Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 550
________________ ५२४ प्र० वा. वृत्तौ० (४ परिच्छवः) ... "अनुमानं द्विधा स्वार्थ त्रिरूपाल्लिङ्गतीर्थदृक् (1) . ' पूर्ववत् फलमर्थः स्वरूपश्चातुल्यमेतयोरि"ति (॥) अत्र प्रमाणस मुच्च ये द्वितीयपरिच्छेदश्लोके पूर्ववदिति प्रत्यक्ष इव विषयाधिगतिरूपं प्रमाणादव्यतिरिक्तं फलमनुमानेपि ज्ञेयमर्थस्त्वालम्वनं प्रत्यक्षस्य स्वलक्षणमितरस्य तु सामान्याकारोन्यापोहो विषयः स्वरूपञ्च स्पष्टास्पष्टप्रतिभासमतुल्यं प्रत्यक्षानुमानयोरित्येतद्वक्ष्यमाणानुमिति त्यक्त्वातिविवादास्पद.. (1) X 2a. ५-(२१) अधुना शेष प्रमाण स मुच्च य प्रथमद्वितीयपरिच्छेदव्याचिख्या सुस्तदादिनमस्कारश्लोकं च व्याख्यातु शास्त्रकारो द्वितीयपरिच्छेदं प्रस्तौति । अनन्तरञ्चागमचिन्तायाम (३।२१२) पौरुषेयमागममपाकृत्य यत्प्रतिज्ञातं सर्वस्य दृष्टादृष्टप्रकर्षार्थस्य स्वर्गापवर्गादेः परलोकस्य च देशकः पुरुषातिशय एवेति स इदानी प्रमाणभूतः साध्यते नेश्वरादिरिति कथ्यते प्रवचने चार्यसत्यचतुष्टयं दुःखसत्यपूर्वकमुक्तं निरूपणक्रमेण (1) योगी हि सांसारिकदुःखार्तः प्रथमं दुःखसत्यं निरूप्य हेयोपादेयं सोपायं पर्येषत इति कृत्वा शास्त्रकारस्तूत्पत्तिक्रममाश्रित्य यथा संसारः प्रवर्तते निवर्तते च तथा प्रथमं समुदयसत्यं तद्विमतिनिराकरणतः कथयस्तदनुक्रमेण शेषसत्यत्रयमशेषविमतिनिराकरणतः कथयतीति द्वितीयपरिच्छेदार्थः । सर्वत्र च प्रेक्षावतां सम्बन्धं विना वाञ्छाप्रवृत्तिरिति पूर्वापरपरिच्छेदसंघटनाथ सम्बन्धोऽवश्यवाच्यः (1) स चानन्तर्यलक्षणोऽनन्तराणामपि पूर्वविद्यमानोपकारकत्वादानन्तर्यञ्च द्विधा ग्रन्थतोऽर्थतश्च (1) शास्त्रादेगिर्थरूपत्वात्तत्रानन्तरपरिच्छेदसम्बन्धोयं द्वितीयपरिच्छेद इति (1) . 2b६-(११७) तत्त्वबोधासमर्थानां सद्वृत्या मानमेययोः । व्यवस्थानमिदं शास्तुः प्रवचोनुगमुच्यते॥ ये पुद्गलाः परमार्थाधिगमे झटित्यसक्ता धर्मानुसारिणो योगिनश्च तेषां सत्संवृत्त्या प्रमाणप्रमेयव्यवस्थानं परमार्थेऽसंभवात्। यदाह नैयायिकचक्रचूडामणिः प्रमाण वा ति के (२।५) _ "प्र(r)माणं (? ण्यं) व्यवहारेण शास्त्रं मोहनिवर्त्तनमि"ति । भगवानपि परमार्थबोधेऽशक्तानवता (र)यितुमुक्तवान् "क्षणिकाः सर्वसंस्कारा अनित्यदुःखशून्यानात्मा" दीति। एतानि प्रमाणोपपन्नानीत्यपि प्रतिपादयितुमिदमुच्यते ॥

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610