Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 219
________________ षष्ठोऽयः । २०१ राजा-(सहर्षम् । न खलु भवतीमतिकामतो भगवान् विश्वसाक्षी क्षमते। पुरुषः-ततस्ततः। उपनिषत् -तत्र च वत्सया गीतया मां तत्रागतामवलोक्य ससंभ्रमं मातर्मातरिति परिरभ्योपनिवेशितास्मि । विदितवृत्तान्तया तया चोक्तम्-अम्ब! नात्र खेदयितव्यं मनः। ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुरसत्त्वाः प्रचरिष्यन्ति, तेषामीश्वर एव शास्ता। उक्तं च तेन भगवता तानधिकृत्य "तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजसमशुभानासुरीष्वेव योनिषु ॥" इति । पुरुषः - (सकातुकम् ) देवि! त्वत्प्रसादाज्ज्ञातुमिच्छामि कोऽयमीश्वरो नामेति । निजरूपैः पुरुषैः प्रमाणानुग्राहकैः निशिततरतर्ककुलिशैः निर्दयं ताड्यमाना• स्तास्तर्कविद्या संसभ्रममितस्ततोः गता इत्यर्थः ।। ये खलु त्वामप्रमाणीकृत्येति । मातृकल्पां श्रुतिं त्वामप्रमाणीकृत्य त्वदुक्तमर्थमवधीर्यासुरसत्त्वाः असुषु रमन्ते इत्यसुराः इन्द्रियारामाः, तेषामश्विर एव नियन्तेत्यर्थः ॥ एवं तावद् विष्णुभक्तिप्रसादात् प्रत्यक्षवणः पुरुषो “यस्माद्विश्वम्" इत्यादिनाभिहितेश्वरस्वरूपजिज्ञासयोपपन्न इत्याह -देवि! त्वत्प्रसा. दादित्यादिना। १. 'कल्पाः भ' ब. ग. पाठः. २. 'रस्य स्व' ख. घ. पाठ:. BB

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249