________________
श्रीचन्द्रप्रभसूरिविरचितश्रीप्रमेयरत्नकोषः
B÷8
। ॐ । । नमः सर्वज्ञाय ।'
नत्वा ज्ञानतमिस्रसंततिहरं सज्ज्ञानभास्वच्छिखं प्राज्यैश्वर्यसुतैलपूरकलितं निर्वाणपात्रे स्थितम् । दग्धानङ्गपतङ्गकं न च पुनर्विध्यातरूपं क्वचि - द्दूरादुज्झितपापकज्जलभरं सर्वज्ञदीपं शुभम् ॥ १ ॥ प्रमेयरत्नकोशोऽयं क्रियते कृतिवल्लभः । हितार्थ धीदरिद्राणां श्रीचन्द्रप्रभसूरिभिः ॥ २ ॥ वादोदन्वत्तरीकल्पं येऽमुं लास्यन्ति सोद्यमाः । सुखिनस्ते भविष्यन्ति शासनस्य प्रभावकाः ॥ ३ ॥ श्रीसर्वज्ञप्रणीतत्वाच्छासनस्यास्य॑ सत्यता । तत्सिद्धिपूर्विका तेन क्रियतेऽन्यविनिश्चितिः ॥ ४॥ परेषामप्रतिक्षेपे स्वमतस्य परिग्रहः ।
न शोभां तनुते तेन तत्प्रमेयनिरूपणम् ॥ ५ ॥ सर्वदर्शनवेत्तृत्वं जैनैः कार्यं विशेषतः । सर्वज्ञपुत्रकत्वेन ते प्रसिद्धा यतो जने ॥ ६ ॥
[I]
[ अथ सर्वज्ञसिद्धिः ]
इह केचित्रिभुवनभवनोदर विवस्वर्तिदेशकालस्वभावविप्रकृष्टेतरपदार्थसार्थावलोकनसमर्थकेवलालोकसंपदङ्गना
1. Badds श्रीपार्श्वनाथाय नमः 2 marginal gloss of B 20 पण्डितप्रियः
5
10
15