________________
षष्ठोऽयः ।
२०१ राजा-(सहर्षम् । न खलु भवतीमतिकामतो भगवान् विश्वसाक्षी क्षमते।
पुरुषः-ततस्ततः।
उपनिषत् -तत्र च वत्सया गीतया मां तत्रागतामवलोक्य ससंभ्रमं मातर्मातरिति परिरभ्योपनिवेशितास्मि । विदितवृत्तान्तया तया चोक्तम्-अम्ब! नात्र खेदयितव्यं मनः। ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुरसत्त्वाः प्रचरिष्यन्ति, तेषामीश्वर एव शास्ता। उक्तं च तेन भगवता तानधिकृत्य
"तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजसमशुभानासुरीष्वेव योनिषु ॥"
इति ।
पुरुषः - (सकातुकम् ) देवि! त्वत्प्रसादाज्ज्ञातुमिच्छामि कोऽयमीश्वरो नामेति ।
निजरूपैः पुरुषैः प्रमाणानुग्राहकैः निशिततरतर्ककुलिशैः निर्दयं ताड्यमाना• स्तास्तर्कविद्या संसभ्रममितस्ततोः गता इत्यर्थः ।।
ये खलु त्वामप्रमाणीकृत्येति । मातृकल्पां श्रुतिं त्वामप्रमाणीकृत्य त्वदुक्तमर्थमवधीर्यासुरसत्त्वाः असुषु रमन्ते इत्यसुराः इन्द्रियारामाः, तेषामश्विर एव नियन्तेत्यर्थः ॥
एवं तावद् विष्णुभक्तिप्रसादात् प्रत्यक्षवणः पुरुषो “यस्माद्विश्वम्" इत्यादिनाभिहितेश्वरस्वरूपजिज्ञासयोपपन्न इत्याह -देवि! त्वत्प्रसा. दादित्यादिना।
१. 'कल्पाः भ' ब. ग. पाठः.
२. 'रस्य स्व' ख. घ. पाठ:.
BB