिकाय पञ्चास्तिकाय १४ १३ मा
कारणा अर्ध
अर्ध:-- १५ १५ का तद्वैतं तद्वैतं १७ २१ कर मित्यर्थः मित्यर्थः। १९ १५ यन्मुल श्चैव
चेह चैक सामयिकः चकसामयिकः २० ११ एतश्चा गृह्णाति वगृहणाति २० २८ पल्योमा चिर
चिरे २१ ५
तथाह्यर्थ. २१ ११ जन्मलब्ध्वा मंगबाह्य मङ्गबाह्य
नामा प्रकर्षेणनामादि प्रकर्णेण नामादि २३ ७
आनि पुरुष. २३ १८ सुन प्रावेष्टम प्रविष्टम् । २३ २२ भाव विशेषा .
वशेषा ३० २० रुपा न्तीति ३१ ८ वर्जिsस
३२ १९ ऋषि स्वयं परि स्वयंपरि ३९ १६ द्वात्रिशं च सम्यक्त्वचारित्रे च ४० २ सूर्या लभलाब्धि लाभलब्धि ४० ९ सवन माया मायालोभ ४१ १३ चान्द्रा पारिणामिक पारिणामिका ४२ ८ वर्ति वाष्टा वाष्टादशा ४२,४३ ७,१९ दयार्थी सिद्धानु - सिद्धयनु ४७ २० सानत्कु
७९
त्रय
तथाह्यर्थ
८१ १.. ८२७ ८२ - १८ ८३ ११ ८५ १३
पुरुष
भा
८७ १३ ८९. १२
रूपा वर्जि
तीति
.
८९
२१
ऋषि
१४
द्वात्रिंश चन्द्रा सावन चान्द्रो
९४ १२ ९४ २३ ९५ १७
वर्ति
दयार्थाः सनत्कु
९६-९७
Page #282
--------------------------------------------------------------------------
________________ م . 159 अशुद्धम् .. शुद्धम् .. पृ. पं. अशुद्धम कष्णराज्योर्मध्य कृष्णराज्योर्मध्य 101 21 चिचुबक शवन शयन 106 18 जयं तत्मात्क तस्मात्क 108 11 रायःवीर्या पूरा पूर 108 15 ज्ञान स्तमेषां स्त्वमेषां 108 23 ऽध्याय वाङ वाङ् 111 10 धर्भ धर्म अपर धर्मोऽपर 133 8 बाह्मा पुनला पुद्गला 113 13 मदारि कुम्भा कुम्भा 115 16 अष्ट शुद्धम् पृ. पं. चिबुक 16. 14 रायः वीर्या 161 3 ज्ञाना 161 7 ऽध्यायः 167 हेडिंग धर्म बाह्या 168 8 दारि 168 14 नव 169 168 184 थोग येषांन अणव: स्कन्धा अणवः स्कन्धा११६ रानित्य रनित्य 116 23 कोधा क्रोधा 174 28 नोव्य ध्रौव्य 117 शेषा शेषाः 175 11 उत्पादद उत्पाद 117 उपध्याय उपाध्याय 178 वध्य बध्य 122 8 तितक वितकै 181 चक्षन्ते चक्षते 123 16 च क्षीणकषायस्य च प्रतेतव्या प्रत्यतव्या 127 १श्र . 183 15 परु 127 साध्या साध्याः शरिर शरीर 130 योग 184 मयात मया त 132 येषां न 184 20 भयो:समा है भयोः समा 15 प्रयम प्रथम 186 23 संलखना - संलेखना 143 15 मुहूर्त मुहूर्त 1887 विच्छेद छविच्छेद 145 |ऽत्रफला त्रि फला 190 24 सचित्त सचित्ता 148 पुदनला पुद्गला 191,12,13 तपः संप तपःसंप 149 191 19 स्वत अज स्वतोऽज 150 |सिद्धाः सिद्धाः 193 . 13 दलीक दलिक 152 स्यय स्वयं 195 9 सम्यकत्व सम्यक्त्व 154 10 गुण: गुणाः 197 पशत्य पश्यत्य 154 14 वियद्नति वियदति 199 तद्वार तवार 154 शृण्वत 199 23 प्रयागे प्रयोग 155 - 21 संपूर्णाणि संपूर्णानि बहू