Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१०३व्यधिकशततमोऽध्यायः] पअपुराणम् ।
३४३ यस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम् । इन्द्रोपेन्द्रसमं लोके ययाति जनवल्लभम् ॥ १८ लप्स्याम्यहं हितं वीरं यस्माच्छम्भोः प्रसादतः। [*अहं पतिव्रता वीर परभार्या विशेषतः।]१९ अतस्त्वं सर्वदा हुण्ड त्यज भ्रान्तिमितो व्रज। प्रहस्यैवं वचो ब्रूते सोऽशोकसुन्दरी प्रति २०
हुण्ड उवाचनैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि । नहुषो नाम धर्मात्मा सोमवंशे भविष्यति ॥ २१ भवती वयसा ज्येष्ठा स कनिष्ठो न युज्यते । कनिष्ठा स्त्री प्रशस्ता स्यात्पुरुषो न प्रशस्यते ॥२२ कदा स पुरुषो भद्रे तव भर्ता भविष्यति । तारुण्यं यौवनं यावन्नाशमेव प्रयास्यति ॥ २३ यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः । पुरुषाणां वल्लभत्वं प्रयान्ति वरवाणनि ॥ २४ तारुण्यं हि महामूल्यं युवतीनां वरानने । तस्याऽऽधारेण भुञ्जन्ति भोगान्कामान्मनोनुगान् ॥२५ कदा सोऽभ्येप्यते भद्र आयुपुत्रः शृणुष्व मे । यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति ॥ २६ गर्भत्वं च शिशुत्वं च कौमारं च निशामय । कदा स यौवनोपेतस्तव योग्यो भविष्यति ॥ २७ योवनस्य प्रलोभेन पिवस्व मधुमाधवीम् । मया सह विशालाक्षि रमस्व त्वं सुखेन वै॥ २८ हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः । उवाच दानवेन्द्रं सा साधो तन्न भविष्यति ॥ २९ अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा । शेषावतारो धर्मात्मा वसुदेवसुतो बलः ॥ ३० रैवतस्य सुतां भार्या दिव्यां चैव करिष्यति। साऽपि जाता महाभागा कृताख्ये हि युगोत्तमे ॥ ३१ युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि । बलस्यापि पिया जाता रेवती प्राणसंमिता ॥ ३२ भविष्यद्वापरे प्राप्त ह*सा तु भविष्यति । मायावती पुरा नाता गन्धर्वतनया वरा ॥ ३३ अपहृत्य निहत्येव शंबरो दानवोत्तमः । तस्या भता समाख्यातो माधवस्य सुतो बली ॥ ३४ प्रद्युम्नो नाम वीरेशो यादवेन्द्रस्य नन्दनः । तस्मिन्युगे भविप्ये च भाव्यं पृष्टं पुरातनः ॥ ३५ व्यासादिभिर्महाभागानवद्भिर्महात्मभिः। एवं हि दृश्यते देत्य वाक्यं देव्या तदोदितम् ॥३६ मां प्रत्युक्तं यथा धाव्या पुत्र्या हिमवतस्तदा । त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ॥ किल्विषेण समायुक्तं वेदशास्त्रविवर्जितम् । यद्यस्य दृष्टमेवास्ति शुभं वाऽप्यशुभं यथा ॥ ३८ पूर्वकर्मानुसारेण तद्भविष्यति तस्य च । [*देवानां ब्राह्मणानां च वदने यत्सुभाषितम् ॥ ३९ निःसरेद्यदि सत्यं तदन्यथा नैव जायते । मद्भाग्यादवमाज्ञातं नहुषस्यापि तस्य च ।] समायोगं विचार्य देव्या प्रोक्तं शिवेन च ॥
४० एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्ति मनःस्थिताम् । नैव शक्तो भवान्दैत्य मनो मे चालितुं ध्रुवम्॥४१ पतिव्रतादृढं चित्तं कः प्रचालयितुं विभुः । महाशापेन योक्ष्यामि इतो गच्छ महासुर ॥ ४२ एवमाकण्ये तद्वाक्यं हुण्डो वै दानवो वली । मनसा चिन्तयामास कथं भायों भवेदियम् ॥ ४३ विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः । मायया कन्यकारूपो बभूव मम नन्दन ॥ ४४ सा कन्याऽपि वरारोहा मायारूपाऽगमत्ततः। हास्यलीलासमायुक्ता यत्राऽऽस्ते भवनन्दिनी॥४५
*एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. द. पुस्तकस्थः । + एतदने क. ख. घ. उ. च. छ. स. ट. उ. र. ढ. पुस्तकेषु 'बलेन वयसा युक्तो नहुषस्तु न युज्यते'इन्यर्धभाधकम् । एतचिहान्तर्गतः पाठः क. ख. घ. उ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः ।
१ क, ख. इ. च. छ. झ. द ह रणे धीरं २ ग. घ. च. छ. ज. स. म. द. 2. द. महामूलं। ३ .म् । तस्मानिष्कम्य वेगेन तस्मात्स्थानाद्विहाय ताम् ।अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् । दिव्यं मायामयं रूपं कृत्वा नार्यास्त दानवः । हा।

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387