Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 251
________________ २२० भट्टश्रीचक्रधरप्रणीतः [का०पृ०९८, वि०पृ०५३१ सङ्ख्यैकान्तासिद्धिरिति' । अथेमे सङ्ख्यैकान्ताः - सर्वमेकं सदविशेषात्, सर्व द्वैतं नित्यानित्यभेदात्, सर्व त्रिधा ज्ञाता ज्ञेयम् ज्ञानमिति, सर्व चतुर्धा प्रमाणं प्रमाता प्रमेय प्रमितिरिति । एवं यथासम्भवमन्येऽपि । ताम(न)नेन सूत्रेण [ न्या०सू० ४. १. ४१ ] निराकरोति । अनादिनिधनमिति यद् ब्रह्मैवंरूपं तस्य प्राप्त्युपायोऽनुकारश्च वेद इति सम्बन्धः । तथा चैतच्छलोकपाठोत्तरकालं कतिपयश्लोकव्यवधानेन प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकधर्मेव समाम्नातः पृथक् पृथक् ॥ [वाक्यपदीय, १. ५ ] इति पठितम् । तत्रानादिनिधनं ब्रह्मेति स्वयं व्याख्यातम्। प्रत्यक्चैतन्यात्मना विवृतस्याकारहेतुत्वादक्षरमित्युक्तम् । तच्च तस्यापारमार्थिक रूपमद्वैतावस्था या]मभावात, एवमर्थाकारोऽपि तस्यामवस्थायां नास्ति । तदेवाह-विवर्ततेऽर्थभावनेति । ननु यथा प्रधानं साङ्ख्यदृष्टया तत्तदाकारपरिग्रहाद् विपरिणामि तथा ततोऽर्थोत्पत्तेविपरिणामित्वं प्राप्तमित्याह--प्रक्रिया जगतो यत इति । उत्पत्तेरवास्तवत्वात् प्रक्रियामानं संव्यवहारमात्रमेव ततो जगतो न पुनः परमार्थतः किंचिदुत्पद्यते । माययैव व्यवहारपदवीमवतरन्तोऽमी जगदाख्या विकाराः, न तु ब्रह्मणा जन्यन्ते, विशुद्धादविशुद्धोत्पत्त्ययोगात् । विवर्तलक्षणं चाह हरिः .. "एकस्य तत्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्" इति [ हरिवृत्ति, वाक्यपदीय, १. १. १] । एकस्यान्यरूपस्वीकारं स्वरूपविनाशेन प्रतिपद्यन्ते प्रतीत्यसमुत्पादवादिन इति तद्व्यवच्छेदार्थ तत्त्वादप्रच्युतस्येति विशेषणम् । एवमपि कारणस्य स्वात्मसम[38]वायि यत् काये तस्यापि परिग्रहः स्यादिति विभक्तग्रहणम् । विभक्तस्य नानाभूतस्येत्यर्थः । तथापि तत्त्वादप्रच्युतस्य धर्मान्तरतिरोधानाविर्भावाभ्यां विभक्तान्यरूपो यः परिणामस्तस्यापि प्रसङ्ग इत्यस्य(इत्यसत्य)ग्रहणम् । एवमपि तत्त्वतस्तत्त्वमधिजहतोऽन्यरूपेण वितथत्वात् समारोपवशेन पररूपावेशाद् गोत्वस्येव वाहीकार्थोपग्रह इति तद्व्यवच्छेदार्थमाह --भेदानुकारेणेति । १ न्यायसु० ४.१.४१ । २ तच्चाक्षरनिमित्तत्वाद् अक्षरमित्युच्यते। प्रत्यक्चैतन्येऽन्तःसंनिवेशितस्य परसंबोधनार्था व्यक्तिरभिष्यन्दते । हरिवृत्ति, वाक्यप० १.१ । अक्षरमिति अकाराद्यक्षरस्य निमित्तत्वात् । तत्त्वसं० १२८ (पृ०६७)। अक्षरं चाकाराद्यक्षरस्य निमित्तत्वात्। स्याद्वादरत्ना०पृ० ९० । ३ सौगताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312