Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 356
________________ महामुनिश्रीव्यासपणीत ( २ भूमिखण्डेअन्ययोनि प्रयाति स्म प्रतिषिद्धन कर्मणा । किं करोति पिता माता अन्ये स्वजनवान्धवाः ३९ कर्मणा निहतो यस्तु न स्युस्तस्य हि रक्षणे । येनैव कर्मणा चैव रक्षितश्चाऽऽयुनन्दनः ॥ ४० तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः । सैरन्ध्री च तथा जाता प्रेरिता तस्य कर्मणा॥४१ द्वाभ्यामेव सुतस्तस्य रक्षितश्चारुलक्षणः । रात्रावेव प्रणीतोऽसौ तस्माद्भीत्या महाश्रमे ॥ ४२ वसिष्ठस्याऽऽश्रमे पुण्ये सैरन्ध्या पुण्यकर्मणा । शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥ ४३ गता सा स्वगृहं पश्चानिक्षिप्य बालकं च तम् । एणं निपात्य सूदन पाचितं मांसमेव हि ॥ ४४ भोजयित्वा स देत्येन्द्रो हुण्डस्तुष्टोऽभवत्तदा । शापं ह्यशोकसुन्दर्या मोघं मेने तदाऽसुरः।। हर्षेण महताऽऽविष्टः स हुण्डो दानवेश्वरः॥ कुञ्जल उवाचप्रभाते विमले जाते वसिष्ठो मुनिसत्तमः । बहिर्गतो हि धर्मात्मा कुटीद्वारान्पपश्यति ॥ ४६ संपूर्ण बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् । संपूर्णेन्दुप्रतीकाशं सुन्दरं चारुलोचनम् ॥ पश्यन्तु मुनयः सर्वे यूयमागत्य बालकम् । कस्य केन समानीतं रात्रौ चैवाङ्गणे मम ॥ ४८ देवगन्धर्वगर्भाभं राजलक्षणसंयुतम् । कन्दर्पकोटिसंकाशं पश्यन्तु मुनयोऽमलम् ॥ ४९ महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः । समपश्यंस्तं तु पुत्रमायोश्चैव महात्मनः ॥ वसिष्ठः स तु धर्मात्मा ज्ञानेनाऽऽलोक्य बालकम् । [*आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्] वृत्तान्तं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः । कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ॥ ५२ कराभ्यामथ गृह्णाति यावद्द्विजवरोत्तमः । तावदृष्टिं सौमनस्यां चक्रुर्देवा द्विजापरि ॥ ५३ ललितं सुस्वरं गीतं जगुर्गन्धर्व किन्नराः। ऋषयो वेदमत्रेश्च स्तुवन्ति नृपनन्दनम् ॥ ५४ वसिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा । नहुपत्येव ते नाम ख्याति लोकं गमिष्यति ॥ ५५ हुषितो नैव तेनापि बालभावेनराधिप । तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि ॥ ५६ जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः । व्रतदानं विसर्ग च गुरुशिष्यादिलक्षणम् ॥ ५७ वेदं चाधीत्य संपूर्ण षडङ्ग सपदक्रमम् । सर्वाण्येव च शास्त्राणि ह्यधीत्य द्विजसत्तमात् ॥ ५८ सेविसर्ग धनुर्वेद सरहस्योपसंयमम् । शस्त्रास्त्राणि च दिव्यानि जग्राह मुनिसत्तमात् ॥ ५९ ज्ञानशास्त्राणि चान्यानि राजनीत्यादिकानि च । वसिष्ठादायुपुत्रस्तु शिष्यरूपेण भक्तिमान्॥६० सर्व विद्यासुनिष्पन्नो नहुषश्चातिसुन्दरः । प्रसादाच वसिष्ठस्य चापबाणधरोऽभवत् ॥ ६१ इति श्रीमहापुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे पश्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-८३५४ अथ षडधिकशततमोऽध्यायः । कुञ्जल उवाचआयुभार्या महाभागा स्वर्भानोस्तनया सुतम् । अपश्यन्ती स्वकं चापि देवोपममनोपमम् ।। १ * एतचिहान्तर्गतः पाठो घ. छ. ट. ठ. ड. पुस्तकस्थः । १क.ख. ड. च. छ.स. ढ. अनयो नयतां याति प्रेरितस्तस्य क । २ घ. छ. ट. ठ. ड. अन्यं । ३ ड. 'मलाः । म। ४ छ.स. ट. ठ. इ. सुतोपरि । ५ क. ख. ङ. च. छ. झ. 6. ड. द. वसिष्ठाच । ६ क. ख. ड. च. छ. स. ड. ढ. नि प्रहमक्षोयुतानि च ज्ञा"। ७ घ. छ. ट. ठ. ड. सूत ।

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387