Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 45
________________ ३२ प्रमाणमञ्जरी [द्रव्यचात्रेति () तदुपसङ्क्रामकं विभुद्रव्यं वाच्यम् । सैव दिक् । न च कालेनार्थान्तरम् , तस्य क्रियानिबन्धन एव व्यवहारे सामर्थ्यावगमादिति । (दिक्कालयोस्समुच्चित्य प्रमाणम् ) मनसा असंयुक्तं मनः सर्वदा विशेषगुणरहितद्रव्यद्वयसंयुक्तम् , द्रव्यत्वादात्मवदिति दिकालयोः प्रमाणम् । अत्र द्रव्यद्वये कल्पितेऽन्यत्र तेनैव व्यवहारसिद्धेः, अनेककल्पनायां प्रमाणाभावः । दिक्कालौ द्रव्य. त्वावान्तरजातिरहितौ बुध्यनाधारत्वे सति सर्वगतत्वादाकाशवदित्येकत्वं सिद्धम् । __ [ब. टी.] उभयत्र प्रमाणमाह-मनसेति । मनसि मनोद्वयसंयुक्तत्वेनार्थान्तरभङ्गाय मनसा असंयुक्तमिति । आकाशादिसंयुक्तत्वेनाश्रयासिद्धिवाराँय मनसेति । साक्षान्मनसा यत्र संयुक्तमित्यर्थः । तेन परम्परया मनसि मनस्संयुक्तत्वेनापि नाश्रयासिद्धिः। रूपादौ बाधवारणाय मन इति । संयुक्तत्वे द्वयसंयुक्तत्वे द्रव्यद्वयसंयुक्तत्वे च साध्येऽर्थान्तरम् , गुणरहितेत्याधुक्तौ बाधः, अतो विशेषेति । प्रथमक्षणे घटपटादिरपि गुणरहितः । एवमुक्तौ खण्डप्रलये च जीवव्योमनी विशेषगुणरहिते, अतः सर्वदेति । औपाधिक एव दिक्कालयोर्भेदः, न साहजिक इत्याह-अत्रेति । एकत्वे प्रमाणमाह-दिकालाविति । जातिरहितत्वं द्रव्यान्तरजातिरहितत्वं द्रव्यत्वावान्तरधर्मरहितत्वश्च बाधितम् , अतो विशिष्टसाध्यकीर्तनम् । आत्मनि व्यभिचारभङ्गाय सत्यन्तम् । घटादौ व्यभिचारभङ्गाय विशेष्यभागः। [अ. टी.] एकैकत्र प्रमाण मुक्त्वोभयत्राप्याह-मनसेति । सर्वदा विशेषगुणरहितमनोऽन्तरसंयुक्तत्वेन सिद्धसाधनताव्युदासार्थम् मनसाऽसंयुक्तं मनः पक्षः । गुणरहितद्रव्य संयुक्तमित्युक्ते बाधस्स्यादतो विशेषपदम् । प्रलये तादृशजीवव्योमसंयुक्तत्वेन सिद्धसाधनताव्युदासाथ सर्वदेति पैदम् । नन्वत्र कल्पेऽन्यौ दिक्कालौ, अन्यत्र कल्पेऽन्यौ, ततोऽन्यत्रान्यावित्यानन्त्यं प्राप्तम् , कैल्पभेदेन वा व्यवहारभेदेन वा व्यवहारानन्त्येन वा तद्धेत्वोस्तयोस्तत्स्यादत आह-अत्रेति । एकत्वे तर्हि किं प्रमाणम् , तदाह-दिक्कालाविति। जातिरहितौ द्रव्यत्वजातिरहितौ चेत्युक्त बाधस्स्यादतोऽवान्तरजातिपदम् । घटत्वाद्यवान्तरजातिरहितत्वेन सिद्धसाधनताव्युदासार्थ द्रव्यत्वविशेषणम् । आत्मनि व्यभिचारवारणाय बुध्यनाधारत्वे सतीत्युक्तम् । घटादौ तेव्यभिचारवारणाय सर्वगतत्वादित्युक्तम् । माकाशवदित्यधिकं ग, घ. २ द्वितय इति क. ३ अनन्तेति क, ख, ग, घ. ४ प्रमाणाभावादिति क. ५ वारणायेति च. ६ सिद्धिस्तद्वारणायेति च. ७ परम्परायामिति च. ८ पदमिदं नास्ति च पुस्तके. ९ प्रथमे इति च. १० घटादिरपीति च. ११ राहित्यं द्रव्यत्वजातिराहित्यञ्च बाधितमिति च. १२ वारणायेति च. १३ भाव इति च.१४ प्रमाणमाहेति झ. १५ यदेति झ. १६ द्रव्यद्वयसंयुक्तत्वे इति झ, द्रव्यमित्युक्ते इति द. १७ वारणार्थमिति ज, ट. १८ इत्युक्तमिति ज, ट. १९ ततोऽपीति ट. २० इतः पदचतुष्टयं माति ज, ट. पुस्तकयोः. २. जातीति नास्ति ज, ट. पुस्तकयोः. २२ निवारणायेति ज, ट.

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120