Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 8
________________ श्रीचन्द्रप्रभसूरिविरचितश्रीप्रमेयरत्नकोषः B÷8 । ॐ । । नमः सर्वज्ञाय ।' नत्वा ज्ञानतमिस्रसंततिहरं सज्ज्ञानभास्वच्छिखं प्राज्यैश्वर्यसुतैलपूरकलितं निर्वाणपात्रे स्थितम् । दग्धानङ्गपतङ्गकं न च पुनर्विध्यातरूपं क्वचि - द्दूरादुज्झितपापकज्जलभरं सर्वज्ञदीपं शुभम् ॥ १ ॥ प्रमेयरत्नकोशोऽयं क्रियते कृतिवल्लभः । हितार्थ धीदरिद्राणां श्रीचन्द्रप्रभसूरिभिः ॥ २ ॥ वादोदन्वत्तरीकल्पं येऽमुं लास्यन्ति सोद्यमाः । सुखिनस्ते भविष्यन्ति शासनस्य प्रभावकाः ॥ ३ ॥ श्रीसर्वज्ञप्रणीतत्वाच्छासनस्यास्य॑ सत्यता । तत्सिद्धिपूर्विका तेन क्रियतेऽन्यविनिश्चितिः ॥ ४॥ परेषामप्रतिक्षेपे स्वमतस्य परिग्रहः । न शोभां तनुते तेन तत्प्रमेयनिरूपणम् ॥ ५ ॥ सर्वदर्शनवेत्तृत्वं जैनैः कार्यं विशेषतः । सर्वज्ञपुत्रकत्वेन ते प्रसिद्धा यतो जने ॥ ६ ॥ [I] [ अथ सर्वज्ञसिद्धिः ] इह केचित्रिभुवनभवनोदर विवस्वर्तिदेशकालस्वभावविप्रकृष्टेतरपदार्थसार्थावलोकनसमर्थकेवलालोकसंपदङ्गना 1. Badds श्रीपार्श्वनाथाय नमः 2 marginal gloss of B 20 पण्डितप्रियः 5 10 15

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82