Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 18
________________ निरूपणम् ] टीकात्रयोपेता णम्, [वा. टी.] अत्र काणादोक्तं पदार्थतत्त्वं प्रतिपिपादयिषुराचार्यो विना सामान्यलक्षणं विशेषलक्षणाप्रवृत्तेर्लक्ष्यनिर्देशेनैवोद्देशं मन्वानः पदार्थसामान्यलक्षणं तावदाह - अभिधेय इति । अभिधीयते प्रतिपाद्यतेऽर्थोऽनेनेति अभिधा वाक्यात्मकः पदात्मकशब्दो वा । तेन प्रतिपाद्यः, तस्य विषयोऽभिधेय इति । ननु खपुष्पमिति शब्देन खपुष्पमभिधीयते । न च तत्र पदार्थत्वम् । तेनातिव्याप्तिरुद्धृता । अयमर्थः — खपुष्पमिति वाक्येन खसंसृष्टं पुष्पं प्रतिपाद्यते । नच तत्प्रमाणगोचरो येन लक्ष्यकोटिनिविष्टं भवेत् । ननु मा भवतु प्रमाणगोचरः, न हि प्रमाणगोचरः पदार्थ इति लक्षणम् । किन्तर्हि ? अभिधेय इति ( न च वाच्यम् ? ) पद्यते गम्यतेऽर्थोऽनेनेति पदं प्रमातस्यार्थो विषय इति पदार्थशब्दव्युत्पत्तेरेव प्रमाणगोचरत्वस्य पदार्थस्वरूपत्वेन वा पदार्थशब्दप्रवृत्तिनिमित्तेन वावश्यं वक्तव्यत्वात् । न चैतदस्ति; तथा च स्पष्टैवातिव्याप्तिरिति । उच्यते-विग्रहवाक्यं विना खपुष्पमिति समासवाक्यात्संसर्गाप्रतीतेर्विग्रहसहकारितद्बोधकं वाच्यम्, यतस्समासश्च विग्रहार्थे ( प्रमाणम् ), प्रमाणमन्तरेण च लतापुष्पस्य खसंसर्गाग्रहात् खे पुष्पमित विग्रहायोगाश्च पुष्पं नास्तीत्यत्यन्ताभावबोधकविग्रहार्थे समासोऽङ्गीकर्तव्य त्यर्थबोधकविग्रहवाक्यार्थे चन्द्राननसमासवत् । तथा च खपुष्पमिति वाक्यस्य खे पुष्पात्यन्ताभाव इत्यर्थावधारणात्तस्य च पदार्थत्वान्नातिव्याप्तिः । ननु तर्हि खे पुष्पं नास्तीति निषेधानुपपत्तिरिति चेत्-न; गृहीतावयवार्थस्य पुंसः समासाद्राजपुरुषादिवत्सामान्यतो दृष्टेन प्रसक्तसंसर्गप्रतीतिनिषेधार्थत्वादस्य निषेधवाक्यस्येति । यद्वा चन्द्राननवाक्यार्थकथनार्थं चन्द्र इवाननमिति विग्रहवाक्यवत् समस्तख - पुष्पवाक्यार्थकथनार्थं ने पुष्पं नास्तीति विग्रहवाक्यमेतदिति न कश्चिद्दोषशङ्कावकाशः । नाप्यव्याप्तिः, यस्य कस्यापि पदार्थस्य शब्दगोचरत्वादेव । असम्भवस्तु असम्भावित एवेति सर्वं सुस्थम् । अत्र प्रयोगे कर्तव्ये भ्रमविषयो दृष्टान्तः, तस्य यस्मिल्लौकिकपरीक्षिणां बुद्धिसाम्यं दृष्टान्त इति दृष्टं तल्लक्षणीयत्वात् । न च धर्मिहेतुदृष्टान्ताः प्रामाणिका इति प्रमाणविषयस्यैव दृष्टान्तत्वम्, तस्य सन्दिग्धे न्यायप्रवृत्तिरिति प्रायिकत्वात्, अङ्गीकृत्येदमिह लक्षणत्वेन व्युत्पादितम् । वस्तुतस्तु साधर्म्यमेव, इतरथोक्तरीत्या केवलान्वयिभङ्गप्रसङ्गो दुर्निवार इति । नञर्थानुल्लेखयोगिसापेक्षत्वादभावमुपेक्ष्य भावं विभजते- स षोढेति । विभागो नाम - उद्दिष्टस्यत्तया कथनम् । * ( द्रव्यलक्षणं तद्विभागश्च ) तत्र समवायिकारणं द्रव्यम् । तन्नवधा, पृथिव्यादिभेदेन । [ब. टी.] तत्रेति । कारणत्वं गुणादावतिप्रसक्तमिति तद्वारणाय समवायीति । जातिसमवायित्वं गुणादावपीति कारणत्वमुक्तम् । यद्यपि रूपं यत्किञ्चित्समवायि यत्किञ्चित्कारणञ्च, तथापि स्वसमवेतकारित्वमित्यर्थः । स्वंसमवायिकारणत्वयोग्यतात्रे विवक्षिता, तेन प्रथमे क्षणे घटादौ नातिव्याप्तिः । १ स्वेति नास्ति छ. २ इहेति च .

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120